Page #1
--------------------------------------------------------------------------
________________
ॐ श्रीविजयनेमिसूरीश्वरग्रन्थमालारत्नम्-४१ धाराधीशासादितसरस्वतीविरुदेन विप्रवर्गाप्रगेन कमनीयकवितालतालवालकल्पेन परमाईतेन धनपालविदुषा
__ विरचिताॐ तिलकम, री [द्वितीयो विभागः]
तदुपरिपूर्णतल्लगच्छीय-विबुधशिरोमणि-श्रीशान्त्याचार्यविरचित टिप्पनकम् ।
050016a
तथा
तपोगच्छाधिपति-सर्वतत्रस्वतत्र-शासनसम्राट्श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति
शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन श्रीविजयलावण्यसूरिणा विरचिता परागनामा विवृतिः ।
[विक्रमसं० २०१० प्रकाशकश्रीविजयलावण्यसूरीश्वरज्ञानमन्दिर, बोटाद, सौराष्ट्र.
AarrAmAnswww
वीरसं० २४८०]
नेमिसं० ५
Page #2
--------------------------------------------------------------------------
________________
Printer :--Laxmibai Narayan Chaudhari, the Nirnaya Sagar Press,
26-28, Kolbhat Street, Bombay 2.
Publisher :-—Acharya Vijayalavanya Sureeshvara, Jnanamandir, Botad, Saurashtra.
प्राप्तिस्थान
[१] श्रीविजयलावण्यसूरीश्वरज्ञानमन्दिर,
बोटाद सौराष्ट्र.
[२] सरखतीपुस्तक भंडार, ठे० रतनपोल, हाथीखाना,
अमदावाद.
Page #3
--------------------------------------------------------------------------
________________
श्रीतिलकमञ्जरीकथासारः
प्रणेता-पन्याससुशीलविजयो गणिः [क्रमशः]तत्रासिकक्रियाकलापेन दिवसमवसाय्य सायमन्तःपुरं गत्वा मदिरावत्या समं विहितप्रेमपूर्णालापो भोजनोत्तरं तया सह सुव्वाप क्षमापः । स्वल्पावशिष्टायां रात्रौ च गगनतलादवतीर्य रजतगिरिशिखरमध्यासीनायाः श्वेतवस्त्रमाल्यानुलेपनालङ्कारवत्या मदिरावत्याः कुचकलशारोपितशुण्डादण्डेनाकृष्याकृष्य स्तन्य पिबन्तमैरावतहस्तिनं स्वप्ने दृष्ट्वा सहर्षमुत्थाय प्रथमप्रबुद्धां मदिरावती स्वप्नमुपन्यास्थत् , सापि पावनतेन शिरसा सावधानमनौषीत् । तदनु नातिबहुषु दिवसेष्ववसितेषु गर्भमाधाय नवसु मासेष्वतीतेषु शुभतमेऽहनि शुभमुहूर्ते यथायथमुच्चस्थानमधिष्ठितैः शुभग्रहैरवेक्षिते शुभलग्ने लमशुद्धिदर्शनकौतुकादिवोर्ध्वमुख्या होरायामतिकमनीयाकृति तनयमजनयत् ।
जनिते च तस्मिन् प्रमुदितविप्रजनजयजयध्वनिभिरुदुरो भूरिभेरीशङ्खझलरीमुरजपटहपटुनिनादपूरितदिगन्तरोऽन्तःपुरपौरनारीवृन्दनृत्यगीतगर्भबन्धुरो महानुत्सवः समजनि । समुपस्थिते च दशमेऽहनि देवद्विजसुहृद्वन्धुवर्गमभिवन्द्य स्वमदृष्टैरावतवाचकहरिशब्दपूर्वाधक स्वनामोत्तरार्धवाहनशब्दोत्तरार्धक मेघशब्दपर्यायहरिघटितसमुदायवृत्त्या स्वनामसमानार्थकं च हरिवाहन इति तस्य शिशो म चकार ।
तस्य धात्रीभिरनुपलमुपलालनापालनाभ्यामुपचर्यमाणस्य समग्रायुर्वेदविद्भिर्मनविद्भिश्च प्रतिक्षणं प्रतिक्रियमाणस्य ससम्नमाभिरन्तःपुराङ्गनाभिः सततमाहूय दृढमालिङ्गयमानस्यान्तःपुर एव पञ्चसु वर्षेषु व्यतीतेषु, समवतीर्णे च षठेऽन्दे मध्येराजकुलमेव कल्पितकमनीयविद्यालयो नृपतिरखिलशास्त्रपारावारपारीणान् निसर्गतः सन्मार्गोपासकान् श्रमक्रमाभ्यामनुशासकानाचार्यान् संगृह्य शुभदिनमुहूत्ते निर्वर्तितगृह्यसूत्रोक्तसर्वेतिकर्तव्यस्तेभ्य उपनिन्ये । तेभ्यश्चासौ चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपविद्याभिर्विदाञ्चकार, चित्रकर्मणि वीणावाद्यादिकलाकर्मणि च नितरां नैपुण्यमवाप।।
एवमतिक्रान्ते षोडशेऽब्दे स्वभवनमानीय निर्वर्तितग्रहप्रवेशमङ्गलश्चास्य कृते मनोरम कुमारभवनं चकार, प्रेषयामास चाधिगताशेषशास्त्रास्त्रविद्य परिणततारुण्यलक्ष्मीपूर्णसर्वाङ्ग निरवयं हरिवाहनं यौवराज्येऽभिषेक्तुकामस्तत्साहाय्यार्थमवनीपतिकुमारमन्वेष्टुमवनिमण्डलमभितः प्रेष्यजनान् ।
एकदा च प्रभातबेलायामेव सभामण्डपमध्यासीनं नृपमेघवाहनमागत्य "दक्षिणजनपदाधिपतेर्वज्रायुधस्य प्रीतिपात्रं विजयवेगनामा प्रधानपुरुषः श्रीमन्तं द्रष्टुमुत्कण्ठितो द्वारि तिष्ठति" इति चित्रकनकवेत्रलताभिधा प्रतीहारी सविनयं व्यजिज्ञपत् । नृपोऽपि स्मारं स्मारमङ्गुलीयकप्रेषणवृत्तान्त प्रवेशयेति सादरमादिक्षत् । तदनु सबेगमागत्य कृताभिवादनं विजयवेगमन्तिकोपनीतासने सनेहमुपवेश्य भूमण्डलाप्रतिहतायुधस्य वज्रायुधस्य कुशलमप्राक्षीत् । विजयवेगोऽपि तदीयकुशलेन सार्क तत्कृतप्रणाममावेद्य "भवप्रेषितदिव्याङ्गुलीयस्य महिना निर्जिताखिलदाक्षिणात्यक्षोणीपतिना तेन परावर्तितं तदद्य मयाऽनवयमणिमयाभरणैः सह समग्ररनकोशाध्यक्षाय महोदधये ससाक्षिकं प्रत्यर्पितम्" इत्यवोचत् । तदनु राज्ञा सगरेऽङ्गुलीयककृतोपकारं सविस्तारं पृष्टो विजयवेगो जगाद____ "देव! परुदुपरतासूपचितकृषीबलहर्षासु वर्षासु पच्यमानकलमकपिलकेदारकमनीयकान्तिमये शरत्समये सेनापतिरसौ कुसुमशेखरसंज्ञकं स्वरिपुमवनीपतिमभियियासुः कुण्डिनपुरात् काञ्चीनगरीमागस्य कटकं सच्यवीविशत् । तदधगत्यापि सगर्वजनशिरःशेखरः कुसुमशेखरस्तमाश्रयितुमसहमानो दुर्बलतया च योद्धमनीहमानः कालयापनमेव कल्याणकरमवधार्य काझ्या शिल्पशास्त्रोक्तदिशा दुर्गस्थानमुपकल्प्य तत्रात्मानं रक्षन् संगृहीतसमग्रसंग्रामोपकरणः समरसाहाय्याय सन्निहितनुपानुसन्धानाय
AM
Page #4
--------------------------------------------------------------------------
________________
तिलकमञ्जरी
प्रत्यहं प्रमुखदूतान् प्राहैषीत्, पर सेनापतिस्तस्य तथाविधमुद्यमं गूढचरेभ्य उपलभ्यातीव कुपितः सरभसमापतन्तीभिः सेनाभिरागत्य काञ्चीनगरीमरौत्सीत् । दुर्गविघटनाय प्रवर्तितैः सजितमत्तदन्तिघटैः सामन्तैः सह प्राकारशिखरमध्यासीनस्य कुसुमशेखरराज्यलोकस्य प्रत्यहं संग्रामा अभूवन् ।
एवं काञ्चीनगर्या आक्रमण-रक्षणाभिनिवेशाभ्यामतीते कियति काले, रावेरतिक्रान्ते च प्रथमप्रहरे प्रस्तुतोत्सवमग्नतयोपरतसंग्रामचिन्तोद्वृत्तमानसः सेनानायकः सहसैव प्रकटितमतीवोत्कटं कटककलकलमाकर्ण्य सञ्जाताक्रमणशङ्कस्तस्काललब्धावसरो महाप्रलयकल्पं संग्राममकार्षीत् । तृतीयभागावशिष्टायां रजन्यामनवस्थया जयपराजयावनुभवति प्रतिद्वन्द्विसैन्यद्वये, शत्रुसैन्यान्निर्मत्य कुमारकल्प एको नृपकुमारः सेनापतिपुरःपुञ्जितानां राज्ञां मध्यमुत्पत्य सगर्वमुच्चैः क्रोशन् सेनापतेरन्तिकमुपतस्थे। सेनापतिरपि प्रौढ्योपसृत्य तदीयदृष्टिपथमध्यतिष्ठत् । तयोश्विरमतिभयङ्करे प्रवृत्ते महासगारे सेनापतेरतीव शोच्यां दशामनुभूय तयाणपरित्राणमाग मार्गयमाणः पार्थस्थमपि व्यग्रतया विस्मृत देवेन प्रहितं बालारुणमङ्कलीयकमस्मार्षम् , व्याहापं च तं तद् ग्रहीतुम् , पर प्रसूयन्निव नासौ ग्रहीतुमुन्मना अजनीति जनिताभिनिवेशोऽहं तदीय कराग्रवर्तिनीमेकामङ्गुली गृहीत्वा तत्र तदङ्गलीयकं न्यवीविशम् ।
तदनु तदङ्गुलीयकमहिना सपदि जृम्भामुद्राव्य निद्रोदेकेण युगपदाकुलीकृते शत्रुसैन्ये राजकुमारोऽपि धनुषि योजितं शरं संहृत्योज्झितधनुर्यष्टिर्निदातिरेकमनुभूय रथोत्सङ्गमाशिश्रियत् । स सेनापतिस्तस्य भुवनन्नयातिशायिना शौर्येण विस्मयमानमानसस्तमभिधावतः सैनिकान् शपथशतेन निवार्य राजकुमाराधिशयितरथदेशमागतः सकलाइसङ्गलदुधिरधारमुपरतप्राणसञ्चारममुं नृपकुमारमवेक्ष्य सन्निहितसामन्तजनैः साकमदसीयगुणगणं स्तुवंस्तं परिचाययितुं कमपि मृगयमाणस्तत्पक्षगतं नैकमपि चैतन्याश्रितमद्राक्षीत् , अगत्या च तच्चामरग्राहिणी तत्परिचयमनाक्षीत् । सापि स्रवदश्रुसलिलाप्लुतलोचना निःश्वस्य कथंकथमप्यचकथत्-'महानुभाव ! अस्तं गच्छन्ती कथमस्य कथोपन्यासपथमवतरितुमर्हति तथापि श्रूयतां कथंकथमपि समासेनोपन्यस्यमानाऽनन्यजनसमाना ।
अयमखिलद्वीपमहीपसमुद्भूयमानोदप्रकेतोः सिंहलद्वीपाधिपस्य चन्द्रकेतोरात्मजः संग्रामार्णवसेतुः समरकेतुर्नाम । अयं दुरतिक्रमविक्रमशालितया बाल्य एवानुभूतयौवराज्याभिषेकसौभाग्यः सकलद्वीपविजिगीषया प्रयातोऽपि पितुरादेशेनास्य राज्ञः साहाय्यसमीहया काञ्चीमागत्य पञ्चपाण्यहानि स्थित्वा प्रातरच शृङ्गारवेषं गृहीत्वा कामदेवमन्दिरमगमत्।
तत्रासीनश्च द्वारदेशमनुप्रविशन्तं पौरनारीजनमतिप्रीतिपुषा चक्षुषाऽवेक्षमाणो दिवसमबसाय्य कामदेवस्य पुरस्तात् कमलिनीदलमयीं शय्यामधिशय्य निशीथसमये सजितसमरसामग्रीकः प्रतिषिध्यमानोऽपि हितैषिभिः प्रवर्तितसङ्गरो दुरवस्थामिमामन्वभूत्' इत्थमावेदयन्त्यामेव तस्यामःषीदसौ क्षपा। सर्वमपि प्रतिद्वन्द्विसैन्यमजागरीत्। स राजकुमारोऽपि क्षीणनिदस्तक्षणमीक्षणद्वयमुन्मीलनसौभाग्यमनैषीत् । सेनानीरपि तस्यातर्कितोपनतेन पुनरुज्जीवनेन कृतार्थः सन् मुहर्तमवस्थाय शत्रुसैन्याश्वासनायाऽभयपटहं नादयित्वा स्वसैन्यमपि तदवस्कन्दनाद् ब्यावर्त्य प्रधानजयवारणमारुह्य स्वपुरस्तावृपकुमारमारोप्य च शिबिरमानषीत् ।
अधिशयितशय्यं च तं व्रणपषन्धनादिना परिचर्याप्तभिषगवासविविधोपचारवर्धमानबलमुत्तमेऽहनि सादरं निमय साकममात्यादिमिः स्वसदनमवाप्यानीय भोजयित्वा कुसुमानुलेपनवसनाभरणैरभिनन्ध संग्रामगृहीतगजतुरगरथमपि प्रत्यर्य रचिताञ्जलिर्जगाद
'कुमार! मया निर्जितमात्मानमवगम्य मनागपि नावमन्येथाः, न खलु त्वामधिज्यधन्वानमर्हति कोऽपि समरे पराङ्मुखीकर्तुम्, दूरतोऽपि दृष्टमात्रं यदीदृशीं दशां त्वामन्वबीभवत् तदन्यदेव वस्तु, त्वदृष्टिपथमवतारयामि' इत्यभिधाय तदङ्गुलीयकं तमदर्शयत् । कुतो लब्धमिदमिति पृष्टश्च भवतो मेघवाहनस्य शकावतारगमनादारभ्य ज्वलनप्रभवैमानिकवृत्तान्तं राजलक्ष्मीस्वस्थानप्रस्थानान्तं यथावृत्तमकथयत् । नृपकुमारोऽपि सर्वमेतन्निशम्य स्वस्मिन्नवज्ञा शिथिलयन्नवोचत्
'दण्डाधिपते! नूनमसौ नरपतिरमरपतिस्तूयमानगुणगौरवः, यस्येदृशमसाधारण माहात्म्यम् , यस्य च भवादृशाः स्वशत्रवेऽपि प्राणार्पणप्रवणाः स्वविक्रममप्यपद्धत्यान्यदीयसामोत्कीर्तनपरायणाः सचिवाः, तस्मादलमधिकतद्वार्तोपन्यासेन,
Page #5
--------------------------------------------------------------------------
________________
कथासारः।
असीमसाहसाकृष्टराजलक्ष्मीवितीर्णतनयरत्रं तमाशु दर्शयित्वा कृतार्थय मामकीन लोचनयुगलम् । तस्य तदवलोकनकौतुकमवगम्य सेनापतिः प्रत्यवोचत्–'कुमार! यद्येवमुल्कण्ठसे, तर्हि प्रस्थीयतामद्येव' इत्यनुज्ञाप्य मया सार्धमसौ देवस्य पार्श्व प्रेषितः सम्प्रति शक्रावतारोद्यानसन्निधानसुन्दरे सरयूपरिसरे सनिवेश्य शिबिरमवतिष्ठते"। ___ सर्वमेतदाकर्ण्य विस्मयमनुभवन् मेघवाहनस्तदवलोकनोत्कलिकाकुलः सपदि तदाकारणाय हरदासनामानं महाप्रतीहार पाहै पीत् । स च सादरं तमानीयान्तः प्रावीविशत् । तमभिमुखमागच्छन्तं दूरादेव देव आहूयातिदूरमुत्क्षिप्ताभ्यां भुजाभ्यामाकृष्य स्वकीयमङ्कमारूरुपत् , गाढमाश्लिष्य प्रणयभरेणासन्नासने चोपवेश्य नृपः समन्दस्मितमभाषत-"तवागमनेन कृतार्थोऽहमस्मि, धन्यस्त्वमेवान जगति येनात्मनः पराजयमपि विजयमिवादियते वैरिवर्गः । मन्ये मदीयशिरच्छेदसाहसावलोकनसन्तुष्टया राजलक्ष्म्या दिव्याङ्गुलीयकोपहरणव्याजेन दविष्ठदेशान्तरादाकृष्य मह्यमुपहृतोऽसि, मे द्वितीयस्त्वमात्मजन्मा। हरिवाहनेन सह निर्विशेषमुपभुझ्च प्राज्यं राज्यमिदमात्मनः । परेणाहमिहानीत इति न मनागपि मन्येथाः, कस्यापि परस्याभावात् प्रत्युत समेषामेव राज्यलोकानां भवदीयत्वात्, सर्वथा स्थिरमवस्थीयतामत्र, सर्वमपि सेत्स्यति समीहितम्" इत्युक्त्वा निकटोपविष्ट हरिवाहनं जगाद-"वत्स! गुणैस्त्वत्सम त्वत्समधिकं वा मध्यवर्ग कमप्यनवलोक्य त्वत्सहचरान्वेषणप्रवणेन मयाऽद्य भाग्येनोपलब्धस्तव विस्रब्धः सहचरः। अयमतिसान्द्रसख्येनाध्यवसिततादात्म्यो न कदाचन विरहयितव्यः, मपि तु निशास्वपि शश्वत् सन्निधातव्यः प्राणप्रियः समर केतुः" इत्यभिधाय नृपतिरासनादुदतिष्ठत् । कुमारोऽपि तदादेशमुररीकृत्य समरकेतुं हस्त गृहीत्वा अन्तःपुरसञ्चारिणा परिचारकगणेन परिवृतो मदिरावतीभवनमनैषीत् ।
तत्र मातरमभिवाद्य समरकेतुं दर्शयित्वोपन्यस्तसमस्ततदीयगुणगणस्तदुपहृतवस्त्राभरणं तं स्वभवनमानषीत् । तत्र च सम्पादितस्नानभोजनादिकाय हरिवाहनाय भुत्त्यर्थमशेषमुत्तरापथ, समरकेतवे चाङ्गादिजनपदान् पट्टकचित्रितानर्पयामास नृपेणादिष्टः सुदृष्टिनामाऽक्षपटलिकः । एवं स्वकुमारनिर्विशेषमुपदर्शितप्रसादेनावनिपतिना प्रतिक्षणं सक्रियमाणः, देव्यापि विचिन्त्यमानस्नानाशनादिसौख्यः समरकेतुः स्वगुणगणेन हरिवाहनमनुकुवनहर्निशमेवान्योन्यमन्वरज्यत् ।
एकदा ग्रीष्मावसरे प्रभात एवोत्थाय कृतस्त्रानभोजनः समरकेतुना सह गजमारुह्य सरयूतटवर्ति मत्तकोकिलं नाम बाह्योद्यानमगमत् । गत्वा च तत्र कतिपयाप्तनृपकुमारपरिवृतः सरयूतीरपरिसरमुपसृत्य तत्र कामदेवमन्दिरसन्निहितप्रदेशे प्रथममेवागत्य परिजनेनोपकल्पितं सम्भूयोपस्थापितताभिरभिनवयौवनाभिराङ्गनाभिरधिष्ठितवातायनं जलमण्डपमगमत् । प्रविश्य तदन्तः कतिपयाप्तजनसमेतस्तस्य निर्माणरामणीयकमितस्ततो निरीक्ष्योपरतकौतुकः कुसुमतल्पमेकमनल्पमध्यासिष्ट । तत्रासीनमेव तं प्रतीहारप्रवेशितैरनेकविधवाग्विनोदव्यवसितैः राजपुत्रैस्तत्कालोचितकृतवरिवस्यैर्वयस्यैर्नृपजनैश्च यथास्थानमासीनैः प्रवर्तितायां वैदग्ध्यभूयिष्ठायां काव्यगोष्ठयां विचित्रालापमुपसृत्य काव्येषु निरतिशयरसिको मञ्जीरनामा बन्दितनयो विज्ञापयामास-"कुमार ! अध्यवहितपूर्वस्य मधुमासस्य विशुद्धत्रयोदश्यामतीव व्ययेन नागरिकभजङ्गजनेन प्रीत्या प्रवर्तितयात्रोत्सवदिदृक्षया कामदेवस्य मन्दिरमायातेन मया तत्प्राङ्गणवर्तिसहकारतरोरधस्तान्मृणालतन्तुनियन्त्रितग्रीवोद्देशं मध्यभागरचितरुचिरस्तनवदनाकृतिकेन शुभकचन्दनद्रववेदिकावलयेन बद्धोभयपर्यन्तं ताडीपत्रखण्डमवलोक्य कौतुकेनादायोत्तरीयाञ्जले नियम्य च यात्रायामवसितायां रहसि कस्वेदमिति निरूपयता मया तत्पृष्ठे नामाक्षराण्यनवेक्ष्य तत्क्षणमेवावरणमपसार्य तदुदघाटि । तदनु दिव्याक्षरैरुदासमाना दुरूहतात्पर्या व्यलोकि तत्रानुपदमेवोच्यमाना समन्तादार्या । परं तस्या मुहुमुहुरवहितेन मनसा विचारिताया अपि न किमपि तात्पर्यवाधार्यत । तस्मात् कुमार एव सर्वमादिशतु यदिदं केन कस्य पाये किममिप्रायकं प्रैषि पत्रम्"। इत्यभिधाय तामतिस्फुटमपाठीत्
“गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमचिरेण । स्थातासिपत्रपादपगहने तत्रान्तिकस्थाग्निः ॥" पध्यमानायामस्यामार्यायामवधाय तत्तात्पर्यमालोचयत्सु सभासत्सु कोशलेश्वरकुमारोऽब्रवीत-"सखे ! काचिद् दिव्यकन्यकामुद्वोढुकामोऽपि कश्चन युवा तया वृतोऽपि तदीयगुरुजनैस्तदानेन नान्वग्राहीति मदनाग्निना दन्दह्यमानमानसोऽसौ तामनुचितेनापि विधिना प्राणप्रणयिनी चिकीर्षुदतीमुखेन वसाहसमावीविदत् । तत्पार्श्वे तया प्रेषितस्यास्योत्तरपत्रस्यायमभिसन्धिः
अकारणविद्वेषिभिर्मरिपत्रादिभिस्तुभ्यमप्रतिपादितामपि मां मानभङ्गमसहमानस्त्वं सामक्रममपहाय बलादपहरणादिना
Page #6
--------------------------------------------------------------------------
________________
तिलकमञ्जरीक्रमेणाचिरमुबोढुकामोऽयोग्यकारी स्याः, अतो मा त्वरिष्ठाः, अन्यथापि सेत्स्यति तव समीहितम् । कथमित्याह-यत्रावयोरन्योन्यसम्मेलनमभूत् तत्र पत्रप्रचुरपादपवने मदीयदूतीकया निगुह्यमानस्त्वमुद्वाहोपकरणान्तरमनपेक्ष्य केवलमग्निमस्तिके कृत्वा स्थास्यसि, तमेवाग्निं साक्षीकृत्योद्वक्ष्यसि तत्र द्वित्राभिः सहचरीभिः सहाचिरमेवोपस्थास्यमानां मामतिसौकर्येण । वैगुण्यदृष्ट्या गुरुभिरप्रतिपादितामपि मामुदीक्षमाणस्त्वमन्यायेन क्षिप्रमेव नरकं गत्वा पार्श्वज्वलदग्निरसिरूपपत्रपूर्णपादपवने स्थाता-स्थितिशीलः स्था इति शापात्मकमर्थान्तरं तु न कथञ्चनौचितीमचति, अपरक्तमनसा नायिकानामनभिमतनायकान्तिके तागतिललितलेखप्रेषणादरायोगात्, कुतस्तर्हि श्लेषभङ्गी तादृगङ्गीकृता तयेति चेत् ? स्त्रीणामतितरलतया पत्रवाहिकया कौतुकेन तदावरणमपसार्य तत्संकेतितकार्यतत्वमवधार्य सम्भावितरहस्योद्घाटनवारणाय वाग्वैदग्ध्यप्रणयिनं स्वप्रणयिनं प्रति तद्वैदग्ध्यप्रकटनाय च तदुपपत्तेः" इत्युदीरितवति तस्मिन् समरकेतुवर्ज समेऽपि राजपुत्राः प्रसद्य सद्यस्तदीयप्रतिभा प्राशंसन् । समरकेतुस्तु स्रवदश्रुकणक्लिन्ननयनोऽतीवम्लानाननोऽधोमुखीभूय भूतलमलिखत् । तमस्थान एव तादृगवस्थमवलोक्य हासकेलिकोविदः कलिङ्गदेशाधिपतिकुमारः कमलगुप्तः स्मित्वोवाच
"युवराज! कुमारस्य काव्यार्थतत्त्वोद्भावनशक्तेः प्राप्तावसरमपि कीर्तनमपहाय किमिति मत्सरीव मौनमालम्ब्य वर्तसे, न प्रवर्तसे च तमनुशोचितुं युवानं ? योऽप्राप्य तत्पाणिग्रहणसौभाग्यमनुभूयमानानुतापः, किं करोतु विपाकोन्मुखपापः परमवराकः सः।
वस्तुतस्तस्कराग्रणीरसौ मञ्जीर एव पापीयानत्रापराध्यति, यो यात्रोत्सवं द्रष्टुमागतं ते युवानं दूरादेव दर्शयितुकामया पत्रवाहिकया सहकारमूले न्यस्तमिदं पत्रमपहृत्य मकरध्वजेन दूरत एव पूरयित्वा परस्परप्रेमाणमिति झटिति संघव्यमानं मिथुनमकारणमेव व्यघटि, तस्मादयं केनापि कठिनदण्डेन विनेतन्यो जाल्मः कुमारण, संयोज्यं च मिथोमिधुनमदस्तत इतो महताप्यायासेनान्वेष्य, यद् विरहवितर्कतीवाग्निरन्तर्दहतीवाऽस्य युवराजस्य" इत्युक्तवति तस्मिन् मन्दस्पन्दमानाधरकमलगुप्तमभ्यसूयन्निवानुशोचनाद् व्यावर्त्य समरकेतुमवोचत्
“सखे ! किमर्थमेवमस्वस्थेनावस्थीयते त्वया, स्मयते वाऽऽर्ययाऽनयोद्घोधितसंस्कारेण कयाचन दियकुमारिकया स्वकटाक्षबाणैर्वणितस्यात्मनस्तदावेदितसंकेतस्थानस्यापि केनचिदनिवार्येण गरीयसा कार्येण तत्सम्पर्कसौभाग्याभावसमाचारः।" तदाकर्ण्य मुहूर्तमुपरतवाग्व्यापारः स्थित्वा वक्तुमुपचक्रो-“लोकोत्तरप्रतिभासार कुमार ! पेशलं ते परकीयाशयप्रज्ञानकौशलं मनसि मे विस्मयमातनोति । तथापि यदि ते श्रोतुमतिकुतूहलं, श्रूयतामसौ वृत्तान्तः
भस्ति सिंहलद्वीपे रङ्गशालानाम्नी नगरी । तद्वास्तव्यो मत्पिता चन्द्रकेतुः सुवेलगिरिनिकटवासिनां दुष्टसामन्तानां निग्रहाय दक्षिणापथगामि नौसैन्यमादिश्याधीतशस्त्र-शास्त्रविद्यं मां यौवराज्येऽभिषिच्य तन्नायकत्वेनाकल्पयत् , प्रधाननृपतिभिरमात्यैः सामन्तैश्च मां ससहाय सम्पाद्य शुभेऽहनि प्रेषयच्च । प्रयाणदिवसे च प्रातरेव स्नात्वा समर्चितेष्टदेवतो द्विजजन वसनाभरणाद्यर्पणेन सन्तर्प्य सभामण्डपमागत्य च तत्र महार्हहेमासने प्रामुखमुपविश्वासादितान्तःपुरविलासिनीसम्पादितः प्रयाणकालोचितमाङ्गलिकक्रियो वज्राङ्कुशनाम्ना महामात्रेणोपस्थापितमरवल्लभारख्यं गन्धगजमारुह्य राजकुलानिर्गतः प्रतिपदमुदाशीराशिमिरभिनन्द्यमानो द्विजजनैर्वन्धमानः पौरजनैर्निभाल्यमानः पौराङ्गनाजनैर्नगरसीमानमतिक्रम्य क्रमेण महासमुद्रमद्राक्षम् । तस्य च सर्वतस्स्यन्दमानस्वादुसलिलबन्धुरे परिसरे द्वित्राणि दिनानि विश्रम्यान्यतरेधुरपराह्नसमये श्रीमन्तमर्णवमपूजयत् , अन्येधुश्च प्रविश्यावलोकितसमुद्रावतरणामार्गः प्रभात एव पौतिककृताकृतानुसन्धानाय प्रहितेन वेत्रिणा सत्रा समापतन्तमसुकृतविवतैरिव कैवतैः परिवृतं काककालाकृतिभिः पञ्चविंशतिवर्षदेशीय कञ्चन नाविकयुवानपश्यम् ।
तस्य चोज्वलवेषविभूषितमाकारं तत्परियारं च प्रेताकारमवेक्ष्य विस्मितः सद्य एव पार्थोपविष्टमखिलनाविकनायक यक्षपालितसंज्ञकं 'कोऽयम्' इति पृष्ट्वा "निखिलकैवर्तगणनायकोऽयं नाविकः' इति तेन प्रत्युक्तोऽपि तदविश्वस्य पुनरप्राक्षम् - कथं तर्हि कैवतरतिविसदृशोऽयमाकारेणावलोक्यते । सोऽपि पुनरगादीत्-'युवराज! नाकारेणैव, अपि तु सर्वप्रकारेण, नं चैभिरेव, अपि त्वन्यैरपि पुरुषैरय विसदृशः प्रज्ञौदार्यधैर्यादिगुणैः। चेदस्ति कुतूहलमाकर्ण्यतामस्य समासेन वर्ण्यमानः पूर्ववृत्तान्तः।
wwwwwww
Page #7
--------------------------------------------------------------------------
________________
कथासारः।
Armanna
wmwwwm
wimminwww.wwmar
mammam
अस्ति सुवर्णद्वीपदेदीप्यमानमणिपुराभिधाननगरवास्तव्यो लोकयात्रायामतिमात्रनिपुणो वैश्रवणो नाम पोतवणिक् । तस्य धार्मिकधौरेयस्यान्तिमे वयसि वसुदत्ताभिधायां भार्यायां तारकनामाऽऽत्मजन्मा समजनि । स च शव एव श्रुताशेषशास्त्रः कलासुलब्धफ्रमिककौशलः क्रमागतयौवनावस्थापन्नो यानपात्रमधिरुह्य द्वीपान्तरं प्रस्थितः सांयात्रिकैरनुगम्यमानो रङ्गशाला नगरीमागमत् । आगतस्य च तस्य नागरिकजनसम्मईचारणाय विस्तृतावकाशविकस्वरे जलनिधिपरिसरे सम्यगावासितस्य कैवर्तकुलाधिपेन जल केतुनाम्ना कैवर्तेन सख्यं समवर्तत । क्रमेणोपारूढढिमनि तयोः सख्ये कदाचनारूढनवयौवना परमरमणीयदर्शना प्रियदर्शना नाम जलकेतुकन्यका पितुरादेशेन मौक्तिकहारमुपहारमादाय तद्गृहमबाजीत् । तत्र च तत्प्रथमदर्शन एव तदुज्वललावण्यावलोकनप्ररूढदृढप्रीतिप्रेर्यमाणा सा प्रत्यहं केनापि व्याजेन तदन्तिकं गन्तुमारेभे। कदाचिदेकदा तदीयचन्द्रशालायां सख्या सार्क क्रीडन्त्यास्तस्याः कथञ्चिदन्तिकमागतोऽसौ तदवलोकनोत्तरं संभ्रमेण धावन्त्याः पतन्त्याश्च तस्याः सत्वरमुपसृत्य दक्षिणपाणि गृहीत्वा सान्त्वयामास, स्वगृहगमनाय प्रवर्तयामास च। तदनु तस्करग्रहणमहिना दूरमपसृतसम्भ्रमा प्रीतिप्रथितप्रागल्भ्यप्रकटितविभ्रमाऽसौ कुमारिका किञ्चिद् विहस्य 'कुमार! त्वद्गृहीतपाणिरहं त्वामपहाय न पारयामि गृहान्तरमितो गन्तुम् , साम्प्रतं तु त्वत्सदनमेव त्वदीयाया मे सदनम्' इत्यभिधाय वामपादाङ्गुष्ठलेखया मन्दं मन्दं कुट्टिम लेखितुमारेभे । सांयात्रिकयुवाप्यसौ तत्कृतेनात्मसमर्पणेन प्रीयमाणस्तां मन्दमालिङ्गय 'प्रणियिनि ! न खलु गृहमात्रम्, अपि तु शरीरेन्द्रियादिकमपि मामकं त्वदीयमेव' इत्युदीर्य "दुष्कुलादपि कन्यारत्र ग्राह्यम्” इत्याचार्यवाक्यं प्रामाण्येनास्थाय योजनगन्धामिव पराशरस्तां पत्नीमकार्षीत् । पाणिग्रहणदिनादारभ्य सर्वाङ्गसुभगया तया सह नवयौवनोएभोगमासेवमानः पर्यहार्षीद खिलमपि कार्यम् । कस्यचन पोतवणिजः कन्यकाऽसौ, भग्नतां गते तत्पोते जलकेतुना मध्येसागरादुनृत्य रक्षितेति श्रूयमाणादसीयवृत्तान्तोऽपि साकमागतैर्वणिग्जनैः स्वाभिजनपरावर्तनाय प्रवर्त्यमानोऽपि, बान्धवजनैरुपालम्भपूर्णैः सन्देशैराकृष्यमाणोऽपि न मनागपि गमनाय मतिमकार्षीत् । __ कदाचिदास्थानभूमिमागतस्य तस्याकाररामणीयकावलोकनाकृष्टमनसा राज्ञा चन्द्रकेतुना सादरमाभाष्य जामातृधिया भूयसी जीविकां दत्त्वा सकलनाविकजनाधिपत्यापादनेनातीव प्रतिपत्तिरकारि । तदाधिपत्यमाचरन्नसौ निखिला नौवहनविद्यामधिगत्य कर्णधारधौरेयतामधात् । तदयमतीव योग्यो निजतरणिकर्णधारतया नियुज्येत चेदतिसुखेन तारयेत् कुमार पारावारम्, पारयेच्चापराण्यपि प्रयोजनानि निष्पादयितुम्" इत्थमुपवर्णयति तस्मिन्नसौ कैवर्तनाथः सविधमागत्य सादरं प्रणम्य चातिप्रणयेन प्रत्यपादयत्
'युवराज! भवदीयविजययात्रोद्घोषणक्षण एवार्णवाभ्यर्णमागतेन मया अन्नोदकसर्पिस्तैलेन्धनादिपूर्णानि लघुब्रहप्रवहणानि सजितानि सन्ति, विजययात्राभिधाना नौरपि कुमारस्य शत्रुविजयाय सजिता, अतः प्रस्थीयतामभ्युदयाय नास्ति चेत् प्रस्थानप्राकालिककार्यविलम्बः। तदाकर्ण्य तरक्षणमेव राजगणपरिवृतः समुद्रस्य तीरं गत्वा तत्प्रणामोत्तरमध्यरुक्षमधिरूढपूर्वेण तारकेणावलम्बितो नावम् । तत्र बद्धासने मयि समेऽपि राजपुत्राः स्वस्वयानपात्राण्यधिरुह्य मां परिबृत्य प्रातिष्ठन्त । तैः समं कियहरमुलध्य सागरमन्तराऽन्तरोपस्थितद्वीपवर्तिनः सामन्तान् प्रातिस्विकप्रक्रियाभिर्दमयित्वा सुवेलाचलसंज्ञकमचलमुदचलम् ।
तस्य चातिरमणीयेषु पर्यान्तारण्येषु सूचिताखिलरामायणरमणीयवृत्तान्तरुत्पाठ्य रोपितैस्तत्रत्यसामन्तैरुपदर्शितानू लङ्कापुरीपरिसरप्रदेशान् सप्रमोदमवलोकमानः कतिचिदहान्यवात्सम् , एकदा तु तत्रावस्थितशिविर एव प्रधानपार्थिवपुत्रैः पदातिपुरुषैश्वानुगम्यमानः सेतोः पश्चिमे नातिदूरं गत्वा सक्रौर्यचौर्यप्रवृत्तस्यातिगर्वितस्य पर्वतकनाम्नः किरातराजस्य राजधानीमवस्कन्द्य तस्य सर्वस्वमात्मसात्कृत्य स्वशिबिराभिमुखं प्रस्थितस्य मम प्रथमप्रस्थान एव तृतीयभागावशिष्टायां निशायामबिनामा भट्टपुत्रः 'क युवराजः ?, इति पृच्छन्नतित्वरितवाहितया नौकया निकटमागत्यावोचत्
"कुमारसेनानीर्विज्ञापयति यदयमनतिदूरवर्ती रामायकेन सर्वपर्वतानामग्रणी रत्रकूटो नाम गिरिः । भयं जानकीविरहानलजाज्वल्यमानमानसस्य भगवतो रामचन्द्रस्य लङ्कामभिप्रयातस्यादेशेन पर्वतानाहरद्भिः कपिनिकरप्रवरैरुत्पाक्य सुमेरोः सानुः सेनापतेर्नलस्य पुरस्तादपस्थापितः, तेनापि हीरकमणिरिव साधारणमणिभिः पाषाणमयैः पर्वतैः समं नायमेकत्र सम
Page #8
--------------------------------------------------------------------------
________________
तिलकमञ्जरी
वायमहतीत्यालोच्य सेतोः पृयक् पयोनिधौ स्थापितः, पयोधिनापि पुत्रप्रेम्णा क्रीडागिरित्वेनाङ्गीकृतः । नास्ति कश्चिदितश्वलितानां विश्रामयोग्यः कश्चन प्रदेशः पर्वतो वा, प्रत्युत सर्वतो वेन्नलतावनकलिलं सलिलमेव केवलम् , तस्मादिहैव परिश्रान्तपरिवारेण युवराजेन त्रिचतुराण्यहानि विश्रम्यानुगामिनः सैनिकान् प्रतिपाल्य च प्रयातव्यमित्याकर्ण्य प्रभुरेव प्रमाणम्' इत्युदीर्य गते तस्मिन्नतीते च कतिपयक्षणे क्षोभिताशेषजलचरस्तारतरः शिविरोत्थितो भेरीभाकारो दिगन्तराणि व्यापत् , तदनु चे सविस्तरेऽप्यवतारमार्गेऽन्योन्यसंघट्टनविघटनाभ्यां कथकथमप्यमवकाशमवाप्य पलाय्य ससम्भ्रमं तीरमवतरतां शिबिरवर्तिजनानां बहलः कोलाहलः समजनि ।
अथ क्रमेणोत्तीर्ण राजलो के, तटनिकटमानीतेषु रिक्तयानपात्रेषु, पर्वतस्य पूर्वदक्षिणभागमावासाय प्रयातेषु सैनिकेषु, तमुद्देशमुपससारातीव दिव्यो माङ्गलिकगानध्वानः, तमश्रुतपूर्व श्रुत्वा तदुत्थानस्थानानुसन्धानाय पार्श्ववर्तिनं नृपजनमात्मनः परिजनं च प्रेष्य तद्ध्वनिध्यानस्तिमितनयनतारकं तारकमगादिषम्
'सखे ! अतिमधुरिमधुरीणोऽयं गानध्वनिराकर्षतितरां मामकीनं मनः, तस्मान्मार्गातिक्रमणश्रमस्तव मनः प्रयाणे न प्रतियध्नाति चेत् ? प्रगुणीकृत्य नावं प्रस्थीयतामस्य ध्वनेरुद्गमस्थानम्, न खलु किमपि महोत्सवमन्तरेणेग ध्वनिः सम्भवति' इत्याचक्षाणे मयि स क्षणमधोमुखस्तूष्णीमवस्थायायोचत् -
'युवराज! न केवलं कुमारस्यैव, अपि तु ममाप्येकदा ध्वनिमिममत्रैव श्रुतवतोऽस्ति तदुद्भवस्थानगमनकौतुकमुस्कटम् , किन्तु न पार्यते पर्वतस्यास्य पर्यन्तप्रवाही जलराशिमहान्तमन्तरेण यत्नमुत्तरीतुम् , यतोऽत्र पदे पदे निमजद्भिरुन्मजद्भिश्च भीषणैर्जलजन्तुगणरुद्वेलिता दुस्तरा आवर्ताः प्रतिबध्नन्ति गतिं प्रवहणानाम् , श्लथयन्ति च प्रस्थानोत्साहमत्यधिकप्रमाणास्तटं संघट्टमानाः पाषाणाः, तस्मान्मन्दायते मे मनाङ् मानसम् , तथापि यथादेशं तव शक्नोमि प्रवर्तितुम्' इति तेनोदीरिते प्रत्युत्पनकौतुकः प्रत्यवोचम् ---
___ 'सखे! निशम्यमानगानध्वनितत्त्वावगमनमन्तरा स्वावासमुपगतोऽपि तजन्यानुतापदवदहनदन्दह्यमानमानसो न स्वस्थः स्थास्यामि दिनमेकमपि, तस्माद् यदि शकुनशास्त्रं प्रमाण, तर्हि नास्ति यात्रायामस्यामस्माकमपायशङ्का मनागपीति विश्वस्याविलम्बमुत्तिष्ठ गन्तुमनुतिष्ठ च कौतुकं बिहन्तुमात्मनः' इत्यभिदधाने मयि क्षणमसौ दोलायमानमानसः-'कुमार! अलमियता प्रवर्तनाप्रपञ्चेन, प्रवृत्त एवाहमिङ्गितेनाऽपि तावकेन' इत्युक्त्वा प्रणम्याम्भोनिधिमभिमतशकुनोद्वेलितप्रयाणकौतुकः प्राचेतसेन प्रतस्थे दिङ्मार्गेण।
अथ पञ्चषैः सहायीकृतकर्णधारैरनुगम्यमानेन तेन जलचरेभ्यो भयावेदकं प्रत्येकं कर्तव्यावेदकं च वाक्यमुदीरयता परितोऽवहितदृष्टिमर्पयता च निरुक्ताचलतटसंघटनादाक्षित्वा पुरः पुरः प्रेरिता नौरतिदीपेऽपि समुद्रपथे प्रायः क्वचिदपि न च स्खाल, तं पर्वतं प्रदक्षिणीकृत्य क्रमेण तूर्यस्वनोद्भवस्य तत्प्रदेशस्याभिमुखीबभूव ।
___ परमसौ प्रदेशोऽपि तामन्तिकागतामवेक्ष्येव तद्वाद्यध्वनिमुपसंहृतवान्, उपरते च तव नौका सत्वरमाकृप्य तारको व्याहृतवान् -
'कुमार ! मार्ग दर्शयित्वा ध्वनिरसावत्रैवोपारंसीत् , आज्ञाप्यतामतः परं पुरस्तात् प्रवर्त्यतामुत पवानिवर्त्यतामियं नौः। मद्विचारेण तु रत्नकूटगिरिरेवायं पदे पदे विविधकौतुकानामास्पदतया युज्यते प्रतिप्रदेशमवलोकितुं, तेन सपरिग्रहस्य स्वस्य दर्शनीयदिदृक्षाप्यपनेतुम्' इत्युक्तवति तस्मिन् सहसैव प्रतिहतजिगमिषः प्रतिवचनमनुक्त्वैव 'क्लेश एव केवलमन्वभावि, न खलु लेशतोऽपि सुखमिष्टार्थसिद्धया' इति स्वस्य चापल्यमालोच्यानुतापमवापम् , कथमियन्तमम्बुधिमार्गमागत्यापूर्णमनोरथेन परावर्तनीयम् ?, कथं च तदर्धपथदृष्टपार्थिव प्रति मलिनमाननं दर्शयितव्यम् ?, कथं चोल्लखितवचनानां स्वबान्धवजनानां कर्णारुन्तुदानि रोषरूषितानि भर्त्सनानि सोढन्यानि मयेति चिन्तयन्नेव च रजनीमनैषम् । तदनु क्रमेणापनीततिमिरे मिहिरे परमाद्भुतं प्रभामण्डलमवेक्ष्य किमेतदिति वितर्कयन्नेव सुवेलाद्रिमार्गेणोचलितं खेचरेन्द्रवृन्दमपश्यम् ।
तदनु च पुरः प्रवर्तय नावमिति तारकमादिश्य सपदि पुरः प्रस्थितस्तस्य गिरेरधस्तादेकं दिव्यमायतनमदर्शम्, तदवलोक्योत्पमविस्मयश्चिरमचिचिन्तं च न जातु समीहितार्थसम्पादनप्रवणेन नीतिरनुसरणीया, यद्यहमपायशङ्कया नीतिमनुसरनिदं स्थानं नायास्य, तर्हि प्रासादप्रवरमिमं नावेक्षितुमशक्ष्यम्, यदवेक्षणेनाम्यपदार्थसार्थदिक्षा तत्क्षणमेवोपारंसीत् ?' मन्ये-एतदर्थमसामान्यकर्मणः कोटिविश्वकर्मणः सृष्ट्वा भगवान् प्रजापतिरलकापुरीमाक्रम्य राजराजमाजी विजित्य
Page #9
--------------------------------------------------------------------------
________________
कथासारः।
तदीयकोशमपजहार, त्रयस्त्रिंशत्रिदशकोटिकदर्थनया समूलमेव सुमेरुमाजहार च, नान्यथेगायतनं शक्येत निर्मातुम् , इत्थमालोचयत्येव मयि रभसप्रेरिता नौस्तदायतनदक्षिणप्राकारभित्तिमागमत् । क्रमेणाक्रम्य च तत्प्राकारभित्तेः प्राग्भागं क्षपितमार्गश्रमस्तारकमचक्यम् --
'सखे ! अतः परं सन्तानकप्रभृतीनि विकसितदिव्यकुसुमान्यवचित्य निर्झरादानीय च पानीयमन्तःप्रतिष्ठितमस्यायतनस्य भगवन्तमर्चितुं यतनीयम् , येन मदीययात्रा फलशालिनी सम्पद्येत' इत्थमभिहितोऽसौ विहस्य कुमार ! तत् सर्व सुकरम् , किन्तूभयतो दूरविततटककर्तितप्रकृताद्रिकटकसंसृष्टप्राकारप्रतिरुद्धमवतारद्वारमस्सान्निर्गमिष्यता केनचिदुपदेशमन्तरा दुर्निरूपमिति तत्प्रतिपालनमेव तावत् प्राप्तकालम् ।
___ नूनमेवास्यायतनस्याभ्यन्तरे कोऽपि तिष्ठति, चन्दनप्रवालवन्दनमालादिलिङ्गैरत्र यात्रोत्सवस्याचिरनित्ततायाः प्रतीतेः, इति ब्याहरत्येव तस्मिन्नकस्मादादिगन्तगामी सोपानमार्गेण सविधमापततः स्त्रीगणस्य नूपुरझणत्कारस्तारः पुरस्तादुचचार ।
___ तदनु च व्यापार्यमाणलोचनः प्राकारशिखरे राशीभूतानां लोकोत्तरलावण्यसम्पदा प्रत्यङ्गमनुस्यूतानां कन्यकानां मध्ये षोडशवर्षवयस्कां दिव्यामेकां कन्यकामद्राक्षम् ।
इत्थमपूर्वकथारसप्लुतचेतसा स्ववृत्तान्तविज्ञापनब्यासक्ते समरकेतौ सहसैव प्रमोदोत्फुल्लनयना प्रतीहारी प्रविश्य "कुमार! पीतमतिस्फीतमधुना युवराजोपन्यस्तकथाकर्णामृतम् ; अतः परं नयनामृतमपि क्षणमास्वाद्यताम्" इत्थं हरिवाहनमभिधायोत्तरीयाञ्जलनियन्त्रितं चित्रपट दक्षिणकरेणादाय सादरमर्पयामास ।
[ अपूर्णः]
Page #10
--------------------------------------------------------------------------
________________
તિલકમંજરી કથાનો
અતિ સંક્ષિપ્ત ભા વા ર્થક
Kી
-
છે
. જો રફ
લેખક –પંન્યાસ શ્રી સુશીલવિજયજી ગયું.
[ કમશ:-] રાજ મેઘવાહને તે રાજમંદિરમાં વિધિસર દિવસ પસાર કર્યો અને સાંજે અંતઃપુરમાં જઈ રાણું મદિરાવતી સાથે પ્રેમપૂર્વક વાત વિનોદ કરી, ભોજન લઈ નિદ્રાવશ થયો. પાછલી રાતે રાજા મેઘવાહને સ્વપ્રમાં એક ઐરાવણ હાથીને જોયો. એ હાથી આકાશમાંથી ઊતરી રૂપાના પવૅત પર બેઠો અને શુડના અગ્રભાગથી રાણી મદિરાવતીના સ્તનનું પાન કરવા લાગ્યો. સ્વપ્રનું દ્રશ્ય જોઈ રાજા ઝબકીને જાગી ગયો અને વહેલી ઊઠેલી રાણું મદિરાવતી પાસે જઈ હર્ષ ભેર સ્વઝમાં જોયેલી હકીકત જણાવી. રાણુ તે એકાગ્રતાથી સાંભળતાં ખૂબ આનંદિત થઈ. કેટલાક દિવસો જતાં રાણીએ ગર્ભ ધારણ કર્યો અને નવ મહિના પૂર્ણ થતાં શુભદિવસે, શુભલ, ઉચ્ચસ્થાનમાં જ્યારે શુભ ગ્રહો હતા અને ઊર્ધ્વમુખી હોરા હતી ત્યારે અત્યંત મનોહર એવા એક દેદીપ્યમાન પુત્રને જન્મ આપ્યો.
રાજાએ સારી રીતે પુત્રને જન્મોત્સવ ઉજવ્યો. સ્વમાની અને પોતાના નામની સ્મૃતિ તાજી રાખવા માટે પુત્રનું નામ “હરિવહન’ પાડવામાં આવ્યું. ઐરાવણ હાથીનું નામ હરિવહન છે, તેમાંને “હરિ’ શબ્દ અને પોતાના મેઘવાહન નામમાંથી “વાહન” શબ્દ જોડીને હરિવહન નામ રાખવામાં આવ્યું.
