________________
जनाः नराः पक्वपौण्डकान् पक्वानिक्षून अत्त्वा खादित्वा किं आस्वाद्यं आस्वादनीयं पयो दुग्धं न कलयन्ति नो गृह्णन्ति? अपि तु कलयन्त्येव । जिननमनमात्मानुभवस्य कारणमस्तीति भावः। तु पादपूतौ ।।६।।
अर्थ- हे जिनदेव! वे मुनिजन सुख के जनक हैं, जो आपको नमनकर आत्मरस-आत्मानुभव को प्राप्त होते हैं। पका हुआ गन्ना खाकर क्या मनुष्य मधुर दूध को ग्रहण नहीं करते? ||६२।।
. [६३] जिनपदपद्मयमस्य नुमञ्चति स यश्चादरं यमस्य ।
वाणीरितीयमस्य सन्मतेश्च गुरोर्जितयमस्य ।। 'य: जिनपदपद्मयम स्य नुम् अञ्चति -सः (च) यमस्य आदरम् अञ्चति' इति समन्तेः गुरोः अस्य जितयमस्य च इयं वाणी (वर्तते)।
जिनेति- यो जिनपदपद्मयमस्य जिनेन्द्रचरणारविन्दद्वितयस्य नुं स्तुतिं 'नुः स्तोतरि नुतौ स्त्री च' इति विश्वलोचनः। अञ्चति गच्छति पूजयति वा स च यमस्य चारित्रस्य आदरं अञ्चति। इति इयमेषा वाणी भारती अस्य सन्मतेः पश्चिमतीर्थकरस्य । जितयमस्य जितो यमो मृत्युर्येन तस्य गुरोश्च । अस्तीति शेषः। जिनचरणकमलयुगलविनतो जन एव सम्यक्चारित्रं सादरं बिभर्तीति भावः। 'संयमे यमजे धर्मराजे ध्वाक्षे युगे यमः' इति विश्वलोचनः । । ६३ ।।
अर्थ- जो जिनेन्द्रदेव के चरणकमलयुगल की स्तुति को प्राप्त होता है वह : चारित्र के आदर को प्राप्त होता है, ऐसी महावीर तथा मृत्युञ्जयी गुरु की वाणी है। ||६३।।
. [६४] योऽत्ति न सदाहारं रत्नत्रयं च कलयति न सदा हारम् ।
गतमानसदाहाऽरं तमेतु स त्रासदं हा! रम् ।। यः सत् आहारं न अत्ति, रत्नत्रयं हारं च सदा न कलयति, हे गतमानसदाह! सः (जनः) त्रासदं तं कम् अरं हा! एतु।
य इति- यो जनः सदाहारं संश्चासावाहारश्चेति सदाहारस्तं शुद्धसात्त्विकं भोजनम्। न अत्ति न भक्षयति। रत्नत्रयं सम्यग्दर्शनादित्रिकरूपं हारं अवेयकं सदा सर्वदा न कलयति न दधाति स जनः हे गतमानसदाह! गतो विनष्टो मानसस्य हृदयस्य दाहस्तापो यस्य तत्सम्बुद्धौ। त्रासदं दुःखप्रदं तं प्रसिद्धं रं कामाग्निम्। अरं शीघ्रं एतु
(३२)