________________
भावार्थ- मात्र सम्यग्दर्शन से मोक्ष प्राप्त होने वाला नहीं है। उसके साथ सम्यग्ज्ञान और पाप के परिहाररूप सम्यक्चारित्र का होना भी अनिवार्य आवश्यक है। ||५६।।
[५७] निजीयं ननु नरायं श्रयन्तु मुनयो जडमयं न रायम् ।
चेन्न ते (किं) (वा) नरा यं वाञ्छन्ति न विज्ञा नरा यम् ।। ननु मुनयः निजीयं नरायं श्रयन्तु, जडमयं रायं न । चेत् न, ते किन्नराः (वानराः) विज्ञाः नराः यं यं न
वाञ्छन्ति ।
निजीयमिति-ननु निश्चयेन मुनयः श्रमणा निजीयं निजस्येदं निजीयं स्वात्मीयं न रायं नश्चासौ राश्चेति नरायस्तं पूज्यधनं श्रयन्तु समवलम्बन्ताम् । जडमयमचेतनात्मकं रायं धनं न श्रयन्तु। चेत् न, यद्येवं न कुर्वन्ति तदा ते किन्नराः कुत्सिता नराः किन्नरा वानरा मर्कटाः भवन्ति । विज्ञाः सविवेका नराः यं यं यशोधनं न वाञ्छन्ति नेच्छन्ति । अज्ञा जना एव जडं धनं गृह्णन्ति तेन च यशो वाञ्छन्ति, ज्ञानिनो मुनयस्तु स्वात्मोत्थं धनं स्वीकुर्वन्ति यशसश्च निरुत्सुका भवन्तीति भावः ।। ५७।।
___ अर्थ- मुनि आत्मसम्बन्धी पूज्यधन का अवलम्बन लेवें, अचेतनधन का नहीं। यदि ऐसा नहीं करते हैं तो वे किन्नर हैं-खोटे मनुष्य हैं अथवा वानर हैं। ज्ञानी मनुष्य यश की इच्छा नहीं करते।
भावार्थ- अज्ञानी मनुष्य जड़-अचेतन धन का संग्रह कर उससे यश की इच्छा करते हैं । परन्तु ज्ञानी मनुष्य आत्मा के ज्ञानादिगुणरूप प्रशस्तधन का संग्रह करते हैं और उससे यथार्थ यश को स्वयमेव प्राप्त होते हैं ।।५७।।
[५८] अत्र सुखं न वै भवे स्वीये कथमपि कुरु रुचिं वैभवे ।
माने वचसि वैभवे मा भ्रम मुधा मुने! वै भवे ।। वै अत्र भवे सुखं न। वै मुने! कथमपि स्वीये वैभवे ऐभवे माने वचसि (वा) रुचिं कुरु। भवे मुधा मा भ्रम।
अत्रेति- ए मुने! हे श्रमण! वै निश्चयेन अत्र भवे संसारे सुखं न शातं नास्तीति शेषः। कथमपि केनापि प्रकारेण स्वीये स्वस्येदं स्वीयं तस्मिन् ऐभवे मोक्षभवे 'स्मृतिसम्बोधनाह्वनेऽव्ययमैस्तु शिवे पुमान्' इति विश्वलोचनः। वा समुच्चये 'वा स्याद्विकल्पोपमयोरिवार्थे य समुच्चये' इत्यमरः। वैभवे विभोर्भगवत इमिति वैभवं
(२६)
.