પાંચ ધાવમાતાથી લાલનપાલન કરાતે પુત્ર બીજના ચંદ્રમાની જેમ પ્રતિદિન વધવા લાગ્યો. પાંચ વર્ષ પૂર્ણ થતાં છ વર્ષની શરૂઆતમાં રાજમહેલમાં તૈયાર કરાયેલા વિદ્યાલયમાં તેને ભણવા મૂક્યો.
કુમાર પૂર્વ ભવના સંસ્કાર યોગે થોડા સમયમાં જ વિવિધ શાસ્ત્રને શીખ્યો અને ચિત્રકર્મ, ધનુર્વિદ્યા તથા વીણાવાદનાદિ કળામાં કુશળ થયો. લગભગ ચૌદે વિદ્યાનો એ પારંગત થયો.
રાજા મેઘવાહનને કુમારને યુવરાજ પદે અભિષેક કરવાનો મનોરથ જાગ્યો. આથી કુમારને સહાય કરે તેવા અને સૌથી મળતા આવે એવા રાજકુંવરની શોધ માટે અનેક સ્થળે શાણા માનવીઓને મોકલ્યા.
કુમાર સળવર્ષનો થયો ત્યારે રાજાએ પોતાની પાસે બોલાવી લીધો, અને તેને રહેવા માટે નગરની બહાર એક કુમારભવન નામે મનહર મહેલ કરાવી આપો.
એક દિવસે સવારે રાજા પરિવાર સાથે રાજસભામાં બેઠો. એ જ સમયે ચિત્રકનત્રિલતા નામની પ્રતીહારીએ આવીને પ્રણામ કરી કહ્યું કે–સ્વામિન! દક્ષિણદેશમાંથી હમણાંજ આવેલા દક્ષિણદાધિપતિ વજાયુધન પ્રીતિપાત્ર વિજયવેગ નામે પ્રધાન પુરુષ આપના દર્શનકાજે આવીને બહાર દરવાજા આગળ ઊભા છે. તે શી આજ્ઞા છે ?' આલાણવીંટીનું સ્મરણ કરતાં રાજાએ કહ્યું “અંદર આવવા દે.”
રાજઆજ્ઞાને માથે ચડાવી પ્રતીહારી બહાર ગઈ અને સઘળા વૃત્તાંતથી વાકેફ થયેલા વિજયવેગે રાજસભામાં પ્રવેશ કર્યો અને પ્રેમપૂર્વક પ્રણામ કરી યોગ્ય આસને બેઠો.
Page #11
--------------------------------------------------------------------------
________________
***
संक्षिप्त भावार्थ રાજાએ પૂછવું દંડનાયક વિજયવેગ ! કુશળ છો ને?” “મહારાજા દક્ષિણદડાધિપતિ ખૂબ આનંદમાં છે. આપને પ્રણામ કહેવરાવ્યા છે. ભવદત્ત. ભીમ. ભાનવેગ વગેરે રાજાઓએ પણ પ્રણામ કહેવરાવ્યા છે. આપે દંડનાયક પર મોકલાવેલી દેવતાઈ વીંટી આજ સુધી પોતાની પાસે રાખી હતી અને દક્ષિણને દેશ જિતાયા પછી મને સોંપી હતી. એ વીંટી આપના રત્નકોશાધ્યક્ષ મહોદધિને અર્પણ કરી છે.
એ પછી રાજાએ જરા હસીને પૂછ્યું -વિજયવેગ! શું એ વીંટી સેનાપતિને ઉપયોગમાં આવી? એનાથી કંઈ લાભ થયો?”
દેવ” એ દેવતાઈ વીંટીએ તો જે કાર્ય કર્યું છે તે કોણ કરી શકે તેમ છે?' વિજયવેગે આભાર સાથે કહ્યું.
રાજન” એ દિવ્ય વીંટીનો અદ્દભૂત ચમત્કાર જણાવું. ગયા વર્ષે શરદ્દ ઋતુમાં આપણા શત્રુ કુસુમશેખરને શિક્ષા દંડનાયકે કંડિનપુરથી કાચ્ચીનગરી તરફ પ્રયાણ કર્યું. વિશાળ સેના સાથે ત્યાં આવી, નગરીને ચારેતરફ ઘેરો ઘાલ્યો. કુસુમશેખર સામનો કરી શકે તેમ ન હોવાથી નગરના દરવાજા બંધ કરાવી યુદ્ધની બધી સામગ્રી એકઠી કરી કિલ્લામાં જ ભરાઈ રહ્યો.
ગુપ્તચરોથી આ હકીક્ત જાણીને તેમણે નગરના દરવાજો તોડી નાખ્યા અને સેનાધિપતિ અંદર પ્રવેશ કરવા જાય છે ત્યાં જ કુસુમશેખરે અંદરથી પોતાના બચાવની કોશીશ કરવા માંડી. આમ કરતાં કેટલોક સમય પસાર થઈ ગયો.
વસંત પંચમી (અનોત્સવતિથિ ની રાતે જ્યારે દંડનાયક પરિવાર સાથે પલંગ પર બેઠા હતા, સંગીત, ગીત, નૃત્ય ચાલી રહ્યું હતું, અને સહુ એમાં તલ્લીન થયા હતા, એટલામાં એકદમ કોલાહલ શબ્દ સંભળાયો. કાચરક અને કાડરાત નામના બે ઘોડેસ્વારોએ આવીને ખબર આપી કે, “દંડનાયક ! કાંચીના ઉત્તરદિશાના દરવાજેથી શત્રુનું સૈન્ય સજ્જ થઈને આ તરફ ધસી રહ્યું છે. આ સાંભળીને દંડનાયક સફાળા થયા અને સન્યને તૈયાર રહેવા રણવાદ્ય વગડાવ્યું. બંને સન્યને વિશાળ મેદાનમાં ભેટો થયો. યુદ્ધ શરૂ થયું. ઘોર સંગ્રામ ખેલાયો. ક્ષત્રિના બે ભાગ તે વીતી ગયા અને ત્રીજા ભાગના પ્રારંભમાં શત્રુના સૈન્યમાંથી એક શુરવીર રાજકુમાર દંડનાયક સામે વેગથી ધસી આવ્યો. બંને વચ્ચે દ્વ યુદ્ધ જામ્યું. દંડનાયક મોટી આફતમાં સપડાયા. ત્યારે મેં સમયસૂચકતાથી આપે મોકલાવેલી દિવ્ય વીંટી તેમની આંગળીમાં પહેરાવી દીધી.
એના પ્રભાવથી શત્રનું સૈન્ય તત્કાળ નિદ્રાધીન બન્યું. દંડનાયકસામે ઝઝૂમતો ભડવીર રાજકુમાર પણ ત્યાંને ત્યાં રથમાં સ્થિર બની ગયો. આપણા સૈન્યમાં આનંદ ફેલાઈ ગયો અને આગળ વધવા એ પ્રયત્ન કરવા લાગ્યું. દંડનાયકે આગળ વધતા સૈન્યને સોગન આપી રોકી દઈ તેઓ એકદમ પેલા રાજકુમારના રથ પાસે પહોંચી ગયા. તેની સ્થિતિ અત્યંત કરુણાજનક હતી. આ કોણ છે?' શાથી અહીં આવ્યો ?” તે જાણવા દંડનાયકે તેને ચામર ઢાળતી નારીને પૂછયું. તેણીએ પણ આંખમાંથી ટપકતાં અશ્રુબિંદુ લૂછી નાખી દંડનાયકને કહ્યું હે મહાભાગ! મન્દભાગિની હું શું કહું! કહેવાથી તે કંઈ સજીવન થાય તેમ છે?, છતાં તમારે જાણવાની ઈચ્છા છે તે સાંભળોઃ- સિંહલદ્વીપના અધિપતિ ચંદ્રકેતુ મહારાજાને આ સમરકેતુ નામે યુવરાજ કુમાર છે. કુમારના પિતા ચંદ્રકેતુએ આ નગરીના રાજા કુસુમશેખરને મદદ કરવા આજ્ઞા કરી. તેથી આ કુમાર અહીં કાંચીમાં આવ્યો. અને પાંચ-છ દિવસ રહ્યો. આજે પ્રભાતમાં ગંગારિક પોષાક પહેરી એ કામદેવના મંદિરમાં ગયો અને ત્યાં જ બારણામાં આસન જમાવી બેઠો. દર્શનાર્થે આવતી નગરીની નારીઓને તે સ્નેહપૂર્વક નીહાળતો. સાંજ સુધી બેસી રહ્યો. રાતે પણ કમલ પત્રની પથારી બનાવી ત્યાં સૂઈ ગયો. - કોણ જાણે કેમ એને સૂછ્યું કે તરતજ અડધી રાતે એ પાછો આવ્યો, અને સૈન્યને એકદમ તૈયાર કર્યું. સહુએ ખૂબ સમજાવ્યો છતાં ન માને, સૈન્ય સાથે અહીં આવી તેણે યુદ્ધ શરૂ કર્યું, અને આ હૃદયદ્રાવક કરુણાજનક પરિસ્થિતિમાં મુકાયે.
રાત્રિ પૂર્ણ થઈ સૂર્ય ઉદય થયે, શસૈન્યના સૈનિકોની મૂછ વૂળી ગઈ. રાજકુમાર પણ જાગ્રત થયે. અને શત્રુના સકંજામાં સપડાયેલ પોતાની સ્થિતિ જોઈને, ફરીથી તે મૂછિત થઈ ઢળી પડ્યો. થોડીવારે વનને
Page #12
--------------------------------------------------------------------------
________________
૧.
संक्षिप्त भावार्थ
ઠંડો પવન વાયો અને કુમારની મૂર્છા દૂર થઈ. સ્વસ્થ અનેલા કુમારને દંડનાયકે આશ્વાસન આપ્યું. અભય પડહ વગડાવી ભાગતા શત્રુસૈન્યને તેણે રાખ્યું ને પોતાના સૈનિકોને લૂંટ કરતા અટકાવ્યા, ઘાયલ થયેલા સૈનિકોની શુશ્રુષા કરવા યોગ્ય માણસોને આજ્ઞા કરી. ત્યાંથી દંડનાયક રાજકુમાર સમરકેતુ સાથે હાથી પર એસી છાવણીમાં આવ્યા અને પોતાના જ નિવાસમાં રાજકુમારને લઈ ગયા. બંને એ સાથે ભોજન કર્યું. દંડનાયકે પોતાના હાથે રાજકુમારના શરીરમાં જ્યાં જ્યાં ઘા પડ્યા હતા ત્યાં ઔષધિનો લેપ કર્યો વધુમાં સારા વૈદ્યો પાસે તેના શરીરની ચિકિત્સા કરાવરાવી. જેતજોતામાં સમરકેતુ તદ્દન સાજો થઈ ગયો.
*
એક વેળા દંડનાયક અને સમરકેતુ ભોજન કરી સાથે બેઠા હતા ત્યારે દંડનાયકે રાજકુમારને કુસુમાનુલેપન, વસ્ત્રાભરણાદિથી સન્માન કરી યુદ્ધમાં પકડેલા હાથી, ઘોડા અને રથ આપી દંડનાયક હાથ જોડી કહેવા તેને લાગ્યા: “કુમાર ! તમે મહાપરાક્રમી છો! મોટા મોટા મહારાજાઓ પણ તમારી સહાય ઈચ્છે છે. તમે મનમાં લેશમાત્ર પણ્ એમ ન લાવતા કે દંડનાયકે મને જીતી લીધો. આપને રણસંગ્રામમાં જીતવા માટે કોણુ સમર્થ છે? આપ તો અજેય જ છો, છતાં આપની આ પરિસ્થિતિ થઈ એ પ્રભાવ મારો નહીં પણ કોઈ અનેરી દિવ્ય વસ્તુનો જ છે.” એમ કહી તે દેવતાઈ મહા ચમત્કારિક વીંટી મંગાવી. એ જોઈ ને આશ્ચર્ય મુગ્ધ બનેલ સમરકેતુએ પૂછ્યું ‘આવી મહા ચમત્કારિક વીંટી તમને ક્યાંથી મળી ?'
ત્યારે મેઘવાહન મહારાજાને શક્રાવતાર તીર્થમાં જવું, જ્વલનપ્રભ દેવનું મળવું, વેતાળ અને રાજલક્ષ્મીનું આવવું' વગેરે વૃત્તાંત વિસ્તારથી કહી સંભળાવ્યો.
રાજકુમાર પણ આવું અદ્ભુત વૃત્તાંત સાંભળીને ખૂબ હર્ષિત થયો, થયેલ દુઃખ વિસરી જઈ સેનાધિપતિને કહેવા લાગ્યો, દંડાધિપતિ ! શું કહું, શું વર્ણન કરું? ખરેખર, તમને અને તમારા મહારાજાને ધન્ય છે કે, જેને દેવો પણ સહાયતા કરે છે. તમારા જેવા બુદ્ધિશાળી દીર્ઘદર્શી અને ગુણાનુરાગી વ્યક્તિના ગુણ ગાઈએ તેટલા ઓછા જ છે. બસ, હવે તો મને એ સત્ત્વશાલી મહારાજા મેઘવાહનનાં દર્શન કરાવી મારાં નેત્રને કૃતાર્થ કરાવો !'
‘કુમાર ! આપની એજ અભિલાષા છે તો ખુશીથી આજે જ વિજયવેગ સાથે પધારો.' દંડનાયકે સ્મિતવને સ્નેહપૂર્વક કહ્યું.
કુમાર શક્રાવતાર ઉદ્યાન નજીક સરયૂ નદીના કિનારે શિખિર નાખી રહ્યો અને વિજયવેગ મહારાજા મેઘવાહન પાસે પહોંચી ગયો અને પ્રેમપૂર્વક પ્રણામ કરી રાજવીને ખધા વૃત્તાંતથી વાકેફે કર્યાં.
વૃત્તાંત સાંભળીને રાજાના આશ્ચર્યનો પાર રહ્યો નહીં. શૌર્યશાલી કુમાર સમરકેતુ ઉપર અને નિમકહલાલ દંડનાયક પર રાજાને અનહદ પ્રેમ ઉદ્ભવ્યો. કુમારને મળવાની તીવ્ર ઉત્કંઠા થઈ આવી. તેમણે વિજયવેગને કહ્યું: ‘ક્યાં છે એ કુમાર ? ક્યારે મળશે?'
“દેવ ! કુમાર શિબિર સહિત સરયૂકિનારે છે. જ્યારે આપની આજ્ઞા થશે ત્યારે મળી શકશે.”
‘હરદાસ ! જાઓ, રાજકુમાર સમરકેતુને અહીં બોલાવી લાવો' મહારાજાની આજ્ઞા થતાં જ મુખ્ય પ્રતિહારી હરદાસ સરયૂકિનારે ગયો અને રાજકુમારને રાજવીના સમાચાર આપ્યા. કુમાર રાજપરિવાર સાથે ત્યાં આવ્યો અને તેને રાજસભામાં પ્રવેશ કરાવરાવ્યો.
કુમારને જાતાં જ રાન્તએ આવ! આવ!' એમ દૂરથી ઉમળકાભેર ઑલાગ્યો. કુમારે પણ તેમને પ્રેમપૂર્વક પ્રણામ કર્યાં. નજીક આવતાં રાજા સિંહાસન પરથી ઊતર્યો અને રાજકુમારને ભેટીને પોતાના ઉત્સંગમાં ( ખોળામાં) બેસાડ્યો. પછી કુમાર પાસેના આસન પર બેઠો.
મહારાજ મેઘવાહનને કહ્યું--“કુમાર ! તારા આગમનથી આજ હું કૃતાર્થ થયો છું. સાચેજ તું ધન્યવાદને પાત્ર છે, કેમકે તારાથી હાર પામેલા શત્રુઓ પણ પોતે ક્ષણે જીત્યા હોય તેમ હર્ષમાં આવી જઈ પોતાની પ્રશંસા કરે છે. રાજલક્ષ્મીએ તો માલાજી વીંટી સમર્પી મને જાણે ખીજો પુત્ર અર્યાં છે. આ કુમારનો અને તારો રાજ્યમાં સમાન ભાગ છે, તેની સાથે સુખેથી તું રહે અને આનંદ કર. ‘મને મારા શત્રુઓ પકડીને
Page #13
--------------------------------------------------------------------------
________________
संक्षिप्त भावार्थ
૧૧
અહીં લાવ્યા છે, તો હું કેમ રહી શકું?' એમ લેશમાત્ર પણ મનમાં લાવીશ નહીં. અહીંનો સમગ્ર વર્ગ તારી સેવામાં હાજર જ છે. તારી જે જે અભિલાષાઓ હશે તે તમામ પરિપૂર્ણ થશે.”
પછી પાસે બેઠેલા સુપુત્ર હરિવાહનને જણાવ્યું: ‘વત્સ ! હજી સુધી તારા સરખો કે તારાથી અધિક ગુણવાળો આપણા કુટુંબમાં કોઈ પણ નરરત થયો જોવાતો નથી, આજે સદ્ભાગ્યે આપણને સમરકેતુ કુમાર પ્રાપ્ત થયેલ છે, માટે તેને તારો સાચો મિત્ર સમજી સારી રીતે સાચવજે.'
એમ કહી મહારાન્ત મેઘવાહન સિંહાસનથી ઊડ્યા અને સમરકેતુ પણ જે તાત ! જેવી આપની આજ્ઞા' એમ કહી સમરકેતુનો હાથ પકડી હરિવાહન પરિવાર સાથે મદિરાવતીના મહેલે ગયા. ત્યાં માતુશ્રીને પ્રણામ કર્યાં, અને સમરકેતુનો પરિચય કરાવી પોતાના સ્થાનકે પહોંચી ગયા.
સાન, ભોજન કરી બન્ને જણા ભોજનશાળાની બહાર બેઠા હતા, તેવામાં મહારાજા મેઘવાહનની આજ્ઞાથી આવેલા એવા સુષ્ટિ નામના અપલિકે આલેખેલ નકશો કાઢી ઉત્તરદિશાના દેશોની હદ બતાવતાં કહ્યુંઆટલા દેશ યુવરાજ શ્રી હરિવાહનના ખાનગી ખર્ચ માટે અને તે સરહદમાં આવેલા અંગ વગેરે દેશો રાજકુમાર શ્રી સમરકેતુને માટે, આપવાનો મહારાજાનો આદેશ છે.' એમ કહી, બન્નેને પ્રણામ કરી, સુદૃષ્ટિ ત્યાંથી ચાલ્યા ગયા.
અન્ને કુમારો સાથે રહેવા લાગ્યા. બન્નેની ગાઢ મૈત્રી જામતી ગઈ. એ જોઈને રાજના આનંદનો પાર ન રહ્યો. એમ આનંદમાં કેટલાયે દિવસો પસાર થઈ ગયા. ઉનાળાના એક દિવસે બન્ને રાજકુમારો સવારે ઊઠ્યા અને જ્ઞાન-ભોજનાદિક કરી, સુંદર પોષાકથી સજ્જ બન્યા. હાથી પર આરૂઢ થઈ સરયૂનદીને તીરે આવેલા મત્તકોકિલ નામના ઉદ્યાનમાં ગયા. ત્યાં ખીજા અનેક પરિવારો પણ આવેલા હતા.
ઉદ્યાનમાં ફરતા ફરતા હરિવાહન અને સમરકેતુ તેમજ જો પરિવાર સરયૂને તીરે આવેલા કામદેવના મંદિરની નજીક અત્યંત સુશોભિત લતામંડપમાં (જળમંડપમાં ) આવ્યો. બન્ને કુમારી અનાવેલી એક ફૂલની એકપર એઠા અને આજે પરિવાર પણ પોતપોતાના સ્થાને બેસી ગયો. આમાં ખીજા રાજકુમારો ઉપરાંત સાહિત્ય, પુરાણ, ઇતિહાસ, કાવ્ય, કથા, નાટક, સંગીત આદિ વિષયોના જ્ઞાતા અનેક વિદ્વાનો પણ જોવાતા હતા. પરસ્પર આનંદજનક વિવિધ પ્રકારનો કાવ્યવિનોદ ચાલી રહ્યો હતો, એવામાં કાવ્યરસિક એવા મંજીરક નામના ન્દિપુત્રે પાસે આવીને હરિવાહન કુમારને કહ્યું:—
wwww
“કુમાર ! મધુમાસમાં ચૈત્રશુદિ તેરસે કામદેવના મંદિરમાં ચાલતા યાત્રોત્સવ પ્રસÎ હું ગયો હતો. અંદર જતાં જ આંગણામાં આંબાના ઝાડ નીચે, જેનું મોં કમલના તાંતણાથી આંધેલું, અત્રે આજીથી સફેદ ચંદનની લહીથી ચોંટાડેલું, સહેજ ઉષ્ણતાથી ચંદન સૂકાઈ જતાં કઠિન થયેલું, અને ઉપર મુગ્ધાળાના સ્તન મુખના છાપવાળું એવું તાડપત્રનું એક પરીડી મારા જોવામાં આવ્યું. નીચે નમીને મેં એ લઈ લીધું, અને ખેસના છેડે આંધી દીધું. એ પછી ઘેર આવી એકાન્તમાં તપાસ્યું. ચારેતરફ ફેરવીને જોયું, પણ ન મળે કોઈનું નામ કે નિશાન. છેવટે કોહ્યું, તો તેમાં ચારે તરફ ફરતી કુંકુથી ચીતરેલી વેલવાળો અને અગર ધૂપથી સુવાસિત કરેલો એવો કસ્તુરીના અક્ષરે લખાયેલો એક આર્યાં છંદ મેં જોયો. શું એનો ભાવ છે? કોણે કોનાપર મોકલેલ છે?' તે હું સમજી શક્યો નહીં. એમ કહી તે આર્યાં છંદ મધુરકંઠે મંજીરકે લલકાર્યો :——
“નુમિત્તાં ચોદું, ચાઇનામમાત્ સ્વનિના स्थातासि पत्रपादपगहने तत्रान्तिकस्थाभिः ॥ "
વિડેલીએ નહીં આપેલી એવી મને અવિધિએ પરણવાને તું ચાહે છે તો તું થોડા સમયમાં પત્રવાળા વૃક્ષના વનમાં [અથવા નરકમાં રહેલા અસિ પત્રવનમાં] જ્યાં નજીકમાં અગ્નિ છે ત્યાં તું રહેજે.
ત્યાં બેઠેલા બધાનું ધ્યાન તે તરફ ખેંચાયું. સાંભળતાંની સાથે જ અર્થ સ્ફુરી આવતાં બુદ્ધિશાળી હરિવાહન કુમારે સવિસ્તર એનું સ્પષ્ટીકરણ કર્યુંઃ
Page #14
--------------------------------------------------------------------------
________________
संक्षिप्त भावार्थ
“મિત્ર, આ તો અનંગલેખ છે. કોઈ કુમારિકાએ પોતાને પરણવાની અભિલાષાવાળા કોઈ કુમાર પર આ પત્ર લખેલ છે. પોતાનું ધારેલું કામ પાર પડ્યું નહીં હોય ત્યારે જ આ પત્રથી પોતાના પ્રેમીને એણે સૂચન કર્યું છે. તેનો ભાવ આ રીતે છે –
* જો કે મારા પિતા વગેરે એ તમારા તરફ ઉદારતા નથી. દાખવી, છતાં પણ અનુચિત ક્રમથી મને હરણ કરીને લગ્ન કરવું એ યોગ્ય લાગતું નથી. ઉતાવળ થશો નહીં, ધીરજ રાખજો. થોડા જ સમયમાં આપણુ અભિલાષા અવશ્ય પરિપૂર્ણ થશે. તેને માર્ગ મેં શોધી કાઢ્યો છે. તે આ રીત:
“પ્રથમ આપણે જે વનમાં મળ્યાં હતાં, તે જ વનમાં મારી દૂતી જે સ્થાન બતાવે ત્યાં ગુણરીતે આવીને રહેજો. અન્ય વિવાહોચિત કોઈ પણ સામગ્રીની જરૂર નથી, માત્ર સાક્ષીભૂત અગ્નિ જ સાથે લેતા આવજો. હું પણ મારી બે-ત્રણ સખીઓ સાથે ત્યાં આવી, તમારી સાથે અગ્નિની સાક્ષીએ સ્નેહપૂર્વક લગ્નગ્રંથિથી જોડાઈશ.”
વળી આ લોકમાંથી બીજો પણ શાપરૂપ અર્થ નીકળી શકે છે કે.
મારા પિતા વગેરેની સમ્મતિ સિવાય ગમે તે રીતે મારી સાથે લગ્ન કરવા ચાહતો હોય તો તે મહા પાપી છે. નરકમાં રહેલ અસિપત્રવનમાં તારો નિવાસ થશે અને ત્યાં તને દુઃખ દેવા તારી પાસે ભભકતો જાજ્વલ્યમાન અગ્નિ જણાશે.”
આ અર્થ અહી નિરર્થક જણાય છે, કારણકે વિરાગિણી નારીઓ આદર ભાવથી આવું શાપજનક લખાણ કોઈના પર પણ મોકલે નહીં.
આ તો વિરાગિણું નહીં પણ વિદુષી વિયોગિની લાગે છે, તે પરબીડિયાના સૂક્ષ્મ નિરીક્ષણ પરથી જણાઈ આવે છે. પોતાની રચનાશક્તિનો પ્રેમીને પરિચય કરવા ખાતર જ આવો ગૂઢાથે રાખ્યો હોય એવી થઈ શકે છે.
રાજકુમાર હરિવહનના આ વક્તવ્યથી સમરકેતુ સિવાય બધા આશ્ચર્યચકિત થયા અને કુમારની ખૂબ ખૂબ પ્રશંસા કરવા લાગ્યા. વળી, પાછા બધા કાવ્ય વિનોદમાં જોડાયા, પણ સમરકેતુ તો ખિન્નવદને આંસુ સારતો, નીચું મોં રાખીને ઊંડા નિસાસા મૂક્ત ચૂપ બેસી રહ્યો. અને માં નીચું કરીને જમીન પર પગના અંગુઠાથી જમીન ખોતરવા લાગ્યો.
કુમાર સમરકેતુની આવી અસ્વસ્થતા જોઈને, બધા એકદમ વિચારમાં પડી ગયા. કલિંગદેશના રાજકુમાર કમલગુસે પૂછયું.
યુવરાજ ? આમ કેમ? શું હરિવહન કુમારે કરેલું વક્તવ્ય તમને ન ગમ્યું? બધાયે કુમારની પ્રશંસા કરે છે, અને તમે કેમ એક પણ શબ્દ ઉચ્ચારતા નથી. આમ એકાએક શા માટે ગમગીન બની ગયા છો? પ્રિયાના વિરહ પેલો પ્રેમી યુવાન દુઃખી થતો હશે, તેથી શું તમને તેની દયા આવી? અથવા પ્રેમી યુવાન તેને હજી સુધી ન મળી શક્યો તેથી તે દુખાગ્નિમાં બળતી હશે, તેની તમને શું ચિંતા થઈ?' કમળગુમના આ કથનથી હરિવહન કુમાર સિવાય બધાયે હસી પડ્યા. - કુમારે કમળગુપ્તને કહ્યું-“આવું નિરર્થક હાસ્ય શા ખાતર ?' એમ કહી કુમારે સમરકેતુ સામે દષ્ટિ કરી, અને કહ્યું: “પ્રિય મિત્ર! આવા આનંદજનક પ્રસંગે શોકાતુર કેમ બન્યા છો ? શું આ સુંદર કાવ્યવિનોદ તમારા કાનને રુચતો નથી ? મેં એ શ્લોકનું સ્પષ્ટીકરણ કર્યું ત્યારે તમને તમારા જીવનમાં બનેલ એવો કોઈ દુ:ખજનક પ્રસંગ તો યાદ નથી આવ્યો ને ? તમે પણ તે યુવાનની માફક કોઈ કામિનીના કટાક્ષ બાણથી વીંધાયા તો નથી ને? સાંકેતિક સ્થાને નહીં મળવાથી નિષ્કળ તો નિવડ્યા નથી ને ?” ઇત્યાદિ હરિવહનકુમારનું સત્ય કથન સાંભળીને, શાંત થઈ શોકાતુર ચહેરે સમરકેતુએ કહ્યું :
હે અમાનુષી કુમાર ! તમારા બુદ્ધિકૌશલ્ય માટે શું કહું? મને તો એજ આશ્ચર્ય થાય છે કે, હજી સુધી કોઈને પણ નહીં કહેલી એવી મારા મનની વિચારણા તમે કેવી રીતે જાણી લીધી ? હવે તે તમારા આગ્રહથી મારે એજ વાતનું સ્પષ્ટીકરણ કરવાનું રહ્યુંઃ સાંભળો.
સિંહલદ્વીપમાં રંગશાલી નામે નગરી છે. ત્યાં ચંદ્રકેતુ નામે રાજા મારા પિતાશ્રી છે. સુવેલગિરિની સમીપના પ્રદેશમાં વસતા દુષ્ટસામને ઝેર કરવા મહારાજાએ દક્ષિણાપથમાં જનારા નૌકાસૈન્યને હુકમ કર્યો અને મને
*
*
*
Page #15
--------------------------------------------------------------------------
________________
संक्षिप्त भावार्थ
--
www
*
*
*
www
તેનો નાયક બનાવી મારે યૌવરાજ્યાભિષેક કર્યો. મારી સાથે શભ દિવસે કેટલાક સેનાપતિ સામતો અને અમાત્યોને મોકલવા માટે ભલામણ કરી. પ્રયાણના દિવસે સવારે ઊઠી, સ્નાન કરી, ઈષ્ટદેવનું પૂજન કરી, બ્રાહ્મણવર્ગને વસ્ત્રાભૂષણાદિનું દાન કરી, મેં સુંદર વસ્ત્રાભૂષણ ધારણ કર્યો અને સભામંડપમાં આવીને સોનાના સિંહાસન પર બેઠો. એ સમયે અંતઃપુરની વારાંગનાઓએ પ્રયાણકાલચિત મંગલક્રિયા કરી. તે પછી બહાર આવી વજાંકુશ નામના માવતે શણગારીને તૈયાર રાખેલ અમરવલ્લભ નામના હાથી પર હું આરૂઢ થયો. વિશાલ પરિવાર સાથે રાજદરબારથી હું નીકળ્યો. નગરની જનતાના શુભાશીર્વાદ અને પ્રણામ ઝીલતો હું નગરની બહાર સીમાડા ઓલંગી આગળ વધ્યો. ત્યાં એક મહાસાગરને જોયો. કિનારે મેં પડાવ નાખ્યો. બે-ત્રણ દિવસ રોકાઈ સમુદ્ર પ્રયાણની બધી વ્યવસ્થા કરવા સાથે વિશ્રાન્તિ લીધી. અને ચોથે દિવસે બપોર પછી વિવિધ સામગ્રીથી મહાસાગરનું પૂજન કર્યું. સવારે વહેલો ઊઠી કેટલાકને સાથે લઈ હું સભામંડપના વિશાલ તંબૂમાં ગયો. ત્યાં નાવિકેના ટોળામાંથી પચીસ વર્ષના એક સુંદર નવ જુવાન નાવિકને જોયો. તેના પ્રેત જેવા પરિવારને જોઈ હું તો આશ્ચર્યમાં ગરકાવ બની ગયો. પાસે બેઠેલા યક્ષપાલિત નામના નૌકાસૈન્યના મુખ્ય નાયકને પૂછયું કે-“આ કોણ છે?”
કુમાર ! એ એક નાવિક છે, અને બધા ખલાસીઓનો મુખ્ય નાયક છે. એમ કહેવા છતાં મને તો વિશ્વાસ ન જ આવ્યો. કેમકે, આવી ભવ્યાકૃતિ નાવિકમાં ક્યાંથી હોય ! જિજ્ઞાસાથી ફરીને મેં પૂછયું કેઅધા કરતાં આનું રૂપ વિલક્ષણ કેમ છે ? કુમાર ! આ આકૃતિમાત્રથી જ અલગ છે એમ નહીં પણ વૈર્ય અને બુદ્ધિવૈભવ વગેરે ગુણોથી પણ અલગ જ છે. તેનું વૃત્તાંત સાંભળોઃ
સુવર્ણદ્વીપમાં આવેલ મણિપુર નગરમાં વૈશ્રવણ નામે એક વહાણવટી રહે છે. તેને વૃદ્ધાવસ્થામાં વસુદત્તા નામે પલીથી તારક નામે એક પુત્ર થયો. તે બાલ્યાવસ્થામાં બધું શિક્ષણ લઈ બધી કળામાં કુશળ બન્ય ત્યારે બુદ્ધિમાન, દેદીપ્યમાન અને મહાચાલાક તરીકે તેની ખ્યાતિ ફેલાઈ. જ્યારે તે યુવાવસ્થાને પામ્યો ત્યારે બીજા વહાણવટી વેપારીઓ સાથે તે પણ એક મોટું વહાણ ભરી રંગશાલા નગરીએ ગયો. ત્યાં તેને જળકેતુ નામના એક મુખ્ય નાવિક સાથે મૈત્રી થઈ સમુદ્રમાં મુસાફરી કરતાં મળી આવેલી એક કન્યાને ઘેર લાવી, પ્રિયદર્શના નામ આપીને રાખી, પુત્રી તરીકે ઉછેરી મોટી કરી. એક દિવસે જળકેતુએ પ્રિય મિત્ર તારકને ગુંથેલ મોતીને હાર ભેટ કરવા માટે પુત્રી પ્રિયદર્શનને મોકલી. તારકને જોતાં જ તેના પર અનુરાગી બની. પિતાએ મેકલેલે મુક્તાહાર તેની આગળ મૂક્યો અને ચતુર તારકે સત્કારપૂર્વક તેનો સ્વીકાર કર્યો. અનુરાગિણુ પ્રિયદર્શના કોઈ પણ બહાને અવારનવાર તારકને ત્યાં આવતી અને તેનું દર્શન કરી સ્નેહસાગરમાં સ્નાન કરતી. એક વખતે પ્રિયદર્શના તારકની ચંદ્રશાળામાં આવી, પણ તારક ત્યાં ન હોવાથી તેની રાહ જોતી અગાશીના વિભાગમાં સખીઓ સાથે ક્રીડા કરતી ઊભી રહી. એવામાં એકદમ તારકને આવતો જોઈ. સંભ્રમથી નાસતાં નિસરણી પાસે આવીને પડી. તારકે તરત તેનો જમણો હાથ પકડ્યો તે સ્વસ્થતા આવતાં છોડ્યો. પછી તેને કહ્યું કે-“હવે તું સુખેથી તારે ઘેર જ.”
પ્રિયદર્શનાએ હસીને જવાબ આપ્યોઃ “કુમાર! જ્યારથી તમે મારો હાથ પકડ્યો, ત્યારથી જ મેં તે નિર્ણય કરી લીધો છે કે હવે મારું મારું આજ છે ! “[ અર્થાત્ હું તમને વરી ચૂકી છું ]” આ રીતે બોલીને ડાબા પગના અંગુઠાથી ધીરે ધીરે જમીન ખોતરવા લાગી.
તેનાં કામોત્તેજક મધુરાં અને પ્રેમાળ વચને અને આવા આત્મસમર્પણથી તારક તે અંજાઈ જ ગયો, એટલું જ નહીં પણ આલિંગન પૂર્વક બોલી ઊઠ્યો:-- “સુંદરી! આ ઘર તો શું પણ મારે તન, મન અને ધન બધુંયે તને સમર્પણ છે.” “સુegછાનિ જાર પ્રાદ' “હીન કુળમાંથી પણ કન્યારત્ન લઈ શકાય છે એવું આચાર્યનું [નીતિશાસ્ત્રોનું વચને મનમાં વિચારીને, પારાશર મુનિએ જેમ યોજનગન્યાની સાથે પાણી ગ્રહણ કર્યું હતું તેમ હૃદયમાં સળગતા મદનાગ્નિની સાક્ષીએ તારકે પણ પ્રિયદર્શન સાથે પાણિગ્રહણ કર્યું. ત્યારથી પતિ-પત્ની તરીકે તેમના દિવસો આનંદમાં પસાર થવા લાગ્યા. કોઈએ આવીને તારકને કહ્યું :
Page #16
--------------------------------------------------------------------------
________________
संक्षिप्त भावार्थ
- કોઈક વહાણવટીની આ કન્યા સમુદ્રમાં વહાણ ભાંગી જવાથી ડૂબતી જળકેતુના હાથમાં આવેલી છે જેનું તેણે પુત્રી તરીકે પાલન કરી મોટી કરેલી છે.”
દેશમાં પાછો લઈ જવા માટે સાથે આવેલા સાથીદારોએ-વ્યાપારીઓએ પણ પુષ્કળ કહ્યું. દેશમાંથી પણ સગાંવહાલાંઓના ઠપકાના સંદેશાઓ આવ્યા, છતાં પણ પ્રિયદર્શનને વશ પડેલો એ શરમને મા સ્થિર થઈને અહીં જ રહ્યો છે. પોતાના દેશમાં ગયો જ નથી.
એક વેળા આપના પૂજ્ય પિતાશ્રી ચંદ્રકેતુ મહારાજાની રાજસભામાં તે આવ્યો. તેના આગલા વૃત્તાંતથી વાકેફ થયેલા મહારાજાએ તેનાં રૂપગુણ અને ભવ્ય આકૃતિ જોઈ પ્રેમપૂર્વક બોલાવ્યો અને નાવિકોનો મુખ્ય નાયક બનાવ્યો. થોડા જ સમયમાં વહાણ ચલાવવાની કળા તેણે શીખી લીધી, અને નાવિકના કામમાં પૂરેપૂરો પ્રવીણ બન્યો. સમુદ્રમાં ખૂબ ખૂબ મુસાફરી કરી. તેણે અનેક દ્વીપ જોયેલા છે. કોઈપણ જળમાર્ગ એનાથી અજ્ઞાત નથી.
કુમાર સમરકેતુ! તે જ આ પિત છે” ચાલાક અને યોગ્ય હોવાથી આપની નિકા ચલાવવાનું કામ એનેજ સપિ. સહેલાઈથી આપ આ સમુદ્ર તરી શકશે અને એની મદદથી મુશ્કેલીભરેલાં કાર્યો પણ સહેલાઈ પાર પાડી શકાશે.”
આમ પરસ્પર વાર્તાલાપ ચાલતો હતો, એટલામાં તો તારક મારી નજીક આવી, નમન કરી, નમ્રતાથી બોલ્યો-“યુવરાજ ! આપની વિજયયાત્રાની ઉઘોષણા થતાંની સાથે જ સજ્જ થઈ અહીં આવેલો છું. બધાં વહાણો અન્ન, પાણી લાકડાં વગેરેની વિવિધ સામગ્રીથી ભરી દીધાં છે અને આપને માટે “વિજયયાત્રા' નામનું મોટું વહાણ તૈયાર કરેલું છે. વિલંબ ન હોય તે સુખેથી આપ તેમાં પધારો.”
એ સાંભળીને તત્કાળ હું રાજકુટુંબ સાથે ત્યાંથી નીકળી સમુદ્રતીરે આવ્યો. વળવા આવેલા સૌને વિસર્જન કર્યા પછી સમુદ્રને પ્રણામ કરી તારકે તૈયાર કરેલા “વિજયયાત્રા” વહાણમાં ઉચિત સ્થાને બેઠો. સાથે આવનારા રાજકુમારો પણ પોતપોતાના વહાણમાં બેઠા. મારા વહાણની સાથે તે બધાં વહાણો વીંટાઈ વળ્યાં. પ્રયાણને મંગળશંખ ફૂંકાયો. બીજાં અનેક વાજિત્રોના અવાજો ગગનમાં ગાજવા લાગ્યા. વહાણે જોસભેર ત્યાંથી રવાના થયાં, અને સુવેલ પર્વત નજીક આવી પહોંચ્યાં. ત્યાંજ પડાવ કર્યો. રામાયણ પ્રસિદ્ધ કેટલાંક લંકાનગરીના સીમાડામાં આવતાં સ્થળો જોવાયાં.
પહેલે જ દિવસે પર્વતક નામના ભિલપતિને પરાસ્ત કરી, અત્રિ નામના પુત્ર “ગુર?” યુવરાજ ક્યાં છે? એમ પૂછતા મારી નૌકા પર આવ્યા અને કહ્યું –
કુમાર ! સેનાધિપતિ વિજ્ઞપ્તિપૂર્વક જણાવે છે કે-આ ડાબી બાજુએ પંચશેલક દ્વીપના અલંકારભૂત રત્નકૂટ નામે મોટો પર્વત છે. જાનકીના વિરહાનલથી જાજ્વલ્યમાન થયું છે અને જેનું એવા રામચંદ્રજીની આજ્ઞાથી હનુમાનજીએ મેરૂમાંથી નલનામના સેનાધિપતિને લાવી આપ્યો હતો. એ સેનાધિપતિએ પણ પાષાણવાળા પર્વતોની સાથે પૂલરૂપે અને જેડ વ્યાજબી નથી એમ સમજીને સમુદ્રમાં એકબાજુએ મૂક્યો હતો. તે આ રતટનામે પર્વત તેમાં અનેક આશ્ચર્યો જોવા જેવો છે. વિશ્રામને યોગ્ય પણ આ સ્થાન છે.'
ત્રણ-ચાર દિવસ અહીં સ્થિરતા કરવાથી થાક પણ ઊતરશે અને ખૂટી ગયેલી ચીજવસ્તુઓ પણ લઈ લેવાશે. કુમારને આ વાત રૂચી ગઈ. પડાવ નાખવા માટે ભેરી વગાડવાને હુકમ પણ કરી દીધો.
ભેરીનો ગગનભેદી નાદ સાંભળતાં જ સહુ થંભી ગયા. પડાવના સ્થાને પહોંચતાં લોકોનો કોલાહલ પુષ્કળ થઈ રહ્યો. તેવામાં એ પર્વતના અગ્નિ ખૂણામાંથી દિવ્યસંગીત સંભળાવવા માંડ્યું. એ સંગીતમાં એકતાને થયેલા તારકને મેં કહ્યું – “તારક! આ અપૂર્વ સંગીત મારા મનને આકર્ષી રહ્યું છે, પણ તું થાકેલો છે એટલે હવે તને કહેવું યોગ્ય નથી; છતાં તું ને તૈયાર થતો હોય તો આપણે તે સ્થળે જઈએ અને જોઈએ તો ખરા કે શું છે? કારણકે, કોઈ પણ પ્રકારના મહોત્સવ વિના આવું સંગીત હોય નહીં.”
કુમારની ઇચ્છા સાંભળીને તારકે કહ્યું – યુવરાજ! પહેલાં પણ આ ધ્વનિ અમે સાંભળ્યો હતો, અને ત્યાં જવાની ઉત્કટ ભાવના થઈ હતી, પરંતુ એ પર્વતની ચારેતરફ ફરતો સમુદ્રને કોટ છે. મોટા મોટા
જન
*
*
Page #17
--------------------------------------------------------------------------
________________
संक्षिप्त भावार्थ
પ
વહાણવટીઓને પણ ત્યાં જવું મુશ્કેલ પડે છે. ત્યાં જતાં વચ્ચે મોટી મોટી ભીષણ ભેખડો આવે છે, અને એ તરફ પાણીના તરંગો પણ એટલા બધા ઊંચે ઉછળે છે કે ભલભલા વિચક્ષણ સુકાનીને પણ મુશ્કેલીમાં મુકાઈ જવું પડે. આથીજ મન જરા પાછું પડે છે, છતાં આપની ત્યાં જવાની ઉત્કટ ઈચ્છા જ હોય તો ખુશીથી પધારો.’
આ હકીકત સાંભળીને હું તો આશ્ચર્યમાં ગરકાવ થઈ ગયો. તારકે તે તરફ હોડી હંકારી. જોતજોતામાં તારકે સાવધાનીપૂર્વક ઘણો રસ્તો કાપી નાખ્યો. થોડીવારમાં તો તે પર્વતને પ્રદક્ષિણા કરી જે તરફથી વાજિંત્રનો મધુરધ્વનિ સંભળાતો હતો તે તરફ હોડીને વાળી, એટલામાં તો સંભળાતો અવાજ એકદમ બંધ થઈ ગયો.
તારકે કહ્યું—“કુમાર ! આપણને માર્ગ બતાવનાર સંભળાતો વાદ્યનિ બંધ પડ્યો છે, શું કરવું ? આમનેઆમ લક્ષ્યવિના નૌકા ચલાવ્યા જ કરવી કે પાછી વાળવી ?
જે ત્યાં જવાનો આપે દઢનિર્ણય કર્યો હોય તો પર્વતની પાસે પાસે આ માર્ગ દેખાય છે. ત્યાંથી કદાચ તે સ્થાને પહોંચી શકાય પણ આવી ભયજનક પરિસ્થિતિમાં મૂકાવું ન હોય તો પાછા ફરવું એજ આપણને શ્રેયસ્કર છે. વળી, બધા આપણી રાહ જોઈ રહ્યા હશે ? અને અનેક સંકલ્પ વિકલ્પમાં મશગૂલ અની શોકાતુર અન્યા હશે !
જો કે આ રત્નકૂટ પર્વતનું વર્ણન અદ્ભુત અનેક આશ્ચર્યોથી ભરેલું છે. એવાં અનેક દૃશ્યો છે. વધારે કહેવાથી શું ? જોશો ત્યારેજ તેની અપૂર્વતા સમજાશે,
***
હવે આપણે
તારકની વાત સાંભળીને મારા દુઃખનો પાર રહ્યો નહીં. જાણે માથે વજ્ર પડ્યું હોય અને જે દુઃખ થાય તેના કરતાં પણ અધિક દુઃખ થયું. ‘શું મારા મનની ભાવના મનમાં જ સમાઈ જશે? ના ના શરીરમાં જ્યાં સુધી પ્રાણ છે ત્યાં સુધી તો નહીં જ સમાવા દઉ' એ રીતે મૈં મનને મક્કમ કરી તારકને કહ્યું: જે થવાનું હશે તે થશે? તું તો તે તરફ ડોડીને હંકાર.’
એટલામાં તો રાત પણ જોતજોતામાં પસાર થવા આવી. પૂર્વદિશામાંથી સૂર્યનાં સહકિરણો પૃથ્વી પર પથરાવા લાગ્યાં અને સુવેલાદ્રિ પર ચાલતું ખેચરેન્દ્રોનું ટોળું દૃષ્ટિગોચર થયું. હોડી પણ એકદમ પર્વત પાસે આવી પહોંચી. પર્વતના નીચાણ પ્રદેશમાં દૂરથી એક દિવ્યમંદિર જોવામાં આવ્યું ત્યારે મારા આનંદનો પાર ન રહ્યો. મનની ઉત્કટ ભાવના મહા પરિશ્રમે પણ પૂર્ણ થશે અને આપણી યાત્રા સફળ થશે એવા આનંદજનક ઉદ્ગારો મેં તારકને સંભળાવ્યા.
તારકે પણ હસી કહ્યું:—કુમાર ! આપણે હવે આ દિવ્યમંદિરમાં કઈ રીતે જઈ શકીશું? જે આ ઊંચું દ્વાર દૃષ્ટિગોચર થાય છે, તેની પાસે જ મનોહર પગથિયાંની પંક્તિ છે; પરંતુ તેને ફરતો કિલ્લો આડે આવતો હોવાથી જવું મુશ્કેલ છે. વળી આ નાની નાની બારીઓ પણ ઘણી ઊંચી હોવાથી જવા માટે નકામી પડે છે. એટલે થોડીવાર આપણે અહીં જ થોભી જઈ એ. કોઈ પણ અહાર આવે તો તેને પૂછીને આપણે અંદર જઈશું, અને પૂર્ણ ભક્તિથી દેવાચન કરીશું. એટલામાં તો નારીઓના નૂપુરનો ( ઝાંઝરનો ) મધુર અંકાર સંભળાયો અને કિલ્લાના એક વિભાગ પર એ નારી સમૂહ જોવાયો. તેમાં સોળાવર્ષની એક સુંદર કન્યા પોતાના પરિવાર સાથે મારા જોવામાં આવી.'
આ રીતે સમરકેતુ અપૂર્વ કથારસનું સુંદર પાન સહુને કરાવી રહ્યો હતો, એટલામાં તો હસતી હસતી પ્રાતિહારીએ આવી હરિવાહનને કહ્યું—
wwwwwwww
‘કુમાર ! આપે યુવરાજ સમરકેતુની અપૂર્વ અને મધુરી અદ્ભુત વાર્તાનું કર્ણામૃત પીધું હશે પણ હવે આપ ક્ષણવાર નયનામૃત પણ પીઓ.
એમ કહી જમણા હાથે વસ્ત્રના ઈંડામાંથી એક દિવ્ય ચિત્રપટ કાઢીની કુમારને આદર સાથે અર્પણ કર્યું.
[ અપૂર્ણ, ]
Page #18
--------------------------------------------------------------------------
________________
- विविध
१ सिद्धहेमशब्दानुशासन, बृहद्वृत्ति- बृहन्न्यास- लघुन्यास - वि परिशिष्टसहित भाग १
२ तिलकमञ्जरी टिप्पण तथा परागवृत्तिसहित भाग १ ३ नयोपदेश, नयामृततरङ्गिणी अने तरणिसहित भाग १ ४ अनेकान्तव्यवस्था प्रकरण, तत्त्वबोधिनी टीकासहित भाग १
५ सिद्धहेमशब्दानुशासन लघुवृत्ति
६ द्वात्रिंशिका किरणावलिटीकासहित भाग १
७
● ताजेतरमां प्रकाशित थयेल ग्रन्थरत्तो
""
""
भाग २
* ताजेतरमां बहार पडनार ग्रन्थो
55
८ तिलकमञ्जरी, टिप्पण तथा परागवृत्तिसहित, भाग २ ९ शास्त्रवार्तासमुच्चय स्याद्वादवा टिकाटीका सहित भाग १ १० धातुरत्नाकर भाग १ ( निर्णयसागर प्रेसमां मुद्रित )
* छपाता ग्रन्थरत्नो
१ सिद्धहेमशब्दानुशासन, बृहन्यासादिसहित भाग २ २ तिलकमञ्जरी, टिप्पण तथा परागवृत्तिसहित भाग ३ ३ नयोपदेश नयामृततरङ्गिणी अने तरणिसहित भाग २
४ अनेकान्तव्यवस्था, तत्त्वबोधिनीटीकासहित भाग २
५ शास्त्रवार्तासमुच्चय, स्याद्वादवाटिकाटीका सहित भाग २
६ काव्यानुशासन, अलंकारचूडामणि अने प्रकाशसहित भाग १
७ द्वात्रिंशिका, किरणावलिसहित भाग ३
मूल्य १५-०-०
33
73
12
===
33
75
23
53
""
""
६-०-०
६-०-०
५-०-०
८-०-०
१-०-०
१-०-०
६-०-०
४-०-०
१२-०-०
Page #19
--------------------------------------------------------------------------
________________
तिलेकमेञ्जरी। प्रस्तावयता देवद्विजप्रसादादिहापि सर्व शुभं भविष्यतीति प्रकृते प्रयोजयता राजलोकेनातिवाह्यमानदिवसम् [स], आप्तोपदिष्टइष्टप्रत्ययौषधपानग्रसक्ताभिः स्निग्धमधुराभ्यवहारिणीभिरनल्पगुणोपेतम् अपेतदोरैरपि वञमणिभिवर्जितं जात्यरत्नजातमाभरणकलापार्पितं कलयन्तीभिर्वक्रतादिदोषवन्ध्यानि श्रद्धाप्रवणेन चेतसा ज्ञातीनां द्विजातीनां च गृहेषु प्रशस्तफलानि प्रहिण्वतीभिलक्षणाभिज्ञतया गृहीतवामकरतलाङ्गुष्टमूलस्थूलरेखासंख्यानां सखीनां मुहुर्मुहुः श्रुतेन श्रुतिसुखेन वचसा स्मयमानमुखमृगाकाभिः प्रथमालापजिघृक्षया च देव्याः पुत्रो भविष्यति नवेति संनिधावेव परिचारिकाभिरनुयुज्यमानानामप्रगल्भशिशूनां भीतभीतेन मनसा वचनमाकर्णयन्तीभिरुज्झितान्यकर्तव्येन वृद्धसंप्रदायागतानि विविधौषधानि प्रयुञ्जानेन महानरेन्द्रलिखितानि मन्त्रकण्डकानि बध्नता दृष्टप्रत्ययप्रतीतपरिव्राजकोपदिष्टनीत्या सपनमङ्गलानि प्रवर्तयता शुद्धान्तजरतीजनेन शश्वस्क्रियमाणगर्भ
टिप्पनकम्-नरेन्द्रः-मनवादी [] सेवाप्रभावम् अभीष्टदेवतायाः-खेष्टदेवतायाः, सेवाप्रभाव-सेवामाहात्म्यम् , उद्भावयता प्रकटयता, पुनः निरपत्य. पूर्वनृपतिपुत्रलाभोपायप्रधानाः निरपत्या:-सन्तानशून्याः, ये पूर्व-प्राचीनाः, नृपतयः, तत्पुत्रलाभोपायः-तत्पुत्रप्राप्तिसाधनमेव,प्रधानभूतः-मुख्यभूतोऽर्थों यास ताः, पौराणिककथाः पुराणोक्तवार्ताः, प्रस्तावयता प्रवर्तयता, पुनः देवद्विजप्रसादात् देवताब्राह्मणप्रसन्नतावशात् , इहापि अस्मिन्नपि राजकुले, सर्व सकलम् , शुभ-कल्याणमेव, प्रकृते प्रस्तुतराजपुत्रोत्पत्तिविषये, प्रयोजयता कथयता [स] । पुनः पुत्रकाम्यन्तीभिः स्वखपुत्रमिच्छन्तीभिः, अन्तःपुरकामिनीभिः अन्तःपुरवधूभिः, विधीयमानविविधवतविशेष विधीयमानाः-क्रियमाणाः, विविधाः-अनेकप्रकाराः, व्रतविशेषाः-नियमविशेषा यस्मिंस्तादृशम् , कीदृशीभिस्ताभिः ? आतोपदिष्टप्रत्ययौषधपानप्रसक्ताभिः आप्तैः शिष्टैः, यथार्थवक्तृभिनं तु प्रतारकरित्यर्थः, उपदिष्टानि-पातव्यत्वेन प्रतिपादितानि, एवं दृष्टप्रत्ययानि-परीक्षितविश्वासानि, या औषधानि, तेषां पाने-तद्रसपाने, प्रसक्ताभिः-आसक्ताभिः, पुनः स्निग्धमधराभ्यवहारिणीभिः स्निग्धं-सरसं, न तु रूक्षम्, मधुरं-माधुर्ययुक्तं वस्तु, अभ्यवहतु-भोक्तुं शीलं यासां तादशीभिः, पुनः आभरणकलापार्पितम् अलङ्करणगणविहितम् , जात्यरत्नजातं रुच्चिररत्नसमूहम्, कलयन्तीभिः धारयन्तीभिः, कीदृशं तत् ? अनल्पगुणोपेतम् अधिकगुणा
रिपि दोषशून्यैरपि, वज्रमणिभिः वज्राख्यमणिविशेषैः, वर्जितं रहितम्, पुनः वक्रतादिदोषवन्ध्यानि कौटिल्यादिदूषणशून्यानि, प्रशस्तफलानि उत्तमोत्तम फलानि, श्रद्धाप्रवणेन श्रद्धान्वितेन, चेतसा हृदयेन, शातीनां बन्धूनाम् , द्विजातीनां विप्राणां च, गृहेषु प्रहिण्वतीभिः उपहारविधया प्रेषयन्तीभिः, पुनः लक्षणाभिक्षतया सन्तानादिचिहावगमननिपुणतया, गृहीतवामकरतलाङ्गुष्ठमूलस्थूलरेखासंख्यानां गृहीता-सन्तानचिह्नत्वेन परिचिता, वामकरतलामठस्य वामहस्ताङ्गुष्ठस्य, मूले-मूलभागस्थितानाम्, स्थूलरेखान-विस्पष्टरेखानां संख्या याभिस्ताहशीनाम् , सखीनां सहचरीणाम् , तादृशसखीप्रतिपादितेनेत्यर्थः, श्रुतिसुखेन श्रवणप्रियेण, मुहर्महः अनेकवारम्, श्रुतेन श्रवणगोचरीकृतेन, वचसा पुत्रोत्पत्त्यावेदकवाक्येन, स्मयमानमुखमृगाङ्काभिः स्मयमानः-किञ्चिद्धसन् , मुखमृगाङ्क:मुखचन्द्रो यासां तादृशीभिः, च पुनः, प्रथमालापजिघृक्षया प्राथमिकभाषणशुश्रूषया, देव्याः राज्याः, पुत्रो भविष्यति उत्पत्स्यते, नवेति सन्निधावेव तासां समक्ष एव, परिचारिकाभिः दासीभिः, अनुयुज्यमानानां पृच्छय. मानानाम् , अप्रगल्भशिशूनां मुग्धबालकानाम् , वचनं तदुत्तरवाक्यम् , भीतभीतेन अनभिमतोत्तरश्रवणादतीव भौतेन, मनसा, आकर्णयन्तीभिः शृण्वतीभिः, पुनः कीदृशीभिः ? शुद्धान्तजरतीजनेन अन्तःपुरवृद्धाजनेन, शश्वत् अनवरतम् , क्रियमाणगर्भग्रहणोपचाराभिः क्रियमाणः-विधीयमानः, गर्भग्रहणस्य-गर्भधारणस्य, उपचारः-उपायो यास तादशीभिः, कीदृशेन वृद्धाजनेन ? उज्झितान्यकर्तव्येन उज्झितं-त्यकम् , अन्यत्-गर्भग्रहणोपचारातिरिक्तम् , कर्तव्य-कार्य, येन तादृशेन, पुनः वद्धसम्प्रदायागतानि वृद्धपरम्पराप्राप्तानि. विविधौषधानि बहविधगर्भधारणौषधानि, प्रयुआनेन उपयुञ्जानेन, पुनः महानरेन्द्रेण महता मन्त्रविदा राज्ञा, लिखितानि, मन्त्रकण्डकानि मनावितभूर्जपत्रादीनि यत्राणि, बनता तासा वामभुजे नियत्रयता, पुनः दृष्टप्रत्ययप्रतीतपरिव्राजकोपदिष्टनीत्या
२१विलकर
Page #20
--------------------------------------------------------------------------
________________
१६२
टिप्पनक-परागविवृतिसंवलिता ग्रहणोपचाराभिः पुत्रकाम्यन्तीभिरन्तःपुरकामिनीमिर्विधीयमानविविधप्रतविशेषम् [१], परशुकैरपि प्रस्तुतंवादिभिर्बन्दिभिरिवोधार्यमाणमङ्गलम् अन्तःपुरसारिकाभिरपि परिमितव्याहारिणीभिराराध्यअरतीभिरिव वितीर्यमाणराजवनिताशीर्वादम् अर्भकैरपि विनयनिभृतैः प्रवीणपुरुषैरिव निवार्यमाणक्षुद्रदासीपरस्परकलहम् [क्ष]। सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परिजनेनाधिष्ठितम् उत्साहमयमिव प्रयत्नमयमिव श्रद्धामयमिव विनयमयमिवाचारमयमिव राजकुलमबजत् [ज्ञ]।
तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधिविहितमजनोपचारः सकललोकाचारकुशलामिः ससंभ्रममितस्ततो विचरन्तीभिरिवनिताभिः कृतावतारणकमङ्गलः क्षणमात्रं विलम्ब्य ताम्बूलक'रातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजाति: 'उत्तिष्ठत ! ब्रजामो देवतायतनेषु' इत्यभिधान: संनिधानभाजं प्रणयिजनमासनादुत्तस्थौ [अ] । अनूत्थितासन्नराजलोकपरिवृतश्च तत्कालमेकहेलयोच्छलितेन संमूर्च्छतां दिगन्तरेषु मुहुर्मुखन्यस्तकरतलप्रतिस्फलनविस्फारितनिनादानां बन्दिनां जयशब्दकलकलेन कथितनिर्गमो द्विजावसर
दृष्टः-अनुभूतः, प्रत्ययः-विश्वासो येषां तादृशाः, प्रतीताः-प्रख्याताः, ये परिव्राजकास्तैः, उपदिष्ठा-उपदर्शिता, या नीति:पद्धतिः, तया, स्नपनमङ्गलानि अभिषेककृतमङ्गलानि, प्रवर्तयता प्रादुर्भावयता [६]। पुनः कीदृशं राजकुलम् ? बन्दिभिरिव, प्रस्तुतवादिभिः प्रकृतपुत्रोत्पत्तिसंवादिभिः, पक्षे प्रकर्षेण स्तुतं स्तुतिः, तद्वादिभिः-तत्पाठिभिः, पञ्जर कैरपि, उचार्यमाणमङ्गलम् उद्घोष्यमाणमाङ्गलिकवाक्यम् । पुनः आराध्यजरतीभिरिव पूज्यश्रद्धाभिरिव, परिमितव्याहारिणीभिः परिमितभाषणशीलाभिः, अन्तःपुरसारिकाभिरपि अन्तःपुरस्थपक्षि विशेषैरपि, वितीर्यमाणराजवनिताशीर्वादं वितीर्यमाणः-दीयमानः, क्रियमाण इति यावत् , राजवनिताना-राजीनाम् , आशीर्वादः-शुभाशंसनं यस्मिंस्तादशम् । पुनः प्रवीणपुरुबैरिव सभ्यजनैरिव, विनयनिभृतैः विनयनिश्चलैः, अर्भकैरपि बालकैरपि, निवार्यमाणशुद्धदासीपरस्परकलह निवार्यमाणः-निरुध्यमानः, क्षुद्रदासीनां नीबदासीनाम् , परस्परकलहः-अन्योऽन्यविवादो यस्मिस्ता. दृशम् [क्ष] | पुनः सर्वतः सर्वप्रकारेण, प्रशान्तेन शान्तिशालिना, शुचिना पवित्रेण, शुद्धवेषधारिणा निर्मल. देवावृतेन, परिजनेन परिवारेण, अधिष्ठितम् आश्रितम् । पुनः उत्साहमयमिव उत्साहपूर्णमिव, श्रद्धामयमिय श्रद्धासमृद्धमिव, आचारमयमिव चारुचरित्रपूर्णमिवेति सर्वत्रोत्प्रेक्षा [a]
तत्र तस्मिन् , राजकुल इत्यर्थः, समाहतसमस्तोपकरणेन समाहृत-संगृहीतम् , समस्त-सर्वम् , उपकरणमानोपकरणं येन तादृशेन, परिजनेन परिवारण, यथाविधिविहितमझनोपचारः यथाविधि-विधिपूर्वकम् , विहितः-कृतः, मजनोपचारः-अपनरूपसेवा यस्य तादृशः; पुनः सकललोकाचारकुशलाभिः निखिललौकिकव्यवहारनिपुणाभिः, ससम्भ्रमं सत्वरम्, इतस्ततः तत्र तत्र,विचरन्तीभिः विहरन्तीभिः, वारयनिताभिः वेश्यामि णकमल: कृतम्, अवतारणकमल-नसाखलादिना अर्चनरूपं मंगलं वागतमजलगानं वा यस्य तादृशः क्षणमात्रमुहर्तमात्र, विलम्ब्य स्थित्वा, ताम्बूलकर्पूरातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजातिः ताम्बूलानि-नागवालीपत्राणि, कर्पूराः-सुगन्धिद्रव्यविशेषाः, तेषाम् , अतिसर्जनेन-दानेन, विसर्जिताः-त्यक्ताः, प्रस्थापिता इति यावत्, पुरोधःप्रमुखाः-पुरोहितप्रभृतयः, मुख्यद्विजातयः-विशिष्टब्राह्मणा येन तादृशः; सन्निधानभाजं निकटस्थितं, प्रणयिजनं खस्नेहास्पदव्यक्तिम् , उत्तिष्ठत स्वस्थानादुस्थानं कुरुत । देवतायतनेषु देवतामन्दिरेषु, बजामः वयं गच्छामः, इति एवम् , अभिदधानः ब्रुवन् , आसनात् उपवेशनस्थानात् , उत्तस्थौ उस्थितवान् [अ] | च पुनः, अनूस्थितासभराजलोकपरिवृतः भत्थितैः-पश्चादुत्थितः, आसन्नैः-पावर्तिभिः, राजलोकैः-राजकीयजनैः, परिवृतः-परिवेष्टितः सन् , तत्कालं तत्क्षणम् , एकहेलया एकवारं युगपदित्यर्थः, उच्छलितेन सवेगं प्रधावितेन, पुनः दिगन्तरेषु दिमध्येषु, सम्मूर्छतां सड़ीभवताम्, मुहर्मुखन्यस्तकरतलप्रतिस्फलनविस्फारितनिनादानां मुहुः-अनेकवारम् , मुखेषु, न्यस्तानि-विक्षिप्तानि, यानि करतलानि, तेषां प्रतिस्फलनेन-अभिधावेन, विस्फारितः पर्धितः, निनादः-ध्वनियस्तादशानाम, बन्दिना स्तुतिपाठका.
Page #21
--------------------------------------------------------------------------
________________
१६३
मण्डपानिर्जगाम [आ]। सत्वरनिषादिढौकितकरेणुकारूढञ्च पञ्चादधिरूढेन ताम्बूलकरङ्कवाहिना विधूयमानचामरः पुरः प्रधावितोव कृतकन कवेत्रप्रतीहारनिर्दिश्यमानमार्गेण गृहीतविविधहेतिना पदातिनिवहेन विराजमानः पृष्ठतः प्रचलितेन च संभ्रमोत्तालगतिना गन्धोदकक्षीराज्यदधिभृतशातकुम्भकुम्भानुद्वहता जलाईकर्पटावगुण्ठितविचित्रकुसुमदामगर्भान् वेन्नकरण्डकान् कलयता मलयजकाश्मीरकृष्णा गुरुकर्पूरपूर्णानि रत्नभाजनानि विभ्रता स्कन्धदेशारोपितांश्च विचित्ररूपान् महावस्त्रभारकान् धारयता गृहीतशस्त्राप्तपुरुषाधिष्ठि तेन प्रेष्यलोकेनानुगम्यमानो राजकुलान्निरगच्छत् [इ] । गत्वा च शक्रावतारे प्रथममेव विहितपूजा सत्कारो नगरदेवतायतनेषु सर्वेष्वानुपूर्व्या विचचार [ई] । चिरदर्शनादभिनवी भूतकौतुकस्य चास्य यदृच्छया पुरप्रासादसुरसदनकूपोद्यानवापी सहस्र संकुलाम काल एव प्रकटितोत्सवैः परलोकैः प्रतिभवनमुत्तम्भितानेकराग
किमचारी ।
नाम्, जयशब्दकल कलेन जयकारकोलाहलेन, कथित निर्गमः सूचितनिष्क्रमणः, द्विजावसरमण्डपात् ब्राह्मणसभामण्डपात, निर्जगाम निष्कान्तः [ आ ] ।
च पुनः सत्वरनिषादिढौकित करेणुकारूढः सत्वरं - शीघ्रम्, निषादिना - हस्तिपकेन, दौकिताम्-आनीताम्, करेणुकां- हस्तिनीम्, आरूढः - अध्यासितः, “करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे” इति मेदिनी, पश्चात् पृष्ठभागे, अधिरूठेन आरूढेन, ताम्बूलकरङ्कवाहिना ताम्बूलानां यः करः- पात्रविशेषः, तद्वाहिना तद्धारिणा मृत्येन विधूयमानचामरः विधूयमानः- उद्धूयमानः, चामरो यस्य तादृशः । पुनः पदातिनिवहेन पादचारिसैन्येन विराजमानः शोभमानः कीदृशेन ? पुरः प्रधावितोर्ध्वकृत कनकवेत्रप्रतीहारनिर्दिश्यमानमार्गेण पुरः- अग्रे, प्रधाविताः-सत्वरं प्रेषिताः, ये ऊर्ध्वकृत कनकवेत्राः - उद्धृत कनकदण्डाः, प्रतीहाराः -द्वारपालाः, तैः निर्दिश्यमानः सङ्केत्यमानः, मार्गों यस्य तादृशेन, पुनः गृहीतविविधदेतिना धृतबहुविधवाणेन, पुनः पृष्ठतः पश्चाद्भागे, प्रचलितेन प्रस्थितेन, प्रेष्यलोकेन भूत्यजनेन, अनुगम्यमानः अनुस्रियमाणः, राजकुलात् राजभवनात्, निरगच्छत् निर्गतः कीदृशेन प्रेष्यलोकेन ? सम्भ्रमोत्तालगतिना सम्भ्रमेण वेगेन, उत्ताला - उद्धता, गतिः- गमनं यस्य तादृशेन; पुनः गन्धोदक-क्षीराऽऽज्य-दधिभृतशातकुम्भकुम्भान् गन्धोदकं सुगन्धिजलम्, क्षीरं- दुग्धम्, आज्यं घृतम्, दधि च तैः सृतान्पूर्णान्, शातकुम्भकुम्भान- सुवर्णकलशान, उद्वहता उद्वित्रता "तपनीयं शातकुम्भम्" इत्यमरः, पुनः जलाईकटाव गुण्ठितकुसुमदामगर्भान् जलाईकटेन जलनिपटखण्डेन, अवगुण्ठिताः- आच्छादिताः, कुसुमदामानः- पुष्पमामानि गर्भे येषां तान्, वेत्रकरण्डकान् वेत्ररचितपात्र विशेषान्, कलयता धारयता; पुनः मलयज-काश्मीरकृष्णागुरुकर्पूरपूर्णानि मलयजैः - चन्दनैः, काश्मीरैः कुङ्कुमैः, कृष्णागुरुभिः - कालागुरुभिः, कर्पूरैश्च पूर्णानि, रत्नभाजनानि रत्नमयपात्राणि, बिभ्रता धारयताः पुनः स्कन्धवेसारोपितान् सन्धोपरिस्थापितान्, विचित्ररूपान् नानारूपान्, महाईाभारकान् बहुमूल्यकवन्नसमूहान् धारयता वहता; पुनः गृहीतशस्त्राप्त पुरुषाधिष्ठितेन गृहीतं धृतम्, धनं खप्तादिकं यैस्तादृशैः, आप्तपुरुषैः - विश्वस्तपुरुषैः, अधिष्ठितेन-आश्रितेन [इ] । च पुनः शक्रावतारे तन्नानि तीर्थे, प्रथममेव सर्वतः प्रागेव, गत्वा उपस्थाय, विहितपूजासत्कारः विहितः कृतः, पूजया तत्रत्यदेवताया अर्चनेन, सत्कार आदरो येन तादृशः सन् सर्वेषु समस्तेषु, नगरदेवतायतनेषु नगरान्तर्वर्तिदेवतामन्दिरेषु, आनुपूर्व्या क्रमेण विचचार भ्रमणं कृतवान् [ई] |
चिरदर्शनात् चिरकालोत्तरदर्शन सौभाग्यानुभवाद्धेतोः, अभिनवी भूतकौतुकस्य अभिनवीभूतं-नवतामापत्रम्, कौतुकं - दिदृक्षारस्रो यस्य तादृशस्य, अस्य राज्ञः, तीव्रतिग्मांशुकरोपनिपातोपतापितः तीव्रः- तीक्ष्णः, असत्यताप इति यावत् यः तिग्मांशुः सूर्यः, तस्य कराणां-किरणानाम्, उपनिपातेन परितः समुद्रमेन, उपतापितः - सन्तापमनुभावितः, खदुःखं खसन्तापम् अचिक्यासुरिव आख्यातुं कथयितुमिच्छुरिव, मध्याह्नः दिनमध्यभागः, प्रत्याससाद सहितो बभूव । कीदृशस्य राज्ञः ? यच्छया यथेच्छम्, अयोध्यां तन्नानीं पुरीं नगरीं, पश्यतः दृष्टिगोचरतां नयतः, कशी ? पुरप्रसार सदमकू पोद्यानवापी सहनसकुलां पुरप्रासादानां - नगरान्तर्वर्तिराजमन्दिराणाम्, सुरसद
Page #22
--------------------------------------------------------------------------
________________
टिप्पनक-परागविकृतिसंवलिता वरूध्वजप्रभाविस्तारितापूर्वसंध्यामयोध्यां पुरीं पश्यतः, कचिददर्शनादुन्मनीभूतमानसं मान्यमृषिजनं गत्वा तदाश्रयेषु दर्शनेनानन्दयतः, कचिदुत्थाय सादरमग्रतः कृतनमस्काराञ्जलिबन्धानगरवृद्धान् सगौरवमालपता, कचित् सितकुसुमदामदर्शनपुरःसरमावेदितनिजप्रयोजनद्विजातिजनमवधानदानेनानुगृह्णतः, कचिद्दर्शनपथावतीर्णेषु शीर्णदेवतायतनेषु कर्मारम्भाय सपदि संपादितपूजासत्कारान् सूत्रधारान् व्यापारयतः, कचिदासनसेवकनिवेदितदानविच्छेदासु दानशालासु दीनानाथपथिकसार्थस्य सविशेषमन्नपानशयनौषधादिदानमधिकृत प्रवर्तयतः, कचित् स्वखानितेषु सरस्सु तटरोपितानां वटाश्वत्थादिविटपिनां पालनार्थमुद्यानपालानुद्यमयतः मार्गघटितं च सूक्तवादिनं दरिद्रयाचकसार्थमर्थसंभारेण भूरिणा कृतार्थीकुर्वतः, तीव्रतिग्मांशुकरोपनिपातोपतापितः स्वदुःखमाचिख्यासुरिव प्रत्याससाद मध्याह्नसमयः [उ । सयत्नमुद्धृतहरित्कुशेन प्रातरेव धव
टिप्पनकम्-उद्धृतहरितकुशेन कुशाः-दर्भाः, भन्यत्र कुशा-वल्गा [ ऊ] ।
नाना-देवमन्दिराणाम् , कूपानाम् , उद्यानानां-क्रीडाकाननानाम् , वापीनां-जलाशयविशेषाणां च, सहनेण-दशशतसंख्यमा संकुला-व्याप्ताम् । पुनः अकाल एव अनवसर एवेति सन्ध्यायामन्वेति, प्रकटितोत्सवैः आविष्कृतोत्सवैः, पौरलोकैः पुरवासिजनैः,प्रतिभवनं प्रतिगृहम् , उत्तम्भितानेकरागवस्त्रध्वजप्रमाविस्तारितापूर्वसन्ध्याम् उत्तम्भितानाम्-उपरि लम्बिताम् , अनेकरागवस्त्रध्वजाना-विविधवर्णविशिष्टवस्त्ररचितपताकानाम् , प्रभाभिः-दीप्तिभिः, विस्तारिता-प्रकटिता, अपूर्वसन्ध्या-विलक्षणसन्ध्या, यस्यां तादृशीम् । पुनः कीदृशस्य ? क्वचित् कस्मिंश्चित् स्थले, अदर्शनात् दर्शनाभावादेतो, उन्मनीभूतमानसम् उत्सुकीभूतहृदयम् , मान्यम् आदरणीयम् , ऋषिजनं मुनिजनम् , तदाश्रयेषु तदाश्रमेषु, गत्वा उपस्थाय, दर्शनेन खकर्मकावलोकनेन, आमन्दयतः प्रमोदयतः । पुनः क्वचित् कुत्रचित् स्थले, उत्थाय आसनादुत्थानं कृत्वा, अग्रतः अप्रे, सादरम आदरपूर्वकम् , कृतनमस्काराअलिबन्धान कृतः-सम्पादितः, नमस्काराय, अञ्जलिबन्धः-करद्वयसम्पुटनं यस्तादृशान् , नगरवृद्धान् नगरसम्बन्धिनो वृद्धजनान् , सगौरवं सादरं यथा स्यात् तथा, आलपतः प्रीत्या किमपि ब्रुवतः, पुनः क्वचित् कस्मिंश्चित् स्थाने, सितकुसुमदामदर्शनपुरस्सरं शुभ्रपुष्पमाल्यावलोकनापूर्वकम् , आवेदित निजप्रयोजनद्विजातिजनम् आवेदितं-विज्ञापितम् , निजप्रयोजन-स्वकार्य येन तादृशं द्विजातिजनं-ब्राह्मणजनम् , अवधानदानेन तत्प्रयोजनश्रवणावहितहृदयदानेन, अनुगृखतः अनुकम्पयतः । पुनः क्वचित्
मश्चित् स्थले. शीर्णदेवतायतनेष भग्नदेवमन्दिरेषु, दर्शनपथावतीर्णेषु दृष्टिपथमागतेषु सत्सु, कर्मारम्भाय जीर्णोद्धारात्मकार्यारम्भाय, सपदि तत्क्षणे, सम्पादितपूजासत्कारान् सम्पादितः-कृतः, पूजया-प्रीत्या, सत्कारो येषां तादृशान् , सूत्रधारान् गृहनिर्माणशिल्पिविशेषान् , व्यापारयतः प्रवर्तयतः। पुनः क्वचित् कुत्रचित् स्थाने, आसन्न. सेवकनिवेदितदानविच्छेदासुभासम्मसेवकेन-निकटवर्तिसेवकेन, निवेदितः-सूचितः, दानविच्छेदः-अन्नादिदाननिवृत्तिर्यासु तादृशीघु, दानशालासु दानालयेषु, दीनानाथपथिकसार्थस्य दीनानां-दरिद्राणाम् , अनाथानाम्-निराश्रयाणां च, पथिकानो-मार्गगामिनाम्, सार्थस्य-समूहस्य, सविशेषम असाधारणम्, अन्नपानशयनौषधादिदानं अनानि-तण्डुलचूर्णादीनि, पानानि-जलदुग्धादिपेयवस्तूनि, शयनानि-खट्दा कटादिशय्याः, औषधानि-रोगनाशकद्रव्याणि, आदयो येषां तेषां वस्तूनां, दानम्-अर्पणम् , तत्र अधिकृतैः नियुक्तजनद्वारा, प्रवर्तयतः निर्विच्छेदं कारयतः । पुनः कचित् कस्मिंश्चित् स्थाने, खखानितेषु खानयित्वा खनिर्मापितेषु, सरस्सु जलाशयविशेषेधु, तटरोपितानां तटोपरि प्रादुर्भावितानाम् , वटाश्वत्थादिविटपिनां न्यग्रोधपिप्पलादिवृक्षाणाम् , पालनार्थ रक्षणार्थम् , उद्यानपालान् उद्यानरक्षकान् , उद्यमयतः प्रेरथतः । च पुनः, मार्गघटितं मार्गे मिलितम् , सूक्तवादिनं प्रियवादिनम् , दरिद्रयाचकसाथै निर्धनयाचक समूहम् , भूरिणा अधिकेन, अर्थसम्भारेण विभवौघेन, कृतार्थीकुर्वतः सन्तोषयतः [3]। सयत्नं यमपूर्वकं यथा स्यात् तथा, उदृतहरित्कुशेन उद्धृताः-अन्धकारमण्डलानिष्काशिताः, प्रकाशिता इति यावत् , हरितः-दिश एव, कुशाःदर्भा येन तादृशेन, पके हरित्कृशा-अधवरुणा, पुनः प्रातरेव प्रातःसमय एव, धवलितोदयाचलनुमशिखरं
Page #23
--------------------------------------------------------------------------
________________
-
-
तिलकमञ्जरी। लितोदयाचलद्रुमशिखरमवचित्य तारकाकुसुमविसरमुल्लसितेन मन्दमन्दमरुणेन प्रेर्यमाणस्यन्दनो नाकमन्दा.. किनीसानमिव संप्रधार्य मनसि विहायसो मध्यमध्यारुरोहाम्बुरुहिणीनाथः [ऊ]।
क्षितिपालशिथिलितकरग्रहाः खेदनिःश्वासानिव समुत्सद्युमुष्णान्नभस्वतः खैरखैरमारेभिरे ककुभः [] । तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया बलवदातपदाहविच्छेदाय देहनिहितार्द्रपद्मिनीदला इवालक्ष्यन्त नगरोपान्तवनभुवः [ऋ] । पर्याकुलितपर्यन्तगृहनिवासिगणिकाजनाः सवेदना इव सुरगृहाङ्गणेषु रेसुरश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षयो विशृङ्खलं धूपवेलाशङ्खाः [ल] । प्रभिन्नशङ्खक्षरन्मदासारसिक्तराजपथाः प्रतस्थिरे जलावगहाय सलयमग्रतः प्रहतपटुमृदङ्गपटहाः पट्टहस्तिनः [ल]। कपाटदारुपाशकनिर्दयास्फालनवाचालानि गृहोन्मुखापणिकसंवृतपण्यासु विपणिवीथीषु प्रत्यापणद्वारमघटन्त कालायसतालकानि [ए]।
टिप्पनकम्-लयः-ताललयविशेषः [ल। धवलितम्-उद्भासितम्, उदयाचलस्य-उदयगिरेः, ये त्रुमाः-वृक्षास्तेषां शिखरं येन तादृशम् , तारकाकुसुमं तारकारूप. पुष्पम् , अपचित्य उपसंहृत्य, उल्लसितेन प्रसन्नेन, कुशकुसुमरूपगङ्गास्नानोपकरणधारिणेत्यर्थः, अरुणेन सूर्यसारथिनामन्दं मन्दं शनैः शनैः, प्रेर्यमाणस्यन्दनः वाह्यमानरथः, अम्बुरुहिणीनाथ: कमलिनीपतिः सूर्य इत्यर्थः, नाकमन्दाकिनीनानं स्वर्गवायां मानम्, मनसि हृदि, सम्प्रधार्य इव निश्चित्येवेत्युत्प्रेक्षा, विहायसः आकाशस्य, मध्यं मध्यभागम् , अध्यारोह आरूढवान्, मध्याइवेला समुपस्थितेति भावः
तस्यां वेलायां क्षितिपालशिथिलितकरग्रहाः क्षितिपालेन-राज्ञा मेघवाहनेन, तद्रूपनायकेनेत्यर्थः, शिथिलितःशैथिल्यमापादितः, करप्रह:-राजग्राह्यभागप्रहणं पक्षे हस्तग्रहणं यासां तादृश्यः, ककुभा दिशः किन्तु लिङ्गसाम्येन समासोक्त्या नायिकाश्च, खेदनिःश्वासानिव श्रमजनितनासामारतानिवेत्युत्प्रेक्षा, उष्णान् ग्रीष्मान् , नभखतः पवनान्, खैरं स्वैरं मन्द मन्दम् , समुत्स्रष्टुम् सम्यक् मोक्तुम् , आरेभिरे आरब्धवत्यः, मध्याहवेलायां बहतामुष्णपवनानां करग्रहशैथिल्यहेतुकखेदनिःश्वासरूपत्वेनोत्प्रेक्षा बोध्या [क]। तथा तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया: तरूणां-वृक्षाणाम् , मूले-अधःस्थले, दृश्यमानाः, श्यामाः-कृष्णवर्णाः, परिमण्डलच्छायाः-वृक्षानुगुण्येन वर्तलाकारा मध्याह्नकालिक्यश्छाया एव, वलयानि मणिबन्धालङ्करणानि यासां तादृश्यः, नगरोपान्तवनभुव: नगरनिकटवर्तिवनभूमयः, लिसाम्येन तद्रूपाः कामिन्य इत्यर्थः, बलवदातपदाहविच्छेदाय बलवता-तीव्रण, आतपेन यो दाहः-तापः, तद्विच्छे. दाय-सत्प्रशमनाय, देहनिहितार्द्रपद्मिनीदला इव देहेषु-शरीरेषु, निहितानि-निवेशितानि, आईपद्मिनीदलानि-सरस. कमलिनीपत्राणि यासां तादृश्य इव, अलक्ष्यन्त प्रतीयन्ते स्म [३] । तथा सुरगुहाङ्गणेषु देवमन्दिरमध्यभागेषु, धूपवेलाशकाः धूपवेलायां-धूपदानसमये, नाद्यमानाः शङ्काः, विशङ्खलं निर्विच्छेदं यथा स्यात् तथा, सवेदना श्व मध्याह्नकसन्तापपीडिता इवेत्युत्प्रेक्षा, रेसुः ध्वनिं चक्रुः, कीदृशाः? अश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षयः अश्रान्ताः-अविरता ये, देवलकानां-देवसेवोपजीविनाम् , वदनवाताः-मुखपवनाः, तैः निर्भरमू-अत्यन्तं यथा स्यात् तवा, ध्माता:-अभिहता, कुक्षयो मध्यभागा येषां तादृशाः, पुनः पर्याकुलितपर्यन्तगृहनिघासिगणिकाजनाः पर्याकलिताःखध्वनिभिरुद्वेजिताः, पर्यन्तगृहनिवासिनः-निकटगृहवास्तव्याः, गणिकाजनाः-वेश्याजना यैस्तादृशाः [ल]। तथा तस्या वेलायां पट्टहस्तिनः प्रधानगजाः, गजेन्द्रा इति यावत् , जलावगाहाय जलमज्जनाय, प्रतस्थिरे प्रस्थिताः, कीदृशाः? प्रभित्रशताक्षरम्मदासारसिकराजपथाः प्रभिन्नः यौवनेन विदारितो यः, शक्ल-ललाटास्थि, तस्मात् क्षरता-सवता, मदासारेण-दानजलधारया, सिकः-आद्रीकृतः, राजपथः-राजमार्गो यैस्तादृशाः, पुनः अप्रतः भने, सलयं नृत्यगीतवाद्यानामेकतानता लयः, तेन सहितं यथा स्यात् तथा, प्रहतपटुमृदङ्गपटहा: प्रहताः-प्रणादिताः, पटव:-स्फुटनादिनः, मृदङ्गाः मुरजाख्यवायविशेषाः, पटहा:-ढकाख्यवाद्यविशेषाच येषां तादृशाः [ल]। तथा गृहोन्मुखापणिकसंवृतपण्यासु गृहोन्मुखैः-मानभोजनार्थ गृहगमनोद्यतैः, आपणिकैः-वणिजनैः, संवृतानि-अन्त:पिहितानि, पण्यानि-विक्रेतव्यवस्तुनि यासु तासु, विपणिवीधीषु आपणपशिषु, प्रत्यापणद्वारं प्रतिहद्वारम्,
Page #24
--------------------------------------------------------------------------
________________
१६६
टिप्पनक-फ्सगविकृतिसंवलिता क्रमेण च कठोरता प्रपो दिवसलारुण्ये किञ्चिदुपरतपौरकोलाहलायां नगर्या विनिर्गलग्रामलोकस्तोकसंगमेषु शृङ्गाटकेषु, सुप्रहृष्टबठरछात्रसत्वरोचार्यमामप्रन्धादिप्रथितदेवतास्तुतिश्लोकासु वन्दिताचार्यचरणशिष्यगणसंक्रियमाणनिजनिजपुस्तकासु क्षणमात्रप्रवृत्तयहच्छालापरमणीयासूतिष्ठन्तीषु विद्यामठव्याख्यानमण्डलीषु, अनुरगृहीततैलामलककडूतेषु प्रस्थितेषु मानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रियेषु, त्पश्चानुशकुनिपीयमाननिम्नविश्रान्तसारणिजलासु विस्तारघट्टकमसमुच्छृसत्सलिलमजत्सोपानासु गृहकर्मनिरतामिर्गेहिनीभिरवगाहमानासु भवनवापीषु, तृषितकलविकचकवालाकुलितपर्यन्तेषु पूर्यमाणेषु द्विजकुमारिकामिः कुठजलेन निष्कुटलतामण्डपावलम्बिषु प्रपिकापरेषु, करार्पितोन्मुष्टतारताम्रभाजनासु
टिप्पनकम्-झाटक-चतुष्पयः । निक्कुरः-गृहवाटिका । गलन्तिका-कुण्डिका [ऐ] ।
कालायसतालकानि कालायस-लौहविशेषः, तनिर्मितानि तालकानि-द्वारपिधानयन्त्राणि, अघटस्त संघटन्ते स्म, संलमानीत्यर्थः, कोदशानि ? कपाटदारुषाशकनिर्दयास्फालनबाचालानि कपाटदारूणां-कपाटफलकानाम् , यत् पाशक-परस्परसंघटकयचविशेषो, जीरपदव्यवहतः, तस्य यनिर्दयम्-अतिमात्रम्, आस्फालनम्-आकर्षणम्, तेन नावालनि-शब्दायमानानि [प]। क्रमेण शनैः शनैः, दिवसतारुण्ये दिनप्रागल्भ्ये, कठोरता दिनकरकिरणसम्पावतीव्रताम, अपने प्राप्ते सति, भमिपतिः राजा मेघवाहनः, शनैः शनैः खनिवासं निजमन्दिरम, भागम्तम आगमनाय, प्रघर्तते प्रवृत्तः । कस्यो कस्मिंश्च कथम्भूतार्या कथम्भूते च सति ? नगर्याम् अयोध्यायाम् , किश्चिदुपरत. पौरकोलाहलामाम् किश्चिदुपरतः-ईषन्निवृत्तः, पौराणां-पुरवासिनाम्, कोलाहलो यस्यां तथाभूतायां सल्याम् , तथा ऋशाबु चतुष्पथेषु, विनिर्गतमामलोकस्तोकसंगमेषु विनिर्गत:-निवृत्तः, ग्रामलोकानां-प्रामीणजनानाम् , स्तोकःईषत , मनमः-सम्मलेनं येषु तादशेष सरस, तथा विधामठन्यास्यानमण्डलीषु विद्यामठेषु-विद्यालयेषु, या व्याख्यान माळ्या सामानाय-अध्यापनाय, घटिता भण्डल्यः सच्छात्राभ्यापकमण्डल्य इत्यर्थः, तासु, सुप्रधबठरच्छात्रसत्यारोवार्यसामग्रमथादिप्रथितक्तास्ततिश्लोकासु सुप्रष्टैः-अनध्यायावसरप्राप्तितोऽतिप्रमुदितैः, पठरैः-मूर्खः, अभ्याफ्तरुविरहितैरिति यावत् , छात्रैः, सत्वर-ससम्भ्रमं यथा स्यात् तथा, उच्चार्यमाणाः-पग्यमानाः, गीयमाना इति यावत् , प्रन्याहिम-प्रभारम्भेषु, प्रन्थिताः-निवेशिताः, श्लोका यासु तादृशीषु, पुनः वन्दिताचार्यचरणशिष्यगणसंब्रियमाणनिजनिजपुस्तकासु वन्दितौ-अभिवादितौ आचार्यस्य-विद्याचार्यस्य, चरणौ-पादी येन तादृशेन, शिष्यगणेन-विद्यार्थिसमूहेन, संश्रियमाणं-विधीयमानम् , आवरणबध्यमानमिति यावत् , निज निजं-खं खं, पुस्तकं यासु तादृशीषु, पुनः क्षणमात्रप्रवृत्तयालाफरमणीयाम क्षणमात्र प्रवृत्तेन-मुहूर्तमात्रप्रवृत्तेन, यदृच्छालापेन-यथेच्छालापेन, रमणीयासु-रुचिरासु, विहन्तीषु गृहगमनामुत्सुकासु सतीषु । तथा श्रोत्रियेषु वेदाध्येतृजनेषु, अतुचरगृहीततैलामलककडूतेषु भानुवरैः मृलैः, गृहीतानि-धृतानि, तैलं-विलानां तदपलक्षिततिलसर्षपादीनां मेहः, आमलक-शिरसि लेपनाय आमलकीद्रवश्च, करतं-तमामक केशमार्जनोपकरणं च येषां तादृशेषु; पुनः तिलवर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु तिलैः-दिव्यानविशेः, दर्भपत्रिभिः-कुशपथ, पूर्णेन, पत्रपुटेन-पत्रमयपुटेन, पवित्रः, पाणिः-हस्तो येषां तादृशेषु च, सानाय मजनाय, सरयूतानि सरय्वाख्यनदीतीराणि, प्रस्थितेषु प्रयातेषु सत्सु । तथा भवनवापीषु गृहनिकटवर्तिवापीषु, गृहकर्मविरतामिा गृहकार्ममिपुताभिः, गहिनीभिः स्त्रीमिः, अवगाहमानासु प्रविश्यमानासु सतीषु, कीदृशीषु तासु ? न्यञ्चचच. शनिपीयमाननिमाविधान्तसारणिजलासु न्यञ्चन्त्या-तिर्यगधोच्छन्त्यौ, चञ्चू-ओष्ठौ येषां तादृशैः, शकुनिभिःपक्षिभिः, पीयमानानि, निम्नायाः-गभीरायाः, विश्रान्तायाः-प्रवाहरहितायाः, सारण्या:-कृत्रिमक्षुद्रनद्याः, जलानि यासां तावनी, "चमोटिरुमे खियाम्" इत्यमरः । पुनः विरतारघट्टक्रमसमुच्कृसत्सलिलमजत्सोपानासु विरतेभ्यःमित्तचक्नेभ्यः, अरपट्टेभ्यः-अलोद्धरणयचेभ्यः, क्रमेण-मन्दगल्या, समुसता-निःसरता, सलिलेन, मजन्ति-कियमामामानानि, सोपानानि-निश्रेणिका मासा तादृशीषु । पुनः निष्कुटलतामण्डपावलम्बि निष्कुटेषु- गृहनिकटोबानेषु, ये लतामामाः-लतामहाः, तदवलम्बियु-तदूर्भावस्थाविषु, प्रपिकाकर्परेषु प्रपा नाम पानीयशाला, “प्रपा पानीयशालिका
Page #25
--------------------------------------------------------------------------
________________
दिवसलक्ष्मीविव सभास्वन्मण्डेलासु हिण्डन्तीषु देवतायतनमण्डलेषु विमलाम्बरधरासु वृद्धासु, भर्मसन्ध्योपासनोत्सुकासु गृहन्तीष्वभ्युक्षणमनुक्षणावलोकितगलन्तिकामूलसंगलजलकणासु द्विजातिगृहिणीषु, गृहाभिमुखतरुशाखासीनवायसकुलावलोकितबलिषु हूयमानेषु वैश्वदेवानलेषु, अध्ययनमुखरेष्वितस्ततो भ्रमत्सु गृहपतिभवनवनखण्डभ्रमरेषु भिक्षाचरेषु, प्रवातपट्टशालावलम्बितपञ्जरे पाकपिञ्जराणि शकलयति तरुफलानि संघृतालापे शुकसारिकाकलाये, निवृत्तरसवतीधूमेषु समुपलिप्यमानाजिरभूमिषु प्रक्षाल्यमानासनेषु मायमानकांस्यरजतादिभाजनेषु भोजनशालासंचार्यमाणविविधाहारपाकेषु प्रतोलीशिखराधिरूढपुरोहितपरीक्ष्यमाणाध्ययनमुखरोन्मुखद्विजेषु सर्वतः संवृतेषु सत्रिणां भवनेषु, भूमिपतिरवलोकिताभिमतनगरीप्रदेशः समासा
इत्यमरः, तत्सम्बन्धिषु, कर्परेषु-जलाधारकपालेषु, द्विजकुमारिकाभिः विप्रवालिकाभिः, कुटजलेन खोपमीतघटोद्धृतजलेन, पूर्यमाणेषु क्रियमाणपूरणेषु सत्सु, कीदृशेषु ? तुषिसकलविकचक्रवालाकुलितपर्यन्तेषु तृषितानां-पिपासितानाम् , कलविङ्कानां-चटकानाम् , चक्रवालेन-मण्डलेन, आकुलितः व्याप्तः, पर्यन्तः-प्रान्तप्रदेशो येषां तादृशेषु । तथा वृद्धासु वृद्धस्त्रीजनेषु, सभावन्मण्डलासु सूर्यमण्डलसहितासु, दिवसलक्ष्मीषु दिनशोभासु इव, करार्पितोम्मृष्टतारताम्रभाजनासु करेषु-खखहस्तेषु अर्पितानि-क्षिप्तानि, उम्मृष्टानि-प्रक्षालितानि, तारताम्रभाजनानि-उत्कृष्टतानपात्राणि याभिस्वादशीष, पक्षे कराणां-सर्यकिरणानाम अर्पितेन--सर्यकर्तकेन अपेणेन. उन्मूनानि-विशोधितान्धकाराणि प्रकाशितानीति यावत्, तारताम्रभाजनानि याभिस्तादृशीषुः पुनः विमलाम्बरधरासु बिमलं-खच्छम् , अम्बरं-वस्त्रं पक्षे आकाश व धरन्ति यास्तादृशीषु; पुनः देवतायतनमण्डलेषु देवमन्दिरबन्देषु, हिण्डन्तीषु गच्छन्तीषु सतीषु, तथा मर्पसन्योपासनोत्सुकालु भर्तुः-पत्युः, यत् सन्ध्योपासन-सन्ध्यावन्दनम्, तत्रोत्सुकासुः अनुक्षणावलोकित. गलन्तिकामूलसंगलजलकणासु अनुक्षण-प्रतिक्षणम् , अवलोकिता-दृष्टा, या गलन्तिका-खमूलतः खल्पजलधारासापक पात्रविशेषः, तन्मूलात्-तन्मूलस्थच्छिद्रद्वारा, संगलन्तः-संस्रवन्तः, जलकणा यासा तादृशीषु, द्विजातिपहिणी ब्राह्मणीयु, अभ्युक्षणम् अभिषेक, गृखतीषु प्रामुवतीघु । तथा गृहाभिमुखतरुशाखासीनवायसकुलावलोकितवलिषु गृहाभिमुखाः-खखावासगमनोन्मुखाः, ये तरुशाखासु, आसीना:-उपविशन्तः, वायसा:-काकाः, तेषां फुलेन-समूहेन, अवलोकितः-दः, बलि:-खभक्ष्यभागो येषु तादृशेषु, वैश्वदेवानलेषु विश्वदेवोद्देश्यक्यतामिषु, इयमानेषु प्रक्षिप्तहविषोदीप्यमानेषु सत्सु, मध्याह्नकालविहितवैश्वदेवयझे काकवितरणस्येतिकर्तव्यतात्वात् । तथा अध्ययनमुक्षरेषु अध्ययनवाचालेषु, गृहपतिभवनवनखण्डभ्रमरेषु गृहपतीनां-गृहस्थानाम् , यानि भवनानि-गृहाः, तसा ये पनखण्डा:-बनविशेषाः, उपवनानीति यावत्, तत्सम्बन्धिभ्रमररूपेषु, भिक्षावरेषु भिक्षुकेषु, इतस्ततः अत्र तत्र, अमत्सु विचरत्सु सत्सु तथा प्रषातपशालावलम्बितपञ्जरे प्रवासा:-प्रकृष्टा वाताः पवना यस्यां तारस्वाम्, पशालायां-प्रधानप्रासादे, चित्रशालायामिति यावत्, अवलम्बितानि-उपरि स्थापितानि, पचराणि पक्षिनियन्त्रणयत्रविशेषा यस्य तादृशे, संवृतालापे मध्याहवेलायां निरुद्धाभाषणे च, शुकसारिकाकलापे तदाख्यपक्षिगणे, पाकपित्रपणि पाकेन-पाकवशेन, पिजराणि-किश्चद्रक्तपीतवर्णानि, तरुफलानि, शकलयति भक्षयति सति, सत्रिणां याज्ञिकानां भोजनाविदानक्षेत्राध्यक्षाणां वा, भवनेषु गृहेषु, सर्वतः सर्वप्रकारेण, संवृतेषु पिहितद्वारेषु सत्सु, "सत्रं यह सदादानाच्छादनारण्यकैतवे” इति मेदिनी, कीदृशेषु? निवृत्तरसवतीधूमेषु निवृत्ताः-पाकसमात्या विभान्ताः, रसंवतीधूमाः-पाकालयसम्बन्धिधूमा येषु तादृशेषु, "रसवत्यां तु पाकस्थानमहानसे" इत्यमरः पुनः समुपलिप्यमानाजिरभूमिषु सम्यक् उपलिप्वमाना-द्विजभोजनार्थ गोमयोदकविशोच्यमाना, अजिरभूमिः-प्राङ्गणभूमिर्येषां तादृशेषः पुनः प्रक्षाल्य.
। प्रक्षास्थमानानि-जलेन मार्यमानानि, भासमानि-काष्ठफलकाबुपवेशनस्थामानि येषु तादृशेषु पुनः माज्यमानकांवरजतादिभाजनेषु माय॑मानानि-प्रक्षाल्यमानानि, कास्यरजताविद्रव्यनिर्मितानि, भाजनानि-भोजनपात्राणि च बेधु तादृशेषुः पुनः भोजनशालासंचार्यमाणविविधाहारपाकेषु भोजनशालायां-भोजनगृहे, सञ्चार्यमागाः-आनीयमानाः, विविधाः बहुविधाः, आहारपाका:-भोजनीयवस्तूनि येषु तादृशेषु, पुनः प्रतीलीशिखराधिसहपुरोहितपरीक्यमाणाप्ययनमुखरोन्मुखद्धिजेषु प्रतोल्या:-'पोळ' इतिप्रसिद्धस्स द्वारगेहस्य, शिखरे-उपरिभागे, अभिस्तैः भारतः,
Page #26
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता दितावसरैः श्रवणमूलमागत्य मध्याह्नकृत्याय प्रवर्तितो मागधश्लोकैरधिकृतैश्च राजलोकैः प्रववृते शनैः शनैः
खनिवासमागन्तुम् [ऐ] । अवहिताधोरणचालितवारणश्चोर्वीकृत्य विधृतेन तत्कालमाक्रान्तचूडामणि दिवसमणिमदृष्टपूर्वमादराद् द्रष्टुमागतेन पौर्णमासीहिमगभस्तिनेव निवारितललाटतपातपः सितातपत्रेण हयखुरोतरध्यारेणुधूसरितनेपथ्यरातपम्लानमौलिदामभिः सर्वतोऽनुगम्यमानो नृपतिभिरुपर्युपरि संदानितानेकबन्दनमालमूर्ध्वविधृतवेत्रयष्टिभिः प्रथममेव सत्वरप्रविष्टैरितस्ततः प्रहितदृष्टिभिरपालैर्निरीक्षिताशेषकक्षान्त. रमन्तरिक्षोल्लेखिभिरनेकशतसंख्यैः सितप्रासादैः सर्वतः समाकुलं राजकुलमाससाद [ओ]॥
द्वारदेशे च तस्य विधृतवाहनस्तिमितमावासगमनाय तियेगुन्नमितमुखसंज्ञया प्रस्थाप्योभयतः पार्थिवसमूहमन्तः प्रविश्य द्वितीये द्वारे वारणादवततार [औ]। निवारितपरिवारलोकश्च द्वारपालैः परिमिताप्त
पुरोहितैः-राजपुरस्कृतजनैः, परीक्ष्यमाणाः-क्रियमाणपरीक्षणाः, अध्ययनमुखराः-अध्ययनवाघालाः, उन्मुखाः-अध्ययनतत्पराश्य, द्विजाः-ब्राह्मणा येषु तादृशेषु, भूमिपतिः कीदृशः अवलोकिताभिमतनगरीप्रदेशः अवलोकिताः-निरीक्षिता, भभिमताः-द्रष्टुमभीष्टाः, नगर्याः-अयोध्यायाः, प्रदेशाः-स्थानानि येन तादृशः । पुनः समासादितावसरैः प्राप्तप्रवर्तनावसरैः, मागधश्लोक मागधानां-बन्दिनाम्, श्लोकः, अधिकृतैः प्रकृतकार्यनियुक्तैः, राजलोकः राजकीयजनैश्च, श्रवणमूलं कर्णविवरं पक्षे कर्णसमीपम् , आगत्य उपस्थाय, मध्याह्नकृत्याय मध्याह्नोचितम्नानादिकार्याय, प्रवर्तितः प्रेरितः [ऐ] अवहिताधोरणचालितवारणः अवहितेन-सावधानेन, आधोरणेन-हस्तिपकेन, चालितः-चलितुं प्रेरितः, वारणः-हस्ती यस्य तादृशः स राजा, राजकुलं राजमन्दिरम् , आससाद प्राप्तवान् , गतवानिति यावत् , “आधोरणा हस्तिपकाः" इत्यमरः । कीदृशः ? ऊवीकृत्य राज्ञ उपरि लम्बयित्वा, विधृतेन हस्तगृहीतेन, सितातपत्रेण श्वेतच्छत्रेण, निवारितललाटन्तपाऽऽतपः निवारितः-निवर्तितः, ललाटन्तपस्य-सूर्यस्य, आतप-तापो यस्य तादृशः, केनेव ?
आकान्तचूडामणिम् आक्रान्तः-व्याप्तः, चूडामणिः-मुकुटो येन तादृशम् , चूडामणेरभिमुखमुद्भासमानमित्यर्थः, अदृष्टपूर्वम् भिक्षकालोदयेन पूर्वमदृष्टम् , दिवसमणि सूर्यम् , आदरात् स्नेहात्, तत्कालं तत्क्षणम् , द्रष्टुम् निरीक्षितुम् , आगतेन भवतीर्णेन, पौर्णमासीहिमगभस्तिनेव पूर्णिमाचन्द्रेणेवेत्युत्प्रेक्षा।पुनः नृपतिभिः खाधिकृतभूपतिभिः, सर्वतः समन्ततः, अनुगम्यमानः अनुत्रियमाणः, कीदृशैः ? हयखुरोद्धृतरथ्यारेणुधूसरितनेपथ्यः हयानाम्-अश्वानाम् , खुरैः-शफैः, उद्धताः-उक्षिप्ताः, ये रथ्यारेणवः-रथमार्गधूलयः, तैः धूसरित-किञ्चित्पीतश्वेतताम्रापादितम् , मलिनीकृतमिति यावत् , नेपथ्य-वेषो येषां तादृशैः, पुनः आतपम्लानमौलिदामभिः आतपेन-सूर्यतापेन, म्लानिमापन्नानि, मौलिदामानि-शियोमाल्यानि येषां तादृशैः । कीदृशं राजकुलम् ? उपर्युपरि अर्बोधभागे, सन्दानितानेकवन्दनमालं सन्दानिताः-निबद्धाः, अनेकाः-बहवः, वन्दनमाला:-तोरणस्रजो यत्र तादृशम् ; पुनः द्वारपालैः द्वाररक्षकैः, निरीक्षिताशेषकक्षान्तरं निरीक्षितानि-अवलोकितानि, अशेषाणि-समप्राणि, कक्षान्तराणि-प्रासादप्रकोष्ठाभ्यन्तराणि यस्य तादृशम् , “कक्षा स्पर्धा पदे काभ्यां रथगेह-प्रकोष्ठयोः” इति धरणिकोशः, कीदृशैस्तैः ? ऊर्ध्वविधृतवेत्रयष्टिभिः उपयुत्थापितवेत्रदण्डैः; पुनः प्रथममेव राज्ञः प्रवेशात् प्रागेव, सत्वरप्रविष्टैः कृतशीघ्रप्रवेशैः; पुनः इतस्ततः अत्र तत्र, प्रहितदृष्टिभिः व्यापारितलोचनैः; पुनः कीदृशम् ! अन्तरिक्षोल्लेखिभिः गगनमण्डलोद्धर्षिभिः, अमेकशतसंख्यैः यहुशतसंख्याकैः, सितप्रासादैः घेतमन्दिरैः, सर्वतः समन्ततः, समाकुलं व्याप्तं वेष्टितमिति यावत् | ओ]।। . च पुनः, तस्य राजकुलस्य, द्वारदेशे द्वारस्थाने, विधृतवाहनस्तिमितं विधृत-निरुद्धम् , स्थिरीकृतमिति यावत् , बाहनं यस्य तादृशम् , अत एव स्तिमितं-स्थिरीभूतम् , पार्थिवसमूह नृपमण्डलम् , तिर्यगुम्नमितमुखसंशया विर्यक्-कुटिलं यथा स्यात् तथा, उन्नमितेन-उत्था पितेन, मुखेन, या संज्ञा-संकेतः, तेन आवासगमनाय, उभयतः उभयभागतः, प्रस्थाप्य प्रस्थानार्थमनुमन्य, अन्तः मध्ये, प्रविश्य प्रवेशं कृत्वा, द्वितीये अपरस्मिन् , द्वारे, वारणात् गजात , अपततार अधस्तादागतः [औ]। च पुनः, द्वारपालैः द्वाररक्षकभृत्यैः, निवारितपरिवारलोकः निवर्तितानु. गामिजनः, परिमिताप्तराजपुत्रपरिवृतः परिमितैः-अल्पसंख्यकैः, आप्ते:-विश्वस्तैः, राजपुत्रैः, परिवृतः-परिवेष्टितः सन् ,
Page #27
--------------------------------------------------------------------------
________________
तिलकमलरी।
१६९ राजपुत्रपरिवृतश्चरणाभ्यामेव गत्वा मध्यमा मण्डपिकां तन्मध्यभागे तत्क्षणोपलिप्ताया निरन्तरक्षिप्तसरसपुष्पप्रकरसुरभेरास्थानवेदिकायाः पृष्ठभागे प्रतिष्ठापितमुभयतः संयोजितमृगाङ्कमणिदारुनिर्मितोदारमतवारणकमनुपृष्ठमाहितोच्चकाञ्चनपीठमीषजरठकुमुदगर्भदलावदातमच्छधवलधौतपट्टांशुकपटाच्छादितं दन्तपट्टमध्यास्त [अं] । व्यपास्त सकलविहारकालकल्पितवेषः प्रक्षालितचरणपल्लयश्च परिचारकगणेन सत्वरोपसृतधृतकरककिङ्करकरावर्जितेन शिशिरवारिणा प्रक्षाल्य बलसंक्षोभधूलिधूसरश्रमस्खेदलवलेखं मुखेन्दुमग्रतः स्थापिते मणिपतके प्रक्षिप्य कतिपयानुदकगण्डूषानुपस्पृश्य परिमृज्य चाभ्यग्रहस्तशाटकग्राहिसत्वरोपढौकितेन वस्त्रपल्लवेन सहस्तपल्लवं वदनमादरगृहीतजलार्द्रतालवृन्तेनान्यतमपरिचारकेण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा द्वारदेशस्थकटकककरवाकृष्टधावमानसंभ्रान्तवारिकम् , उत्सारितक्लान्तपुष्पबलितलिनायमानकुट्टिमोत्सङ्गम् ,
टिप्पनकम् - उपस्पृश्य आचम्य । अभ्यग्रः-समीपवर्ती । आरालिकः-सूपकारः [अ॰] । मध्यमा मध्यवर्तिनीम् , मण्डपिकां लघुमण्डपम् , चरणाभ्यामेव पादाभ्यामेव, गत्वा, तन्मध्यभागे तन्मध्यस्थाने, तत्क्षणोपलिप्ताया तत्क्षणकृतगोमयोदकोपलेपनायाः, पुनः निरन्तरक्षिप्तसरसपुष्पप्रकरसुरमेः निरन्तरं-निविद यथा स्यात् तथा, क्षिप्तानां-विकीर्णानाम् , सरसाना-स्निग्धानाम् , पुष्पाणाम् , प्रकरण-समूहेन, सुरभेः-सुगन्धाब्यायाः, आस्थानवेदिकायाः सभासम्बन्धिवेद्याः, पृष्ठभागे पश्चाद्भागे, प्रतिष्ठापितं संस्थापितम् , दन्तपट्ट हस्तिदन्तमयं फलकम् , अध्यास्त उपविष्टवान् , “पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः" इति मेदिनी, कीदृशम् ? उभयतः संयोजितमृगाङ्कमणिदारुनिर्मितोदारमत्तवारणकम् उभयतः-पार्श्वद्वये, संयोजितौसन्निवेशितो, मृगाङ्कमणिधु-चन्द्रकान्तमणिषु मध्ये, यदारु-सारभूतं वस्तु, तेन उत्तमचन्द्रकान्तमणिनेत्यर्थः, निर्मिती, उदारी-महान्तौ, मत्तवारणी-मत्तगजौ, यस्मिंस्तादृशम्, पुनः अनुपृष्ठं पृष्ठभागे, आहितोश्चकाञ्चनपीठम् आहितस्थापितम् , उच्चम्- उत्तुङ्गम् , काचनपीठ-सुवर्णमयमासनं यस्मिंस्तादृशम् , पुनः ईषज्जरठकुमुदगर्भदलावदातम् ईश्वत्किञ्चित् , जरठानि परिणतानि, यानि कुमुदगर्भदलानि-कुमुदान्तर्तिपत्राणि, तद्वत् अवदातम्-उज्वलम् , पुनः अच्छधवलधौतघवलपहांशकपटाच्छादितम अच्छेन-निर्मलेन, धवलेन-शुभ्रेण, धौतेन-प्रक्षालितेन. पटेन-कौशेयरूपेण उत्तमेन, अंशुकपटेन-सूक्ष्मवस्त्रेण, आच्छादितम् , “अंशुकं लक्ष्णवस्ने स्यात्" इति मेदिनी [अं] । व्यपास्तसकलविहारकालकल्पितवेषः व्यपास्तः-त्यक्तः, सकल:-समस्तः, विहारकालकल्पितः-नगरीभ्रमणावसररचितः, वेषः-कृत्रिमरूपं, येन तादृशः, च पुनः, परिचारकगणेन सेवकसमूहेन, प्रक्षालितचरणपल्लवः धौतपल्लवकोमलपादः, स राजा, बलसंक्षोभधूलिधूसरश्रमखेदलघलेखं बलसंक्षोभधूलिभिः-सेनासञ्चारोद्धतरेणुभिः,धूसरा-धूसरवर्णा, श्रमखेदलबलेखाश्रमजन्यखेदबिन्दुरेखा, यस्मिंस्तादृशम् , मुखेन्दं खकीयमुखचन्द्रम् , सत्वरोपसृतधृतकरककिङ्करकरावर्जितेन सत्वरोपमृतस्य शीघ्रमुपागतस्य, धृता-गृहीता, करका-तुषारतोयं येन तादृशस्य, किङ्करस्य-मृत्यस्य, करेण-हस्तेन, आवर्जितेनसमर्पितेन, शिशिरवारिणा-शीतलजलेन, प्रक्षाल्य विशोध्य. अग्रतः अग्रे. स्थापिते धृते. मा पतद्वहके-पतन्तं गण्डूषं गृहृतीत्यर्थकतत्संज्ञके गण्डूषपात्रे, कतिपयान परिमितान्, गण्डपान् चुलुकान्, प्रक्षिप्य विसृज्य, सहस्तपल्लवं हस्तपालवेन सहितम् , वदनम् , उपस्पृश्य जलेन स्पृष्ट्वा, च पुनः, अभ्यग्रहस्तशाटकग्राहिसत्वरोपढौकितेन अभ्यमः- नृपाप्राभिमुखो हस्तो यस्य तादृशेन, शाटकयाहिणा-मार्जनवस्त्रधारिणा मृत्यन, सत्वर-शीघ्रम् , उपढोकितेन-उपनीतेन दत्तेन, वस्त्रपल्लवेन पल्लवसदृशश्लश्णवस्त्रेण, परिमृज्य परि-सर्वतोभावेन, मार्जनं कृत्वा, आदरगृहीतजलाईतालवृन्तेन आदरेण-प्रीत्या, गृहीतं-धृतम् , जलाई जलायुतम् , तालवृन्त-तालव्य जनं येन तादृशेन, अन्यतमपरिचारकेण बहूनां मध्ये केनचिदेकेन सेवकेन, मन्दमन्दं शनैः शनैः, उपधीज्यमानः क्रियमाणोपवीजनः, . मुहूर्तमिव क्षणमिव, स्थित्वा आहारमण्डपं भोजनाऽऽगारम् , अयासीत् गतवान् । कीदृशम् ? द्वारदेशस्थकटककटुरवाकृष्टधावमानसम्भ्रान्तवारिकं द्वारदेशस्थस्य-द्वारदेशनियुक्तस्य, कटकस्य-सैन्यस्य, कटुरवेण-कठोरशब्देन, भाकृष्टाः-प्रेरिताः,धावमानाः-शीघ्रं गच्छन्तः, सम्भ्रान्ताः-स्वराऽऽकुलाः, वारिकाः-जलवाइका यस्मिंस्तादृशम् । पुनः उत्सा.
२२ तिलक.
Page #28
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृतिसंवलिता
अङ्गणोपान्तपुञ्जीभूतभूरिभुञ्जानकलोकम् औत्सुक्यतरला रालिक श्रेणिसंचा र्यमाणानेककाञ्चनस्थाली सहस्रम् , आदरव्यापृताक्षपौरोगवनिरीक्ष्यमाणक्षुद्रपरिजनप्रवेशनिर्गमावस्थानम्, अनिलताडितोदण्डकाण्डपटक प्रस्तुताकाण्डताण्डवमाहारमण्डपमयासीत् [ अ ] ॥
तत्र च विविधवितीर्णविततरत्नस्थालशतशबलितक्षितितले नृपासनासन्ननिषण्णभिषजि संनिधापितशुकसारिकाचकोर क्रौन कोकिलप्रमुख पत्रिणि तत इतः प्रेङ्खदरुणसुकुमारपाणिपल्लवाभिः कल्पलताभिरिव संचारिणीभिश्चित्ररत्नाभरणदिव्यांशुकधराभिर्वाररमणीभिरुपनीयमानमनोभिलषितानेकभक्ष्यपेयप्रकरो यथास्थानमुपविष्टेन प्रधानपार्थिवगणेनान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वन्नन्तरान्तरा सह सुहृद्धिर्नर्म भोजनकर्म
१७०
रितक्लान्तपुष्पावलित लिनायमानकुट्टिमोत्सङ्गम् उत्सारितेन पूजनाऽऽगारानिष्कासितेन, क्लान्तेन-म्लानिमापन्नेन, पुष्पावलिना - पुष्पप्रचुरपूजोपचारेण तलिनायमानः - शय्यायमानः कुहिमोत्सङ्गः - मणिबद्ध भूमिध्यभागो यस्मिंस्तादृशम् | पुनः अङ्गणोपान्तपुञ्जीभूतभूरिभुआनकलोकम् अङ्गणोपान्ते- प्राङ्गणप्रान्ते, पुञ्जीभूताः - सतीभूताः, भूरयः - बहवः, भुञ्जानकलोकाः- भोक्तजनाः, यस्मिंस्तादृशम् । पुनः औत्सुक्यतरलारालिकश्रेणिसश्चार्यमाणानेककाञ्चनस्थालीसहस्रम् औत्सुक्येन सम्भ्रमेण, तरलया- चञ्चलया, आरालिकश्रेण्या सूपकारसमूहेन, सश्चार्यमाणं तत्र तत्रानीयमानम्, अनेकासां-बहुविधानाम्, काचनस्थालीनां सुवर्णमय पात्रविशेषाणाम्, सहस्रं यस्मिंस्तादृशम्, “सूपकारास्तु बलवा आरालिकाः” इत्यमरः । पुनः आदरव्यापृताक्षपौरोगव निरीक्ष्यमाणक्षुद्र परिजनप्रवेशनिर्गमावस्थानम् आदरेण प्रीत्या, व्यापृते - दर्शनासक्ते, अक्षिणी - नेत्रे, यस्य तादृशेन, पौरोगवेन - पाकशालाध्यक्षेण, निरीक्ष्यमाण:- अवलोक्यमानः, छुद्रपरिजनानां साधारणपरिधाराणाम्, प्रवेशः- भोजनशाला यामागमनम् निर्गमः- ततो निष्क्रमणम्, अवस्थानं तत्रावस्थितिर्यस्मि स्वादृशम् । पुनः अनिलताडितोदण्डकाण्डपटकप्रस्तुताकाण्डताण्डवम् अनिले-पवने, ताडिता उद्भूताः, ये उद्दण्डाः- उच्छ्रिताः, काण्डपदकाः - काण्डाकारेण लम्बितानि वस्त्राणि, तैः प्रस्तुतं प्रारब्धम्, अकाण्ड ताण्डवम् - अनवसरनृत्यं, यस्मिंस्तादृशम् [ अः ] ।
च पुनः, तत्र तस्मिन्, आहारमण्डप इत्यर्थः, राजा मेघवाहनः, भोजनकर्म भोजनरूपां क्रियाम्, निरवर्तयत् सम्पादितवान् 1 कीदृशे ? विविधवितीर्ण विततरत्नस्थाल शतशबलितक्षितितले विविधानि - अनेकविधानि वितीर्णानि - दत्तानि, स्थापितानीति यावत्, यानि विततानि - विस्तृतानि, रत्नस्थालानि - रत्नमयभोजनपात्र विशेषाः, तेषां शतेन, शबलितं- चित्रितम्, क्षितितलं - भूतलं, यस्मिंस्तादृशे । पुनः नृपासनासम्ननिषण्णभिषजि नृपासनस्य - राजासनस्य, आसन्ने - निकटस्थाने, निषण्णः - उपविष्टः, भिषक् - भोज्याभोज्यविवेचनार्थं वैद्यो यस्मिंस्तादृशे । पुनः सन्निधापितशुकसारिका चकोर - क्रौञ्च-कोकिलप्रमुख पतत्रिणि सन्निधापिताः "दृष्ट्रानं सविषं चकोरविहगो धत्ते विरागं दृशोः, हंसः कूजति सारिका च वमति क्रोशत्यजस्रं शुकः । विष्टां मुञ्चति मर्कटः परभृतः प्राप्नोति मृत्युं क्षणात् काँचो मायति हर्षवांश्च नकुलः प्रीतिं च धत्ते द्विकः ॥" इत्यादिना पक्षिभिः सविषान्नपरीक्षणात् सविषभोज्यवस्तु परीक्षणाय समीपमुपवेशिताः, शुकादिप्रमुखाः - शुकादयः, पतत्रिणः पक्षिणो यस्मिंस्तादृशे । राजा कीदृशः ! वाररमणीभिः वेश्याभिः, उपनीयमानममनोऽभिलषितानेकभक्ष्यपेयप्रकरः उपनीयमानः - समीपमानीयमानः, मनोऽभिलषिताना-मनोऽभिवाञ्छितानाम्, अनेकेषां भक्ष्य-पेयाना-भोक्तव्यपतव्यवस्तूनाम्, प्रकरः- समूहो यस्य तादृशः कीदृशीभिः ? इतस्ततः अत्र तत्र, प्रेङ्खदरुणसुकुमारपाणिपल्लवाभिः प्रेङ्खन्ति प्रचलन्ति, अरुणानि - रक्तानि, सुकुमाराणि - अति को मलानि, पाणिपल्लवानि - हस्त पल्लवानि यासां तादृशीभिः अत एव सञ्चारिणीभिः जङ्गमाभिः कल्पलताभिरिव कल्पाख्यदित्र्यलताभिरिवेत्युत्प्रेक्षा, पुनः चित्ररत्नाभरण दिव्यांशुक्रधराभिः चित्राणि - अनेकवर्णानि यानि, रत्नाभरणानि - रत्नमयालङ्करणानि, दिव्यांशुकानि - मनोहरवस्त्राणि च तद्धारयित्रीभिः । पुनः यथास्थानं यथोचितस्थानम्, उपविष्टेन कृतोपवेशनेन, प्रधानपार्थिवगणेन मुख्यमुख्यनृपसमूहेन, च पुनः अभ्येन तद्भिनेन प्रणयिना स्नेहिना, राजलोकेन राजकीयजनेन, परिवृतः परि
Page #29
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
१७१ निरवर्तयत् । उपस्पृश्य च समाघ्रातधूपधूपवर्तिरुद्वर्त्य दूरं कर्पूरमृगनाभिसंभेदसंभृतामोदेन घ्राणेन्द्रियानन्दिना चन्दनद्रवेणाग्रहस्तो गृहीत्वा च ताम्बूलमप्रतिकूलभाषिभिरशेषकलाशास्त्रकृतपरिचयैः परचित्तविद्भिः सुहृद्भिनुगम्यमानो गन्धसलिलच्छटासेकशिशिरीकृतसकलभित्तिक्षणामनुक्षणापतत्पवनपुञ्जगुञ्जन्मणिगवाक्षगुञ्जामपराहरम्यामावासहर्म्यशिखरप्रान्तवर्तिनी दन्तवलभिकामगच्छत् [क] ॥ ___तत्र च सितस्वच्छमृदुदुकूलोत्तरच्छदमुग्ररत्नप्रतिपादुकप्रतिष्ठमुभयपार्श्वविन्यस्तचित्रसूत्रितनेत्रगण्डोपधानमध्यासितविशालमणिशिलावेदिकाझं विद्रुमदारुपयङ्कमधिशयानस्तत्कालसेवागतैगतिशास्त्रपरिज्ञानदूरारूढगर्गान्धर्विकोपाध्यायैः सह वेणुवीणादिवाद्यविनोदेन दिनशेषमनयत् [ख] | अस्तशिखरपर्यस्तमण्डले च तरणावुत्तीर्य कृतसकलसान्ध्यकृत्यो विधाय देवतासपर्यामागृहीतविकटशृङ्गारवेषो घटितपरिवेषैः सर्वतः परि
वेष्टितः, पुनः अन्तरा अन्तरा मध्ये मध्ये, सुहृद्भिः खभित्रैः, सह, नर्म हास्य, कुर्वन् । च पुनः, उपस्पृश्य हस्तमुख प्रक्षाल्य, समाघ्रातधूपधूमवर्तिः समाघाता-सम्यक् प्रापेन्द्रियगृहीतगन्धा, धूपधूमवर्तिः-धूपसम्बन्धिधूमरेखा, येन तादृशः,कर्पूरमृगनाभिसम्भेदसम्भृतामोदेन कर्पूरस्य-तदाख्यप्रसिद्धद्रव्यविशेषस्य, मृगनामे:-कस्तूरिकायाश्च, सम्मेदेनसम्मिश्रणेन, सम्मृतः-संवर्षितः, आमोदः-सौगन्ध्यं, यस्मिंस्तादृशेन, घ्राणेन्द्रियाऽऽनन्दिना घ्राणेन्द्रियोल्लासकेन, चन्दनद्रवेण चन्दनपङ्केन. दूरं चिरम् , उद्वर्त्य अङ्गं विलिप्य, अग्रहस्तः पुरस्कृतहस्तः, ताम्बूलं नागवल्लीदलम् , गृहीत्वा, अप्रतिकूलभाषिभिः प्रियंवदैः, अशेषकलाशास्त्रकृतपरिचयैः अशेषेषु-समस्तेषु, कलाशास्त्रेषुशिल्पविद्यासु, कृतः परिचयः-अभिज्ञानं यस्तादृशैः. परचित्तविद्भिः अन्यदीयमनोवृत्त्यभिज्ञैः, सुहृद्भिः मित्रजनैः, अनुगम्यमानः अनुत्रियमाणः; दन्तवलभिका हस्तिदन्तरचितशिरोगृहम् , अगच्छत्-गतवान् । कीदृशीम् ? गन्धसलिल. च्छटासेकशिशिरीकृतसकलभित्तिक्षणां गन्धसलिलाना-सुगन्धिजलानाम् , छटया-धारया, यः से आलावन मिति यावत्, तेन शिशिरीकृतः- शीतलीकृतः, सकलभित्तीनाम् अशेषकुख्यानाम् , क्षण:-मध्यभागो यस्या तादृशीम् , पुनः अनुक्षणापतत्पवनपुञ्जगुञ्जन्मणिगधाक्षगुञ्जाम् अनुक्षण-प्रतिक्षणम् , आपतताम्-आगच्छताम् , पवनाना-वायूनाम् , पुजेन-समूहेन, गुञ्जन्ती-अव्यक्तशब्दं कुर्वती, मणिगवाक्षगुजा-मणिमयवातायनलम्बितलताविशेषो यस्यां तादृशीम्, पुनः अपरागरम्यां मध्याहरमणीयाम्, पुनः आवासहर्म्यशिखरप्रान्तवर्तिनीम् आवासस्य-स्वनिवासाधिकरणभूतस्य, हर्म्यस्य-प्रासाद स्य, शिखरप्रान्ते-शिरोभागान्ते, वर्तिनीम्-वर्तमानाम् [क]।
च पुनः, तत्र तस्यां दन्तवलभिकायामित्यर्थी, विद्रमदारुपर्यई विद्रुमः-प्रवालाख्यरत्नप्रसवी वृक्षविशेषः, तदीयं यद् ,दारु-काष्ठम् , तद्रचितपयङ्कम्-ऊर्ध्वशय्याविशेषम्, अधिशयानः तदुपरि स्वपन्, वेणुवीणादिवाद्यविनोदेन वेणु:-वंशी, वीणा-विपश्ची, तत्प्रभृतिवासस्य, विनोदेन-कौतुकेन, दिमशेष दिनावशिष्टभागम् , अनयत् व्यतीतवान् । कीदृशं पर्यकम् ? सितखच्छमृदुदुकूलोतरच्छदं सितं-शुभ्रवर्णम् , खच्छं-निर्मलम् , मृदु-श्लक्ष्णं च, यद् दुफूलं-वस्त्रम् , तदेवोत्तरच्छदः-ऊर्खास्तरणं यस्मिस्तादृशम्, पुन: उदग्ररत्नप्रतिपादुकप्रतिष्ठम् उदग्रम-उन्नतम् , रत्नप्रतिपादुकंरत्नमय प्रत्यैकपादुका, प्रतिष्ठा-आधारो यस्य तादृशम् , पुनः उभयपार्श्वविन्यस्तचित्रसूत्रितनेत्रगण्डोपधानम् उभयपार्श्वविन्यस्ते-दक्षिणवामपार्श्वनिहिते, चित्रसूत्रिते-बहुविधचित्रबद्धे, नेत्रगण्डयोः नयन गण्डस्थलयोः, उपधाने स्थापनाऽऽ. धारौ, यस्मिंस्तादृशम् , पुनः अध्यासितविशालमणिशिलावेदिकाऽङ्कम् अध्यासिता-निवेशिता, विशालमणिशिलायाःविस्तृतमणिरूपप्रस्तरस्य वेदिका-चतुरस्रभूमियस्मिंस्तादृशः, अङ्कः-मध्यभागो यस्य तादृशम् , कैः सह ? तत्कालसेवागतैः तत्काले-तस्मिन्नक्सरे, सेवार्थमुपस्थितैः, गीतशास्त्रपरिज्ञानदूरारूढगर्वैः पतशास्त्रपरिज्ञानेन-गानग्रन्थविज्ञानेन , दूरारुढ. गः-चिरस्थिराभिमानः, गान्धर्विकोपाध्यायैः गान्धर्षविद्याध्यापकैः सह खि
च पुनः, तरणौ सूर्ये, अस्तशिखरपर्यस्तमण्डले अस्तशिखरे-अस्ताचलोव॑भागे, पर्यस्त-व्याप्तम् , मण्डलंबिम्ब, यस्य तादृशे, अस्ताचलाधिरूढे सतीत्यर्थः, उत्तीर्य शिरोमहादवतीर्य, कृतसकलसान्ध्यकृत्यः सम्पादिताशेषसायन्तनकर्मा, देवतासपर्या देवतापूजाम् , विधाय सम्पाद्य, आगृहीतविकटशृङ्गारवेषः आग्रहीतः-समन्ताद्
Page #30
--------------------------------------------------------------------------
________________
१७२
टिप्पनक-परागविवृतिसंवलिता वृतो धृतासिपट्टप्रभापटलपोषितप्रदोषतिमिरैः शरीररक्षाविधावधिकृतैर्वीरपुरुषैभरदेशोपविष्टसोपायनानेकप्रधाननगरलोकमनेकभङ्गरचितरङ्गावलीतरङ्गितमसृणमणिकुट्टिमोत्सङ्गमविरलप्रकीर्णपुष्पप्रकरमखिललोकप्रार्थनीयसंगमामिर्मर्त्यलोकलक्ष्मीभिरिव राजलक्ष्मी द्रष्टुमेकहेलयोपगताभिरनयरत्नाभरणभूषिताङ्गायष्टिभिर्वारयोषाभिरापूर्यमाणपर्यन्तं कचित् सुखासीनसचिवपुत्रविचार्यमाणनव्यकविनिबद्धकाव्यगुणदोषविभागं कचिदाबद्धमण्डलीकवैपश्चिकप्रपञ्चयमानललितपश्चममामरागं कचिद्वाञ्छिताधिकारसेवकवारपरिचर्यमाणविकटवेत्रासनो. पविष्टप्रधानसचिवं कचिल्लिख्यमाननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवं कचिचतुरपरिहासरञ्जित
टिप्पनकम्-वैपश्चिकः-वैणिकः [ग] ।
धृतः, विकट:-स्फुटः, शृङ्गारवेषः-शृङ्गारोद्दीपकवरूपं, येन ता शः स राजा, आस्थानमण्डपं सभागृहम् , अगच्छत् गतवानिति दूरेणान्वेति । कीदृशः? वीरपुरुषैः उद्भटजनैः, सर्वतः समन्ततः, परिवृतः परिवेष्टितः, कीदृशैः ? घटितपरिवेषैः बद्धमण्डलीकैः, पुनः धृतासिण्डप्रभापटलपोषितप्रदोषतिमिरैः धृतस्य-करगृहीतस्य, असिपमुस्यखड्गफलकस्य, प्रभापटलेन-कान्तिकलापेन, पोषितं-संवर्धितम् , प्रदोषतिमिरं-सायन्तनान्धकारो यस्तादृशैः; पुनः शरीररक्षाविधौ शरीररक्षणकार्ये, अधिकृतैः नियुक्तैः । कीदृशमास्थानमण्डपम् ! द्वारदेशोपविष्टसोपायनानेकप्रधाननगरलोकं द्वारदेशे-अन्तःप्रवेशनिर्गमप्रदेशे, उपविष्टा:-आसिताः, सोपायनाः-उपहारसहिताः, प्रधानाः-मुख्याः, नगरलोकाः-नागरिकजना यस्य तादृशम् ; पुनः अनेकभङ्गरचितरङ्गावलीतरङ्गितमसृणमणिकुटिमोत्सङ्गम् अनेकभङ्गैःबहुप्रकारैः, रचिताः-निर्मिताः,ये रजा:-नृत्यमण्डपाः, नील-पीतादिवर्णा वा, तेषामावल्या, तरङ्गितः-तरङ्गवत्वेन लक्षितः, मसृणमणिकुट्टिमस्य-चिकणमणिबद्धभूमेः, उत्सङ्गः-मध्यभागो यस्मिंस्तादृशम् ; पुनः अविरलप्रकीर्णपुष्पप्रकरम् अविरलं-निरन्तरम् , प्रकीर्णः-प्रक्षिप्तः, पुष्पप्रकरः-पुष्पसमूहो यस्मिंस्तादृशम् ; पुनः वारयोषाभिः वाराङ्गनाभिः, वेश्याभिरिति यावत् , आर्यमाणपर्यन्तम् आपूर्यमाण:-व्याप्या अखिललोकप्रार्थनीयसङ्गमाभिः अखिललोकः-सर्वजनैः, प्रार्थनीयः-स्पृहणीयः, सामः-सम्पर्को यासां तादृशीभिः पुनः राजलक्ष्मी राजशोभा, द्रष्टुं साक्षात्कर्तुम् , एकहेलया युगपत , उपगताभिः आगताभिः, मर्त्यलोकलक्ष्मीभि. रिव मर्त्यभुवनसम्बन्धिनीभिलक्ष्मादेवीभिरिवेत्युत्प्रेक्षा; पुनः अनर्घ्यरत्नाभरणभूषितालयष्टिभिः अनध्य:-अमूल्यैः, रत्नाभरणैः-रक्षमयालङ्करणैः, भूषिता-उद्भासिता, अङ्गयष्टिः-शरीरयष्टिर्यासां तादृशीभिः; पुनः कचित् सुखासीनसचिव पुत्रविचायमाणनव्यकविनिबद्धकाव्यगुणदोषविभागं वचित्-कुत्रचित्स्थाने, सुखेन-आनन्देन, आसीनैः-उपविशद्भिः, सचिवपुः,-मत्रिपुत्रैः, विचार्यमाण:-आलोच्यमानः, नव्यकविनिबद्धस्य-नवीनकविप्रणीतस्य, काव्यस्य, गुणदोष. विभाग:-गुण-दोषयोविभागः-पार्थक्यं, यस्मिंस्तादृशम् । पुनः कचिदाबद्धमण्डलीकवैपश्चिकप्रपश्यमानललितपञ्चमग्रामरागं कचित्-कस्मिंश्चित् स्थाने, आबद्धमण्डलीकैः-रचितमण्डलिकः, वैपच्चिकैः-विपञ्ची-वीणा, तद्वादनं शिल्पं येषां तैः, वीणावादिभिरित्यर्थः, प्रपञ्च्यमानाः-स्फुटीक्रियमाणाः, पञ्चमः-"वायुः समुत्थितो नाभेरुरोहत्कण्ठमूर्धसु । विचरन् मध्यमस्थानप्राप्या पञ्चम उच्यते ॥" इत्यभियुक्तोक्तः, खरसन्दोहरूपो ग्रामश्च, रागो लयश्च यस्मिंस्तादृशम् ; पुनः कचिद्वाछिताधिकारसेवकवारपरिचर्यमाणविकटवेत्रासनोपविष्टप्रधानसचिवं कचित्-कस्मिंश्चित् स्थाने, वाञ्छितः-अभिलषितः, अधिकारः-उच्चाधिकारी यैस्तादृशानां सेवकानां-परिचारकाणाम् , वारेण-समूहेन, परिचर्यमाणःसेव्यमानः, विकटे-विस्तृते, वेत्रासने-वेत्ररचितासने, उपविष्टः प्रधानसचिवः-प्रधानमन्त्री, यस्मिस्तादृशम् , “स्तोमीध-निकरवात-वार-संघात-संचयाः” इत्यमरः; पुनः, कचिल्लिख्यमाननिःसंख्यराजाशालेखमुद्रासिन्दूरपूरारुणीकृतदिवं कचित्-कुत्रचित् स्थाने, लिख्यमानानां, निःसंख्यानां-संख्यारहितानाम् , राजाज्ञाना-राजकीयादेशानाम् , ये लेखा:-तद्बोधकाक्षराणि, तेषां यानि मुद्रासिन्दूराणि-मसीशोषणार्थमक्षररजनार्थ च तदुपरि विकीर्यमाणारुणरेणवः, तेषां पूरेण-पुजेन, अरुणीकृता द्यौराकाशं यस्मिंस्तादृशम् , “सिन्दूरं रकचूर्णके” इति मेदिनी; पुनः क्वचिचतुरपरिहासरञ्जितराजगणिकाकटाक्षवीक्षणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं वचित्-कस्मिंश्चित् स्थले, चतुरेण-वैदग्ध्यपूर्णेन, परिहासेन,
Page #31
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
राजगणिकाकटाक्षवीक्षणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं क्वचिददानरुष्टदुष्टप्रतीहारहठनिर्धार्यमाणरोषदष्टौष्ठावण्ठनातं सर्वतश्च प्रकटिताहङ्कारैः परुषहुङ्कारवित्रासितजनैरुद्धतांस्तर्जयद्भिर्मान्यलोकं कृताञ्जलिपुटैरावर्जयहिरूस्थितानुपवेशयद्भिरनुपयुक्तानिष्काशयद्भिरधिकृतान् स्वकर्मसु व्यापारयद्भिर्वावदूकान मूकवते धारयद्भिमहाप्रतीहारैः कृतावेक्षणं द्वारदेशादपक्रान्तसकलपदातिपरिवारैरुदंशुमणिमुकुटभास्वरशिरोभिराखण्डलच्छिन्नपिच्छैर्गिरिभिरिव शिखरदीप्यमानवामिभिरितस्ततो निषण्णैरेकैकानुचरकृतसाहायकैर्महादण्डनायकैरध्यासितमध्यमतिभूयस्तया च राजलोकस्य कृच्छूलभ्यनिर्गमप्रवेशावस्थानमास्थानमण्डपमगच्छत् [ग] ।।
तत्र च नृपतिदेवताराधनव्यतिकरण चिरकाललब्धावसरमतिदूरदर्शितादरैः प्रधानदौवारिकैः प्रवेश्य
टिप्पनकम्-प्रणधिलोकं दूतजनम् । कृतालोकेन एकत्र विहितालोकशब्देन, अन्यत्र कृतप्रकाशेन । गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन एकत्र गमनौत्सुक्येन चलन् कजलस्निग्धः चूडासमूहरे यस्य स तथोक्तस्तेन, अन्यन्त्र कलस्निग्धः इन्द्रमणितेजोज्वालाकलापो यस्य स तथोक्तस्तेन [घ]।
रञ्जिताः-प्रसादिताः, या राजगणिका:-राजवेश्याः, तासां कटाक्षेण-अपाङ्गभङ्गया, यद् वीक्षण-दर्शनम् , तेन कृतार्थीकृताःप्रमोदिताः, पूर्वसंसृष्टाः-पूर्वसम्मिलिताः, विटसामन्ताः-लम्पटक्षुद्रनृपा यस्मिंस्तादृशम् ; पुनः क्वचिदवानरुष्टदुष्टप्रतीहारहठनिर्धार्यमाणरोषदष्टौष्ठावण्ठनातं क्वचित्-कस्मिंश्चित् स्थाने, अदानेन-दानाभावेन, सृष्टः- क्रुद्धः, पुनः दुष्टप्रतीहारेग-दुष्टद्वारपालेन, हठेन-बलात् , निर्धार्यमाणः-समुदायात् पृथक् क्रियमाणः, रोषेण-अमर्षेण, दष्टौ ओष्ठौ यस्ताहशानाम् , अवण्ठाना- दुर्थलानाम् , मातः-समूहो यस्मिंस्तादृशम् ; पुनः सर्वतः सर्वांशतः, महाप्रतीहारैः प्रधानद्वारपालैः, कृतावेक्षणं कृतनिरीक्षणम् , कीदृशैस्तैः ? प्रकटिताहङ्कारैः आविष्कृताभिमानैः, पुनः परुषहुङ्कारवित्रासितजनैः परुषेण-तीव्रण, हुकारेण, वित्रासिताः-विभीषिता जता यैस्तादृशैः; पुनः उद्धतान् अविनीतजनान् , तर्जयद्भिः बिभीषयद्भिः, पुनः मान्यलोकं माननीयजनम् , कृताञ्जलिपुटैः रचिताञ्जलिपुटैः, आवर्जयद्भिः, नमस्कुर्वद्भिः; पुनः ऊर्ध्वस्थितान उत्थितान् , उपवेशयद्भिः उपवेशनं कारयद्भिः पुनः अनुपयुक्तान् अनावश्यकजनान् , निष्काशयद्भिः बहिरपसार. यद्भिः पुनः अधिकृतान् तत्तत्कार्येषु नियुक्तजनान् ; स्वकर्मसु स्वखकार्येषु, व्यापारयद्भिः प्रेरयद्भिः पुनः वावदूकान वाचालजनान् , मूकव्रते मौनव्रते, धारयद्भिः स्थापयद्भिः; पुनः कीदृशमास्थानमण्डपम् ? महादण्डनायकैः प्रधानदण्डनीत्यध्यक्षैः,अध्यासितमध्यम् अधिष्ठितमध्यभागम् , कीदृशैः द्वारदेशादपक्रान्तसकलपदातिपरिवारैः द्वारदेशात्-प्रवेशनिर्गमस्थानविशेषात् , अपक्रान्ताः-निष्क्रान्ताः, सकलाः-सर्वे, पदातयः-पादचारिणः, परिवारा: सैनिका येषां तादृशैः; पुनः उदंशुमणिमुकुटभास्वरशिरोभिः उदंशुभिः-उद्गताः, अंशवः-किरणा येषां तारशैः, मणिमुकुटः-मणिमयमस्तकाभरणैः,भास्वराणि-दीप्यमानानि, शिरांसि-मस्तकानि येषां तादृशैः, अतः आखण्डलच्छिन्नपिच्छैः आखण्डलेन-इन्देण, छिन्नाः खण्डिताः, पिच्छा:-पक्षा येषां तादृशैः, पुनः शिखरदीप्यमानवज्राग्निभिः शिखरे-उपरिभागे, दीप्यमानः-ज्वलन् , वनाग्निः-वज्रनिर्गतामियेषां तादृशैः, गिरिभिरिव पर्वतैरिवेत्युत्प्रेक्षा; पुनः कीदृशैः ? इतस्ततः अत्र तत्र, निषण्णैः उपविष्टै; पुनः एकैकानुचरकृतसाहाय्यकैः एकैकेन, अनुचरेण-भृत्येन, कृत, साहाय्यं सहायता, येषां तादृशैः पुनः कीदृशमास्थानमण्डपम् ? राजलोकस्य राजकीयजनस्य, अतिभयस्तया अत्यन्ताधिक्येन, कृच्छ्रलभ्यनिर्गमप्रवेशावस्थानं कृच्छ्लभ्यानि-स्थलसंकीर्णतया क्लेशसाध्यानि, निर्गमप्रवेशावस्थानानिप्रवेशः-तत्रागमनम् , निर्गमः-ततो निष्क्रमणम् , अवस्थान-तत्रावस्थितिश्च यत्र तादृशम् [ग]
च पुनः, तत्र सभामण्डपे, नृपतिदेवताराधनव्यतिकरेण नृपतेः-राज्ञः, देवताराधनव्यतिकरेण-देवताराधनव्यासङ्गवशेन, चिरलब्धावसरं चिरेण-दीर्घकालेन, प्राप्तावसरम् , अतिदूरदर्शितादरैः अतिदूरादेव, दर्शितः-प्रकटितः, आदरः-सम्मानो येस्तादृशैः,प्रधानदौवारिकैः प्रधानद्वारपालेः, प्रवेश्य प्रवेश्य प्रवेश कारयित्वा कारयित्वा,प्रत्येकशः
Page #32
--------------------------------------------------------------------------
________________
१७४
टिप्पनक-परागविवृतिसंवलिता प्रवेश्य प्रत्येकशः कारितप्रणाममुपनीतविविधोपायनकलापं द्वीपान्तरायातमवनीपतीनां प्रधानप्रणधिलोकमवलोकनासनदानसंभाषणादिना यथोचितं प्रयुक्तेनोपचारेण पूजयित्वा स्थित्वा च क्षणं विसर्जितास्थानलोकः स्तोकशुचिसमाचारपरिचारकपरिवृत्तः सर्वतः कृतालोकेन पुरतः प्रसर्पता गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन दीपिकानिवहेन वेत्रधारीसमूहेन च समकालमावेद्यमानवा शुद्धान्तमगच्छत् [घ]॥ ___ तत्र चाविरलविप्रकीर्णपुष्पबलिशबलितातिमसृगमणिकुट्टिमे विकटपत्रभङ्गचित्रितचामीकरस्तम्भविरचनाचारुण्युपरिविस्तारिततारनेत्रपटविताने वितानकप्रान्तलम्बमानलोलमुक्तास्रजि ज्वलदकम्पयष्टिप्रदीपप्रकटितप्रशस्तभित्तिचित्रे सुकल्पिताचरणतल्पतलोपशोभिनि शय्याशिरोभागनिहितधौतकलधौतनिद्रा कलशो विशालवेश्मनि कृतावस्थानाम् , निवर्तितनिरन्तराहारग्रहणेन निगृहीतवृत्तिना सफलराज्यसुखोपभोगेष्वतिदुष्करेण व्रवच
एकैकशः, कारितप्रणामं विधापिताभिवादनम्, उपनीतविविधोपायनकलापम् उपनीतः-आनीतः, विविधानाम्अनेकविधानाम् , उपायनाना-प्राभूतानाम् , कलापः-समूहो येन तादृशम् , द्वीपान्तरायातम् अन्यद्वीपेभ्य आगतम् , अवनीपतीनाम् राज्ञाम् , प्रधानप्रणधिलोकं प्रधानदूतजनम् , यथोचितं यथायोग्यम् , प्रयुक्तेन अनुष्ठितेन, अवलोकनासनदानसम्भाषणादिना दर्शनोपवेशनाऽऽलापप्रभृतिना, उपचारेण पूजोपकरणेन, पूजयित्वा, च पुनः, क्षणं मुहूर्तम् स्थित्वा, विलम्ब्य, विसर्जितास्थानलोकः वक्तसभोपविष्टजनः सन् , शुद्धान्तम् अन्तःपुरम् , अगच्छत् गतवान् कीदृशः! स्तोकशचिसमाचारपरिचारकपरिवतः शुचिः-पूतः. समाचार:-चरितं.यस्य तादृशेन. स्तोकेनपरिमितेन, परिचारकेण-सेवकेन, परिवृतः-परिवेष्टितः; पुनः दीपिकानिवहेन दीपिकासमूहेन, वेत्रधारीसमूहेन द्वारपालिकासमूहेन च, समकालं युगपत् , आवेद्यमानवमा आवेद्यमान-दर्यमानम् , धर्म-मार्गो यस्य तादृशः; कीदृशेन तेन ! सर्वतः सर्वदिक्षु, कृतालोकेन कृतः, आलोकः- प्रकाशः, पक्षे अवलोकन, जयशब्दो वा येन तादृशेम, पुनः पुर: अने, प्रसर्पता प्रसरता, पक्षे प्रकर्षण गच्छता, पुनः गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन गतिरभसेन-स्फुरणवेगेन, दोलायमानः-दोलावदितस्ततः सञ्चलनशीलः, कजलस्निग्धा-कजलवत् श्लक्ष्णः, नीलःइन्द्रनीलमणिकृतः, शिखाकलापः-ज्वालासमूहो यस्य तादृशेन, पक्षे गतिरभसेन-गमनवेगेन, दोलायमानः, कजलवत् स्निग्धः-लक्ष्णः, नील:-श्यामवर्णश्च शिखाकलापः-शिरःस्थितकेशपाशो यस्य तादृशेन [घ]॥
तत्र तस्मिन् , अन्तःपुर इत्यर्थः, मदिरावती तन्नानी निजभार्याम् ,अपश्यत् दृष्टवान् कीदृशीं विशालवेश्मनि विशालभवने, कृतावस्थानां कृतस्थितिम् , कीदृशे ? अविरल विप्रकीर्णपुष्पबलिशवलितातिमसृणमणिकुट्टिमे अवि. रलविप्रकीर्णेन-निरन्तरप्रक्षिप्तेन, पुष्पवलिना-पुष्पप्रचुरपूजोपचारेण, शबलितः-चित्रितः, अतिमसृणमणिकुट्टिमः-अतिचिक्कण; मणिखचितभूमियस्मिस्तादृशे; पुनः विकटपत्रभङ्गचित्रितचामीकरस्तम्भरचनाचारुणि विस्टैः-प्रकटः, पत्रभङ्गैःपत्ररचनाभिः, चित्रिता:-चित्रान्विताः, ये चामीकरस्तम्भाः-सुवर्णमयस्तम्भाः, तेषां रचनामिः-निर्माणैः, चारुणि-मनोहरेपुनः उपरिविस्तारिततारनेत्रपटविताने उपरि-ऊर्यभागे, विस्तारितः, तारनेत्र:-तार-विशालं, नेत्राकृतियस्मिस्तादृशः, पटवितानः-वस्त्ररूप उल्लोचो यस्मिंस्तादृशे पुनः वितानकप्रान्तलम्बमानलोलमुक्तास्त्रजि वितानकप्रान्ते- उल्लोचपार्क, लम्बमाना-अवनमन्ती,लोला-चञ्चला,मुक्तास्रक्-मौक्तिकमाला यस्मितादृशे पुनः ज्वलदकम्प्रयष्टिप्रदीपप्रकाटेतप्रशस्तभित्तिचित्रे ज्वलन्तः-दीप्यमानाः, अकम्पा:-निश्चलाः, ये यष्टिप्रदीपाः-यष्टयुपरि निहिताः प्रदीपाः, तैः प्रकटितानि, प्रशस्तानि, भित्तिचित्राणि-कुड्यस्थितचित्राणि, यस्मिंस्तादृशे पुनः सुकल्पितास्तरणतल्पोपशोभिनि सुछ कल्पितंरचितम् , आस्तीर्ण मिति यावत् , आस्तरणम्-आवरणं, यस्मिन् तादृशेन, तल्पेन-शय्यया, उपशोभिनि-मनोहारिणिः पुनः शय्याशिरोभागनिहितधौतकलधौतनिद्राकलशे शय्यायाः शिरोभागे-मस्तकभागे, निहितः-सन्निवेशितः, धौत:खच्छः, कलधौतस्य-सुवर्णस्य, निद्राकलशः-सुखेन निद्राजनकः कुम्भो यस्य तादृशे, पुनः कीदृशीम् ? प्रकामकर्शितशरीरां प्रकामम्-अत्यन्तम्, कर्शित-शतामापादितम्, शरीरं यस्यास्तादृशीम् , केन ?वतचरणेन नियमाचरणेन, कीदृशेन! निवर्तितनिरन्तराहारग्रहणेन निवर्तितं-निवारितम् , निरन्तर-सार्वदिकम् , आहारग्रहणं-भोजनग्रहणं यस्मिंस्तादृशेन;
Page #33
--------------------------------------------------------------------------
________________
तिलकमारी। .
१७५ रणेन भर्तुरदर्शनेन च प्रकामकर्शितशरीराम् , उज्झितालङ्कारामप्यकृत्रिमेण कान्तिसुकुमारतादिगुणपरिगृहीतेनाङ्गमाधुर्येण सुकविवाचमिय सहृदयानां हृदयमावर्जयन्तीम् , ज्योत्स्नावदातनिर्मलाम्बरधारिणी राकारजनिमिव, वारंवारमधिगताधिकविकाशसंपदा मुखेन परिपूर्णमिन्दुमण्डलं तुलयन्तीम् , उपनीतविविधवस्त्राभरणमुत्सवागतं बन्धुवनितावर्ग सहस्रगुणमूल्यैरंशुकै रनालङ्कारैश्च संभावयन्तीम् , शक्रावतारगमने सबहुमानेन वेमानिकदर्शने सविस्मयेन दिव्यहाराङ्गुलीयकालङ्कारलाभे सपरितोषेण वैतालरूपव्यावर्णेन सत्रासेन कण्ठच्छेदसमये समासादितमूर्छन राजलक्ष्मीनर्मभाषितश्रवणे सहासोल्लासेन भाविखेचरचक्रसाम्राज्यसुतवरप्राप्स्यवसरे समारूढपरमानन्दनिःष्यन्देन मनसा पार्श्ववर्तिपरिजननिवेद्यमान पत्युरतिक्रान्तयामिनीवृत्तान्तमाकर्णयन्तीम् ,
पुनः सकलराज्यसुखोपभोगेषु सकलानि-समस्तानि, यानि राज्यसुखानि, तेषामुपभोगेषु-अनुभवेषु, निगृहीत. वृत्तिना निरुद्धमनोवृत्तिना; पुनः अतिदुष्करेण अतिदुःखसाध्येन च पुनः, भर्तुः पत्युर्मेघवाहनस्य, अदर्शनेन दर्शनाभावदुःखेन; पुनः कीदृशीम् ? उज्झितालङ्कारामपि त्यक्ताभरणामपि, पक्षे त्यक्तानुप्रासोपमायलङ्कारामपि, सुकविवाचमिव सत्कविवाणीमिव, अकृत्रिमेण स्वाभाविकेन, कान्तिसुकुमारतादिगुणपरिगृहीतेन कान्तिःदेहधुतिः, सुकुमारता-अतिकोमलता च आदियेषां तादृशः गुणैः, परिगृहीतेन-अन्वितेन, अङ्गमाधुर्येण शरीरसौन्दर्येण, पक्षे कान्तिः-औज्वल्यम् , हालिकादिपदविन्यासवैपरीत्येन विजातीयशोभाशालित्वमिति यावत् , सुकुमारता-अक्षराणाम्पारुष्यम्, तत्प्रभृतयो ये गुणा:-भात्मनः शोर्यादय इव रसस्योत्कर्षका धर्माः, तैः परिगृहीतेन, अङ्गमाधुर्येण अङ्गस्य-काव्यशरीरभूतस्य शब्दस्य, यन्माधुर्य-श्रुतिसुखाधायकत्वं तेन, सहृदयानां ददयवताम् , चेतनानामित्यर्थः, पक्षे काव्यार्थपरिशीलनपरिणतमतीनाम्, हृदयम् अन्तःकरणम्, आवर्जयन्तीम् आकर्षन्तीम्, पुनः राकारजनिमिव पूर्णिमारात्रिमिव, ज्योत्सनावदातनिर्मलाम्बरधारिणी ज्योत्स्नावत्-चन्द्रिकावत् , अवदातः-धवलः, निर्मल:-स्वच्छश्च, योऽम्बरः-वस्त्रम् , तद्धारिणीम् , पक्षे ज्योत्स्नया-चन्द्रिकया, अवदातं निर्मलं च यदम्बरम्-आकाशम्, तद्धारिणीम् , पुनः अधिगताधिकविकाससम्पदा अधिगता-प्राप्ता, अधिका-विपुला, विकाससम्पत्-प्रकाशसम्पत्तिर्येन तादृशेन, मुखेन, वारं वारं पुनः पुनः, परिपूर्ण-सम्पूर्णम् , इन्दुमण्डलं चन्द्रमण्डलम् , तुलयन्तीम् उपमिन्वतीम् , पुनः उपनीतविविधवस्त्राभरणम् उपनीतानि-उपहृतानि, विविधानि वस्त्राणि, आभरणानि-आभूषणानि च येन तादृशम् , उत्सवागतम् उत्सवप्रसङ्गेनागतम्, बन्धुवनितावर्ग स्वबन्धुरूपनारीगणम् , सहस्रगुणमूल्यैः तदुपनीतवस्त्राभरणमूल्यापेक्षया सहस्रगुणानि-सहस्रगुणाधिकानि, मूल्यानि-निष्क्रयद्रव्याणि, येषां तादृशः, अंशुकैः श्लक्ष्णवस्त्रैः, कौशेयवस्वैरिति यावत् ; च पुनः, रत्नालङ्कारैः रममयाभूषणैः, सम्भावयन्ती सत्कुर्वतीम् । पुनः पार्श्ववर्तिपरिजननिवेद्यमानं पार्श्ववर्तिपरिजनेन-निकटवर्तिपरिवारेण, बोध्यमानम् , पत्युः मेघवाहनस्य, अतिक्रान्तयामिनीवृत्तान्तं व्यतीतरात्रिसमाचारम् , मनसा हृदयेन, आकणेयन्ती शृण्वतीम्, कीदृशेन मनसा? शक्रावतारगमने शकावताराख्यतीर्थप्रयाणश्रवणक्षणे, स बहुमानसहितेन; पुनः वैमानिकदर्शने विमानवासिदेवदर्शनश्रवणक्षणे, सविस्मयेन आश्चर्यान्वितेन; पुनः दिव्यहारालीयकालङ्कारलाभे परमोत्तमहाराहुलीयकरूपाभरणप्राप्तिश्रवणक्षणे, सपरितोषेण सन्तुष्टेन; पुनः वेतालरूप. व्यावर्णने देतालसम्बन्धिभयङ्कराकृतिवर्णनश्रवणक्षणे, सत्रासेन भीतेन; पुनः कण्ठच्छेदसमये कष्ठकर्तनश्रवणक्षणे, समासादितमूर्छन मूच्छितेन; पुनः राजलक्ष्मीनर्मभाषितश्रवणे राजलक्ष्म्याः -राजवैभवाधिष्ठातृदेव्याः, नर्मणा
भाषितम्-उत्तम, तस्य श्रवणे-श्रवणक्षणे, सहसोलासेन सहसा-शीघ्रम् , उल्लास:-आनन्दो यस्य तादृशेन, सहासोल्लासेनेति पाठे हासेन सहितः सहासः, हासपूर्वक उल्लासो यस्य तादृशेन पुनः भाविखेचरचक्रसाम्राज्यसुतवरप्राप्स्यवसरे खेवरचक्रस्य-विद्याधरसमूहस्य, यत् साम्राज्य-सम्राट्वम्, तद् भावि-भविष्यद् यस्य तादृशो यः सुतःपुत्रः, तदर्थवरलाभश्रवणक्षणे, समारूढपरमानन्दनिःस्यन्देन समारूढः-समासादितः, परमानन्दस्य-अत्यानन्दामृतस्य, निःस्यन्दः-प्रस्रवणम् ,प्रादुर्भाव इति यावत् , येन.तादृशेन । पुनः कीदृशीम् ? अन्तःपुरविलासिनीभिः अन्तःपुरवधूभिः, परिवृतां वेष्टिताम् , कीदृशीभिः ? अनतिदूरवर्तिनीभिः निकटवर्तिनीभिः; पुनः संनिधापितसितकुसुमदामदूर्वाक्षतधिलवाभिः संनिधापिताः-मङ्गलार्थमुपस्थापिताः, सितकुसुमदानः-श्वेतपुष्पमाल्यस्य, दूर्वायाः-तदाख्यतृणविशेषस्य,
Page #34
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता अनतिदूरवर्तिनीभिः संनिधापितसितकुसुमदामदुर्वाक्षतदधिलयाभिरमलकाश्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलप्रदीपाभिः प्रत्यग्रविरचितचतुष्कचारुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितविततहेमपट्टाभिमुहुर्मुहुरदेशप्रहितलोचनामिः प्रतिपालयन्तीभिः क्षोणीपालागमनमतिरुचिरवेषाभिरन्तःपुरविलासिनीभिः परिवृतां मदिरावतीमद्राक्षीत् [3] ॥ ___ दृष्ट्वा च दूरविकसितस्मितादृष्टिस्तां ससंभ्रमकृताभ्युत्थानां करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि समीपोपविष्टेयुगपदुत्थाय विहितप्रणामैः प्रधानान्तवंशिक सादरमुपदर्शिते स्पर्शवति हेमविष्टरे न्यवेशयत् []। उपविष्टश्च दक्षिणं पार्श्वमाश्रित्य तस्याः क्रमेणैताभिः सकललौकिकाचारकुशलाभिरिवनिताभिः प्रयुक्तमवतारणकमङ्गलमन्वभवत् [छ] ॥
अथ पुरोहितपुरःसरेषु विहितसायंतनस्वस्त्ययनकर्मस्वपक्रान्तेषु, प्रमोदसलिलप्लुतेक्षणासु दत्त्वाऽक्षतानुदीरिताशीष्षु निर्गतासु बान्धववृद्धासु, प्रस्थितेषु यथास्वमधिकारसदनानि सौविदल्लेषु, प्रारब्धपरिहासपेशल
अक्षतस्य-आर्द्रतण्डुलस्य, दनश्च, लवाः-अंशा याभिस्तादृशीभिः; पुनः अमलकाञ्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलप्रदीपाभिः अमलेषु-निर्मलेषु, काञ्चनस्थालेषु-सुवर्णमयपात्रेषु, विशेषेण निहिताः स्थापिता , उच्छिखाः-उद्उर्व, शिखा-ज्वाला, येषां तादृशाः, पिष्टमया:-स्निग्धचूर्णमयाः, मङ्गलादीपा याभिस्तादृशीभिः; पुनः प्रत्यग्रविरचितचतुष्कचारुणि प्रत्यप्रं-नूतनं यथा स्यात् तथा, विरचितेन-निर्मितेन, चतुष्केण-चतुःस्तम्भेन मण्डपेन, चारुणि-मनोहरे, मणिवितर्दिकापृष्ठपीठे मणिमयवेदिकापृष्ठभागरूपासने, प्रतिष्ठापितविततहेमपट्टाभिः प्रतिष्ठापितानि-संस्थापितानि, विततानि-विस्तृतानि, हेमपट्टानि-सुवर्णमयोचपीठानि याभिस्तादशीभिः पुनः द्वारदेशप्रहितलोचनाभिः द्वारदेश प्रहिते-प्रेरिते, लोचने याभिस्तादृशीभिः; पुनः क्षोणीपालागमनं क्षोणीपालस्य-राज्ञः, आगमनं प्रतिपालयन्तीभिः प्रतीक्षमाणाभिः; पुनः अतिरुचिरवेषाभिः अतिमनोहरवेषशालिनीभिः [3] ॥
दृष्टा च तां तथाविधामवलोक्य तु, दूरविकसितस्मितादृष्टिः दूरादेव विकसिता-उत्फुल्ला, स्मितेन-मन्दहासेन, आदा-परसा, यद्वा स्मिता-मन्दहासान्विता, सरसा-अश्रुभिरा , दृष्टिर्यस्य तादृशः, ससम्भ्रमकृताभ्युत्थानां सवेगमभ्युत्थिताम् , तां मदिरावतीम् , करे हस्ते, गृहीत्वा, तत्र तस्मिन् , हेमविष्टरे सुवर्णपट्टे, न्यवेशयत् उपवेशितवान् , स राजेति शेषः । कीदृशे ? मणिवेदिकापृष्ठवर्तिनि मणिवेदिकोपरि विद्यमाने, पुनः युगपदुत्थाय सहैवोत्थाय, विहितप्रणामैः कृताभिवादनैः, समीपोपविष्टः समीपस्थितैः, प्रधानान्तर्वशिकैः अन्तः- अभ्यन्तरः, वंश:-गृहम्, तत्र नियुक्तः, मुख्यभूतैरन्तःपुराधिकृतजनैरिति यावत् , सादरं सबहुमानम् , उपदर्शिते दृष्टिगोचरीकारिते, पुनः स्पर्शपति प्रशस्तस्पर्शने, "अन्तःपुरे त्वधिकृतः स्यादन्तर्वशिको जनः" इत्यमरः [च] । तस्याः मदिरावत्याः, दक्षिणपार्श्व दक्षिणभागम् , आश्रित्य अधिष्ठाय, उपविष्टः खयमपि कृतोपवेशनः स राजा, सकललौकिकाचारकुशलाभिः अशेषलौकिकव्यवहारनिपुणाभिः, एताभिः अनुपदमुक्ताभिः, वारवनिताभिः वेश्याभिः, प्रयुक्तं कृतपूर्वम् , यद् अवतारणकमङ्गलं वस्त्राञ्चलादिना पूजनरूपमङ्गलं स्वागतमङ्गलगानं वा, तत् अन्वभवत् अनुभूतवान् [छ]।
अथ अनन्तरम् , पुरोहितपुरस्सरेषु पुरोहितप्रमुखेषु, षट्कर्मसु अध्ययनाऽध्यापन-यजन-याजन दान-प्रतिग्रहरूपाणि घट् कर्माणि येषां ते षट्कर्माणो विप्रास्तेषु, विहितसायन्तनखस्त्ययनकर्मसु विहितम् -अनुष्ठितम् , सायन्तनंसायंकाल कम् , खस्त्ययन-कल्याणफलककर्मविशेषः, स्वस्तिपदघटितम अपाठ इति यावत् , यैस्तादृशेषु, अत एव अपक्रान्ते निष्कान्तेषु सत्सु, तथा प्रमोदसलिलप्लुतेक्षणासु प्रमोदसलिलैः-आनन्दजलैः, प्लुते व्याने, ईक्षणे नेत्रे यासां तादृशीषु, बान्धववृद्धासु बन्धुभूतवृद्धस्त्रीजनेषु, अक्षतान् शुभाशीर्व्यजकातण्डुलान् , दत्वा उरिक्ष य, उदीरिताशीषु उक्काशीर्वादासु, अत एव निगतासु निष्कान्तासु सतीधु, तथा सौविदल्लेषु अन्तःपुररक्षकजनेषु, यथाखं यथायोग्यम् , अधिकारसदनानि रक्षणाय स्वस्खाधिकृतगृहान् , प्रस्थितेषु कृतप्रस्थानेषु । तथा प्रारब्धपरिहासपेशलकथासु
Page #35
--------------------------------------------------------------------------
________________
तिलकमारी। कथासु स्थित्वा मुहूर्तमपसृतासु सव्याजं प्रियासहचरीषु, प्रकटिताङ्गरागशुक्तिषु प्रमृष्टमणिदर्पणासु समुत्सर्पितविलासदीपवर्तिषु संनिधापितकुसुमपटवासताम्यूलरनालङ्कारपटलकासु निर्यातासु शुद्धान्तशय्यापालिकासु, विविक्ततामुपगते द्वारकपाटसंघटनधनविसर्पदगरुघनसारधूपोद्गारसौरभे वासभवने, भूमिपालस्तिर्यगावलितकण्ठकाण्डेन वदनपुण्डरीकेण प्रत्यवयवं विलोक्य स्पृष्ट्वा च करतलेन मन्दमन्दमानन्दनियत्पुलककलिकाकोरकितानि मदिरावतीगात्राणि किश्चिदाकुश्चितेक्षणः सकृप इव खिन्नाक्षरोद्गारं शनैर्व्याजहार- देवि! दृढमायासितासि, मयैव गाढकृतनिश्चयेन त्वदर्थसिद्धयर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति वासराणि प्रकृतिकर्कशजनोचितैर्ऋतकर्मभिः कदर्थितोऽयं सततसुखोचितस्त्वयात्मा, किमर्थमेषा मदकशय्याशयनलालिता ललिताङ्गि! शायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसरसरससुकुमारा काययष्टिः, किमिति निर्दये ! निसर्गपेलवं मध्यभागमनुदिवसमुपवासः कर्शयन्त्या कृतं प्रकृतिकर्कशस्यास्य
प्रारब्धा-वक्तुमुपक्रान्ता, परिहासपेशला-हास्यमनोहरा, कथा-वाक्यप्रबन्धो याभिस्तादृशीषु, प्रियासहचरीषु प्रियासखीषु, मुहूर्त क्षणम् , स्थित्वा विलम्ब्य, सव्याज केनचिच्छद्मना, अपसृतासु निर्गतासु । तथा शुद्धान्तशय्यापालिकासु अन्तःपुरशय्यारक्षिकासु, तद्विन्यासिकाखिति यावत् , निर्यातासु निर्गतासु सतीषु, कीदृशीघु ? समुत्सर्पितविलासदीपवर्तिकासु समुत्सर्पिता-समुत्तेजिता, विलासदीपस्य-सुरतप्रदीपस्य, वर्तिः-दशा, याभिस्तादृशीषु; पुनः प्रकटिताङ्गरागशुक्तिषु प्रकटिताः-मञ्जूषादेरुद्धृताः, अङ्गरागस्य-अङ्गविलेपनद्रव्यस्य, आधारभूताः शुक्यो याभिस्तादृशीषु; पुनः प्रसृष्टमणिदर्पणासु प्रकर्षेण मृष्टाः-विशोधिताः, मणिदर्पणाः-मणिमयदर्पणा याभिस्तादृशीषुः पुनः सन्निधापितकुसुमपटवासताम्बूलरत्नालङ्कारपटलकासु सन्निधापितम्-उपस्थापितम्, कुसुमानां-पुष्पाणाम् , पटवासानां-वसनवासकाना-कुछमादिचूणानाम्, ताम्बूलाना-नागवल्लीदलानाम् , रत्नालङ्काराणां-रत्नमयाभरणानाम्, पटलं-समूहो याभिस्तादृशीषु । तथा द्वारकपाटसंघटनघनविसर्पदगरुघनसारधूपोद्गारसौरमे द्वारकपाटयोः-द्वारवर्तिकपाटयोः, संघटनेन-संयोजनेन, घन-सान्द्रं यथा स्यात् तथा, विसर्पत-अन्तः प्रसरत् , अगुरु-सुगन्धिद्रव्यविशेषः, धनसार:-कर्पूरः, तयोधूपस्योगारेणप्रसारण, सौरभम्-आमोदो यस्मिंस्तादृशे, वासभवने वासगृहे, विविक्ततां निर्जनताम् , उपगते प्राप्ते सति, भूमिपाल: राजा मेघवाहनः, तिथंगावलितकण्ठकाण्डेन तिर्यक्-कुटिलं यथा स्यात् तथा, आवलितः-आनमितः, कष्ठकाण्ड:कण्ठरूपः काण्ड:-नालो यस्य तादृशेन, वदनपण्डरीकेण मखकमलेन, आनन्दनियत्पलककलिकाकोरकित आनन्देन निर्यतीभिः-निःसरन्तीभिः, पुलककलिकाभिः-रोमाञ्चकोरकैः, कोरकितानि-व्याप्तानि, मदिरावतीगात्राणि मदिरावतीशरीराणि, प्रत्यवयवं प्रत्यङ्गम् , विलोक्य दृष्ट्वा, च पुनः, करतलेन हस्ततलेन, मन्दं मन्दं किञ्चित् किश्चित् , स्पृष्ट्वा स्पर्श कृत्वा, किञ्चिदाकुञ्चितेक्षणः किञ्चित्सङ्कोचितनयनः, सकृप इच सदय इव, खिन्नाक्षरोदारं खिमः-- खेदान्वितः, अक्षरोद्गार:-अक्षरोचारणं यस्मिंस्तादृशं यथा स्यात् तथा, शनैः मन्दम्, व्याजहार उक्तवान् , किमित्याहदेवि ! राशि!, त्वं दृढम् अत्यन्तम् , आयासिता क्लेशिता, असि वर्तसे, त्वदर्थसिद्धयर्थं त्वत्पुत्ररूपार्थसितम्, गाढकृतनिश्चयेन कृतदृढनिश्चयेन, मयैव, अध्यवसिते संकल्पिते, देवतासमाराधनविधौ देवतार्चनकार्य, निष्कारणं वृथैव, इयन्ति एतावन्ति, वासराणि दिनानि, प्रकृतिकर्कशजनोचितैः प्रकृत्या-खभावेन, कर्कशाः-कठोरकलेवराः, ये जनाः, तदुचितैः-तद्योग्यैः, व्रतकर्मभिः नियमाचरणैः, सततसुखोचितः अनवरतसुखानुभवयोग्यः, अयमात्मा, किमिति किमर्थ त्वया भवत्या, कर्थितः क्लेशितः । हे ललिताङ्गि! सुन्दरशरीरे !, स्थलारविन्द केसरसरससु. कुमारा स्थलारविन्दस्य-स्थलकमलस्य, ये केसराः-किजल्काः, तद्वत् सरसा-स्निग्धा, सुकुमारा-अतिकोमला, मदतशय्या. शयनलालिता मदीयोत्सङ्गरूपशव्यायां शयनेन -स्वपनेन, लालिता-प्रसादिता,एषा काययष्टिःखशरीरयष्टिः, निरावरणासु आवरणरहितासु, स्थण्डिलस्थलीषु चत्वरभूमिषु, किमर्थं शायिता खापिता, । हे निर्दये ! दयारहिते !, निसर्गपेलवं खभावतः कोमलम् , मध्यभागं शरीरमध्यावयवम् , अनुदिनं प्रतिदिनम् , उपवासैः अनशनैः, कर्शयन्त्या कृशतामा
२३ तिलक.
Page #36
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता कुचयुगलस्य साहायकम् , अहो ते बालिशत्वम् , अहोऽनालोचकत्वम् , अहो यहच्छाकारिता' इत्यभिधाय सत्वराकृष्टसंनिकृष्टविलासोपकरणपटलकः सविलेपनां सालङ्कारां सतिलका सावतंसां सशेखरां स्वकरण तां चकार [ज]
दृष्ट्वा च विरतनिमेषया दृष्टया सुचिरमतिचारुणा तेन वेषग्रहणेन तैश्च तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मरविकारैर्द्विगुणतररम्यदर्शनां सुदृढमाश्लिष्य शयनीयमनयत, तत्रैव च तया सह सुष्वाप [झ]। स्वल्पावशेषायां च क्षपायामधोमुखविषाणकोटिनोवंचरणेन लाञ्छनमृगेण विधृतमूलाग्रभागव्यत्यये व्रजत्यस्तमस्ताचलचकोरकामिनीमन्दमन्दाचान्तपिच्छायविरसचन्द्रिक चन्द्रमसि, प्रतिवेलमुन्नतनतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरेणावलोकयत्सु निजप्रभापहारभीतेषु वासभवनप्रदीपेषु, प्रभातपरुषमारुताहतासु तनुतमिस्रच्छेदपल्लवकृतनिवेशमवश्यायजलबिन्दुजालमिव नक्षत्रनिवहमजस्रमुज्झतीवाशालतासु, पर्याय
पादयन्या, त्वयेति शेषः, प्रकृतिकर्कशस्य स्वभावतः कठोरस्य, अस्य कुचयुगलस्य स्तनद्वयस्य, साहाय्यक सहायत्वम् , स्थौल्यार्थ उपकार इति यावत् , किमिति किमर्थ कृतं विहितम् , शरीरमध्यभागस्य कार्ये कुचस्थौल्यस्यावश्यम्भावात् । ते तव, बालिशत्वं मूर्खत्वम् , अहो खेदजनकम् , अनालोचकत्वम् अविचार्यकार्यकारित्वम् , अहो खेदजनकम् , यहच्छा. कारिता खेच्छया कार्यकारित्वमपि, अहो खेदजनकम् । इति इत्थम् , अभिधाय उक्त्वा, सत्वराकृष्टसन्निकृष्टविलासोपकरणपटलकः सत्वरं-शीघ्रम् , आकृष्टम्-आकृष्य गृहीतम्, सनिकृष्टानां-निकटस्थितानाम् , विलासोपकरणानांविलासोपयोगिनां विलेपनद्रव्यादीनाम्, पटलं-समूहो येन तादृशः स राजा, स्वकरेण वहस्तेन, तां राज्ञीम्, सविलेपनां विलेपनद्रव्येण विलिप्ताम् , पुनः सालङ्काराम् अलङ्कारैरलङ्कृताम् , पुनः सतिलका रचिततिलकाम् , पुनः सावतंसाम् अवर्तसेन-कर्णपूरेण सहिताम्, सशेखरा मस्तकाभरणयुताम् , चकार कृतवान् , "पुंस्युत्तंसाऽवतंसौ द्वौ कर्णपूरे च शेखरे" इत्यमरः [ज]। अतिचारुणा अतिमनोहरेण, तेन अनुपदमुपवर्णितेन, वेषग्रहणेन वेषधारणेन, च पुनः, तत्कालं तत्क्षणम् , आविर्भूतैः उद्भूतैः, प्रियप्रेमातिशयदर्शनजन्मभिः प्रियस्य-भर्तुः, यः प्रेमातिशयः-स्नेहातिशयः, तस्माजन्मयेषां तादृशैः, तैः प्रसिद्धैः, स्मरविकारैः कामविकारैः, द्विगुणतररम्यदर्शनां द्विगुणतरम्-अतिद्विगुणम् , रम्य-मनोहरम् , दर्शनं यस्यास्तादृशीम् , मदिरावतीमिति शेषः, विरतनिमेषया निमेषशून्यया, दृष्ट्या-नेत्रेण, सुचिरम् अतिदीर्घकालम् , दृष्ट्वा निरीक्ष्य, सुदृढम् अत्यन्तम् , आश्लिष्य आलिङ्गय, शयनीयं शय्याम् , अनयत नीतवान् । च पुनः, तत्रैव तस्यामेव शय्यायाम् , तया मदिरावत्या सह, सुष्वाप सुप्तवान् [झ] । च पुनः, स्वल्पावशेषायां खल्पः-अत्यल्पः, अवशेषो यस्यास्तादृश्याम् , किञ्चिदवशिष्टायामिति यावत् , क्षपायां रात्रौ, स्वप्ने स्वप्नावस्थायाम्, राजा सुरेन्द्रवाहनम् इन्द्रवाहनभूतम् , वारणं हस्तिनम् , ऐरावतमित्यर्थः, अपश्यत् दृष्टवानिति दूरेणान्वेति । कस्मिन्नवसरे ? चन्द्रमसि चन्द्रे, अस्त, प्रजति गच्छति सति, कीडशे तस्मिन् ? अधोमुखविषाणकोटिना अधोमुखी विषाणकोटि:-शृङ्गाप्रभागो यस्य तादृशेन, पुनः ऊवचरणेन ऊच्चों-ऊर्ध्वस्थितो, चरणौ-पादौ, यस्य तादृशेन, लाञ्छनमृगेण चिहभूतमृगेण, विधृतमलाग्रभागव्यत्यये विधृतः-गृहीतः, मूलाग्रभागयोः-मूलभागोर्ध्वभागयोः, व्यत्ययः-वैपरीत्यं यस्मिंस्तादृशे, पुनः अस्ताचलचकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचन्द्रिके अस्ताचले-पश्चिमपर्वते,याश्चकोरकामिन्यः-चकोरस्त्रियः, ताभिः, मन्दं मन्दं शनैः शनैः, आचान्ताः-समन्तादुपभुक्ता, विच्छाया-विगतप्रकाशा, विरसा-दर्शने वैरस्यावहा, चन्द्रिकाज्योरमा यस्य तादृशे। तथा प्रतिवेलं तस्मिन् तस्मिन् पवनास्फालनसमये, उन्नतनतशिखेषु ऊवधिोभावेन पवनान्दोलितज्वालेषु, निजप्रभापहारभीतेषु निजप्रभायाः-स्वक्रान्तेः, योऽपहारः-सूर्येणाभिभवः, तीतेषु, वासभवनप्रदीपेषु वासगृहस्थितप्रकृष्टदीपेषु, तत्क्षणं सद्यः, उदयमानम् उद्यन्तम् , अरुणं सूर्यसारथिम्, वातायनान्तरेणग वाक्षमध्येन, अवलोकयत्खिव पश्यत्सु इवेत्युत्प्रेक्षा, नेत्रस्थानीयाभिः पवनोद्धृतशिखाभिः खप्रभापहारिणः सूर्यस्योदयमवलोकितवन्त आसन् प्रदीपा इत्यर्थः । तथा प्रभातपरुषमारुताहतासुप्रभाते-प्रातःकाले, यः परुषः-कठोरः,मारुतः-पवनः, देन आइतासु-कृताघातासु, आशालतासु दिग्रूपलतासु, तनुतमिस्रच्छेदपल्लवकृतनिवेशं तनुतमिस्रस्य-कृशान्धकारस्य, छेदाः-खण्डा एव,
Page #37
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। विघटमानाष्टदिग्भागदलं विकटायमानकुक्षिकोटरमरविन्दमिव मधुपङ्कदिग्धेष्वलिकुलेषु गगनमपहाय तत इतः प्रयात्सु संध्यारागरञ्जितेषु रजनीतमस्सु, राजा राजतगिरिशिखरमधिरूढायाः श्वेतवसनस्रग्विलेपनालङ्कारकमनीयमूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बरादवतीर्य पुरःस्थितमपारपरिमलान्धैः सर्वतो निपतद्भिरश्रान्तझकारमुखरिताशामुखैरहमहमिकया विलुप्यमानकपोलमदवारिनिर्झरमलिकुलैः कुचकुम्भविन्यस्तविकटपुष्करेण करेणाकृष्याकृष्य स्तन्यमापिबन्तं स्वप्ने सुरेन्द्रवाहनं वारणमपश्यत् [अ] । उपशान्तनिद्रश्च मङ्गलतूर्यनिर्घोषेण सप्रहर्षमुत्थाय प्रथमतरमुत्थितायाः 'देवि! संपन्नास्ते गुरुजनाशिषः, प्रसन्ना समासन्नैव देवी राजलक्ष्मीः , भविष्यत्यशेषभूभृचक्रचूडारत्नमचिरेणैव सूनुः' इत्युदीर्य प्रकटितादरो मदिरावत्याः स्वप्नमाचचक्षे, सापि बद्धावधाना सविस्मयब्रीडमवनतेन शिरसा तमश्रौषीत् [2]॥
पल्लवाः-वर्णसाम्यानूतनदलानि, तत्र कृतो निवेश:-समावेशो येन तादृशम् , अघश्यायजलबिन्दुजालमिघ हिमजलबिन्दुपुञ्जमिवेत्युत्प्रेक्षास्पदम्, नक्षत्रनिवहं तारासमूहम् , अजस्रं सततम्, उज्झतीषु मुश्चन्तीषु सतीसु । तथा मधु. पङ्कदिग्धेषुमधुपङ्केन-मकरन्दद्रवेण, दिग्धेषु-उपलिप्तेषु, अलिकुलेषु भ्रमरमण्डलेषु, अरविन्दमिव कमलमिव, गगनम् आकाशमण्डलम् , अपहाय त्यक्त्वा, सन्ध्यारागरञ्जितेषु सन्ध्याकालिकरक्तवर्णव्याप्तेषु, रजनीतमस्सु निशान्धकारेषु, तत इतः अत्र तत्र, प्रयात्सु प्रयाणमाचरत्सु, कीदृशमरविन्दम् ? पर्याय विघटमानाष्टदिग्भागदलं पर्यायेण-क्रमेण, विघटमानानि-विश्लिष्यमाणानि, पक्षे पृथगवभासमानानि, अष्टदिग्भागदलानि-अष्टदिग्भागावलम्बिपत्राणि, पक्षे अष्टदिग्भाग. रूपपत्राणि यस्मिंस्तादृशम् , पुनः विकटायमानकुक्षिकोटरं विकटायमानः-प्रकटायमानः, कुक्षिकोटर:-मध्यभागरूपगुहा, यस्मिंस्तादृशम् । कीदृशम् वारणमपश्यत् ? अम्बरात्-आकाशात , अघतीर्य अधस्तादागत्य, पुरः अग्रे, स्थितम् उपविष्टम् । पुनः कीदृशम् ? राजतगिरिशिखरमधिरूढायाः राजतः-रजतसंबन्धी, यो गिरिः-कैलासपर्वतः, तस्य शिखरम् , अधिरूढायाः-आरूढायाः, पुनः श्वेतवसननग्विलेपनालङ्कारकमनीयमूर्तेः श्वेतवसनेन-शुभ्रवस्त्रेण, सजा-माल्येन, विलेपनेन-अरागेण, अलङ्कारैः-हाराद्याभूषणैश्च, कमनीया-मनोहरा, मूर्तिः-शरीरं, यस्यास्तादृश्याः, स्तन्य दुग्धम् , पिबन्तं पानकर्मतामापादयन्तम् , कस्पाः कमिव किं कृत्वा ? शैलराजदुहितुः पार्वस्याः, हेरम्बं गणेशमिव, कुचकुम्भविन्यस्तविकटपुष्करेण कुम्भाविव यौ कुचौ-स्तनौ, तत्र विन्यस्त-स्थापितम्, विकटं प्रकटम्, पुष्करम्अग्रभागो यस्य तादृशेन करेण-शुण्डादण्डेन, आकृष्याकृष्य पुनः पुनराकृष्य । पुनः कीदृशम् ? अहमहमिकया अहमहम्भावेन, अलिकुलैः भ्रमरसमूहैः, विलुप्यमानकपोलमदवारिनिझरं विल्लुप्यमानः-पानद्वारा निरुध्यमानः, कपोल मदवारिणः-गण्डस्थलनिष्पन्दिमदजलस्य, निर्झरः-प्रवाहो यस्य तादृशम् , कीदृशैर लिकुलैः ? अपारपरिमलान्धैः अपारेणबहुतरेण, परिमलेन-मदजलसौरभेण, अन्धैः-व्यामुग्धैः, पुनः सर्वतः सर्वदिग्भ्यः, निपतद्भिः मदजलप्रवाहे निमज्जद्भिः, पुनः अश्रान्तझङ्कारमुखरिताशामुखैः अश्रान्तैः-अविरतैः, झङ्कारैः-ध्वनिविशेषैः, मुखरितानि-प्रतिध्वानितानि, आश. मुखानि-दिङ्मुखानि यस्तादृशैः []। च पुनः, मङ्गलतूर्यनिर्घोषेण मङ्गलतूर्याणां-माङ्गलिकवाद्यविशेषाणाम् , यो
घोषः-ध्वनिः तेन उपशान्तनिद्रः-भननिद्रः, सहर्षहर्षपूर्वकम्, उत्थाय जागरित्वा, प्रथमतरं पूर्वतरम्, उत्थितायाः प्रबुद्धायाः, मदिरावत्याः, देवि! ते तव, गुरुजनाशिषः श्रेष्ठजनशुभैषणाः, संपन्नाः सिद्धाः, समासव सन्निहितैव, राजलक्ष्मी देवी राजवैभवाधिष्ठात्री लक्ष्मीनाम्नी देवी, प्रसन्ना प्राप्तप्रसादा, यतः अशेषभूभृश्चक्रचूडारत्नम् अशेषाणां भूमृतां-राज्ञाम् , यच्चक्र-समूहः, तस्य चूडारनं-मुकुटरूपः, सूनुः पुत्रः, अचिरेणैव अविलम्बेनैव, भविष्यति उत्पत्स्यते, इत्युदीर्य इत्युक्त्वा, प्रकटितादरः प्रदर्शितादरः, खप्नं तद्विषयकवानज्ञानम् , आचचक्षे उक्तवान् । सापि मदिरावत्यपि, बद्धापधाना कृतावधाना सती, अवनतेन नम्रतां गतेन, शिरसा मस्तकेन, सविस्मयवीडं साश्चर्यलज्जम् , तं खप्नम् , अश्रौषीत् श्रुतवती [2]।
Page #38
--------------------------------------------------------------------------
________________
१८०
टिप्पनक-परागविवृतिसंवलिता __ आनन्दभरविजृम्भमाणोद्दामपुलकोपचितसर्वाक्यवा च प्रतिपन्नेव सद्यो गर्भेण द्विगुणमुपजातशोभा तत्क्षणमजायत [3] 1 स्थित्वा च किञ्चित्कालमुस्थिते च राज्ञि निर्गत्य रतिगृहाद्यथाक्रियमाणमुचितव्यापारमन्वतिष्ठत् [ड] । अनतिबहुषु च व्यतीतेष्वहस्त्वनन्तरे ऋतौ स्माता शरदिवसकरमूर्तिरिव भारवरं तेजो बभार गर्भमुदरेण [6] | निवृत्तरजःसङ्गापि पाण्डुतामगच्छत् , चलितुमसहापि खेलालसपदन्यासमकरोत् , दधत्यापि तनुतामुपचिता बभूव गात्रयष्टया, कृष्णतारोचितामपि क्षीरधवलामधत्त दृष्टिम् [ण]। तथा च प्रकृतिमन्दापि तस्या गतिरमन्दायत, पीनापि जघनमण्डली पीनतामभजत, सततमात्मनाधःकृतस्य मध्यस्य गौरवं पश्यन्ती श्लथत्वमासेदुषो दयितनिर्दयाश्लेषसुखरसस्य च स्मरन्तौ शुचेव श्याममुखता जग्मतुः स्तनौ, प्रवृद्धयोश्च काम
टिप्पनकम्-निवृत्तरजःसंगापि एकत्र रजः-धूलिः, अन्यत्र रजः-पापम् । खेला-लीला । तनुता-कृशत, स्वरूपेण, गर्भवशाद् उपचिता स्थूला । कृष्णतारोचितामपि या कृष्णत्वेन शोभिता सा कथं दुग्धश्वेता? अन्यत्र कालंतारयोपेता [ण]
__ च पुनः,आनन्दभरविजृम्भमाणोहामपुलकोपचितसर्वावयवा आनन्दभरेण-हर्षातिशयेन, विजृम्भमाणाःआयम्यमानाः, उद्दामभिः -उच्छ्रितः, पुलकैः-रोमाञ्चैः, उपचिताः-वर्धिताः, सर्वे अवयवाः-अङ्गानि, यस्यास्तादृशी सती, गर्भेण -शुक्रशोणितपिण्डविशेषेण, सद्यः तत्क्षणम् , प्रतिपन्नेव युक्तेव, तत्क्षणं खप्नश्रवणक्षणे, द्विगुणं खाभाविकशोभापेक्षया द्विगुणाधिकं यथा स्यात् तथा, उपजातशोभा उत्पन्नशोभा, अजायत समपद्यत [7]। __ च पुनः, किञ्चित्कालम् ईषत्कालम् , स्थित्वा स्थितिं विधाय, राशि मेघवाहने, उत्थिते कृतोत्थाने सति, रतिगृहात् बिलासगृहात्, निर्गत्य बहिर्गत्वा, यथाक्रियमाणं यथाक्रम प्राप्तम्, उचितव्यापारम् उचितकार्यम् , अन्वतिष्ठत् कृतवती [ड] । अनतिबहुषु कतिपयेषु, अहस्सु दिनेषु, व्यतीतेषु अतिक्रान्तेषु, अनन्तरे अव्यवहिते, ऋती मासिकरजःस्यन्दनावस्थावसाने, पक्षे शरदृती, माता कृतस्नाना, शरहिवसकरमूर्तिः शरदि-शरदृतुसम्बन्धिनी, दिवसकरस्य-सूर्यस्य, मूर्तिः-बिम्बम् भास्वरं दीप्तम् , तेज इव, उदरेण उदरद्वारा, गर्भ, बभार दधौ [6]। निवृत्तरजःसंगापि धूलिसम्पर्करहितापि, पाण्डुतां केतकीधूलितुल्यपाण्डुवर्णताम् , अगच्छत् प्राप्तवतीति विरोधः, तदुद्धारे तु निवृत्तः-निरुद्धः, रजःसंगः-पापसंगः, यद्वा रजःसङ्गः-श्रीधर्मशोणितोदयो यस्यास्तादृशी, पाण्डुताम् गर्भप्रयुक्तपाण्डुवर्णताम् । पुनः चलितुं गन्तुम् , असहापि अक्षमापि, खेलालसपदन्यासं खम्-आकाशम् , इला-पृथिवी, तयोर्लसेन-विलासेना पदन्यासं पादविक्षेपम् , चलनमिति यावत् , अकरोत् कृतवतीति विरोधः, चलितुमक्षमत्वे चलनासम्भवात् , तदुद्वारे तु खेलायां-क्रीडायाम, अलसं-गर्भभारेणालस्यान्वितमित्यर्थः । पुनः तनुतां कृशताम्, दधत्या धारयन्त्यापि, दधत्यपीति पाठे धारयन्त्यपीत्यर्थः, गात्रयश्या शरीरयष्ट्या, उपचिता स्थूला, बभूवेति विरोधः, शरीरयष्टेः कृशत्वे स्थूलत्वासम्भवात् , तदुद्धारस्तु भागान्तरावच्छेदेन कृशत्वेऽपि गर्भवशान्मध्यभागावच्छेदेन स्थूलत्वोपपत्त्या बोध्यः । पुनः कृष्णतारोचितामपि कृष्णतया-कृष्णवर्णेन, रोचितामपि-रुचिरामपि, क्षीरधवलां दुग्धतुल्यश्वेतवर्णाम् , दृष्टि नेत्रगोलकम् , अधत्त धृतवतीति विरोधः, कृष्णवर्णत्वे दुग्धधवलवासम्भवात् , तदुद्धारे तु कृष्णाभ्यां-कृष्णवर्णाभ्याम्, ताराभ्यां-कनीनिकाभ्याम् , उचितामपि-परिचितामपि, क्षीरधवलां-कनीनिका परितो दुग्धश्वेतवर्णामिति व्याख्येयम् [ण] 1 तथा च उत्तप्रकारेण च, तस्याः मदिरावत्याः, प्रकृतिमन्दापि ज्ञानिपुरुष-वृष-हंस-गज-परस्त्रीणां मन्दगामितया खभावतो मन्दापि,गतिः गमनम्, अमन्दायत मन्देवाचरत् , गर्भभारादतिमन्दत्वमदापदित्यर्थः । पुनः पीनापि वरस्त्रीत्वेन प्रकृत्या स्थूलापि, तस्या जघनमण्डली मण्डलाकारकटिपुरोभागः, पीनतां गर्भवशादतिस्थूलताम् , अभजत प्राप्तवती, पुनः आत्मना खेन, अधाकृतस्य स्थूलत्वादिना तिरस्कृतस्य, मध्यस्य मध्यभागस्य, उदरभागस्येति यावत् , गौरवं गुरुताम् , सततं निरन्तरम् , पश्यन्तौ अवलोकमानौ, च पुनः, श्लथत्वमासेदुषः तदानीं शिथिलत्वमापनस्य, दयितनिर्दयाश्लेषसुखरसस्य दयितेन-प्रियेण, यो निर्दयः-आत्यन्तिकः, लेषः-आलिजनम् , तज्जन्यस्य मुखरसस्य-आनन्दरसस्य, स्मरन्तौ, स्तनौ, शुषेष शोकेनेव, श्याम
Page #39
--------------------------------------------------------------------------
________________
तिलकमलरी।
१८१
मनयोः खेन रूपेण भारमुद्वोढुमक्षमेव क्षामतां मुमोच मध्यलक्ष्मीः , अनपत्यतादर्शनदुःखतप्तां निर्वापयितुमिव बन्धुतामायताः प्रसञः पदन्यासेषु निःश्वासाः [२] । प्रतिदिवसमुपचीयमानगर्भा च सा सकललोकाश्चर्यकारिणोऽभिलाषविभ्रमानभृत, तथा हि-वासभवनाङ्गणभ्रमिषु खिन्ना शरत्प्रसन्ने मानससरःपयसि ससखीजना स्नातुमियेष, मध्यन्दिननिदाघजनिताऽऽयल्लका पल्लवितकल्पपादपलताकुलेषु कुलगिरिनितम्बारामेषु रन्तुमभिललाष, विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीपसिद्धायतनेषु सान्ध्यमारब्धमप्सरोभिः प्रेक्षानृत्यमीक्षितुमाकाङ्क्षत् , अग्रतः प्रपश्चितविचित्राख्यानकेन श्रव्यवचसा कथकनारीजनेन विविधं विनोद्यमानापि दिव्यकथासु कर्णं ददौ, विधृतविकोशपुष्करे न तथा निजकरे यथा सुभटनिकरे दृष्टिमनयत, अपास्तरणपरिकरं प्रकामगुणवन्तमपि भृत्यलोकं पर्यङ्कमिव सावज्ञमैक्षत, सर्वदिग्व्यापिना पत्युरपि प्रतापेन समतप्यत,
टिप्पनकम्-बन्धुतां बन्धुसमूहम् [त] आयल्लकः-खेदः। विधृतविकोशपुष्करे एकत्र विकृतविगतप्रतिवारासिफलके, अन्यत्र विस्तविकसितपथे। अपास्तरणपरिकरं निरस्तसंग्रामपरिच्छदम् , अन्यन्न अपगतास्तरणपरिकरम् [थ]॥
मुखतां श्याम-कृष्णम , मुखम् अग्रभागो यस्य तत्ताम् , जग्मतुः प्रापतुः, अन्तर्वत्नीनामुदरगौरवस्य आलिङ्गनानन्दशैथिल्यस्य स्तनाग्रभागश्यामत्वस्य चौत्सर्गिकत्वात् । च पुनः, कामम् अत्यन्तम् , प्रवृद्धयोः स्थौल्यमापनयोः, अनयोः स्तनयोः, भारं, खेन आत्मीयेन, रूपेण कृशाकारेण, उद्बोदुम् उद्वहनाय, अक्षमा इव असमर्था इवेत्युत्प्रेक्षा, मध्यलक्ष्मीः मध्यावयवशोभा, क्षामतां कृशताम् , मुमोच तत्याज, खाभाविककृशतामपहाय स्तनभारोबहनोपयोगिनी गुरुता जग्राहेत्यर्थः । अनपत्यतादर्शनदुःखतप्ताम् अनपत्यतायाः-अपत्यराहिल्यस्य, दर्शनेन यद् दुःखं-परितापः, तेन तप्ताम् , बन्धुतां खबन्धुजनताम् , निर्वापयितुं शमयितुमिव, आयताः दीर्घाः, निश्वासाः नासावायवः, पदन्यासेषु पादविक्षेपेषु चलनचलायामित्यर्थः, प्रसस्रः प्रसरन्ति स्म; अन्तर्वनीनां चलनश्रमेण निःश्वासोद्गमस्य प्रकृतिसिद्धत्वात् [त] । च पुनः, प्रतिदिवसं प्रतिदिनम् , उपचीयमानगर्भा वर्धमानगर्भा सती, सकललोकाश्चर्यकारिणः सर्वलोकाश्चर्यजनकान्, अभिलाषविभ्रमान् मनोरथविलासान् , अकृत कृतवती, अभृतेति पाठे धृतवतीत्यर्थः । तान् विभ्रमान् दर्शयति-तथाहीति । वासभवनाङ्गणभ्रमिषु वासभवनस्य-निवासमन्दिरस्य, यानि अङ्गणानि-चत्वराणि, तेषु या भ्रमयःभ्रमणानि, तासु खिन्ना अनुभूतखेदा सती, ससखीजना सखीजनसहिता, शरदागमात् शरडतोरागमनात् , प्रसन्ने निर्मले, मानससरस्पयसि मानसाख्यसरोवरजले, स्नातुं निमबितुम् , श्येष अभिलषितवती । मध्यन्दिननिदाघजनिताऽऽयलका मध्यन्दिने-मध्यावे, यो निदाघः-धर्मः, तेन जनितः-उत्पादितः, आयल्लका-खेदो यस्यास्तानी सती, पल्लवितकल्पपादपलताकुलेषु पल्लविताभिः-नूतनदलव्याप्ताभिः, कल्पपादपलताभिः-कल्पवृक्षलताभिः, आकुळेषुव्याप्तेषु, यद्वा पल्लवितं कल्पपादपलतानां कुलं-समूहो येषु तादृशेषु, कुलगिरिनितम्बारामेषु कुलगिरीणां-कुलपर्वतानाम् , नितम्बारामेषु-मध्यभागस्थोद्यानेषु, रन्तुं क्रीडितुम् , अभिललाष अभिलषितवती, मदिरावतीति शेषः । विबुधवृन्दपरि
वृता विबुधवृन्देन-पण्डितमण्डलेन, देवमण्डलेन वा, परिवृता-परिवेष्टिता सती, शाश्वतेषु सदातनेषु, सागरान्तरद्वीपसिद्धायतनेषु सागरान्तराः समुद्रान्तर्गताः, ये द्वीपाः-स्थलप्रदेशाः, तत्रत्येषु सिद्धायतनेषु-सिद्धमन्दिरेषु, अप्सरोभिः खर्वेश्याभिः, आरब्धं प्रवर्तितं, सान्ध्यं सायंकालिक, प्रेक्षानृत्यं नृत्यविशेषम् , ईक्षितुं द्रष्टुम् , अकात् श्राकाहितवती। अग्रतः अग्रे, प्रपश्चितविचित्राख्यानकेन प्रपञ्चितं--विस्तारितम् , विचित्रं-विविधम् , आख्यानकम्-अमृतमन्यनादिकथानकं येन तादृशेन, श्रव्यवचसा श्रव्य-श्रवणप्रियं, वचो यस्य तादृशेन, कथकनारीजनेन कथानककुशलो यो नारीजन:श्रीजनः, तेन, विविधं नानाप्रकारकं यथा स्यात् तथा, विनोद्यमानापि प्रसाद्यमानापि, दिव्यकथासु दैविकोपाख्यामकेषु, मनोहरकथासु वा, कर्ण, ददौ प्रवर्तयामास, विधृतविकोशपुष्करे विकृतं-निहितम् , विकोश-विकसितम् , पुष्कर-कमलं, यस्मिंस्तादृशे, निजकरे वहस्ते, तथा दृष्टिं न, अनयत् प्रेरितवती, यथा विधृतं, विकोश-प्रत्याकाररहितम्, पुष्करं-कृपाण, फलकं येन तादृशे, सुभटनिकरे सुयोधसमूहे । प्रकामगुणवन्तमपि अत्यन्तगुणशालिनमपि, पक्षे मनोहररजुबद्धमपि
Page #40
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृति संचलिता
प्रह्णीकृताशेषभूभुजा गुरुजनस्यापि गौरवेण ग्लानिमगमत्, अप्रणविनापि प्रार्थिता सर्वस्वमदित, कृतापकारेऽपि करुणापरा प्राणिविहे बभूव [थ ] ॥
१८२
पूर्णेषु च क्रमेण किञ्चित्सातिरेकेषु नवसु मासेषु सारतिथिवारकरणाश्रितेऽतिश्रेयस्यहनि पुण्ये मुहूर्त यथास्वमुञ्चस्थानस्थितैः कौतुकादिव शुभग्रहैरवलोकिते विशुद्धे लमे लमचा रुतादर्श नजा तपरितोषायामिवोर्ध्वमुख्यां होरायामप्रत एव जातेन सहितमखिलप्रजाप्रमोदेनाद्वितीयरूपमजनयत् तनयम् [द] | उत्पन्नमात्र एव च कार्यान्तरनियन्त्रितोऽप्यननुपालित परस्परः सरभसपदन्यासरणितनूपुरैः पुत्रजन्म स्वयमाख्यातुमुत्सुकैरिव पुरः पुरोभवद्भिः पादपल्लवैः प्रकटित संभ्रमः पूर्णपात्रग्रहणाय भूमिपालाभिमुखमचलत् सक किकिरात कुब्ज कल्लमूक
1
अपास्तरणपरिकरम् अपास्तः- त्यक्तः, रणपरिकरः- रणोचितदृढगात्रबन्धो येन तादृशम्, पक्षे अपगतम् आस्तरणम्आच्छादनं यस्य तादृशम्, भृत्यलोकं सेवकजनम्, पर्यङ्कमिव पल्यङ्कमिव, सावशम् अनादरपूर्वकं यथा स्यात् तथा, ऐक्षत दृष्टवती । सर्वदिग्व्यापिना सर्वदिग्ख्यापनशीलेन, पत्युरपि भर्त्तुरपि, प्रतापेन क्षात्रतेजसा, पक्षे प्रकृष्टतापेन, समतप्यत सम्यक् तप्ता अभवत् । पुनः प्रह्वीकृताशेषभूभुजा प्रह्वीकृताः - अवनमिताः, अशेषाः समस्ताः, भूभुजःराजानो येन तादृशेन, गुरुजनस्यापि भर्नादेरपि, गौरवेण महत्त्वेन, पक्षे भारेण, ग्लानिं खेदम् अगच्छत् प्राप्तवती । पुनः प्रणयिनापि स्नेहानास्पदेनापि जनेन, प्रार्थिता याचिता सती, सर्वस्वं समस्तसम्पत्तिम्, अदित दत्तवती, पुनः कृतापकारेऽपि कृतप्रतिकूलेऽपि, प्राणिनिवहे प्राणिसमूहे, करुणापरा दयाशीला, बभूव जाता, गर्भिणीनां कायेन मनसा चातीवकोमलत्वात् [ थ] 1 क्रमेण यथाक्रमम्, किञ्चित्सातिरेकेषु किञ्चिदधिकेषु नवसु नवसंख्यकेषु मासेषु, पूर्णेषु पूर्तिभावनेषु सत्सु सारतिथिवारकरणाश्रिते सारैः श्रेष्ठैः, शुभभूतैरिति यावत्, तिथिवार करणैः- तिथि:सूर्याचन्द्रमसोर्द्वादशान्तरांशः, वार- दिनम्, करणं-तिथ्यर्धम्, तैराश्रिते-युक्ते, अतिश्रेयसि परमशुभावहे, अहनि दिने, पुण्ये शुभ मुहूर्ते पञ्चदशधा विभक्तस्य दिनस्य पञ्चदशे भागे, किनिन्यूनाधिकघटिकाद्वयात्मककाले, यथास्वं यथायोग्यम्, उच्चस्थानस्थितैः उच्चस्थानाश्रितैः गृहाणामुच्चत्वं चैवम् - "अर्काद्युच्चान्यज १ - वृष२ मृग ३ - कन्या४ - कर्क ५-मीन ६ वणिजऽशैः । दिग् १० दहना ३ ऽष्टाविंशति २८ तिथी १५ षु ५ नक्षत्र २७ - विंशतिभिः २० ॥" अयं भावः - मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत परमोच्चाः । शुभग्रहैः गुरुबुधप्रभृतिग्रहैः, कौतुकादिव अपूर्वदिदृक्षारसादिव, अवलोकिते आभिमुख्येन निरीक्षिते, विशुद्धे शुभे, लग्ने राश्युदये सतीति शेषः । लग्नचारुतादर्शनजातपरितोषायामिव लग्नस्य राशीनामुदयरूपस्य, चारुतायाः - शुभावहतायाः, दर्शनेन जातः - प्रादुर्भूतः, परितोषः- सन्तोषो यस्यास्तादृश्याम्, होरायां घटिका र्धकालरूपायाम्, ऊर्ध्वमुख्याम् मङ्गलोन्मुख्यां सत्याम् अग्रत एव प्रथमत एव, जातेन उत्पन्नेन, अखिलप्रजाप्रमोदेन सकलप्रजाहर्षेण सहितं सह, अद्वितीयरूपम् अपूर्वरूपम्, तनयं पुत्रम्, अजनयत् उदपादयत् [ द ] | उत्पन्नमात्र एव पुत्रोत्पत्त्यनन्तरमेव, कार्यान्तरनियन्त्रितोऽपि अन्यकार्यासक्तोऽपि, शुद्धान्तवारस्त्रीजनः अन्तःपुरगणिकाजनः, पूर्णपात्रग्रहणाय पूर्णपात्रं नाम पुत्रजन्मादिमहोत्सवे वस्त्रमाल्यादिपूर्ण सुहृज्जनैः पारितोषिकतया बलादादीयमानं पात्रम्, तदुक्तम् - "उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्" इति, भूमिपालाभिमुखं राज्ञोऽन्तिकम्, अचलत् अगच्छत् । कीदृशः सन् ? अननुपालितपरस्परः अप्रतीक्षित परस्परः; पुनः सरभसपदन्यासरणितनूपुरैः सरभसः सत्वरो यः पदन्यासः-पादविक्षेप:, तेन रणितानि - ध्वनितानि नूपुराणि - पादाङ्गदानि येषु तादृशैः पुनः स्वयं साक्षादेव, न त्वन्यद्वारा, पुत्रजन्म राजकीय पुत्रोत्पत्तिवार्ताम् पुरः पूर्वम्, आख्यातुं कथयितुम्, उत्सुकैः उत्कण्ठितैरिव, पुरोभवद्भिः अग्रे सवरद्भिः, पादपल्लवैः पलवोपमपादैः प्रकटितसम्भ्रमः प्रदर्शित संवेगः पुनः कीदृशः ? सकचुकि-किरात- कुब्ज-बधिरमूक - वामनः कचकिनः - अन्तःपुरद्वारपालाः, किराताः - आरण्यकम्लेच्छ जातीयाः, कुब्जा:-"हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरक क्रुद्धो वायुर्यदा कुर्यात् तदा तं कुब्जमादिशेत् ॥” इत्युक्तलक्षणा जनाः, बधिराः - श्रवणशक्तिशून्याः, मूकाः- वाक्शक्ति शून्याः, वामनाः-ह्रस्वकलेवराः, तैः सहितः पुनः अनेकशतसंख्यः बहुशतसंख्यकः [ध ] |
Page #41
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
१८३ वामनोऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः [ध]। प्रमुदितपौरजनजयजयारावपीवरः प्रतिभवनमाहतानामसंख्यकाहलाशङ्खझल्लरीमुरजपटहानामनुसृतः पटीयसा झात्कृतेन वादित्राणामाह्वयन्निव नर्तनाय व्योनि वैमानिकवधूवृन्दमाकारयन्निव महोत्सवालोकनाय दिक्षु लोकपालपरिषदमादिशन्निव रङ्गावलीयोग्यरत्नानयनाय पृथ्वीतलोपान्तेषुपाथोनिधीन् बभ्राम मथनभ्रान्तमन्दरविघूर्णितमहाणवध्वानघघरो जगति नान्दीघोषः [न]। प्रसर्पन्नितस्ततः प्रस्तुतपरीहास इव तत्कालमधिगतविकाशासु प्रमुदिताविव दिक्षु चिक्षेप पिष्टातरजःपिञ्जरं सरोकिञ्जल्कजालमुद्यानानिलः [प] । कृताध्ययनभङ्गविद्वजनविसर्जितानि प्रष्ठीकृतैकैकबठरच्छात्रहस्तार्पितविशालपूर्णकलशानि युगपदुञ्चारिताशी:परम्परावचनवाचालानि चेलुरन्तःपुराभिमुखमखिलानि विद्यासत्रशालान्तेवासिमण्डलानि [फ] 1 प्रचलितारुणपाणिमणिपल्लवमान्दोलितालिनीललीलालकभङ्गमाभङ्गुरमुरोज
नान्दीघोषः-“देवद्विज मृपादीनामाशीर्वादपरायणाः । नन्दन्ति देवता यस्मात् तस्मानान्ही प्रकीर्तिता ॥" इत्युक्तमङ्गलध्वनिः, जगति भुवने, बभ्राम भ्राम्यति स्म, कीदृशः ? प्रमुदितपौरजनजयजयारावपीवरः प्रमुदिताना प्रहृष्टानाम् , पौरजनानां-तत्पुरवासिजनानाम् , जयजयारावैः जयजयकारैः, पीवरः स्थूलः, प्रवृद्ध इति यावत् , पुनः प्रतिभवनं प्रतिगृहम् , आहतानां ताडितानाम् , असंख्यकाहला-शब-झलरी-मुरज-पटहानाम्, असंख्याःअनियतसंख्याकाः, बहव इति यावत् , ये कालाः-महाढक्काः, शङ्काः-समुद्रोत्पन्नमुखवाद्यविशेषाः, झलयः-कास्यवाद्यविशेषाः, मुरजाः-मृदङ्गाः, पटहाः-दुन्दुभयः, तेषाम्, वादित्राणां वाद्यविशेषाणाम्, पटीयसा मनोहरेण, झात्कृतेन ध्वनिविशेषेण, अनुसृतः अन्वितः, किं कुर्वन्निव ? ब्योम्नि आकाशे, स्थितमिति शेषः, वैमानिकवधूवृन्दं विमानवासिदेवानागणम् , नर्तनाय नृत्यार्थम् , आह्वयन्निव आकारयन्निवेत्युत्प्रेक्षा; पुनः दिक्षु दशदिशासु स्थितामिति शेषः, लोकपाल परिषदं दिक्पालदेवसभाम् , महोत्सवालोकनाय राजपुत्रजन्ममहोत्सवदर्शनाय, आकारयन्निव आह्वयनिवेति वोत्प्रेक्षा; पुनः रङ्गावलीयोग्यरत्नानयनाय रज्यत्यस्मिन्निति रङ्गः-नृत्यमण्डपः, तस्व आवली-पतिः, तद्योग्यानितन्निवेशनयोग्यानि, यानि रत्नानि, तेषामानयनाय-उपहरणाय, पृथ्वीतलोपान्तेषु पृथ्वीतलप्रदेशेषु, आदिशनिव आज्ञापयन्निवेति चोत्प्रेक्षाः कीदृशः? मथनभ्रान्तमन्दरविघूर्णितमहार्णवध्वानघर्धरः मथने-सुरासुरकृतसमुद्रविलोडने, भ्रान्त:-प्राप्तभ्रमणः, यो मन्दरः-मेहः, तेन विघूर्णितः-विक्षोभितः, यो महार्णवः-महासमुद्रः, तस्य यो ध्वानः-ध्वनिः, तद्वद् घर्घर:-खरविशेषान्वितः [न]। इतस्ततः अत्र तत्र प्रदेशे, प्रसर्पन प्रवहन् , उद्यानानिलः आरामवातः पिष्टातरजमंपिञ्जरं पिष्टातरजोवत्-पटवास नुवत् पिजरं-किञ्चिद्रक्तपीतवर्णम्, सरोजकिजल्कजाल सरोजाना-कमलानाम्, किजल्कजालं-केसरसमूहम्, दिक्ष सकलदिशासु, चिक्षेप विक्षिपति स्म । कीदृशीषु दिक्षु? तत्कालं तत्क्षणम् , अधिगतविकासासु प्राप्त विकासासु, विकसितास्वित्यर्थः, अत एव प्रमुदिताखिव प्राप्तप्रमोदाखिवेत्युत्प्रेक्षा । कीदृश इव ? प्रस्तुतपरिहास इव प्रस्तुतः-प्रारब्धः, परिहासः-परि सर्वतोभावेन हासो येन तादृश इवेत्युत्प्रेक्षा, यथा नायको होलिकोत्सवे परिहासेन नायिकोपरि रक्तचूर्णानि विक्षिपति तथेत्यर्थः [प] । अखिलानि सकलानि, विद्यासत्रशालान्तेवासिमण्डलनि विद्यासत्रशालायाः-विद्यादानशालायाः, ये अन्तेवासिनः-छात्राः, तेषां मण्डलानि-समूहाः, अन्तःपुराभिमुखं राजनीनिवासभवनाभिमुखम् , चेलुः जम्मुः, कीदृशानि ? कृताध्ययनभङ्गविद्वज्जनविसर्जितानि कृतोऽध्ययनस्य भयो विच्छेदो यैस्तादृशैः, विद्वजनैः-अध्यापकजनैः, विसर्जितानि-परित्यक्तानि दत्तावकाशानीत्यर्थः पुनः प्रष्टीकतैकैकबटरच्छात्रहस्तार्पितविशालपूर्णकलशानि प्रष्टीकृतस्य-एकैकेन मण्डलेन खाने गमितस्य, एकैकस्य बैठरच्छात्रस्यमूर्खच्छात्रस्य, हस्ते, अर्पितः-निहितः, विशाल:-बृहदाकारः, पूर्णकलशः-जलपूरितपलवायुतमुखकुम्भो यैस्तादृशानि, पुनः युगपदुचारिताशी परम्परावचनवाचालानि युगपदुचारितैः-एककालावच्छेदेनोक्तैः, आशीःपरम्परावचनैः-शुभैषणासमूहार्थकवाक्यैः, वाचालानि-शब्दायमानानि [फ] 1 सान्तःपुरम् अन्तःपुरेण-तास्थ्येनोपचारादन्तःपुरस्त्रीजनेन सहितम् , नगरनारीवृन्दं प्रकृतनगरवास्तव्यस्त्रीसमूहः, अनिलाहतकल्पलतावनमिव अनिलेन-वायुना, आहतम् - आस्फालितम् , कल्पलतावनं-कल्पवृक्षसमूह इव, ननर्त नृत्यं चकार । कीदृशम् ? प्रचलितारुणपाणिमणिपल्लवं प्रचलितानि-प्रकम्पितानि, अरुणानि-रक्तवर्णानि, पाणिमणिरूपाणि-मनोहरहस्तरूपाणि, पल्लवानि-नवपत्राणि यस्य तादृशम्,
Page #42
--------------------------------------------------------------------------
________________
१८४
टिप्पनक-परागविवृतिसंवलिता स्तबकभारेण रणरणितताररत्नाभरणमालमनिलाहतकल्पलतावनमिव ननर्त सान्तःपुरं नगरनारीवृन्दम् [4] ॥ ___ अवनीश्वरोऽपि परमोत्पन्ननिर्वृतिर्जलकटाहकोडनिक्षिप्तनाडिकानिहितचक्षुषा गणकनिवहेन निश्चित्य देव्याः प्रसवलप्रमागतेन मुहुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्मग्रहबलं बालकस्य कृतमज्जनादिकृत्यः शुभे मुहूर्ते निवर्तितानुचरलोकः परिगतप्रान्तमुत्खातखङ्गैः समन्ततो वीरपुरुषैः प्रशस्सतरुपल्लवास्तृतमुखेन द्वारशाखासङ्गिना मङ्गलकलशयुगलेनावभासितमुदारगन्धोदगारगुग्गुलघूपधूमान्धकारदूरीकृतदुष्टचक्रवक्राक्षीसंचारमचिरधौतचरणाभिः प्रविश्य साशीर्वादमन्तःप्रकीर्णकुसुमाक्षतकणाभिर्बन्धुवृद्धाभिराबद्धमङ्गलगीतकोलाहलमदत्तबाह्यपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुशलेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणम् , रचयत स्थानस्थानेषु रत्नचूर्णस्वस्तिकान् , दत्त द्वारि नूतनं चूतपल्लवदाम, विकिरतान्तरुत्फुल्लपङ्कजोपहारम् ,
समासोत्तरपदभूतमण्यादिशब्दानां पूर्वपदार्थगतसौन्दर्यबोधकत्वात् ; पुनः आन्दोलितालिनीललीलालकभङ्गम् आन्दो लिता:-उत्क्षिप्ताः, अलिनीलाः-भ्रमरसदृशश्यामवर्णाः, लीलालकभना:-क्रीडार्थकल्पितकुटिलकेशा यस्य तादृशम् । पुनः उरोजस्तबकभारेण उरसि वक्षसि, जायत इत्युरोजः-स्तनः, तद्रूपस्य स्तबकस्य-पुष्पगुच्छस्य, भारेण, आभड्रं समन्तानम्रम् ; पुनः रणरणितताररत्लाभरणमालं रणरणितानि-ध्वनिविशेषान्वितानि, ताररत्नानाम्-उत्तमरत्नानाम् , भाभरणानि-कटकनूपुराधलङ्करणानि माला च यस्य तादृशम् [व]॥
अवनीश्वरोऽपि राजापि, परमोत्पन्न निर्वृतिः परमम्-अत्यन्तं यथा स्यात् तथा, उत्पन्ना निर्वृतिः--हषों यस्य तादृशः; पुनः जलकटाहक्रोडनिक्षिप्तनाडिकानिहितचक्षुषा जलकटाहस्य-जलपूर्णमहाभाजनविशेषस्य, कोडे-मध्ये, निक्षिप्तास्थापिता, या नाडिका-कालप्रमापकयन्त्रविशेषः, तत्र निहितानि-निवेशितानि, चक्षषि येन तादृशेन, देव्याः मदिरावत्याः, प्रसवलग्नं प्रसवकालिकलमम् , निश्चित्य निणीय, आगतेन तत्रोपस्थितेन, गणकनिवहेन दैवज्ञसमूहेन, मुहुर्मुहुः पुनः पुनः, अनेकप्रकारैः विविधप्रकारैः, कृतोपवर्णनम् उपवर्णितम् , बालकस्य जातकस्य, जन्मग्रहबलं जन्मकालिकोच्चस्थानस्थितप्रहरूपं बलम् , आकर्ण्य-श्रुत्वा, कृतमजनादिकृत्यः कृतस्नानादितात्कालिककार्यः सन् , निवर्तितानुचरलोकः परित्यक्तभृत्यजनः, शुमे उत्तमे, मुहूर्त समये, प्रियायाः मदिरावत्याः, प्रसूतिगृहं प्रसवालयम् , अविक्षत प्रविष्टवान् । कीदृशम् ?, उत्खातखड़ेः उद्भतखङ्गः, वीरपुरुषैः, समन्ततः सर्वतः, परिगतप्रान्तं व्याप्तप्रान्तप्रदेशम पुनः प्रशस्ततरुपल्लवास्तृतमुखेन प्रशस्तैः-उत्तमैः, तरुपल्लवैः-वृक्षनवदलैः, प्रशस्तानां वा तरूणां पल्लवैः, आस्तृतम्आवृतम्, मुखम्-ऊर्श्वभागो यस्य तादृशेन, पुनः द्वारशाखासङ्गिना द्वारशाखा-द्वारस्य ऊर्ध्वभागः, तत्सजिना-तत्र स्थितेन, मङ्गलकलशयुगलेन मङ्गलोद्देश्यकघटद्वयन, अवभासितम् उद्दीपितम् । पुनः उदारगन्धोद्गारगुग्गुलु धूपधूमान्धकारदुरीकृतदुष्टचक्रवकाक्षीसञ्चारम् उदारः-महान् , गन्धोद्गारः-गन्धाविर्भावो यस्य तादृशो यो गुग्गुलु धूपस्य-गुग्गुलधूपसम्बन्धी, धूमः, तद्रूपान्धकारेण, दूरीकृतः-निरुद्धः, दुष्टाना-बालधातनदोषवतीनाम, चक्रवक्राक्षीणांचक्रवक्राकारनेत्राणां स्त्रीणाम् , सञ्चारो यस्मिंस्तादृशम् । पुनः अचिरधौतचरणाभिः तत्क्षणप्रक्षालितपादाभिः, साशीदिम् आशीर्वादेन सहितं यथा स्यात् तथा, अन्तः प्रसूतिगृहाभ्यन्तरम् , प्रविश्य प्रवेश कृत्वा, प्रकीर्णकुसुमाक्षतकणाभिः प्रकीर्णानि-प्रक्षिप्तानि, कुसुमानि-पुष्पाणि, अक्षतकणाः-तण्डुलकणाश्च याभिस्तादृशीभिः, बन्धुवृद्धाभिः खबन्धु भूतवृद्धस्त्रीभिः, आबद्धमङ्गलगीतकोलाहलम आवद्धः-आयोजितः. कृत इति यावत् , मङ्गलगीतानां कोलाहल:-शब्दविशेषो यस्मिंस्तादृशम् । पुनः शुद्धान्तजरतीजनेन अन्तःपुरसम्बन्धिवृद्धस्त्रीजनेन, क्रियमाणविविधशिशुरक्षाविधानं क्रियमाणं-विधीयमानम्, विविधम्-अनेकप्रकारकम् , शिशुरक्षाविधानं शिशुरक्षाप्रयोजकं कार्य यमिंस्तादृशम् । कीदृशेन तेन ? अदत्तबाह्यपरिजनप्रवेशेन अदत्तः-अवरुद्धः, बायपरिजनस्य-बायखजनस्य, प्रवेशःअन्तरागमं येन तादृशेन; पुनः प्रशस्तालापिना प्रियालापशीलेन; पुनः सकललौकिकाचारकुशलेन समप्रलौकिकव्यवहाराभिलेन; पुनः जल्पता प्रतिपादयता, किमित्याह-मन्दिराङ्गणं राजभवनप्राङ्गणम् , हरिचन्दनोपलेपहारि हरिचन्दनस्य-चन्दनविशेषस्य, यद्वा-"पृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केसरैर्योज्यं हरिचन्दनमुच्यते ॥" इत्युक्तम मिश्रितद्रव्यविशेषस्य, उपलेपेन-विलेपनेन, हारि-मनोहरम् , कुरुत सम्पादयत; पुनः स्थामेषु स्थानेषु तत्तत्स्था
Page #43
--------------------------------------------------------------------------
________________
तिलकबरी। कारयत सर्वतः शाग्लिसलिलक्षेपमकृतकालक्षेपम् , आहरत भगवती षष्ठीदेवीम् , आलिखत जातमातृपटलम्, आरभध्वमार्यवृद्धासपर्याम , निधत्त पयन्तेषु शयनस्य सद्योभिमन्त्रिता रक्षाभूतिरेमम्' इत्यादि जस्पता तल्पनिकटोपविष्टन शुद्धान्तजरतीजनेन क्रियमाणविविधशिशुरक्षाविधानमविरतचलत्तालवृत्तनिर्वाप्यमाणसनागरमोदपानोदकशराक्मधिकोदश्चितात्मभिरचलावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनातिशायिशोभमभकरूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिताभ्यन्तरमदूर स्थितात्मव्यापारसत्वरसूतिकं प्रियायाः प्रसूतिगृहम विशत् [भ]॥
प्रविश्य च सतर्षमुद्भुतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा लोचनयुगेन स्फुटविभाव्यमानसकलपक्रवर्तिलक्षणां शस्यां प्रतिक्षणमवलोक्य सूनोत्रिभुवनविलक्षणामक्यवभियममन्दनिर्गतानन्दाभुबिन्तुरप्रतिपादनीयां
नेषु, रत्नचूर्णस्वस्तिकान् रत्नानां चन्द्रकान्तादीनाम् , यानि चूर्णानि-कणाः, तैः खस्तिकान्-माङ्गलिकाकारविशेषान् , रचयस कल्पयत; पुन द्वारि द्वारोपरि, नूतनं नवीनम् , घृतपल्लवशम आम्रपालनमयतोरणमालाम्, यस स्थापयत, बनीतेत्यर्थः; पुनः अन्तः अभ्यन्तरे, उत्फलपङ्कजोपहारम उत्फुल्यानि उद्विकसितानि, यानि पङ्कजानि-कमलानि, तक्या उपहार-माङ्गलिकप्रामृतम् , विकिरत विक्षिपत, पुनः अकृतकालक्षेपं न कृतः कालोपः कालातिक्रमः, विलम्ब इति यावत् , यसिस्तारशं यथा स्यात् तथा, सर्वतः सर्वत्र, शान्तिसलिलक्षेपं शान्तिजनकजलसेकम् , कारयत मृत्यद्वारा सम्पादयत; पुनः मायवतीम् ऐशालिनीम् , षष्ठीदेवी पंडशमातृकासु षष्ठी बालपालनशीलाम् , “मातृकासु पूज्यतमा सापडी प्रकीर्तिता । शिशूनां प्रति विश्वेषु प्रतिपालनकारिणी। तपस्विनी विष्णुभक्ता कार्तिकेयस्य कामिनीमू" इत्यायुक्तां देवीम, आहरत आवाहयतः पुनः जातमासृपटलं जातं नाम गोधुलप्राशनादिना संस्कारविशेषः, तदधिष्ठातृभूतं मातृपठलं-मौरीपद्मादिदेवीषोडशकम् , आलिखत चित्रयत; पुनः आर्यवृद्धासपर्याम् आर्याणां-श्रेष्ठ नाम् , वृद्धानां-छत्रीगाम् , सपा पूजाम् , आरभध्वं प्रारभध्वम् ; पुनः शयनस्य जातकशय्यायाः, पर्यन्तेषु प्रान्तभूमिघु, सद्यः तत्क्षणम् , अभिमन्त्रितां मन्त्रेण संस्कृताम् , रक्षाभूतिरेखां रक्षार्थभस्मरेखाम् , निधत्त स्थापयत, रचयतेत्यर्थः, इत्यादि इत्याद्यादेशवाक्यम् । पुनः कीदृशेन शुद्धान्तजरतीजनन ? तनिकटोपविष्टेन जातकशय्यासमीपोपविष्टेन । पुनः कीरशं
कागृहम् ? अविरतचलतालवृन्तनिर्धाप्यमाणसनागरक्षोदपानोदकशराक्म अविरत-निरन्तरम्, चलतिः उद्गच्छद्रिः, तालवृन्तैः-लालव्यजनैः, निर्वाप्यमाणा:-शीतलतामापाद्यमानाः, सनागरक्षोदाः शुण्ठीचूसहिताः, पानोदकशरा:-पेयजलाधारमृत्पाविशेषा यस्मिंस्तादशम् । पुनः मङ्गलप्रदीपैः मङ्गलार्थप्रकल्पितप्रदीपः, प्रकाशिताभ्यन्तरं प्रकाशितम्-उद्भासिसम् , अभ्यन्तर-मध्यं यस्य तादृशम् । कीदृशैः ? अधिकोदश्चितात्मभिः अधिकम्-अत्यन्तं यथा स्यात् तथा, उदश्चिन:-उद्वेलितः, आस्मा-खरूप येषां साहशेः, पुनः अचश्वलावस्थानः निश्चेष्टं संतिष्ठमानः, अत एवं उत्थाय उद्बुध्य, विस्मितैरिव समाताश्रयेरिवेत्युत्प्रेक्षा, त्रिभुवनातिशायिशोभे त्रिभुवनातिशायिनी-भुवनत्रयोत्कृष्ठा, शोभा यस्य ताहशम् , अर्भकरूपं जातकस्वरूपम् , अबलोकयद्भिः पश्यद्भिः। पुनः कीदृशम् ? अदूरस्थितात्मव्यापार सस्वरसूतिकम् अदूरे-समीपे स्थिता, आत्मव्यापारे-प्रसवसम्बन्धिखकार्ये, सस्वरा- ससम्ममा, सूतिका-कृतप्रसवा यसिस्तादृशम् [भ]।
पुनः, सतर्ष साभिलाषम् , प्रविश्य अन्तःप्रवेशं कृत्वा, उद्भूतप्रहर्षस्मितः उद्भूतम्-उत्पमम् , प्रहर्षेणभतिहमा, स्मित-मन्दहासो यस्य तादृशः, यद्वा उद्भूतेन प्रहर्षेण स्मितः-मन्दं हसितः सम् , विस्मयस्तिमितपक्ष्मणा विस्मयेन-आश्चर्येण, स्तिमिते-निस्सन्दे, पक्ष्मणी-नेत्रोपरितनरोमलेखे यस्य तादृशेन, लोचनयुगेन नमनद्वयेन, स्फुरविभाग्यमानसकलचक्रवर्तिलक्षणाम् स्फुटं यथा स्यात् नथा, विभाव्ययानानि-प्रतीयमानानि, सकलानि-समस्तानि, चक्रवर्तिनां-परखण्डाधिपानाम् , लक्षणानि-जातकीयहस्तादिमतवमादिचिहानि यस्यां ताशीम्, शस्यां प्रशंसमीयाम्, सुनोः सुतस्य, विभुवनविलक्षणां भुवनत्रयादुरकृष्ठाम् , अवयवश्रियम् अङ्गशोभाम् , प्रतिक्षणं क्षणे क्षणे, अघलोक्य विलक्ष्य, अमन्दर्शितानन्दाचबिन्दुःअमन्दं यथा स्यात् तथा, निर्गताः स्यनाभ्यां निःसताः, आनन्दाकिन्दका
२४ तिलक.
Page #44
--------------------------------------------------------------------------
________________
टिप्पनक-परागविकृतिसंवलिता सुखमयी कामपि दश प्राप [म] 1 निर्गत्य च विमोचिताशेषबन्धनः सदृशमाधिपत्यस्य भूनेरुदारतायाः प्रमोदस्य च निजस्य विस्मायितजगत्रयं मासमात्रमनुदिव समुत्सवमकारयत् [य] |
अतिक्रान्त च षष्ठीजागरे समागते च दशमेऽह्नि कारयित्वा सर्वनगरदेवतायतनेषु पूजाम् , मानयित्वा भित्रज्ञातिवर्गम् , अभ्यर्च्य गुरुजनम् , दत्त्वा समारोपिताभरणाः सवत्साः सहस्रशो गाः सुवर्ण च प्रचुरमारम्भनिःस्पृहेभ्यो विप्रेभ्यः स्वप्ने शतमन्युवाहनो वारणपति ईष्ट इति संप्रधार्य तस्यैव स्वप्नस्य सदृशमात्मीयनामश्चैकदेशेन समुदायवाच्येन चार्थेन समर्थितानुहारं हरिवाहन इति शिशो म चक्रे []॥
क्रमेण च प्रसवदिवसादारभ्य तत्कालोपजातप्रसवाभिरभिनवयौवनोपचितपरिमण्डलस्तनीभिरव्यङ्गनीरोगाङ्गयष्टिभिरिष्टविप्रयोगादिभिर्दुःखैरनुपतप्ताभिराप्ततया निपुणमवधृताभिर्धात्रीभिरनवरतमुपचर्यमाणस्य शुद्धपक्षचन्द्रमस इव प्रतिदिवसोपचीयमानदेहावयवक.न्तेरखिलवेदोक्तविधिविदा वेधसेवापरेण स्वयं पुरोधसा
आनन्दजनिताश्रुकणा यस्य तादृशः सन् , अप्रतिपादनीयाम् अवर्णनीयाम् , कामपि विचित्राम् , सुखमयीम् आनन्दमयीम् , दशाम अवस्थाम् , प्राप अनुबभूव [म]।
च पुनः, निर्गत्य प्रसूतिगृहा नष्कम्य, विमोचिताशेषबन्धनः विमोचितानि-कारागाराध्यक्षद्वारा विश्लेषितानि, अशेषाणि-सर्वाणि, बन्धनानि-तस्करादीना निगडनियन्त्रगाति येन तादृशः सन् , निजस्य स्वस्य, आधिपत्यस्य जग. स्वामित्वस्य, भूतेः ऐश्वर्यस्य, उदारतायाः दानशीलतायाः, प्रनोदस्य सुनरत्नोद्भवजन्यानन्दस्य च, सदशम् अनुरूपम् , पुनः विस्तापितजगत्रयं विस्मापितम्-आश्चर्यमापादितम् , जगत्रय-लोकत्रयं येन तादृशम् , मासमात्रं मासप्रमितम् , मासव्यापकमित्यर्थः, उत्सवं सुतजन्मोत्सवम् , अनुदिवसं प्रतिदिनम् , अकारयत् कारितवान् [य]। च पुनः, षष्ठी. जागरे षष्ठ्यां-देव्याः पूजनार्थ षष्ठ्या रात्रौ, जागरे-जागरणे अतिक्रान्ते व्यतीते, निष्पने सतीति यावत् , दशमे अहनि दिने, समागते समुपस्थिते च सति, सर्वनगरदेवतायतने सर्वाणि -समस्तानि, यानि नगरस्य देवताऽऽयतनानि-दव. मन्दिराणि, तेषु, पूजां देवताऽऽराधनं कारयिम्वा, पुनः मित्रज्ञातिवर्ग मित्राणां-सुहृदाम् . ज्ञातीना-बन्धूनां च, वर्गसमूहम्, मानयित्वा सरकृत्य, पुनः गुरुजन "धर्मज्ञो धमेकत्ता च सदा धर्मपरायणः। सत्त्वेभ्यो धर्मशास्त्रार्थदेशको मुरु. रुच्यते ॥” इत्येवं परिभाषितं मुनिजनम् , अभ्यच्र्य पूजयित्वा, पुनः आरम्भनि.स्प्रहेभ्यः ल.
किव्य पारविरतेभ्यः, विप्रेभ्यः ब्राह्मणेभ्यः, समारोपिताभरणा: समारोपित,नि-समर्पितानि, आभरणानि अलपुरणानि याभ्यस्ताहशीः, सवत्साः वत्ससहिताः, सहनशः सहस्रसंख्यकाः, गाः धेनूः, प्रचुरं बहु, सुवर्ण च दत्त्वा, स्वप्ने स्वप्नावस्थायाम् , शतमन्युवाहनः इन्द्रवाहनभूतः, वारणपतिः गजाधिराजः, ऐरावत इत्यर्थः, इष्टः अवलोकित इति सम्प्रचार्य शुभफलेन निणीय, तस्यैव स्वप्नस्य स्वप्रष्टवस्तुनाम्नः, सदृशम्, आत्मनानः मेघवाहनतिखानानः, एकदेशेन वाहन सेकदेशावच्छेदेन, सदृशम् पुनः समुदायवाच्येन हरिवाहनेतिसमुदायप्रतिपाद्येन, अर्थेन हरिन्द्रस्य वाहन इत्याकारकेग, समर्थितानुहारं समर्थित:-इन्द्रवाचकहरिशब्दपर्यायविधया मेघवाहनशब्दस्यापस्थित्या तद्वाहनन्वेनोपादितः, अनुहार:पितृसादृश्य यन तादृशम् , वाह्यवाहनभावस्य किञ्चत्मादृश्यनियतत्वेन हरिषदोस्थितमेघवाहनवाहनत्वेन मेघवाइनसादृश्य स्य सुतरामुपपत्तेरिति भावः । हरिवाहन इात शिशोः जातकस्य, माम, चक्रे कृतवान् , अत्र सर्वत्र वाक्ये राजेति शेषो बोध्यः (र]। क्रमेण क्रमशः, अन्तःपुरे राजस्लीभवन, तस्य शिशोहरिवाहन स्य, पञ्च वर्षाणि, अतिचक्रमुः व्यतीताने । कीदृशस्य ? प्रसवदिवसात् गर्भावमाचा दिनात् , आरभ्य प्रभात, धात्रीभिः उपनातृभिः, अनवरतं निरन्तरम् , उपचर्यमाणस्य निषेत्र्यमाणस्य । कीदृशीभिः ? तत्कालोपजातप्रसवाभिः नव प्रसूताभिः पुनः आभनवयौवनोपचितपारेमण्डलस्तनीभिः अभिनव योवनन-नूननतारुण्यावस्थया, उसाचती-प्रवृद्धा, पारमण्डलो-चलो पुनः अव्यङ्गनीरोगाङ्गवधिभिः अव्यङ्गा आवकृताशा, नीरागा-रोगरहिना च, अत्यष्टिः-शरीररूपा यष्टियासा तारशामः, पुनः इष्टविप्रयोगादिभिः इष्ट जनावरहादिभिः, दुःखैः, अनुपतप्ताभि. अनभिभूनाभिः; पुनः आप्ततया विश्वासपात्रतया, निपुणं दृढं यथा स्यात् तथा, अवधृताभिः निर्धारितााभः । पुनः कादशस्य ? शुक्लपक्षचन्द्रमस हब शुरूपक्षस्थ. चन्द्रस्यव, प्रतिदिवसोपचीयमानदहावयवकान्तेः प्रातादवस -प्रविादनम् , उत्तरातरामात यावत् , उपचीनमान:
Page #45
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
निवर्तितानप्राशनादिसकलसंस्कारस्य समाहृतसमप्रमङ्गलोपकरणाभिरन्तःपुरवृद्धाभिस्त्रि संध्यामारभ्यमाणावतारणकक्रियस्य सर्वायुर्वेदपारगैर्भिषग्भिर्मत्र सिद्धिलब्धप्रसिद्धिभिश्व महानरेन्द्रैरतन्द्रितैर्मुहुर्मुहुः प्रतिजागर्यमाणस्य प्रतिसंभ्रमाभिरन्तःपुरिकाभिर. हूयाहूय गाढमाश्लिष्यमाणस्य स्थानस्थानारोपित महाप्रभावानेकमणिभिः प्रधानभूषणैः प्रसाधितललितसर्वाङ्गस्य धृतायुगान्तर्वंशि कत्रात लततानुगम्यमानमार्गस्य स्वभावरम्येषु मणिकुट्टिमेषु
शैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु च कपोलदोलायमानकमनीयकाकपक्षैः क्षितिपालदारकैः सह क्रीडासुखमने प्रकार मनुभवतो निरङ्कुशप्रचारस्य पश्च वर्षाणि तस्यान्तःपुरेऽतिचक्रमुः [ल] ॥ अवतीर्णे च षष्ठ किचिदुपजात देहसौष्ठव स्य व्यक्तवर्गवचनप्रवृत्तेर्विनयारोपणाय राजा राजकुलाभ्यन्तर एव कारितानवद्यविद्यागृहः सम्यगासेवितगुरुकुलानामवगताखिलशास्त्र मर्मनिर्मलोक्तियुक्तीनामुत्तमान्न/यलब्ध
१८७
वर्धमाना, अवयवकान्तिः - अङ्गशोभा यस्य तादृशस्य । पुनः अखिलवेदोक्त विधिविदा वैदिकाशेषविधानाभिज्ञेन अपरेण द्वितीयेन, वेधसा ब्रह्मणेचेत्युत्प्रेक्षा, पुरोधसा पुरं हितेन स्वयम् आत्मना निवर्त्तितान्नप्राशनादिसंस्कारस्य निवर्तिताः - निष्पादिताः, अन्नप्राशनादयः संस्कारा यस्य तादृशस्य । पुनः समाहृतसकल मङ्गलोपकरणाभिः समा हृतानि - संगृहीतानि, सकलानि सर्वाणि, मङ्गलोपकरणानि मङ्गलसाधनवस्तुनि या भस्तादृशीभिः, अन्तःपुर वृद्धाभिः अन्तःपुरस्थवृद्ध स्त्रीभिः, त्रिसन्ध्यं प्रातर्मध्याह सायंरूपामु तिसृषु सन्ध्यासु आग्भ्यमाणावतारण कक्रियस्य आरभ्यमाणाअनुष्ठीयमाना अवतारणकक्रिया - लवणाद्यवतारणात्मक्रमाङ्गलिकक्रियाविशेषो यस्य तादृशस्य पुनः सर्वायुर्वेदपारगैः सर्वः - समयः, य आयुर्वेदः वेदोपाङ्गभूतं चिकित्साशास्त्रम्, तत्पारगैः - तदन्तः, मन्त्रसिद्धिलब्धप्रसिद्धिभिश्च मन्त्रसिद्ध्या लब्धा - प्राप्ता, प्रसिद्धिः - लोके ख्यातिर्यैस्तादृशैश्व, अतन्द्रितैः अनलसः, महानरेन्द्रः महामन्वादिभि, विशिष्टन्नृपश्च मुहुर्मुहुः पुनः पुनः प्रतिजागर्यमाणस्य प्रतिक्रियमाणस्य । पुनः प्रकटितसम्भ्रमाभिः प्रकटितः - प्रदर्शितः, सम्भ्रमः - वात्सल्यातिशयजन्यमौ सुक्यं याभिस्तादृशीभिः, अन्तःपुरिकाभिः अन्तःपुरखीभिः, आहूयाहूय पुनः पुनराहूय, गाढम् अत्यन्तम् आश्लिष्यमाणस्य आलश्यमानस्य, पुनः स्थानस्थानारोपितमहाप्रभानेकमणिभिः स्थाने स्थाने-तत्तदंशे आरोपिताः निवेशिताः, महाप्रभाः- उत्कृष्टप्रभाशालिनः अनेके मणयो येषु तादृशैः, प्रधानभूषणैः उत्तमालङ्करणैः, प्रसाधितललित सर्वाङ्गस्य प्रसाधितानि - अलङ्कृतानि, ललितानि - मनोहरणानि सर्वाणि समस्तानि, अङ्गानि - इस्तपादादीनि यस्य तादृशस्य । पुनः धृतायुधान्तर्वेशिक बात सततानुगम्यमानमार्गस्य धृताः - तद्रक्षार्थं गृहीताः, आयुधा: - बाणा स्तादृशा ये अन्तर्वेशिकाः अन्तःपुररक्षकाः कुब्ज- वामनादयः, तेर्षा व्रातेन - समूहेन सततं सर्वदा, अनुगम्यमानः- अनुत्रियमाण, मार्गों यस्य तादृशस्य । पुनः स्वभावरम्येषु स्वभावतो मनोहरेषु, मणिकुट्टिमेषु मणिबद्धभूमिषु, क्रीडाशैलकटकेषु क्रीडाये ये शैलाःपर्वताः, तत्कटकेषु - तनितम्बः परि, नन्दनवनप्रास | दकेषु नम्दनवनं नाम - मेरुपर्वतपरितनमिन्द्रवनम्, तत्सदृशं यद् वनम् तत्रत्याः प्रासादाः - राजगृहा एव प्रासादकास्तेषु यद्वा नन्दयतिआनन्दयतीति नन्दनं यद् वनं तत्रत्यप्रामादेषु, प्रसाद केष्वि ते पाठकल्पे तु नन्दनवनवत्प्रसादजनका ये क्रीडा शैल कटकारस्तेष्विति विशेषण वधया व्याख्येयम् । च पुनः, कृ त्रमापगापुलिनेषु कृत्रिमाः क्रियया निर्वृताः, क्रीडार्थमुत्खाता इत्यर्थः, या आपगाः-नद्यः, तत्पुलिनेषु तदीय सैकतप्रदेशेषु, कपोल दोलायमान कमनीय काकपक्षैः कपोलेषु - गण्डस्थलेषु, दोलायमानाः- इतस्ततश्चलन्तः, कमनीया: मनोहराः, काकपक्षा:- मस्तकांभयपार्श्वलम्बमानाः “बालानां तु शिखा प्रोक्तः काकपक्षः" इत्युक्तबालककेशपाशा येषां तादृशैः, क्षितिपालदारकैः राजशिशुभिः सह अनेकप्रकारं बहुविधम्, क्रीडासुखं क्रीडाजन्यमानन्दम्, अनुभवतः अनुभवगोचरीकुर्वाणस्य । पुनः निरङ्कुशप्रचारस्य निर्वाधगमनस्य, स्वेच्छाचारिण इत्यर्थः [ल ] 1 च पुनः, षष्ठे षष्ठा अवतीर्णे प्रारब्धे “ति, किञ्चिदुपजातदेह सौष्ठवस्य किञ्चिदुपजातम् - ईदुत्पन्नम्, देहसौष्ठव - शरीरसौन्दर्यं यस्य तादृशस्य; पुनः व्यक्तवर्ण वचनप्रवृत्तेः व्यक्तानां स्फुटानाम्, वर्णानाम्, वचने प्रतिपादने, प्रश्नात्तर्यस्य तादृशस्य तस्य बालकस्य, विनयारोपणाय विनयशिक्षणाय, राजा मेघवाहनः, राजकुलाभ्यन्तर एव राजधानीमध्य एव, कारितानवद्यविद्यागृहः कारितं निर्मापितम्, अनवद्यं-मनोहरम् विद्यागृहं विद्याध्ययनगृहं येन तादृशः सन्, अद्दरद्दः प्रतिदिनम्, विद्यागुरूणां विद्याध्यापकानाम्, संग्रहं सञ्चयम्, अकरोत् कृतवान् । कीदशानाम् ? सभ्य
Page #46
--------------------------------------------------------------------------
________________
१८८
टिप्पनक परागविकृतिसंवलिता जन्मनामसन्मार्गगतिनिसर्गचिद्विषां विद्यागुरूणामहरहः संग्रहमकरोत् [व] 1 उपनिन्ये च तेभ्यः शोभने दिनमुहूर्ते निवर्तितसमस्खेतिकर्तव्यः स्नातमनुपहतसूक्ष्मक्षौमकल्पितोत्तरासंगमनुलिमाजमामोदिना मलबजरसेन प्रत्युरस नामुक्तमुक्ताकलापमुपरचितरोचनातिलकरुचिरललाटमुत्तमाङ्गघटितमालतीमुकुलगण्डमालमधदातधेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुनः सरस्वत्याः सितांधवलया शरीरच्छायमेव च्छुरितमात्मजमपनिपतिः [श]। पूजाविशेषवर्वितप्रीतयश्च ते लिपिविशेषदर्शनपुरःसरमशेषाण्यपि व्याकरणादीनि शास्त्राणि तस्मै क्रमेणोपादिक्षन् [प] ॥
कुमारोऽपि सतताभियुक्ततया गुरूणां नियत्रणपरतया पितुरविद्यमानतया दुर्बिनीतसंनिधेः स्वाधीनतया सर्बागमोपनिषन्धानां कुशात्रीयतया च निजबुद्धेरल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् [स] ! अमुक्ताभियोगश्च दशभिरब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपविद्याभिर्थिदाञ्चकार । कलायात्रं च निरवशेष
गासेवितगुरुकुलानां सम्यक् पूर्णशिक्षापर्यन्तम् , आसेवितं -श्रद्धया सेवितम् , गुरुकुलं यैस्तादृशानाम् ; पुनः भवगताखिलशासमर्मनिर्मलोक्तियुक्तीनाम् अवगताः-ज्ञाताः, अखिलशास्त्रममगा-समस्त शामतात्पर्याणाम् , या निर्मलोतयः-निर्दुष्टनिर्व वनानि, तद्युक्तयः-तदुपपत्तयो यैस्तादृशानाम् : पुनः उत्तमानायलब्धजम्मनाम् उत्तमानाये-सत्कुले, लब्धं जन्म यस्तादृशानाम पुनः असन्मार्गगतिनिसर्गविद्विषाम् असन्मार्गे-उत्पथे, या गतिः-गमनम् , तद्विद्विषांतदैरिगाम् [व] । च पुनः, निर्वर्तितसमस्तेतिकर्तव्यः निर्वर्तिता-सम्पादिता, समस्ता इतिकर्तव्यता-उपनयनाङ्गक्रियाकलापको येन तादृशः, अवनिपतिः राना, शोभने ज्योतिषशास्त्रोक्तशुभलक्षणान्विते दिनमुह दिने मुहूर्त च अत्मजं पुत्रम् , तेभ्यः विद्यागुरुभ्यः, उपनिन्ये विधिना समर्पयामास, गुरुकुले वासयामास, कीदृशम् ? खातं कृतस्नानम् ; पुनः अनुपहतसूक्ष्मक्षोमकल्पितोत्तरासङ्गम् अनुपहलेन-विशुद्धेन. सूक्ष्मेण सूक्ष्मतन्तुमयेन, क्षोमण-कौशेयवत्रेण, कल्पितःरचितः, उत्तरासङ्गः-उत्तरीयाच्छादनं येन तादृशम ; पुनः आमोदिना सुगन्धात्येन, मलयजरसेन चन्दनपढेन, अनु. लिवाङ्गम् अनुलिप्तशरीरम् ; पुनः प्रत्युरसं वक्षःयले, भामुक्तमुक्ताकलापम् आमुक्त:-धृतः, मक्काकलापः-मुक्काहारो येन तादृशम् ; पुनः उपरचितरोचनातिलकरुचिरललाटम् उपरचितेन-विन्यस्तेन, रोचनातिल्केन,-गोरोचनामयतिलकेन, रुचिरः- मनोहरः, ललाटः-भालस्थलं यस्य तादृशम् ; पुनः उत्तमाङ्गघटितमालतीमकुलगण्डमालम उत्तमाओं मस्तके, घटिता स्थिता, मालत्या:-तदाख्यलतायाः, यानि मुकुलानि-किञ्चिद्विकसितकलिकाः, तन्मयी गण्डमालागण्डस्थललम्बिनी माला यस्य तादृशम् पुनः अवदातवेषतया शुभ्रवेषेण, सविशेषदर्शितादरं सविशेष-सातिशयं यथा स्यात् तथा, दर्शितः-अभिव्यक्तः, आदर:-सम्मानो यस्य तादृशम् ; अत एव पुरः अग्रे, अभ्युत्थितायाः कृताभ्यस्थानायाः, सरस्वत्याः विद्याधिष्ठातृदेव्याः, सितांशुधवलया चन्द्रवच्छुभ्रया, शरीरच्छायया शरीरकान्त्या छूरितमिव व्याप्तमिवेत्युत्प्रेक्षा [श] पूजाविशेषवर्धितप्रीतयः, पूजाादशेषेण-सम्मानाति शयेन, बर्षिता-प्रचुरिता, प्रीतिःप्रसादो येषां तादृशाः, ते विद्यागुरवः, लिपिविशेषदर्शनपुरस्सरं लिपिविशेषाणा-लेख्याक्षररूपाणां ब्रह्मयादीनामष्टादशभेदानाम् दर्शनपूर्वकं-परिचयपूर्वकम् , अशेषाण्यपि सर्वाण्यपि, व्याकरणादीनि शब्दशानभृतीनि शास्त्राण, क्रमेण यथाक्रमम् , तस्मै राजपुत्राय, उपादिक्षन् उपदिष्टवन्तः [१]। कुमारोऽपि गजपुत्रोऽपि, गुरूणां विद्यागुरूणाम् , सततं सर्वदा, अभियुकतया शिक्षणपरतया, तथा पितु. मेघवाहनस्य नियन्त्रणपरतया निप्रहपरतया, तथा दुर्विनीतसन्निधेः दुर्जनसंपर्कस्य, अविद्यमानतया असत्त्वेन, तथा सर्वागमोपनिबन्धानां सर्वेषां शास्त्रीयप्रन्थानाम , खाधीनतया स्वायत्तनया, तथा निजबुद्धेः खबुद्धेः. कुशाग्रीयतया कुशाप्रवदतिसूक्ष्मतया, अल्पेनैव कियतैव, कालेन, तेषां विद्यागुरूणम् , अभ्यन्तरः अन्तगतः, तदन्तरवगाहनकुशल इत्यर्थः, अभवत् बभूव [स]। च पुनः,अमुक्काभियोगः अत्यकाभ्य साया, दशभिः अब्दैः वर्षेः, चतुर्दशापि "पडावेदाश्चत्वारो मीमांसाऽ-धीक्षकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ।" इत्यादिना चतुर्दशत्वेन संख्यातानि, विद्या स्थानानि, सर्वाभिः सकलाभिः, उपविद्याभिः काव्यनाटकादिभिः सह, विदाञ्चकार अधिजगे। च पुनः, निरवशेषं समग्रम् , कलाशासम्, विवेद
Page #47
--------------------------------------------------------------------------
________________
तिलकमलरी।
१८९ विषेद, विशेषतश्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप[ह । भुजबलं चास्य विस्मापितसुरासुर केसरिकिशोरस्येव सहजं शारीरमभवत् , आरब्धकार्यस्य त्रिभुवन यशस्यमविजेयमसाध्यं च किमपि न प्रायेणाभूतक्ष । एवं च परिणताशेषशाखमासादितसकलावविद्यापारमुपलब्धसर्वबुधजनसाधुवादमारूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयषशोभमनुमोदितविद्यागुरुजनेन हरिवाहनमतिक्रान्ने षोडशे वर्षे हर्षनिर्भरो राजा विसर्जितैराकारणाय सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्यमानमतिभूयसा विभवेन स्वभवनमानिनाय [shi ___निवर्तिताखिलगृहप्रवेशमङ्गलश्चास्य नगरबाह्यायामलघुत्रप्रालङ्कतप्राकारलचिताभ्रमदभ्रतोरणस्तम्भमुभयतो निखात्तशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशमनेकगजरङ्गशालाभिरामं कुमारभयनमकारयत [अ] 1 कर्तुकामश्च यौवराज्याभिषेकं सस्स साहायकार्थमाझाभरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेना
विदितवान् । च पुनः, विशेषतः विशेषेण, चित्रकर्मणि चित्रणकलायाम् , च पुनः, वीणावाद्ये वीणारूपवाद्यवादन. कलायाम् , प्रवीणतां कुशलताम् , प्राप प्राप्तवान् [] |च पुनः, अस्य राजपुत्रस्य. भुजबलं बाहुबलम् , विस्तापित. सुरासुरं विस्म.पिताः- विस्मयमायादिताः, सुरा:-देवाः, असुराः-राक्षसाच येन तादृशम् , अभवत् , किमिव ! केसरि. किशोरस्य सिंहशिशो: सहज स्वाभाविकम् , शारीरं शरीरसम्बन्धि, बलमिव । श्रारब्धकार्यस्य प्रारब्धव्यापारस्य तस्य कुमारस्य, त्रिभुवनेऽपि लोकत्रयेऽपि, किमपि अशक्यं शक्तयमाध्यम् , अविजेयं विजेतुमशक्यम् , असाध्यं साधयितुमशक्यं च, प्रायेण बाहुल्येन, न, अभूत् आसीत् [२] । एवम् अनेन प्रकारेण षोडशे वर्षे अतिक्रान्ते व्यतीते सति, हपंनिर्भरः आनन्दपूर्णः, राजा मेघवाहनः, अतिभूयसा अत्यधिकेन, विभवेन वित्तमाध्योत्सवेन, हरिवाहन तमामकं खकुमारम्, स्वभवनं स्वगृहम् , आनिनाय आनीतवान् । कीदृशम् ! परिणताशेषशास्त्रं परिणतानि-परि. पकानि, दृडमभ्यस्तीकृतामीति यावत्, अशेषाणि-समस्खानि, शास्त्राणि-ग्रन्था यस्य तादृशम् पुनः आसादितसकला. विधापारम् आसादितः-प्राप्तः, सकलायाः-समप्रायाः, अस्त्रविद्यायाः-बाणविद्यायाः, पार:-अन्तो येन तादृशम् पुनः उपलब्धसर्वबुधजमसाधुवादम् उपलब्धः-प्राप्तः, सर्वेषां बुधजनानां-विद्वजनानाम् , साधुवादः-'अयं कुमारः साधुः, विद्यापत्तामुत्तमः' इत्याकारकः प्रशंसावादो येन तादृशम् ; पुनः आरूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयवशोभम् आरूढया-आपनया, नवतारुण्यलक्ष्म्या -नवयौवनसंपदा, लब्धा-प्राप्ता, सर्वेषामवयवानाम्-शानाम्,.शामासौन्दर्य येन तादृशम् पुनः विद्यागुरुजनेन, अनुमोदितं गृहं गन्तुमनुमतम् । पुनः आकारणाय तस्याहामाय,सादरम् मादरपूर्वकम् , विसर्जितैः प्रेषितः, उदाराकारवेषैः समृद्धाकारवेषशालिभिः, प्रधानपुरुः मत्रिनमः, अनुगम्य मानम् अनुप्लियमाणम् [ ]
अख हरिवाहन स्म, निर्चिताखिल गृहप्रवेशमङ्गलः निर्तित -सम्पादितम् , अखिल-समप्रम् , गृहप्रवेशायकुमारस्य गृहहान्तरागमनाय, माले-मालिकमनुष्ठान येम तारशः, राजेति शेषः, नगरबाह्यायां नगराष्ट्रहितायां भूमी कुमारभवन कुमारप्रासादम् , अकारयत् निरमापयत् । कीरशम् ? अलघुवप्रालनमाकारलविताभ्रमवतो. रस्तम्भम् अलघुना-महना, वपालन-पारखोद्धतमृत्तिकास्तूरभूषितेन, प्राकारेण, लास्तानि -अधःकृतानि, भाभ्रमन्तिसमन्तादितस्ततश्चलन्ति, अप्राणि-मेघा एव तोरणस्तम्भाः-द्वारस्तम्भा यस्य तादृशम्, मेघादप्युनत्तमित्यर्थः; यहा अलधुवप्रालाहतेन प्रकारेण लाइनानि अत्राणि मेघा येन तादृशम् , पुनः अदतोरणस्तम्भम् -अनल्पद्वारस्तम्भम् ; पुनः उभयतः, पार्श्वद्वये, लिखातशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशं निखाताः-निखननेन निवेशिताः, ये शातकुम्भल-सुवर्णस पूर्णकुम्भाः-पूर्णकलसाः, रुद्रासित:-उद्दीपितः द्वारदेशो यस्य तादृशम् ; पुनः अनेकगजतुरङ्गशालाभिरामम् अनेकेषां-बहूनाम् , गजाना-हस्तिनाम् , तुरकानाम्-अश्वानांच, शालाभिः-गृहैः, अभिराम-ममोहरम् [अ]च पुनः, तस्य कुमारस्य, यौवराज्याभिषेकं युवराजत्वाभिषेकविधिम् , कर्मुकामः चिकीर्षुः, साहायकार्थ तत्साहाय्यार्थम् , आदर प्रेषितः आदरण प्रस्थापित प्रणिधिपुरुषैः अनुवरजनैः, उापतिकुमारं कमपि राजकुमार , अनिशं सततम् , अन्धियेष अन्विष्यति स्म । कीदृशम् ? आशामरसहम् तदाज्ञापालनभारक्षमम् , प्रक्षया विवेकेन, पराक्रमेण सामध्यन, माकारेण बाला, विनयेन प्रभुभकिनमतया, वचनाविन्यासेन वाक्यरचनाचातुर्थेग, उधमेन उयोगेन।
Page #48
--------------------------------------------------------------------------
________________
१९०
टिप्पनक-परागविवृतिसंघलिता परैश्च त्यागशौर्यगाम्भीर्यादिभिः प्रभुगुगधुतानुकारमुर्वीपतिकुमारमादरप्रेषितैः प्रणिधिपुरुषैरनिशमुामन्वियेष [आ]॥
एकदा च तं प्रातरेवास्थानमण्डपोपविष्टमध्यासितविकटहेमविष्टरमुखातखगः कृतनिरन्तरावस्थितिभिरू_स्थितैराबद्धपतिभिः शरीररक्षाधिकारनियुक्तैर्वीरपुरुषैरुभयतः परिक्षिप्तमनतिनिकटनिरन्तरासीननिभृतवल्लभराजलोकमभ्यर्णवर्तिनीभिरनवरतचामरोल्क्षेपचलितकलाचिकाकाञ्चनपलयाभिरविलयाभिरुपवीज्यमानवपु. षमुषःक ल मेवागतेन सहप्रविष्ट कतिपयप्रगयिराजसूनुना प्रणम्य सविनयमवनीतलोपविष्टेन पितृचरणविन्यस्तनिश्चलदृष्टिना हरिवाहनेनोपास्यमानमागृहीतचित्रकन रुवेत्रलता प्रतीहारी प्रविश्य क्षितितलन्यस्तजानुहस्तयुगला सविनयं व्यजिज्ञात् - 'देव ! संप्रत्येव दक्षिणापथादागतो दक्षिणदण्डाधिपतेर्वनायुवस्य प्रसादभूमिविजयवेगनामा प्रधानपुरुषः सकलपुरुषार्थसिद्धिसंपादकं देवस्य पादपद्मयुगलं दूधमुत्कण्ठितो द्वारि तिष्ठती. त्याकर्ण्य देवः प्रमाणम्' [इ] : अवनिपालस्तु संस्मृत्य वचनेन तस्याः पूर्ववृत्तमङ्गुलीयकप्रेषणवृत्तान्तमधिल
अपरैः अन्गैश्च, त्यागशीर्षगाम्भीर्यादिभिः औदार्य शौर्यगाम्भीर्यप्रमुखैः, प्रभुगुणैः राजगुणैः, धृतानुकारं गृहीत. तत्सादृश्यम् [आ]।
एकदा एकस्मिन् समये, तं राजानम् , प्रातरेव प्रातःकाल एव, प्रतिहारी, प्रविश्य सभामण्डपान्तः प्रवेश कृचा, सविनयं विनयपूर्वकम , व्यजिशपत् विज्ञापितवती; कीदृशी ? आगृहीतचित्रकनकवेत्रलता आगृहीता, चित्राविलक्षणा, कनकस्य-सुवर्णस्य, बेत्रलता- वेत्रयष्टिर्थया तादृशीः पुनः क्षितितलन्यस्तजानुहस्तयुगला क्षितितले-भूतले, न्यस्त - निहितम् , जानुयुगलम्-ऊरु-जसामध्ययुगलम् . हस्तयुगलं च यया तादृशी, कीदृशं तम् ? आस्थानमण्डपोपविष्टं सभामण्डपोपविष्टम् पुनः अध्यासितविकटहेमविष्टरम् अध्यासितः-अधिष्टितः, विकटः -प्रकटः, हेमविष्टरः-सुवर्णमयमासनं येन तादृशम् । पुनः वीरपुरुषैः सुभटजनैः, उभयतः पार्श्वद्वये, उपक्षिप्तं व्याप्तम् । कीदृशः? उत्खातखरैः उद्यतखाः पुनः कृतनिरन्तरावस्थितिभिः अनवरतमस्थितेः पुनः ऊध्वस्थितैः उत्थितैः; पुनः आय जिमिः पतिबद्धः पुनः शरीर क्षाधिकारनियुक्कैः तदीयशरीररक्षणरूपकार्यनियुक्तैः । पुनः अतिनिकटनिरन्तरासीननिभृतबल्लभराजलोकम् , अतिनिकटे-अतिसमीपे, निरन्तरम्-अविरतम् , आसीनाः-उपविशन्तः, निमृताःनित्रलाः, बलभराजलोका:-प्रियगुरजना यस्य तादृशम् : पुनः वारविलासिनीभिः वाराशनाभिः, उपवीज्यमानवपुषम उपवीज्यमान व्यजनपरिशील्यमानम्, वपुः-शरीरं यस्य तादृशम् । कीदृशीभिः अभ्यर्णवर्तिनीभिः समीपवर्तिनीभिः पुनः अनवरतचामरोत्क्षेपचलितकलाचिकाकाश्चनवलयाभिः अनवरत निरन्तरम्,चामरोरक्षेपेण च तीयमृगविशेषपुच्छरचितम्यजनस्य, उत्क्षेपेग-उद्वेलनेन, चलिनाः-दोलिताः, कलाचिकाकाञ्चनवलयाः-कलाचिकाया-प्रकोष्ठे, स्थिताः सुवर्णमया वलया यासां तादृशीभिः । पुनः कीदृशम ? उषःकालसेवागतेन प्रातःकालिकसेवार्थमुपस्थितेन, कतिपयपणयिमिः कतिपयनेहिभिः सह, प्रविश्य सभामन्डपे प्रवेशं कृत्वा, प्रणम्य स्ख पेतर राजानमभिव द्य, सविनयं विनयपूर्वकम् , अवनीतलोपविष्टेन पृथ्वीतलो विष्ठेन; पुनः पितृवरगविन्यस्तनिश्चलदृष्टिना पितुः-मेघवाहनस्य, चरणयोः, विन्यस्ते-निहिते, निश्चले, दृशी नेत्रे येन तादृशेन,राजसूनुनागजसुतेन, हरिवाइनेन, उरास्यमान सेव्यमानम् । कि व्यजिज्ञपदित्याह-देव! राजन् ! सम्प्रत्येव इदानीमेव, दाक्षणापथात् दक्षिणदेशात् , आगतः, दक्षिणखण्ड. धिपतेः दक्षिणदेशाधिपतेः, बज्रायुधस्य तन्नानः सेनापतेः, प्रसादभूमिः प्रेमास्पदम् , विजयवेगनामा तत्संज्ञकः, प्रधानपुरुषः, सकलपुरुषार्थसिद्धिलम्पादकं सकलानां समस्तानाम् , पुरुषायानां-धर्मार्थकाममोक्षाणाम् , सिद्धेः-निष्पत्तेः, सम्पादक-जनकम् , देवस्य भवतः, पादपद्मयुगलं चरणपङ्कजद्वयम् , द्रष्टुम् अवलोकि तुम् , उत्कण्ठितः उत्कण्ठावान् , द्वारि द्वारदेशे, तिष्ठति वर्तते, इत्याकर्ण्य इति श्रुत्वा, देवः भवान् , प्रमाणं खर्तिव्ये खयम्प्रमाणभूतः [] अवनिपालस्तु मेघवाइननृपस्तु, तस्याःद्वार मलिकायाः, वचनेन वाक्येन, पूर्ववृत्तं पूर्वनिष्पन्नम्, अङ्कलीयकप्रेष प्रवृत्तान्तम् अहलिभूषणप्रेषणसमाचारम् , संस्मृत्य सम्यक् स्मृत्वा, अधिगतप्रीतिः प्राप्तप्रमोदः, प्रवेशय तस्य
Page #49
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। गतप्रीतिः 'प्रवेशय' इति ता सादरमवदत् [ई] । अथ पार्थिववचनानन्तरमेव सा 'यदाज्ञापयति देवः' इत्युक्त्वा सत्वरमास्थानमण्डपानिर्जगाम [उ ] 1 क्षणमात्रनिर्गतायां च तस्यां द्वारदेशप्रहितलोचनो महीपतिः प्रविशन्तमीषक्षामवपुषमुपरचितराजदर्शनोचितवेषमचिरस्नातमपि मार्गवातातपप्लुष्टगात्रत्वक्तया मलिनमिवो. पलक्ष्यमाणमतिचिरदर्शनादपरिचितमिव परकीयमिवान्यथाभूतमिव राजकुलमाकलयन्तमवनिपालदर्शनोत्सुकतया च संभाषणगोचरागतानिष्टानपि सकृदृष्टानिव राजपुंगवानल्पविस्तरमालपन्तमुत्तरीयपटगोपायितोपायनेन पश्चाद्जता पुरुषेणानुगम्यमानं विजयवेगमपश्यत् [ ऊ]॥
दृष्ट्वा च कृतस्मितो दूरादेव संभ्रमवता संभाषणेनैनमनुजग्राह । सरभसोपसृतं च तं कृतप्रणाममासक्तकुट्टिमरजोधूसरललाटजानुकरपुटमुपविष्टमन्तिकोपनीते सविनयमासने प्रीतिप्रसन्नतारकेण चक्षुषा क्षणमात्र. मवलोक्य जगाद-'विजयवेग! कुशलमखिलवीरचक्रप्रकाण्डस्य महादण्डाधिपतेः पृथिव्यामप्रतिहतायुधस्य सराजलोकस्य बजायुधस्य' [ऋ] | स च किश्चिदुज्झितासनो विनयविरचिताञ्जलिः प्रणम्याप्रवीत
प्रवेश कारय, इति, तां द्वारपालिकाम् , सादरम् आदरपूर्वकम् , अवादीत् उक्तवान् [ई ] । अथ अनन्तरम् , पार्थिववचनानन्तरमेव पाधिवस्य-राज्ञः, वचनानन्तरमेव-प्रवेशानुमतिप्रतिपादनानन्तरमेव, सा द्वारपालिका, देवः भवान् , यत्, आशापयति आदिशति तत् करोमीति शेषः, इति उत्तवा कथयिचा. सत्वरं शीघ्रम. आस्थानमण्डपास सभामण्डपात् , निर्जगाम निर्गता [3]। तस्यां द्वारपालि कायाम् , क्षणमात्रनिर्गतायां क्षणमात्र निष्कान्तायां सत्याम् , द्वारदेशप्रहितलोचनः द्वारदेशप्ररितदृष्टिः, महीपतिः मेघवाहनः, विजयवेगं तमामानं प्रध नपुरुषम् , अपश्यत् दृष्टवान् । कीदृशम् ? प्रविशन्तम् अन्तःप्रवेशमाचरन्तम, ईषत्क्षापथपुष किमित्कृशकलेवरम् ; पुनः उपरचितराजदशनोचितवेषम् उपरचितः-विरचितः, राजदर्शनोचितः-राजदर्शनयोग्यो वेषो येन तादृशम् । पुनः अचिरत्रातमपि सद्यःमानमपि,मार्गवातातपष्टगात्रत्वक्तया मार्गस्य यो वातः-पवनः, आतपः-सूर्यकिरणश्च, ताभ्यां धष्टा-दग्धा, सन्तप्तति यावत् , गावक्-शरीरत्वक यस्य तद्भावस्तत्ता तया, मलिनमि उपलक्ष्यमाणं प्रतीयमानम; पुनः अतिचिरदर्शनात् अतिदीर्घकालोतरमवलोकनात् , अपरिचितमिव अजातपरिचयमिव, परकीयमिव अन्यदीयमिव, अन्यथाभूतमिव प्रकारान्तरप्राप्तमिव, राजकुलम् , आकलयन्तम् अगच्छन्तम् ; पुनः अवनिपालदर्शनोत्सुकतया अदानपालस्यराज्ञः, यद्दर्शनं तत्रो सुकत्वन हेतुना, सम्भाषणगोबरागतान् प्रतिशधरूपेणागतान् , इष्टान् प्रियान् , अपि, असर छानपीति यावत् , सकृद्दष्टानिव एवारमेवावलोकिनानिव, राजपुङ्गवान् नृपयेष्ठान , अल्पविस्तरम् अनतिविस्तरम् परिमितमिति यावत् , आलपन्तम् आभ षमाणम् : पुनः उत्तरीयपटगोपायितोपायनेन उत्तरीयपटेन-उत्तरीयवस्त्रेण, गोपायितम्-आच्छादितम् , उपायनं -प्राभृतं येन तादृशेन, पश्चाद् व्रजता पुरुषेण, अनुगम्यमानम् अनुखियमाणम् [अ]।
इष्वा च तमवलोक्य च. कृतस्मितः कृतमन्दहासः दूरादेव दूरत एव, सम्भ्रमवता प्रीतिप्रयुक्तत्वराशालिना, सम्भाषणेन आलापेन, एनं विजयवेगम् , अनुजग्राह अनुगृहीतवान् , स राजेति शेषः । सरभसोपस्तं सवेग. मन्तिकमागतम्,तं विजयवेगम, प्रीतिप्रसन्नतारकेण प्रीत्या-प्रेम्णा, प्रसना-विकसिता, तारका-कनीनिका यस्य तारशेन, चक्षुषा नेत्रण, क्षणमात्र किश्चित्कालम्, अबलाक्य, जगाद उक्तवान् । कीदृशं तम् कृतप्रणाम कृताभिवादनम् । पुनः आसक्तकुट्टिमरजोधूसरललाट जानू करपुटम् आसक्तेन सैलमेन हिमरजसा मणिबद्धमूमधूलिकया, धूसरा:ईत्पाण्डुवर्णा., ललाट भालस्थलम् , जानू -ऊरुजङ्घामध्यभागों, करपुटः-हस्तपुटश्च यस्य तादृशम् ; पुनः अन्तिकोपनीते समीपमानीते, आसने, सविनयं विनयपूर्वकम् , उपविष्ठं कृतोपवेसनम् । किं जगादत्याह-विजयवेग! अखिलवीर चक्रप्रकाण्डस्य समस्तवीरमण्डलप्रशस्तस्य पुनः महादण्डाधिपतेः महतश्चतुरङ्गसेनाधिनायकस्य; पुनः पृथिव्यां जगति, अप्रतिहतायुथस्य अकुण्ठितबापणस्य, सराजलोकस्य राजजनसाहितस्य, वज्रायुधस्य, कुशल भद्रम्, अस्ति किम् इति शेषः[]। पुनः, सविजयवेगः, किधिज्झितासनः किचिस्यकासनः सन् , विनयराचताजलि: विनय
Page #50
--------------------------------------------------------------------------
________________
टिप्पनक- परागविकृतिसंवलिता अब कुशलम् , यस्मिन्नितरजन इव विसर्जिताहंकारप्रन्थिरित्थं स्वयमादिशति सकलरिक्शामिनन्दितप्रभावो देशः, त्वदनुभावप्रसाधिताखिलदुर्वृत्तरिपुराजन्यकेन सैन्याधिपतिय विज्ञापितोऽस्मनुचनेन फा चुम्बित्तसगिटिमः प्रणामः, ससंभ्रममवनताश्चार्चयन्ति देवस्य धरणनरूचिन्ताममिपरंपरां पुर:प्रवीर्य पूजमणिकिरणचवालबालपल्लयमूर्द्धनि मूर्धाभिषिक्तपार्थिवकुलोद्भवा भवदत्त-भीममानुगप्रभृतयः सपरिजना राजानः' [२] । इत्युदीर्य भूयोऽप्यभाषात- 'देव ! बालास्माभिधानं दिव्यसङ्गुलीयकरवं पुरा यत् प्रेषितं देवन दण्डाधिपस्य तद्धृत्तं तेन कालमेतावन्तमात्मसंविधाबधुम च करदीकृतसकलदाक्षिणाशेषिपतिना तेन मत्पार्श्वे प्रहितमिह, मयाप्यद्य निरवद्यमपिभिभूषणगणैः समेतमखिलरमकाध्यक्षस्य महोदधेः समाक्षिकं समर्पितमित्यवधारयतु दिव्यदृष्ट्या देवः' इति वदन्तं . लमुपजातकौतुको नृपः ससिमलम कबील-'विजयदेम! कवित् कृतस्तेन कश्चिदुपकारः संगरेषु सेनापतेत्त्वदीयम ल] | सजगद--
सम्पुटितकरः, प्रणम्य प्रणामं कृत्वा, अब्रवीत् । किमित्याह-अद्य अस्मिन् दिने, कुशलम् , अस्तीति शेषः । यस्मिन् दिने, इसरजन इव सामान्यजन इक, विसर्जिताहकारग्रन्थिः विमोचितमहत्त्वाभिमानरूपप्रन्थिः, सकलत्रिभुवनाभिनन्दितप्रमावः समप्रलोकत्रयप्रशंसितप्रभावः, देवः भवान् , स्वयम् आत्मनेव, आदिशति उक्त प्रकारेगामापयति । स्वदनुभावप्रसाधिताखिलदुर्वृत्तरिपुराजन्यकेन त्वदनुभावेन त्वत्प्रभावेण, प्रसाधितानि-वशमानतावि, भस्लिानिसर्वाणि, दुर्वृत्तानि - उद्धतानि, रिपुराजन्य कानि-भ[भूतक्षत्रियसमूहा येन तादृशेन, सभ्याधिपतिमा सेन्समयकेर, 4युति सावत्, पश्चानचुम्बितमणिकुष्टिमः पयामेन-हस्तद्वय जानुद्वयमस्व कात्मकेन, पुरिश्त:-स्पृष्ठः, मणिकुश्मिःमतिविधिसिंमस्तादशः, प्रणामः नमस्कारः, अमचनेन मद्वाक्येन, विज्ञापितः निवेदितः । मधाभिषिक्तपर्षियकुलोद्रका प्रशस्तक्षत्रियवंशोपनाः, भवदत्त भीम-भानुवेगप्रभृतयः तदाक्यः, सपरिजनाः सपरिवाराः, राजानः, ससम्भ्रमं सकेगम् , अवनताः विनीताः सन्तः, देवस्य भवत', चरणनखचिन्तामणिपरम्परा चरणसम्बन्धिखरूपचिन्तामणिगणम्, अर्चन्ति आराधयन्ति । कैः ? पुर.प्रकीर्णचूडामणि किरणचवालबालपल्लवैः पुरः-अप्रे, प्रकीर्णाः-प्रक्षिप्ताः, चूडामणीनां-मुकुटानाम् , यत् किरणयकवालं-किरणमण्डलम् , तबूपा बाकावा:-क्वपरवा येषां तादृशैः, भूर्धभिः मसकैः []
प्रति इस्थम्, उदीर्य उक्त्म, भूषोऽपि पुनरपि, अभापत उक्तवान् , विजयवेग इति शेषः । किमित्याहदेवराज, देवेन श्रीयता भवतेति यावत्, यत् , बालारणाभिधानं बासारुणनामकम् , दिव्यं सुन्दरम् , अकुलीय. करखम् अळिभूषणभूतरनम्, पुरा पूर्वम् , दण्डाधिपत्य चतुरङ्गसेनानायकस्य, सायुधस्येत्यर्थः, प्रेषितम् उपहतम् , तद सेन दण्डाधिपेन, पतावन्तं कालम् , एतावस्कालाभिव्याप्य, आत्मसन्निधौ स्वपावे, घृतं स्थापितम् । पुक, करवीकतसकलदाक्षिणात्यक्षोणिपतिमा कर क्दतीति करदाः, ताशीता अधिकृता इति यावत्, साक्षिणात्यारदक्षियजनपदसम्बाधा, सोम्णिपतयः-नृपतयो येन तारखेन, तेच वनायुधेन, अधुवा इदानीम् , मपाई महास, दह अत्र, भारपाः इति यावत्, प्रहितं प्रेषितम् । मयापि भय अस्मिन् दिने, मिरवचममिमिः प्रशस्वमणिययैः, भूपयामणैः अम्बालारणगणैः, समेतं सहितम् . अखिलरत्नकोषाध्यक्षस्य समस्तरमकोशाधिपतेः, महोदधेः तशामकणके, समाक्षिक-पाक्षिवरणपूर्वकम्, समर्पितं दत्तम् , हात एतवृत्तम् , दिव्यदृष्टया तद्धारा, देवः भवान् , अवधारणतु निशिनोत, इति इत्यम् , क्वन्तं कथयन्तम्, तं विजयवेगम्, नृपः मेवाहनः, उपजातकोतुकः उत्पमसिौत्युस्या सब ससितं-समन्दहासम् ,भवादी भनवीत् । किमित्याह --विजश्वेग वेन दियाङ्गुलीयकेन, संगरेपुयुधेपु, स्वदी यमा स्वास्थक, सेनापतेः कश्चित् कोऽपि, उपकार सहायता , सचिव किमु [] स विजयनेयः
Page #51
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
'देव ! स कृतो यं न कश्चिदन्यः करोति, आकर्णयतु देवः, इतः समनन्तरातीतवर्षे निवृत्तास्वविरलजलासारवर्षासु वर्षासु प्रवृत्ते संवर्तितसिन्धुपूरपयसि परिणमत्कलमकपिलायमानकैदारिके बद्धस्तम्बतृण संबाधग्रामसीनि जनितविजिगीषुपार्थिवजनोत्साहे शरत्समये सेनापतिरर्थशास्त्र परामर्शपूतमतिभिरमात्यैः सह कृतकार्यवस्तुनिर्णयः प्रशस्तेऽहनि समस्तबलपरिवृतश्चरणतलमृदितभुजबलावलिप्तारिभूपालशिरः शेखरं कुसुमशेखरनामानमवनिपालमुन्मूलयितुकामः कुण्डिनपुरात् काश्चिमण्डलाभिमुखमचलत् [ ] । क्रमेण चाबद्धदृढकक्षाभिराटोपकम्पमानवितत केतुवनराजिभिरभ्यर्थनापदेशस्तम्भितोदयमगस्त्यमुनिमभियोद्धुमुज्वलिताभिविन्ध्यशिखरावलीभिरिव करिघटाभिरन्धकारितैराज्ञाकृष्टानां दुष्टसामन्तानामनीकैरापूर्यमाणकटकविनिवेशः
१९३
टिप्पनकम्-वर्ष - वृष्टिः । कैदारिकं - केदारसमूहः [ ६ ] । कक्षा - करिमभ्यवखा, कक्षः - सतॄणप्रदेशः । भपदेश:- ब्याजम् । अतियोक्तुं - [ अभियातुं - ] गृहीतुम् [ ए ].1
• जगाद उवाच । देव ! राजन् ! स तादृशः, उपकार इति शेषः कृतः विहितः, यं यादृशमुपकारम्, कश्चित् कोऽपि, अन्यः तद्व्यतिरिक्तः, न करोति देवः भवान्; आकर्णयतु शृणोतु । इतः वर्तमानवर्षात् समनन्तरातीतचर्षे अव्यवहितभूतपूर्ववर्षे, परुदित्यर्थः । अविरलजलासारवर्षासु अविरलम् - अविच्छिन्नम्, जलस्य आसारवर्ष-धारासम्पाति वर्षे यासु तादृशीषु, वर्षासु वर्षत, निवृत्तासु व्यतीतासु, पुनः शरत्समये शरहतो, प्रवृत्ते प्रारब्धे सति, कीदृशे तस्मिन् ! संवर्तितसिन्धुपूरपयसि संवर्तितं संकोचितम्, सिन्धुपूरस्य-नदीप्रवाहसम्बन्धि, पयो-जलं येन तादृशे; पुनः परिणमत्कलमक पिलायमान कैदारिके परिणमद्भिः - परिपाकावस्थामापाद्यमानैः, कलमैः- धान्यविशेषैः, कपिलायमानंपिङ्गलायमानम्, कैदारिकं - केदारसमूहो यस्मिंस्तादृशे; पुनः बद्धस्तम्बतृणसंबाधग्रामसीनि बद्धः - उद्गृहीतः, स्वम्बःकाण्डो यैस्तादृशैः, तृणैः, संबाधाः - संकीर्णाः, ग्रामसीमानो यस्मिंस्तादृशेः पुनः जनितविजिगीषुपार्थिवजनोत्साहे जनितः - उद्भावितः, विजिगीषूणां विजयेच्छूनाम्, पार्थिवजनानां नृपजनानाम्, उत्साहो येन तादृशे । सनापतिः वज्रायुधः, अर्थशास्त्र परामर्शपूतमतिभिः अर्थशास्त्रस्य - अर्थनीतिशास्त्रस्य परामर्शन - परिशीलनेन, पूता - परिमार्जिता, मांत:बुद्धिर्येषां तादृशैः, अमात्यैः सचिवैः सह कृतकार्य वस्तुनिर्णयः कृतः, कार्यवस्तूनां - कर्तव्यवस्तूनाम्, निर्णयः- निश्चयो येन तादृशः सन् प्रशस्ते शुभे, अहनि दिवस, समस्तबलपरिवृतः समग्रसैन्य परिवेष्टितः सन्, चरणतलमृदितभुजबलावलिप्तारिभूपालशिरः शेखरं चरणतलेन - पादाधस्वलेन, मृदिता - मर्दिता, भुजबलावलिताना - बाहुबलगर्वितानामू, अरिभूपालानां शत्रुभूतानां राज्ञाम् शिरः शेखराः- शिरोमुकुटा येन तादृशम्, कुसुमशेखरनामानं तत्संज्ञकम् अवनिपालं राजानम्, उन्मूलयितु कामः उच्छेत्तुमिच्छुः कुण्डिनपुरात् कुण्डिनपुराख्यनगरात् काञ्चिमण्डलाभिमुखं कचिदेशाभिमुखम्, अचलत् अगच्छत् । [ ] च पुनः क्रमेण क्रमशः, विन्ध्यशिखरावलीभिरिव विन्ध्यगिरिशिखरपङ्क्तिभिरिव, आबद्धद्दढ कक्षाभिः आ-समन्तात् बद्धाः, दृढाः - प्रबलाः, कक्षाः-बन्धनरज्जवो याभिस्वादृशीभिः, पक्षे आबद्धाः सन्निवेशिताः स्थिता इत्यर्थः, दृढाः - सान्द्राः, कक्षाः - लताः शुष्कतृणपुजाः शुष्कवनानि वा यासु तादृशीभिः, पुनः आटोपकम्पमान वितत केतुवनराजिभिः आटोपेन अतिशयेन, कम्पमानाः - व्याधूयमानाः, बितताःबिस्तृताः, केतवः -- पताका एव, वनराजि:- वनपाङ्कः, पक्षे विततकेतु :- विस्तृतद्युतिर्वनराजिर्यासु तादृशीभिः, पुनः अभ्यर्थनापदेशस्तम्भितोदयम् अभ्यर्थनापदेशेन - प्रार्थनाव्याजेन, स्तम्भितः-निरुद्धः, उदयः- वृद्धिर्येन तादृशम्, अगस्त्यमुनिम्, अभियोद्धुम् अभि-सर्वतोभावेन, योद्धुम् अभियो कुमिति पाठे अभियातुमित्यर्थः, उच्चलिताभिः उत्थितानिः, करिघटाभिः हस्तियूथैः; अन्धकारितैः कृतान्धकारैः, आज्ञया-नियोगेन, आकृष्टानाम् - आहूतानाम्, दुष्टसामन्तानाम् दुष्टविषयान्तरवर्तिनृपतीनाम्, अनीकैः सैन्यैः, आपूर्यमाणकटकनिवेशः आपूर्यमाणः - व्याप्यमानः, कटकनिवेशः - सैन्यावासो येन तादृशः, काश्विदेशम्, अविशत् प्रविष्टवान् । सुरगिरिस्पर्धयोन्नमन्तं विन्ध्यगिरिमवलोक्य तनादित्यगति प्रतिरोधेन जगतामन्धकारमयत्वभयेन तत्पार्श्व गत्वा यावदहं न प्रत्यागच्छामि तावत् त्वया न वर्धनीयमिति वरमभ्यर्च्य गतो, न २५ तिलक •
Page #52
--------------------------------------------------------------------------
________________
१९४
. टिप्पनक-परागविवृतिसंवलिता काश्चिदेशमविशत् [ए] । कुसुमशेखरोऽपि किञ्चित् सदर्पतया तमुपसर्पितुमनीहमानो हीनवलतया प योधयितुमपारयन् कालातिवाहनमत्र प्राप्तकालमिति चेतसा निश्चित्य संवर्गितसमग्रोपकरणकलापः सासमार्गानुसारेण दुर्गसंस्कारमनवरतमन्वतिष्ठत् । अन्वहं च दह्यमानासन्नग्रामकक्षामुपहतबहिर्जलाशयामन्त:प्रवेशितप्रभूतधान्यामुपसंगृहीतप्रचुरयवसेन्धनामुदक्तजीर्णवापीकूपपङ्कां निष्कासितनिःशेषासारलोको विषमितप्राकारमूलसमभूतलामवतारमार्गदुर्गमीकृतखातवलयां निवारिताविज्ञातजननिर्गमप्रवेशामप्रमत्ताप्तपुरुषगुल्मकप्रतिपन्नसकलप्रतोलिरक्षां पाणिक्षेपणीयपाषाणकूटस्थपुटितप्राकारासन्नस्थलामनियतावस्थानसप्तिसैन्यसतता. शुन्यपर्यन्तां प्राकारशिखरोत्सङ्गसूत्रितविचित्रयनिचयां काञ्चिनगरीमकरोत् । अपरित्यक्तसमराभिलाषश्च साहायकधिया सविधवर्तिनामवनिपालानामनुसंधानाय प्रधानदूतानहरहः प्राहिणोत् [ ऐ]। . पूतनाधिपोऽपि प्रकृत्यमर्षणः प्रणिधिपुरुषेभ्य उपलभ्य तस्य तथाविधं समारम्भमधिकोपजातसंरम्भः
प्रत्यागत इति तत्प्रतारणाकुपितो बिन्ध्यगिरिस्तेन योद्धं जगामेत्युत्प्रेक्षा [ए]। कुसुमशेखरोऽपि तन्नामा नृपतिरपि, किञ्चित् सदर्पतया सगर्वतया, ते सेनापतिम् , उपसर्पितुं शरणमागन्तुम्, अनीहमानः अकामयमानः, च पुनः, हीनबलतया दुर्बलसैन्यतया, योधयितुं युद्धं प्रवर्तयितुम् , अपारयन् अशक्नुवन् , अत्र अस्मिन् युद्धकार्ये, कालातिवाहनं कालातिक्रमणम्, प्राप्तकालं प्राप्तावसरम् , उचितमित्यर्थः, इति निश्चित्य निश्चयं कृत्वा, संवर्गितसमग्रोपकरणकलापः संवर्गितः-संगृहीतः, समग्राणां-समस्तानाम् , उपकरणानां-दुर्गसंस्कारसाधनानाम् , कलापः-समूहो येन तादृशः सन् , शास्त्रमार्गानुसारेण शिल्पशास्त्रोकरीत्या, अनवरत-निरन्तरम् , दुर्गसंस्कारं तदाक्रमणवारणाय प्राकारपरिखादिपरिमार्जनम् , अन्वातष्ठत् अकरोत् । च पुनः, काश्चिनगरीम् , अकरोत् कृतवान् , कीटश्चीम् ? अन्वहं प्रतिदिनम् , दह्यमानासन्नग्रामकक्षा दह्यमानाः-भस्मीक्रियमाणाः, आसन्नाः-समीपवर्तिनो ग्रामाः, कक्षाः-शुष्कवनानि च आसनग्रामसम्बन्धिनः कक्षा वा यस्यास्तादृशीम् ; पुनः उपहतबहिर्जलाशयाम् उपहताः-विनाशिताः, बहिर्जलाशया:बहिर्गतास्तडागादयो यस्यास्तादशीम् । पुनः अन्तःप्रवेशितप्रभूतधान्याम् अन्तः-मध्ये, प्रवेशितानि-निवेशितानि, प्रभूतानि-बहूनि, धान्यानि-गोधूमादीनि यस्यास्तादृशीम् ; पुनः उपसंगृहीतप्रचुरयवसेन्धनाम् उपसंगृहीतानि-एकत्रीकृतानि, प्रचुराणि बहूनि, यवसानि-तृणानि, इन्धनानि-काष्ठानि च यस्यां तादृशाम् ; पुनः उदक्तजीर्णवापीकूपपङ्काम् उदकः-उद्धृतः,जीर्णानां वापीकूपानां पङ्को यस्यां तादृशीम् । पुनः निष्कासितनिःशेषासारलोकां निष्कासिताः-बहिष्कृताः, निःशेषाः-समस्ताः, असारा:-बलरहिता लोका यस्यास्तादशीम् , पुनः विषमितप्राकारमूलसमभूतलां विषमितम-उमामतानामितम् , प्राकारमूलभूतं समभूतलं-समस्थलं यस्यां तादृशीम् । पुनः अवतारमार्गदुर्गमीकृतखातवलयां-अवतारमार्गेराजधानीप्रवेशमार्गे, दुर्गमीकृत-दुर्गमतापादितम् , खातवलयं-परिखामण्डलं यस्यां तादृशीम् । पुनः निवारिताविज्ञातजनप्रवेशनिर्गमां-निवारितौ-निरुद्धौ, अविज्ञातजनानाम्-अपरिमितजनानाम्, प्रवेश-निगमो गमनागमने यस्यां ताहशीम् । पुनः अप्रमत्तासपुरुषगुल्मकप्रतिपन्नसकलप्रतोलिरक्षाम् अप्रमत्तानाम्-अवहितानाम् , आप्तपुरुषाणां-विश्वस्तजनानाम्, गुल्मकेन-चतुरङ्गसेन्येन, प्रतिपन्ना-कर्तव्यत्वेनाझीकृता, सकलानां समस्तानाम्, प्रतोलीना-रध्यानाम् , रक्षा यस्यां तादशीम् , पुनः पाणिक्षपणीयपाषाणकटस्थपुटितप्राकारासन्नस्थलां पाणिक्षेपणीयानां-हस्तक्षेपणीयानाम्, पाषाणानाप्रस्तराणाम् , कूटेन-समूहेन, स्थपुटितं-विषमोनामतम् , प्राकारासन्नस्थल-प्राकारसमीपस्थलं यस्यां तादृशीम् पुनः अनियता
स्थानसप्तिसैन्यसतताशून्यपर्यन्ताम् अनियतावस्थान:-अनिश्चितस्थितिक, सप्तिसैन्य:-अश्वारूढसैनिकैः, सततम्, मशून्यः-व्याप्तः, पर्यन्तः-प्रान्तभूयस्यां तादृशीम् । पुनः प्राकारशिखरोत्सङ्गसूत्रितविचित्रयन्त्रनिचयां प्राकारशिखराणा-प्राकारोपरिभागानाम्, उत्सङ्गे-मध्ये, सत्रितः-सन्निवेशितः, विचित्रयाणां-विलक्षणयन्त्राणाम् , निचयः-समूहो यस्यां तादृशीम् । च पुनः, अपरित्यक्तसमराभिलाषः अपरित्यक्तयुद्धाभिलाषः सन्, साहायकधिया साहाय्यदया, सविधवर्तिनां समीपवर्तिनाम् , अवनिपालानां राज्ञाम्, अनुसन्धानाय अन्वेषणाय, प्रधानतान् मुख्यातान्, भइरहः प्रतिदिनम्, प्राहिणोत् प्रेषितवान् [ऐ]। प्रकृत्यमणः प्रकृत्या-खभावेन, अमर्षण:-असहिष्णुः कुद्ध इति
Page #53
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
१९५ सरभसप्रधाविताभिरनीकिनीभिरागत्य विहितोपरोधः पर्यन्तेषु काश्चयाः स्कन्धावारममुञ्चत् । कृतासारसंरोधश्च प्रावृषेण्यजलधरव्यूह इव पौरलोकानां महन्तमातङ्कमकरोत् । सामन्ताश्च सज्जीकृतसमदसामजथटा विघटनाय दुर्गस्य तेन कृतविसर्गाः क्रमेण निर्जग्मुः [ओ] | आविष्कृताटोपदुष्प्रसहैश्च तैः सह प्राकारशिखरवर्तिनः कुसुमशेखरयजलोकस्यान्योऽन्यकृतनिर्भर्त्सनानि समत्सरसुभटसिंहनादबधिरीकृताभ्यर्णवासिजनकर्णरन्ध्राणि नीरन्ध्रपाषाणक्षेपक्षणमात्रस्थलीकृताम्बरतलानि निर्दयमहततूर्यरवपर्यासितकातरकरशस्त्राणि यत्राविक्षिप्ताग्नितप्ततैलच्छटाविघटमानविकटपदातिगुम्फानि बद्धस्फरतिरोहितपुरुषखन्यमानप्राकारमूलबन्धानि कोषदष्टौष्ठवण्ठश्रूयमाणदुर्गस्थवैरिनिष्ठुराक्रोशानि शिरस्थितफरकफारकप्रार्थमानप्राकारखण्डीप्रवेशानि तृणपूल
टिप्पनकम्-कृतासारसंरोधश्च भासारः-वेगवदृष्टिमित्रबलं च [ओ ] । बद्धस्फुरः-चर्मकटी [ औ] ।
यावत्, पृतनाधिपोऽपि सेनापतिरपि, तस्य कुसुमशेखरस्य, तथाविधं तादृशम् , समारम्भ उद्यमम् , प्रणिधिपुरपेभ्यः चरजनेभ्यः, उपलभ्य विदित्वा, अधिकोपजातसंरम्भः अधिकम्-अत्यन्तम् , उपजातः-उत्पन्नः, संरम्भः-- उत्साहबनितवेगो यस्य तादृशः सन्, सरभसप्रधाविताभिः सवेगं धाविताभिः, अनीकिनीभिः सेनाभिः, आगत्य, विहितोपरोधः विहितः-कृतः, उपरोधः-राजधान्या अवरोधो येन तादृशः, काञ्चयाः काचिनगर्याः, पर्यन्तेषु प्रान्तभमिष, स्कन्धावारं सैन्यावासम्, अमुञ्चत अस्थापयत् । च पुनः. प्रावषेण्यजलधरव्यहव प्रावृषेण्यानावर्षाकालिकानाम् , जलधराणां-मेघानाम् , व्यूहः-समूह इव, कृतासारसंरोधः कृत आसारस्य-धारासम्पातस्य, पक्षे मित्रसैन्यस्य, संरोधः-अवरोधो येन तादृशः सन् , पौरलोकानां-पुरवासिजनानाम् , महान्तं प्रचुरम् , आतकं त्रासम् , अकरोत् । च पुनः, दुर्गस्य प्राकारस्य, विघटनाय भजनाय, तेन सेनापतिना, कृतविसर्गाः कृतो विसर्गो-विसर्जन त्याम इति यावत् , येषां तादृशाः, पुनः सज्जीकृतसमदसामजघटाः सज्वीकृता-सन्नाहिता, समदानां-मत्तानाम् , साबजानां-गजानाम् , घटा-समूहो यस्तादृशाः; सामन्ताः स्वविषयान्तर्वतिनो नृपाः, क्रमेण पर्यायेण, निर्जग्मुः निर्माताः,
ओ] च पुनः, आविष्कृताटोपदुष्पसहैः आविष्कृतेन-प्रकटिवेन, आटोपेन-आडम्बरेण, दुष्प्रसहैः-दुर्धर्षेः, ते। धावन्तैः सह, प्राकारशिखरवर्तिनः प्राकारोपरिवर्तिनः, कुसुमशेखरराजलोकस्य कुसुमशेखरराजजनस्य, प्रतिदिनं दिने दिने, आयोधनानि संग्रामाः, अभवन् बभूवुः । कीदृशानि ? अन्योऽन्यकृतनिर्भर्त्सनानि अन्योऽन्यं-परस्परम, सतं निर्भर्सन-प्रहारो येषु तादृशानिः पुनः समत्सरसभटासिंहनादबधिरीकताभ्यर्णवासिजनकरा समत्सराणां-स्पर्धावताम् , सुभटानां-सुयोधानाम् , सिंहनादेन-सिंहस्येव गर्जनेन, बधिरीकृतानि-बधिरत्वमापावितापि, भूरितवानीति यावत्, अभ्यर्णवासिमां-निकटदासिनाम्, जनानां-लोकानाम्, कर्णरन्ध्राणि-कर्ण विवराणि येषु तादृशानिः पुनः नीरन्ध्रपाषाणक्षेपक्षणमात्रस्थलीकृताम्बरतलानि नीरन्ध्रपाषाणक्षेपेण अनवरतप्रस्तरप्रक्षेपेण, क्षणमात्रं क्षणमात्रेण वा, स्थलीकृतं-स्थलत्वमापादितम् , अम्बरतलम्-आकाशतलं येषु तादृशानिः पुनः निर्दयमहततूर्यरवपर्यासितकातरकरशलागि निर्दयं-दयारहितम् , तीव्रमित्यर्थः, यथा स्यात् तथा, प्रहतानां-ताडितानाम् , तूर्याणां-वाचविशेवानाम्, रवेण चनिना, पर्यासितानि-करात् प्रच्यावितानि, कातराणां-भीरूणाम् , करशस्त्राणि-हस्तस्थित शस्त्राणि येषु सादृशामिः पुनः सविक्षिप्ताग्नितप्ततैलच्छटाविषटमानविकटपदातिगुम्फानि यत्रेण विक्षिप्ताः-विकीर्णा या भमितप्तस्य तैलस्स छटा:-धारावाभिः, विघटमान:-विश्लिष्यमाणः, विकटाना-प्रबलानाम्, पदातीना-पदगामिना सैनिकानाम्, गुम्क:-समूहो या साहानिपुनः बस्फरतिरोहितपुरुषखन्यमानप्राकारमूलबन्धानि बद्धाः-शिरसि निहिताः, स्फराःशिरोरक्षकफलका यस्तारशैः, तिरोहितैः-प्रच्छनैः, पुरुषैः-लोकैः, सन्यमानः-उदियमानः, प्राकारस्य मूलपम्धो येषु तादृशानि; पुरः क्रोधवष्टौष्ठवण्ठभूखमाणदुर्गस्थवैरिनिष्ठुराकोशानि क्रोधेन दष्टौ-कृतदशनी, गोष्ठी येषां तादृशैः, क्लैःहसबने, भूयबाणः, दुर्गस्थानो-प्राकारोपरिस्थानाम् , वैरिणाम् , निष्ठुरः-कठोरः, आक्रोशः-स्पर्धाबजकः शब्दो येषु ताहशानिः पुनः शिरस्थितफरकफारकमालमानप्राकारखण्डीप्रवेशानि शिरसिस्थिताः फरका:-शिरोरक्षकफलका
Page #54
--------------------------------------------------------------------------
________________
१९६
टिप्पनक-परागविवृतिसंवलिता फोल्कानलप्रदीप्तकरिशारिनिःसरद्विहस्तहस्त्यारोहाणि वेगलना मितप्तनाराचविलीयमाननृपतिकाञ्चनमुकुटानि कुठारताडितप्रतोलीकपाटनिःस्वनानुसारनिपतत्प्रबलपाषाणवर्षाणि कृतकलकलप्रामीणावलोक्यमानप्रहारविकलबिद्रवहिपघटानि भयानकानि च कुतूहलकराणि च क्रोधजनकानि च हासावहानि च विनोदभूतानि च निर्वेददायीनि च प्रतिदिनमायोधनान्यभवन् [औ॥ .
एवं च काचीग्रहणरक्षणविधावधिरूढगाढाभिनिवेशयोरभिनवोढदम्पतिकरपल्लवयोश्च तयोः कियानप्यतिपपात कालः । एकदा तु प्राप्ते वसन्तसमये समागतायामनङ्गोत्सवतिथावतीते निशीथिन्या: प्रथमयामे राजद्वारमागतासु द्वितीययामगजघटासु, रसिते प्रमोदावसरतूर्ये, श्रुतावसरतूर्यरवसंभ्रान्तेषु दत्तपर्याणानारुह्योपवाहवाजिनो राजद्वारंमतिरंहसा प्रधावितेषु परिवर्द्धकेषु यथायाम निरूपितयामिकेषु निजनिजकर्म
टिप्पनकम्-उपवाह्यवाजिनः राजवाहनाश्वाः । परिवर्धका:-भश्वसंवारकाः।
येषां तादृशैः, फारकैः-प्राकारमूलखानकैः, प्रार्थ्यमानः-इध्यमाणः, प्राकारखण्डीप्रवेशः-अवान्तरप्राकारप्रवेशो येषु तादृशामि; पुनः तृणपूलकोल्कानलप्रदीप्तकरिशारिनिःसरद्विहस्तहस्त्यारोहाणि तृणपूलकानां-तृणमयपूलकसम्बन्धिभिः, उल्कानलैः-ज्वालाग्निभिः, प्रदीप्ताः-सन्तप्ता याः, करिशारयः-भाजपर्याणकानि, ताभ्यो निःसरन्तो विहस्ताः-व्याकुलाः, हस्त्यारोहाः-हस्त्यारूढा जना येषु तादृशानिः पुनः वेगलग्नाग्नितप्तनाराचविलीयमाननृपतिकाञ्चनमुकुटानि वेगेन लगैः-संसकैः, अमितप्तः, नाराचैः-बाणैः, विलीयमानानि-द्रवन्ति, नृपतीनां काञ्चनमुकुटानि-सुवर्णमयशिरोऽलङ्कारा येषु ताहशानि; पुनः कुठारताडितप्रतोलीकपाटनिखनानुसारनिपतत्प्रबलपाषाणवर्षाणि कुठारैः-तदाख्यशस्त्रविशेषैः, ताडितानां प्रतोलीकपाटानां-रथ्याद्वारपिधानानाम् , ये निखनाः-शब्दाः, तदनुसारेण निपतत्, पाषाणानां-प्रस्तराणाम् , वर्षवृष्टियेषु तादृशानि; पुनः कृतकलकलग्रामीणावलोक्यमानप्रहारविकलविद्रवद्विपघटानि कृतः कलकल:कोलाहलो यैस्तादृशः, प्रामीणः-ग्रामवासिजनैः, अवलोक्यमाना, प्रहारेण-आघातेन, विकलाना-खिन्नानाम् , विद्रवां-पलायमानानाम् , द्विपानां-हस्तिनाम् , घटा-मण्डलं येषु तादृशानि; पुनः भयानकानि भयङ्कराणि; पुनः कुतूहलकराणि दिदृक्षाजनकानिः पुनः क्रोधजनकानि अमर्षोत्पादकानिः पुनः हासावहानि हासजनकानि; पुनः विनोदभूतानि विनोदमयानि; च पुनः, निर्वेददायीनि ग्लानिजनकानि [ औ] । एवं च अनेन प्रकारेण च, अभिनवोढदम्पतिकरपल्लवयोरिव अभिनवोढयोः-नवपरिणीतयोः, दम्पत्योः-जायापत्योः, करपल्लवयोः-पालवोपमकोमलकरयोः, काञ्चीग्रहणरक्षणविधौ काच्याः-तन्नामकनगर्याः, पक्षे स्त्रीकटिभूषणविशेषस्य, ग्रहणस्य-शत्रुसैन्यकर्तृकाक्रमणस्थ, पक्षे पतिकर्तृकाकर्षणस्य, रक्षणस्य-वसैन्यकर्तृकतद्वारणस्य, पक्षे जायाकर्तृकतन्निरोधस्य, विधौ-व्यापारे, अधिरूढगाढाभिनिवेशयोः अधिरूढः-प्राप्तः, गाढः-अत्यन्तः, अभिनिवेशः-आग्रहो याभ्यां तादृशयोः, तयोः स्वसैन्यशत्रुसैन्ययोः, कियानपि कतिपयोऽपि, कालः, अतिपपात व्यतीतः । एकदा एकस्मिन् काले, वसन्तसमये चैत्रवैशाखात्मके वसन्तऋतौ, प्राप्ते समागते; पुनः अनङ्गोत्सवविधौ कामदेवोत्सवविधी, समागतायाम् उपस्थितायाम् ; पुनः निशीथिन्याः रात्रे, प्रथमयामे प्रथमप्रहरे, अतीते व्यतीते सति; पुनः द्वितीययामगजघटासु द्वितीययामस्य-द्वितीयप्रहरस्य सम्बन्धि. नीषु, तत्प्रहरावच्छेदेन रक्षणकर्मणि नियुक्तासु इत्यर्थः, गजघटासु-हस्तिसैन्येषु, राजद्वारं राजभवनद्वारम्, आगतासु उपस्थितासु सतीषु; पुनः प्रमोदावसरतूर्ये प्रमोदाक्सरसम्बन्धिवाद्यविशेषे, रसिते शब्दिते सति; पुनः श्रुता. वसरतर्यरचसम्भ्रान्तेषु श्रुतेन-श्रवणगोचरीकृतेन, अवसरतूर्यरवेण-खावसरसूचकवायविशेषध्वनिना, सम्भ्रान्तेषु प्राप्तसम्भ्रमेषु, श्रुतावतरतूर्यरवसम्भ्रान्तेष्विति पाठकल्पे श्रुतेन अवतरता-उद्भवता तूर्यरवेण सम्भ्रान्तेष्विति व्याख्येयम् , परिवर्घकेषु अश्ववाहकेषु, दत्तपर्याणान् स्थापितपल्ययनान्, उपवाहवाजिनः खवाहनभूतावश्वान् , आरुह्य अध्यास्य, अतिरंहसा अतिवेगेन, राजद्वारं प्रधावितेषु धावितुमारब्धवत्सुः पुनः यथायाम यथाप्रहरम्, निरूपितयामिकेषु निश्चितप्राहरिककार्येषु, चिरनिरोधखिन्नतनुषु चिरकालिकैकभावस्थानबिनशरीरेषु,
Page #55
--------------------------------------------------------------------------
________________
तिलकमलरी।
१९७ शालाभ्यो निर्गतेषु चिरनिरोधखिन्नतनुषु नियोगिषु, पुरःसरहिनदीपिकेषु ब्रजसु निजशिबिराणि तारतरकरेणुघण्टाकणितसूचितेषु सामन्तेषु, आपणिकसंवृतसायंतनपण्यसंततिषु विकटायमानेषु विपणिवीथीचतुष्पथेषु, शिबिरपर्यन्तबद्धगुल्मकेषु स्थित्वा स्थित्वा युगपदारटत्सु बाह्यतनपदातिवृन्देषु, विश्रान्तजनरवनिरङ्कुशप्रसरेवितस्ततः श्रूयमाणेष्वापानकमृदङ्गध्यनिषु, शयनमन्दिराङ्गणनिहितशययानिषण्णे संनिहितकतिपयप्रणयिनि प्रारब्धमदनजागरस्य जायाजनस्य गीतकान्याकर्णयति परितः परित्यक्तविग्रहकथानिरवग्रहमनसि सेनाधिपे, सहसैव संत्रासितकटकलोकस्खासतरलमन्दुरातुरङ्गश्रेणिश्रुतः सत्वरापसृतपृष्ठप्रसुप्ताधोरणानामपहायापहाय पांशुसल्पाम्युत्तिष्ठतामिभपतीनां चरणशृङ्खलारणितजरठेन जर्जरीकृतः कण्ठगर्जितेन, गजगर्जितारवश्रवणकुपितानां पञ्जरकेसरिणां सरभसकरास्फालितशलाकाप्रतिनादबृंहितेन बहलीकृतः पूत्कृतेन, प्रतिसैम्यमाहतानां प्रस्त
टिप्पनकम् -गुरुमकं-स्थानकम् । निरवग्रहम्-उच्छृखलम् । मन्दुरा-अश्वशाला । काहल:-अभ्यतः । नियोगिषु भृत्येषु, निजनिजकर्मशालाभ्यः खखकार्यगृहेभ्यः, निर्गतेषु निष्कान्तेषु; पुनः तारतरकरेणुघण्टाक्कणितसूचितेषु तारतरेण-तीव्रतरेण, करेणूनां-हस्तिनाम् , घण्टाक्कणितेन-घण्टानादेन, सूचितेषु-संकेतितेषु, सामन्तेषु खविषयान्तर्वर्तिनृपेषु, पुरःसरत्रिदीपिकेषु पुरः-अमे, सरन्तः-गच्छन्तः, द्वित्राः-द्वौ वा त्रयो वा, दीपिकाः दीपवाहका येषा तादृशेषु, निजशिबिराणि स्वसैन्यावासान् , ब्रजसु गच्छत्सुः पुनः आपणिकसंवृतसायन्तनपण्यसन्ततिषु आपणिकः-विक्रेतृभिः, संवृताः-उपसंहृताः, सायन्तनपण्याना-सायंकाले विक्रयणार्थ प्रस्तुतवस्तूनाम् , सन्ततयः-पडयो येषु तादृशेषु, विपणिवीथीचतुष्पथेषु विपणिविथीनाम्-आपण. मार्गाणाम् , चतुष्पथेषु चतुर्दिगभिमुखमार्गेषु, विकटायमानेषु प्रकटायमानेषुः पुनः शिबिरपर्यन्तबद्धगुल्मकेषु शिबिरपर्यन्ते-सैन्यावासप्रान्ते, बद्धगुल्मकेषु-बद्धपतिकेषु, बाह्यतन्त्रपदातिवृन्देषु बाह्यतन्त्रपदातीना-बाह्यराष्ट्रियपदगामिनाम् , वृन्देधु-समूहेषु, स्थित्वा स्थित्वा मुहुर्मुहुः स्वगमनमवरुध्य; युगपत् सहैव, आरटत्सु शब्दायमानेषु; पुनः विश्रान्तअनरवनिरङ्कुशप्रसरेषु विश्रान्तः-निवृत्तो यो जनरवः-लोकशब्दस्तेन निराशप्रसरेषु-अप्रतिबद्धप्रचारेषु, आपानशालामृदङ्गध्वनिषु आपानशालायाः-मद्यपानसभायाः, मृदङ्गध्वनिषु-वाद्यमानमृदङ्गनादेषु, इतस्ततः अभितः, भूयमाणेषुः पुनः शयनमन्दिराङ्गणनिहितशय्यानिषण्णे शयनमन्दिराजणे-शयनभवनप्रागणे, निहितायां स्थापितायाम् , शय्यायां निषण्णे-उपविष्टे, सन्निहितकतिपयप्रणयिनि समीपस्थकतिपयनेहास्पदजने, प्रारब्धमदनजागरस्य प्रारब्धा मदनजागरा-कामदेवोद्देश्यकजागरणं येन तादृशस्य, जायाजनस्य स्त्रीजनस्य, गीतकानि गानानि, आकर्णयति शृण्वति सति, पुनः परितः सर्वतः, परित्यक्तविग्रहकथानिरवग्रहमनसि परित्यक्ता-निवारिता या, विप्रहकथा-युद्धवार्ता, तया निरवग्रह-प्रतिबन्धरहितमुच्छृङ्खलमिति यावत् , मनो यस्य तादृशे, सेनाधिपे सेनापती सति, महान् गम्भीरः, कलकलारवः कोलाहलध्वनिः, उदभूत् प्रादुरभूत् । कीदृशः? सहसा शीघ्रम् ,संत्रासितकटकलोक: भीषितसैन्यजनः; पुनः प्रासतरलमन्दुरातुरङ्गश्रेणिश्रुतः त्रासेन-भयेन, तरला-चञ्चला या, मन्दुरायाः-अश्वशालायाः, तुरज श्रेणि:-अश्वपतिः, तया श्रुतः-श्रवणगोवरीकृतः; पुनः सत्वरापसृतपृष्ठप्रसुप्ताधोरणानां सखरं-शीघ्रम् , अपसताः-दूरीभूताः, पृष्ठप्रसुप्ताः-पृष्ठभागमधिशयिताः, आधोरणाः-हस्तिपका येषां तादृशानाम् , पुनः प्रांशुतल्पानि उन्नतशय्याः, अपहाय अपहाय त्यक्त्वा त्यक्त्वा, उत्तिष्ठताम् उत्थानं कुर्वताम् , इभपतीनां महागजानाम्, चरणशृङ्खलारणितजरठेन चरणशृङ्खलायाः-चरणबन्धनविशेषस्य, रणितेन-शब्देन, जरठेन-वृद्धन, कण्ठगर्जितेन कण्ठकृतगर्जनेन, जर्जरीकृतः मिश्रितः; पुनः गजगर्जितारवश्रषणकुपितानां गजाना-हस्तिनाम् , यद् गर्जितं-गर्जनम्, तद्रूपस्य आरवस्य-शब्दस्य, श्रवणेन, कुपितानाम्-ईयितानाम् , पञ्जरकेसरिणां पजरबद्धसिंहानाम, सरभसकरास्फालितशलाकाप्रतिनादबृंहितेन सरभसं-सवेगं यथा स्यात् तथा, कराभ्याम्-अग्रिमपादाभ्याम् , आस्फालिताः-आहता याः, शलाकाः-पारस्थलौहयष्टयः, तासो प्रतिनादेन-प्रतिध्वनिना, बृहितेन-वर्धितेन, फूत्कृतेन फूत्कारेण, बहलीकृतः-वर्धितः; पुनः प्रतिसैन्यं प्रतिसेनासम्भवेन, आहतानां नादितानाम्, सन्नाइपटहानां युद्धार्थकवचपरिधानद्योतकवाद्यविशेषाणाम् , प्रसूततारतरकाहलावणितकाहलेन प्रसृतेन-प्रवृद्धेन, तारतरेण-अतितीव्रण,
Page #56
--------------------------------------------------------------------------
________________
१९८
टिप्पनक-परागविवृतिसंवलिता
3
तारतर काहला कणितकाहेलेन सन्नाहपदानामुन्नादितः कोलाहलेन, ससंभ्रमोत्थितानां तत इतः प्रधावताम् 'आहरत रथवरूथानि, कल्पयत मातङ्गान, आरोहत तुरङ्गान् अङ्गीकुरुत तनुत्राणि गृह्णीत शस्त्राणि इत्यनवरतमाघोषतामधिकारिपुरुषाणां श्रवणपरुषेण पोषितस्तारतुमुलेन व्याहृतेन, निर्भरभरित सकल-त्रिभुवनोद महानुदभूत् कलकलारवः [ अ ] । तं च प्रलयकालजृम्भितमहाभैरवाट्टहास भैरवं रवमाकर्ण्य समुपजातरिपुबलावस्कन्दपातशङ्को नायकस्तत्काललब्धावसरेण भृत्येनेव रणरसेन बद्धविकटरोमाचकवचेन प्रेर्यमाणो विजृम्भितातिभीषणभ्रुकुटि संकटायमानललाटभित्तिरमर्षदष्टदशनच्छदो दक्षिणकरेणाच्छिद्य परिचारक हस्तादुत्पातत डिल्लतानुकारिणं कृपाणमितरपाणिना प्रेङ्खयन् विचित्ररत्नखण्डखचितमन्तककितवकौतुकाष्टापद प्रकोष्टनिविष्टमष्टापद फलकमति बहलेन तिर्यग्विसर्पता खड्गप्रभापटलेन मलिनितमाबद्धविकटकालायसकङ्कटकमिवोरःकपाटमुद्वहन् रभसदूरपातिभिरभिमुख प्रकटितासियष्टिमात्मच्छायामभिहन्तुमिव
टिप्पनकम् - उन्नादितः उच्चैः कृतः । [अं] । भैरवः शङ्करः । अवस्कन्दः - घाटकः । कङ्कटः- लोहकवचम् |
वरूथं रथगोपनम् । कल्पयत सज्जयत । तारतुमुलेन- उच्चबहलेन अष्टापदं चतुरङ्गफलकम् । अष्टापदफलकं सुवर्णफरकः । कालायस -
}
काइलानां -- महाढकानाम्, क्वणितेन शब्देन, काहलेन वर्धितेन अव्यक्तेन वा, कोलाहलेन शब्देन, उमादितः संवर्धितः; पुनः ससम्भ्रमोत्थितानां सवेगमुत्थितानाम्, तत इतः तत्रान प्रधावताम् - प्रकर्षेण धावताम् अधिकारिपुरुषाणां सैन्याध्यक्षजनानाम्, श्रवणपरुषेण कर्णकठोरेण, तारतुमुलेन अतिगम्भीरेण व्याहृतेन शब्देन, पोषितः पुष्टिमापादितः, कीदृशानां तेषाम् ? रथवरूथानि रथानां वरूथानि - वर्माणि रथगुप्तिस्थानानि, परप्रहाररक्षार्थमावृतस्थानानि वा, आहरत आनयत अन्वेषयत वा, मातङ्गान् इस्तिनः कल्पयत सजयत, तुरङ्गान् अश्वान्, आरोहत पृष्ठावच्छेदेनाधितिष्ठत, तनुत्राणि कवचान् अङ्गीकुरुत धारयत, शस्त्राणि शस्त्रसमूहम् गृहीत उत्थापयत, इति एवम् अनवरतं निरन्तरम्, आघोषताम् आक्रोशताम् पुनः निर्भरभरितस कलत्रिभुवनोदरः निर्भरम् - अत्यन्तम्, भरितंपूरितम्, सकलं- समप्रम्, त्रिभुवनस्य - भुवमत्रयस्य, उदरं - मध्यं येन तादृशम् [ अ ] । प्रलयकालज्जृम्भितमहाभैरवाट्टहासभैरवं प्रलयकाले- जगद्विध्वंससमये, जृम्भितः - प्रकटितः, महाभैरवस्य - महाकालस्य, मोऽधहासः - महाहासः, तद्व भैरवं भयङ्करम्, तम् अनुपदोक्तम्, एवं शब्दम् आकर्ण्य श्रुत्वा समुपजातरिपुबलावस्कन्दपातशङ्कः समुप जाता - समुत्पन्ना, रिपुबलस्य - शत्रुसेनायाः, अवस्कन्दपातस्य - आक्रमणार्थमागमनस्य, शङ्का यस्य तादृशः सन् नायकसेनापतिः, राजकुलात् राजधानीतः, अतिजवेन अतिवेगेन, निरगच्छत् निष्क्रान्तः । कीदृशः ? तस्काललन्धावसरेण तत्क्षणप्राप्तावसरेण, भृत्येनेव अनुचरेणेव, बद्ध विकटरोमाञ्चकवचेन बद्धः- धृतः, विकटः- दृढः, रोमाञ्चकवचःरोमाञ्चरूपं वर्म येन तादृशेन, रणरसेन संप्रामोत्साहेन, प्रेर्यमाणः प्रवर्त्यमानः पुनः विजृम्भितातिभीषणक्षुकुटिसंकटायमानललाटभित्तिः विजृम्भितया-प्रकटितया, अतिभीषणया- अतिभयानिकया, भ्रुकुट्या - नेत्रोपरितनरोमराजकौटिल्येन, संकटायमाना-संकुचिताकारा, ललाटभित्तिः - ललाटस्थलं यस्य तादृशः; पुनः अमर्षदष्टदशनच्छदः श्रमर्षेणक्रोधेन, दृष्टौ -कृतदशनौ, दशनच्छदौ- ओष्ठौ यस्य तादृशः, दक्षिणकरेण दक्षिणहस्तेन, परिचारकहस्तात् सत्यहस्तात्, उत्पाततडिल्लतानुकारिणं प्रलयकालिक विद्युल्लतासदृशम्, कृपाणं खगम्, आच्छिद्य बलाद् गृहीत्वा इत्तरपाणिना वामहस्तेन, अष्टापदफलकं सुवर्णमयं फलकं - 'ढाल' इति प्रसिद्धमन प्रतिघातनिवारणसाधनम्, प्रेयन् प्रचालयन, कीटशम् ? विचित्ररत्नखण्डखचितं विचित्रैः - विलक्षणैः, रनखण्डैः - रत्नावयवैः, खचितं व्याप्तम्, पुनः अन्तककितवकौतुकाष्टापदम् अन्तक कितवस्य - यमरूपद्यूतकारस्य, कौतुकाष्टापदं- कुतूहलजनक चतुरङ्गशा रिफलकभूतम्, तत्सदृशमित्यर्थः, पुनः प्रकोष्ठनिविष्टं प्रकोष्ठे - कूर्पराधोभागे निविष्टं स्थितम् ; पुनः अतिबहलेन अतिविपुलेन, तिर्यग विसर्पता तिरःप्रसरता, खड्गप्रभापटलेन कृपाणकान्तिकलापेन, मलिनितं मालिन्यमापादितम्, अत एव आबद्धविकट कालायसकङ्कटमित्र आबद्धः - गृहीतः, विकटः- विषमः, कालायस कङ्कटः- लोहविशेषनिर्मितकवचो येन तादृशमिव, उरः कपाटं वक्षःस्थलरूममर्गलम्, उद्वहन् धारयन्; पुनः रभसदूरपातिभिः रभसेन वेगेन, दूरपतनशीलैः पुनः अभिमुखप्रकटितासियष्टिम्
Page #57
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
१९९
1
पुरः प्रवर्तितैः पादैराकम्पितक्षितिराक्षेपदूरोच्छलितहार विप्रकीर्णेन नीहारनिकरस्पर्द्धिना किरण विसरेण संवर्द्धयन्निवारा तिसैन्यसंदर्शनाय चन्द्रातपमनुमार्गप्रधावितेन संभ्रमस्खलितगतिना वीरलोकेन गमनवेगानिलाकृष्ठेनेवानुसृतगतिरतिजवेन राजकुलान्निरगच्छत् [ अः ] । द्वारदेशावस्थितश्वामतो दत्तदृष्टिरतिवेगादापतन्तावतिशयच्छे कपाटहिकताडितपटहनादपटुतरेण दूरादेव खुरपुटध्वनिना प्रकटीकृतावुर: कपाटघटिता तनुतनुत्राणौ तत्क्षणविपाटितकाषायपदार्थान्तपीडितोत्तमाङ्गौ गृहीतनिशितप्रासमुष्टिना वामेन किञ्चिदुत्क्षिप्तवल्गौ दक्षिणेन च करतलेन त्रासतरलिताक्षतुरगतिर्यगवलोकितोत्क्षेपां कशामुद्वहन्तावश्वदर्शनसरभसप्रधावितैः शिबिरवेसरैरिव धूसरैः खुररजोभिः पश्चादनुगम्यमानावनवरत दोलायमानजङ्घाकाण्डतया तुरगपृष्ठवर्तिनावपि भावन्ताविवोपलक्ष्यमाणावासन्नवर्तिना शिबिरलोकेन किं किमेतदिति संभ्रान्तेन पृच्छयमानौ मनोरथाविव मनसो जीवाविव जवस्य वारकाविव वायोरुत्सेकाविवौत्सुक्यस्य विगतपर्याणतुरङ्गमाधिरूढौ काचरक - काण्डरात
टिप्पनकम् - सम्भ्रमश्र आकुलता [ अ ] । प्रासः - सेलः [क] |
अभिमुखम् अग्रे प्रकटिता आविर्भूता, असियष्टिः- कृपाणदण्डो यस्यां तादृशीम्, आत्मच्छायां स्वच्छायाम्, अभिहन्तु मिव अपहर्तुमित्र, पुरःप्रवर्त्तितैः अत्रे प्रेरितैः पादैः चरणैः, आकम्पितक्षितिः ईषत् कम्पितभूतलः पुनः अरातिसैन्यसन्दर्शनाय शत्रुसैन्यसमवलोकनाय, चन्द्रावपं चन्द्रिकाम् आक्षेपदूरोच्छलितहारविप्रकीर्णेन आक्षेपेणसञ्चालनेन, दूरोच्छलितात्- दूरमुत्पतितात्, दारात्-रत्नमाल्यात्, विप्रकीर्णेन प्रसूतन, पुनः नीहारनिकरस्पर्धिना हिमोधानुकारिणा, किरण विसरेण किरणपुञ्जेन, संवर्धयन्निव सम्यग् वर्धयन्निवेत्युत्प्रेक्षा; पुनः अनुमार्गप्रधावितेन प्रतिमार्ग कृताविधावनेन, अत एव गमनवेगानिलाकृष्टेनेव धावनवे गोत्थितवायुकृताकर्षणेनेव, सम्भ्रमस्खलितगतिना वेगस्वतिगमनेन, वीरलोकेन सुभटजनेन, अनुसृतगतिः अनुसृतगमनः [ अ ] । च पुनः, द्वारदेशावस्थितः द्वारवेसे कृतावस्थितिकः सन् अग्रतः अग्रे, दत्तदृष्टिः व्यापारितनयनः प्रज्ञाततमो अतिपरिचितों, काचरक - काण्डतनामानौ, अश्ववारी अश्वारोहिणी, अद्राक्षीत् दृष्टवान् स सेनापतिरिति शेषः । कीदृशौ तौ ? अतिवेगात् अतिजवात्, आपतन्तौ आगच्छन्तो; पुनः अतिशयच्छेकपाट हिकताडितपटहनादपटुतरेण अतिशयेन, छेक:--निपुणो यः पाटद्दिक:- पटहाख्वाद्यविशेषवादनशिल्पी, तेन ताडितस्य-नादितस्य, पटहस्य, नादेन ध्वनिना, पटुतरेण-स्फुटतरेण, मिश्रितेनेत्यर्थः, खुरपुटध्वनिना खुरपुटशब्देन, दूरादेव दूरत एव, प्रकटीकृती प्राकट्यमापादिताँ; पुनः उरः कपाटघ दितातनुतनुत्राणौ वक्षःस्थलघृतविशालकवचौ; पुनः तत्क्षणविपाटितकाषाय पटार्धान्तपीडितोत्तमाङ्गौ तत्क्षणं-तत्काले विपाटितस्यविदारितस्य, काषायपटस्य- कषायरक्तवस्त्रस्य यद् अर्धम् - अर्धभागः, तस्यान्तेन - अम्बलेन, पीडितं-घटितम्, उत्तमाङ्ग-शिरो ययोस्तादृशौ पुनः गृहीत निशितप्रासमुष्टिना गृहीता घृता, निशितस्य तीक्ष्णस्य, प्रासस्य-कुन्तस्य, मुष्टि:- मुष्टिधार्थभागो येन तादृशेन, वामेन - दक्षिणेतरेण, करतळेन, किञ्चिदुत्क्षिप्त वल्गौ किञ्चिद् ईषद्, उत्क्षिप्ता - उन्नमिता, वल्गाअश्वमुखस्थरज्जुर्याभ्यां तादृशौ च पुनः, दक्षिणेन वामेतरण करतलेन हस्ततलेन त्रासतरलिताक्षतुरग तिर्यभक्लोकितोत्क्षेपां त्रासेन - भयेन, तरलिते -चम्बलिते, अक्षिणी-नेत्रे यस्य तादृशेन, तुरगेण-अश्वेन, तिर्यकू सकटाक्षपातम् अवलोकितो दृष्टः, उत्क्षेपः- उद्यमनं यस्यास्तादृशीम्, कशाम् अश्वताडनीम्, उद्वहन्तौ दधानौ पुनः अश्वदर्शनसरभसप्रधावितैः अश्वदर्शनेन, सरभसं- सवेगम्, प्रधावितैः- प्रकर्षेण धावितेंः, शिबिरवेस रैरिव सैन्यखे चरैरिव, धूसरैः तद्वर्णैः, खुररजोभिः अश्वशफोद्गतधूलिभिः पश्चात् पृष्ठदेशे, अनुगम्यमानौं अनुत्रियमाणः च पुनः अनवरत दोलायमानजङ्घाकाण्डतया अनवरतं - सततम्, दोलायमानौ - इतस्ततः सञ्चलन्तौ जङ्घाकाण्डों-जङ्घारूपखम्भों ययोस्तादृशतया, तुरगपृष्ठवर्त्तिनावपि भववृष्ठाधिष्ठितावपि धावन्ताविव धावनं कुवन्तावद उपलक्ष्यमम्मी प्रतीयमानों पुनः आसनवर्त्तना निकटवर्तिना सम्भ्रान्तेन सम्भ्रमान्वितेन शिबिरलोकेन सेनिकजनन, पतत् पुरो दश्यम्, किं किं भवतीति पृच्छ्यमानौ जिज्ञासां ज्ञाप्यमानौ; पुनः मनसः हृदयस्य, मनोरथाविव अभि लावभूताविव पुनः जवस्य वेगस्य, जीवाविव प्राणभूताविव पुनः वायोः पवनस्य, वारकाविच नियामकाविवः पुनः
Page #58
--------------------------------------------------------------------------
________________
२००
टिप्पनक-परागविवृतिसंवलिता नामानौ प्रज्ञाततमावश्ववारावद्राक्षीत् , अप्राक्षीच सत्वरम्-'अरे!, किमेष कटकक्षोभः' इति [क] | अथ तौ समीपमेत्य त्यक्ततुरगावुरगाविव सर्वाङ्गस्पष्टभूतलौ प्रणम्य युगपदूचतुः-'दण्डनाथ ! संप्रत्येव संनद्धसकलकरितुरङ्गयोधमाबद्धवीरपट्टपादातभीषणमरुनेत्रपताकापटपल्लवितरथनिरन्तरमुत्तरप्रतोलिमार्गेण निर्गत काभ्याः कृतसमस्तसमरसामग्रीकमहितानामनीकममर्षपरवशं च पौरुषावलेपेन तृणलघूनस्मान् मन्यमानमतिजवन प्राप्तमभ्यर्णेऽस्य कटकस्य वर्तत इति श्रुत्वा प्रभुः प्रमाणम्' इत्युक्त्वा विरेमतुः [ख]॥
सेनापतिस्तु तं तयोराकर्थ कर्णामृतकल्पं जल्पमुपजातहर्षा रणरसोत्कर्षपुष्यत्पुलकजालकः सजलजीमूतस्तनितगम्भीरेण स्वरेण तत्क्षणादिष्टकिङ्करससंभ्रमास्फालितमाबद्धस्फुटप्रतिशब्दमिव दर्शयन् ध्वनन्तमाजिदुन्दुभिमभ्यर्णचरमनुचरगणं स्थानयनार्थमादिक्षत् । नचिराञ्च तेनान्तिकमुपनीतमुभयतः प्रचलदतिचारुपत्रमुदरविनिहितमहाहिभीषणानेकास्त्रं पत्ररथराजमिव रथाङ्गपाणिरध्यास्य रथं यथासंनिहितेनात्मसैन्येनानु
टिप्पनकम्-वीरपट्टः-चीरिका [ख] भन्यत्र पत्राणि-पिच्छानि ।
ससम्भ्रम-सादरम् । प्रचलदतिचारुपत्रम् एका पत्रम्-अश्वः,
औत्सुक्यस्य उत्सुकतायाः, विलम्बासहिष्णुताया इत्यर्थः, उत्सेकाविव उन्नतिखरूपाविव; पुनः विगतपर्याणतुरङ्गं विगत-नष्टम् , पर्याणम्-उपरितनसुखासनं यस्मिन् तादृशमश्वम् , अधिरूढी आरूढौ। च पुनः, सत्वरं शीघ्रम् , अप्राक्षीत् पृष्टवान्, अरे! इति खन्यूनसम्बोधनम् , किमित्याह-एषः अयम् , कटकक्षोभः कटकस्य-सेनायाः, क्षोभः सम्भ्रमः, किम् ? किंतुकः [क]। अथ प्रश्नानन्तरम् , त्यक्ततुरगौ त्यक्ताश्वौ, तो काचरक-काण्डरातनामानौ अश्ववारी, समीपमेत्य निकटमागत्य, उरगाविध साविव, सर्वाङ्गस्पृष्टभूतली सर्वाजालिशितभूतलौ सन्तौ, प्रणम्य प्रणाम कृत्वा, युगपत् एककालम् , ऊचतुः उक्तवन्तौ । किमित्याह-दण्डनाथ! हे चतुरङ्गसेनापते !, सम्प्रत्येव इदानीमेव, अहितानां शत्रूणाम् , अनीकं सैन्यम् , अस्य कटकस्य सैन्यस्य, अभ्यणे निकटे, अतिजवेन अतिवेगेन, प्राप्तम् उपस्थितम्, वर्तते, इति श्रुत्वा श्रवणगोचरीकृत्य, भवन्तः यूयम्, प्रमाणं किंकर्तव्यनिर्णायकाः, इत्युक्त्वा विरेमतुः विरामं प्राप्तो। कीदृशं तत् ? सन्नडसकलकरितुरङ्गयोधं सन्नद्धाः-सज्जिताः, सकलाः-समयाः, करिणः-हस्तिनः, तुरङ्गाः-अश्वाः, योधाः-सुभटाश्च यस्मितादृशम् ; पुनः आबद्धवीरपट्टपादातभीषणम् आबद्धः-धृतः, वीरपट्टःवीरचिभूतपद्यो ध्वजो येन तादृशेन, पादान-पदातीनां पदगामिसैनिकानां समूहेन, भीषणं-भयानकम् । पुनः अरुणनेत्रपताकापटपल्लवितरथनिरन्तरम् अरुणानां-रकानाम् , नेत्रपताकानां-नेत्राकारविशिष्टवस्त्रनिर्मितध्वजानाम् , पटैः-वस्त्रैः,
याप्ता ये रथास्तैः, निरन्तर-संकीर्णमः पुनः काश्याः तदाख्यप्रकृतनगर्याः, उत्तरप्रतोलिमार्गेण उत्तररथ्यात्मकमार्गेण, निर्गतं निष्कान्तम् ; पुनः कृतसमस्तसमरसामग्रीकं कृता-सम्पादिता, समस्ता समरसामग्रीयुद्धसामग्री यस्मिस्तादृशम् । पुनः अमर्षपरवशम् ईर्ष्याधीनम् । पुनः पौरुषावलेपेन पराक्रमगर्वेग, अस्मान् , तृणलघून तृणवत्तुच्छान् , मन्यमानम् [ख]॥
सेनापतिस्तु सेनानायकल, तयोः अश्ववारयोः, कर्णामृतकल्पं श्रवणामृतप्रायम् , जल्पं वचनम् , आकर्ण्य श्रुत्वा, उपजातहर्षेः उत्पन्नानन्दः, रणरसोत्कर्षपुष्यत्पुलकजालका रणरसस्य-रणानुरागस्य, उत्कर्षेण-औत्कम्येन, पुष्यत्-पुष्टिमापाद्यमानम् , पुलकजालं-रोमाञ्चपुओ यस्य तादृशः, सजलजीमूतस्तनितगम्भीरेण सजलस्य-जलपूर्णस्य, जीमूतस्य-मेघस्य, यत् स्तनितं-गर्जितं तद्वद्, गम्भीरेण, स्वरेण, तत्क्षणादिष्टकिङ्करससम्भ्रमास्फालितं तत्क्षणंतत्कालम, आदिष्टैः-आज्ञप्तः, किङ्करैः-मृत्यैः, ससम्भ्रमं-सवेगम्, आस्फालितं-ताडितम्, ध्वनन्तं नदन्तम् , आजिदुन्दुभि संग्रामदुन्दुभिम्, आबद्धस्फुटप्रतिशब्दमिव धृतस्पष्टप्रतिध्वनिमिव, दर्शयन् प्रत्याययन् , अभ्यर्णचरं निकटवत्तिनम्, अनुचरगण भूत्यवृन्दम्, रथानयनाथ रथापस्थापनार्थम्, आदिक्षत् आदिष्टवान् । मचिरात् शीघ्रम् , तेन अनुचरगणेन, अन्तिकं निकटम् , उपनीतम् उपस्थापितम् । पुनः उभयतः उभयपार्थे, . प्रचलतिचारुपत्रं प्रचलन्ती अतिचारुणी-अतिमनोहरे, पत्रे-वाहने, पक्षे पक्षौ यस्य तादृशम् । पुनः
Page #59
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२०१
गम्यमानो युगपदाहृतानां कुपितयमहुङ्कारानुकारि भाङ्कार भैरवमतिगम्भीरमारसन्तीनां समरढकानां ध्वनितेन पातयन्निव सवन्धनान्यरातिहृदयानि तारतरव्याहारिणां बन्दिवृन्दानां हृदयहारिणा जयशब्दाडम्बरेण मुखरिताम्बरः शिविरान्निरगच्छत् । कुतव्यूहविरचनश्च समरसंक्षोभक्षमायामुपान्तभूमावस्थात् [ग] ॥
अथाकर्णितसमरभेरीनिनादजृम्भितानन्दाः सरसरोचनारचितललाटतिलकबिन्दयो दूर्वा प्रबालदन्तुरैः शिरोभिरभ्यर्णचारिचारणोच्चार्यमाणवीर्य संपद्स्त्वरितपद संचाराभिरागत्यागत्य करिघटाभिः समन्ततः ससामन्तचक्राः परिवारयांचकुरेनं सेनापतयः, प्रत्येकं पातितस्निग्धदृष्टिना च तेन सप्रसादमादिष्टाः प्रणम्य निजनिजस्थानेषु तस्थुः [घ] ॥
अथ निशीथानुभावभास्वरेण विषममुन्मीलता निमीलता च दीपिकानिवहेन पिशुनितममञ्जुगुञ्ज
टिप्पनकम् -- उदविनिहित महाहिभीषणास्त्रम् एकत्र महाहय एव भीषणानेकास्त्राणि, अन्यत्र महाहिवत् । पत्ररथराजं गरुडम् [ग] ।
उदरविनिहित महाहिभीषणानेकास्त्रम् उदरे - मध्यभागे, विनिहितानि - स्थापितानि, महाहिभीषणानि - महासर्पवद् भयानकानि अत्राणि यस्मिन् पक्षे महाहय एव महासर्पा एव, भीषणानि अस्त्राणि येन तादृशम्, रथाङ्गपाणिः रथाङ्गंचक्रम् पाणी - हस्ते यस्य स विष्णुः, पत्ररथराजमिव पत्राणि - पक्षा एव, रथाः - रथा इव गमनसाधनानि येषां ते पत्ररथाः-पक्षिणः, , तेषां राजा - गरुडः, तमिव, रथम्, अध्यास्य अधिरुह्य, यथासन्निहितेन यावान् सन्निहित आसीत् तावता, आत्मसैन्येन स्वसैनिकेन, अनुगम्यमानः अनुत्रियमाणः, युगपदाहतानां युगपत् ताडितानाम्, कुपितयमहुङ्कारानुकारिभाङ्कारभैरवं कुपितस्य - क्रुद्धस्य, यमस्थ यो हुङ्कारस्तदनुकारिणा, भाङ्कारेण ध्वनिविशेषेण, भैरवं भीषणम्, तथा अतिगम्भीरम् अतिस्फुटं च यथा स्यात् तथा, आरसन्तीनाम् आनदन्तीनाम्, समरढक्कानां संग्रामवाद्यविशेषाणाम्, ध्वनितेन ध्वनिना, सबन्धनानि भयादिनियन्त्रितानि, अरातिहृदयानि शत्रुहृदयानि, पातयन्निव अंशयन्निव; पुनः तारतरव्याहारिणाम् अत्युच्चैरुचारिणाम्, वन्दिवृन्दानां स्तुतिपाठकसमूहानाम्, हृदयहारिणा हृदयप्रियेण, जयशब्दाडम्बरेण जयकाराडम्बरेण, मुखरिताम्बरः ध्वनितगगनमण्डलः, शिबिरात् सैन्यावासात, निरगच्छत् निष्क्रान्तः । च पुनः कृतव्यूहविरचनः कृता विहिता, व्यूहस्य सैन्यसन्निवेशविशेषस्य, विरचना येन तादृशः सन्, समरसंक्षोभक्षमायां संग्रामसञ्चारसमर्थायाम्, उपान्तभूमौ पर्यन्तभूमौ अस्थात् स्थितवान् [ग] ॥ अथ तत्र स्थित्यनन्तरम्, आकर्णितसमरभेरी निनाद जृम्भितानन्दाः आकर्णितेन श्रुतेन, समर मेरीनिनादेन - संग्राम • ढक्काध्वनिना, जृम्भितः-प्रकटितः, आनन्दो येषां तादृशाः; पुनः सरसरोचनारचितललाटबिन्दवः सरसया - आर्द्रया, रोचनया-गोरोचनया, रचिताः- कल्पिताः, ललाटतिलकबिन्दवः - ललाटे तिलकरेखा यैस्तादृशाः; पुनः दूर्वाप्रवालदन्तुरैः दूर्वाख्यतृणविशेषनूतनदलव्याप्तैः शिरोभिः मस्तकैः, उपलक्षिताः; पुनः अभ्यर्णचारिचारणोच्चार्यमाणवीर्य सम्पदः अभ्यर्णचारिभिः-निकटगामिभिः, चारणैः - बन्दिभिः, उच्चार्यमाणाः - स्तूयमानाः, वीर्यसम्पदः - पराक्रम सम्पत्तयो येषां तादृशाः, ससामन्तचक्राः खविषयान्तर्वर्तिनृपसमुदायसहिताः सेनापतयः, त्वरितपदसञ्चाराभिः त्वरितः - शीघ्रः, पदसञ्चारः -- चरणसञ्चारो यासां तादृशीभिः, करिघटाभिः इस्तियूथैः आगत्यागत्य उपस्थायोपस्थाय, समन्ततः सर्वतः, एनं चतुरङ्गसेनानायकम्, परिवारयाञ्चक्रुः परिवेष्टन्ते स्म । च पुनः प्रत्येकं एकैकस्मिन् पातितस्निग्धदृष्टिना पातिता - प्रक्षिमा, स्निग्धा - स्नेहार्द्रा, दृष्टिर्येन तादृशेन तेन सेनानायकेन, सप्रसादं प्रसन्नतापूर्वकम् आदिष्टाः भज्ञताः सन्तः, प्रणम्य नमस्कृत्य, निजनिजस्थानेषु स्वस्वस्थानेषु तस्थुः स्थिताः [घ] ॥ अथ अनन्तरम्, प्रतिपन्थिबलं शत्रुसैन्यभू, चक्षुषः पथि दृष्टिमार्गम्, अढोकत प्राप्तम् । कीदृशम् ? निशीथानुभावभास्वरेण निशीथानुभावेन - मध्यरात्रप्रभावेण भाखरेण - प्रकाशमानेनः पुनः विषमं विषमप्रकारं यथा स्यात् तथा, उन्मीलता दीप्यमानेन, निमीलता संकुचता च, दीपिकानिवहेन प्रदीपसमूहेन, पिशु नितं सूचितम् पुनः अम जुगुअकालम् २६ तिलक०
Page #60
--------------------------------------------------------------------------
________________
२०२
टिप्पनक-परागविकृतिसंवलिता काहलमाकर्ण्यमानतारपरुषहयषारवमितस्ततः श्रूयमाणगम्भीरगजगर्जितमावेगतर्जिताश्चैवारंवारमश्ववारैरावेद्यमानागमनमग्रस्कन्धताडितो रसमरढकमढौकत चक्षुषः पथि प्रतिपन्थिबलम्, अविरलनिरस्तशरनिकरशीकरासारडामरं च तदुरिरभसमुद्दामकलकलव्याप्तसकलदिङ्मुखमभिमुखप्रधावितेन जलदागमनुभितममरापगापूरजलमिव लवणजलधिना प्रत्यगृह्यतास्मलेन [3]परस्परवधनिबद्धकक्षयोश्च तयोस्तरक्षणमाकुलितसकलजीवलोको युगपदेकीभूतोदारयारिराशिरसजलविसरवर्षिधनपदातिघोरो मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः
टिप्पनकम्-अग्रस्कन्धः-अग्रसेना [ 0] । कक्षा-निश्चयः । आकुलितसकलजीवलोकः एकत्र ससम्भ्रमसर्वजीवा जना यत्र स सथोक्तः, अन्यत्र ससम्भ्रमसर्वभुवनः । युगपदेकीभूतोदारवारिराशिः एकत्र एकहेलया मिलित उद्तशब्दः शत्रुसंघातो यन्त्र स तथोक्तः, अन्यत्र युगपन्मिलितोनटसमुद्रः । अस्रजलविसरवर्षिघनपदातिघोरः एकत्र रुधिरोदकवर्षकनिबिडपत्तिभैरवः, अन्यत्र रक्तवजलवर्षकमेघावस्थानातिरौद्रः । मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः एकत्र हृष्टशाकिनीगवेध्यमाणनृपतिशिरोऽस्थिमद्यपानः, अन्यत्र हृष्टचामुण्डान्वेष्यमाण. दिक्पालकालचषकः ।
अमजु-कठोरं यथा स्यात् तथा, गुञ्जन्तः-ध्वनन्तः, काहलाः-महाढक्का यस्मिंस्तादृशम् ; पुनः आकर्ण्यमानतारपरुषहयढेषारवम् आकर्ण्यमानाः-श्रूयमाणाः, तारा:-तीवाः, परुषा:-कर्णकठोराः, हयानाम्-अश्वानाम् , हेषारवाः-हेषाख्यशब्दा यस्मिंस्तादृशम् ; पुनः इतस्ततः अत्र तत्र, श्रूयमाणगम्भीरगजगर्जितं श्रूयमाणम् , गम्भीरं-तुमुलम्, गजगर्जितं-हस्तिगर्जनं यस्मिंस्तादृशम् । पुनः आवेगतर्जिताश्वैः आवेगः-अतिवेगैः, तर्जिताः-ताडिताः, अश्वा यस्तादृशैः, अश्ववारैः अश्वारोहिसैनिकः, वारं वारम् अनेकधा, आवेद्यमानागमनम् आवेद्यमानं-ज्ञाप्यमानम् , आगमनं यस्य लादृशम् । पुनः अग्रस्कन्धताडितोद्धरसमरढक्कम अग्रस्कन्धे सेनासनिवेशाप्रभागे, ताडिताः-नादिताः. उद्धराः-दृढाः, समरढक्काः-संग्रामवायविशेषा यस्मिंस्तादृशम् । च पुनः, अविरलनिरस्तशरनिकरशीकरासारडामरम् अविरल-निरन्तरम् ,निरस्त:-विकीर्णो यः, शरनिकर:-बाणसमूहः, तद्रूपजलकणधारापातेन, डामरं-व्याप्तम् । पुनः दुर्वाररभसं दुर्निवारबेगम् ; पुनः उद्दामकलकलव्याप्तदिनुखम् उद्दान्ना-उत्कटेन, कलऋलेन-कोलाहलेन, व्याप्तानि-पूरितानि, सकलानिसर्वाणि, दिङ्मुखानि, सकलानां दिशा वा मुखानि-अग्रभागा येन तादृशम् , तत शत्रुसैन्यम् , अभिमुखप्रधावितेन शीघ्रमभिमुखमागतेन, अस्मदलेन अस्मत्सैन्येन, प्रत्यगृहात आकान्तम् ; केन कीदृशं किमिव ? लवणजलधिना लक्षणसमुद्रेण, जलदागमक्षुभितं जलदागमेन-वर्ष ना, क्षुभितं सञ्चालितम्, अमरापगापूरजलमिव अमरापगायाः-देवनद्याः, गङ्गाया इति यावत् , पूरजलमिव-प्रवाहजलमिव [ङ]च पुनः, परस्परवधनिबद्धकक्षयोः परस्परस्य, वधायघाताय, निबद्धा-नितरां बद्धा, कक्षा-कटिघटितपटार्धभागो निश्चयो वा याभ्यां तादृशयोः, तयोः स्वसैन्य-शत्रुसैन्ययोः, महाप्रलयसन्निभः महाप्रलयतुल्यः, समरसंघट्टः संग्रामसंघर्षः, अजायत जातः। कीदृशः? तत्क्षणं तत्कालम् , आकुलितसकलजीवलोकः आकुलिता:-क्षोभिताः, सकला:-समस्ताः, जीवाः-प्राणिनो यैस्तादृशा लोका:-जना यत्र तादृशः, पक्षे आकुलिता:-क्षोभिताः, सकलाः-समस्ताः, जीवलोकाः-भवनानि येन तादृशः; पुनः युगपत्रे वारिराशिः युगपद्-एककालावच्छेदेन, एकीभूतः-संमिलितः, उदारवः-उद्गतशब्दः, अरिराशि:-शत्रुसमुदायो यत्र तादृशः, पक्षे युगपद्-एककालावच्छेदेन, एकीभूताः-संमिलिताः, उदाराः-महान्तः, वारिराशयः-समुद्रा यत्र तादृशः; पुनः अस्त्रजलविसरवर्षिघनपदातिघोरः अस्त्रजलविसरवर्षिणः-रुधिररूपजलौघवर्षिणो ये, घना:-निबिडाः; पदातयः-पत्तयः, तैः अतिधोर:-अतिभयङ्करः, पक्षे अस्रजलविसरवर्षिणः-रुधिरमयजलौघषिणो ये, चना:-मेघाः, तेषां यानि पदानि-अवस्थानानि, तैः, अतिघोर:-अतिभयङ्करः; पुनः मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः मुदितया-रुधिरपानहृष्टया, योगिन्या-शाकिन्या, पक्षे मुदितया लोकसंहारहृष्टया, योगिन्या-चामुण्डया, मृग्यमाणा:-अन्विष्यमाणाः, लोकपालाना-नृपाणाम्, पक्षे इन्द्रादिदिक्पालानाम्, कपालचषका:-मस्तकोपरितनार्धघटा कारास्थिरूपरुधिरपानपात्रचिशेषाः,
Page #61
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२०३ प्रचलितरसाकुलभूभृच्चक्रवालकृततुमुलः प्रसृतरभसोत्तालगजदानवारिरातत्रिदशदारिकान्विष्यमागरमणसार्थों निपीतनरवशाविस्वरबिसारिशिवाफेत्कारडामरः [च] । सतारकावर्ष इव वेतालदृष्टिभिः, सोल्कापात इव निशितप्रासवृष्टिभिः, सनिर्घातपात इव गदाप्रहारैः, ससंवर्तकाम्बुदुर्दिन इव करिशीकरासारैः, सोत्पातरविमण्डल इव कीलालितकरालचक्रमुक्तिभिः, सवैद्युतस्फूर्ज इव जवापतज्ज्वलितशक्तिभिः, सखण्डपरशुताण्डव इब प्रचण्डानिलधूतध्वजसहौः, सकालाग्निधूम इव प्रकुपितसुभटभ्रकुटीतमिस्रैरजायत महाप्रलयसंनिभः
टिप्पनकम्-प्रचलितरसाकुलभूभृञ्चक्रवालकृततुमुलः एकत्र प्रचलितवसुन्धराकुलगिरिचक्रविहिताकुल शब्दः, अन्यत्र प्रचलितवीररसाकुलनृपचकृताकुलारवः । प्रसृतरभसोत्तालगजदानवारिः एकत्र प्रसृतं-प्रवृत्तम् , स्भलोत्तालगजानाम्-उत्सुकोनटकरिणाम, दानवारि-मदजलं यत्र स तथोक्तः, अन्यत्र प्रसृत उत्तालगजवद् दानवारिःशङ्करो यत्र स तथोक्तः । आतंत्रिदशदारिकाविष्यमाणरमणसार्थः एकत्र भार्ताभिस्तिसृभिर्दशभिश्च, दारिकाभिः-अङ्गनाभिः, भविष्यमाणो भर्तृसंघातो यत्र स तथा, अन्यत्र आर्तदेवपुत्रिकागवेष्यमाणभर्तृसंघातः । निपीते त्यादि-शिवाफेरकारडामरः-एकत्र चामुण्डाफेत्कारेण डामरः-रौद्रः, अन्यत्र कोष्ट्री० [च]। कीलालितः-सरुधिरः । . स्फुजः-स्फुरणम् । खण्डपरशु:-शङ्करः।कालाग्निः-पातालरुद्रः[छ।
पक्षे तद्रूपमद्यपानपात्र विशेषा यस्मिंस्तादृशः; पुनः प्रचलितरसाकुलभूभृश्चक्रवालकृततुमुल: प्रचलितेन-उच्छलितेन, रसेन-वीररसेन, आकुलानाम्-आप्लुतानाम्, भूभृतां-राज्ञाम्, चकवालेन-मण्डलेन, कृतं तुमुलं-सान्द्रयुद्धं यस्मिन् , पक्षे प्रचलितायाः-प्रकम्पितायाः, रसायाः पृथिव्याः, कुलभूभृता-महेन्द्रादिकुलपर्वतानाम् , चऋवालेन-समूहेन, कृतम् , परस्परोपरि पतनरूपं सान्द्र युद्ध यस्मितादृशः; पुनः प्रसृतरभसोत्तालगजदानवारिः प्रसृत-विस्तृतम् , रभसोत्तालानां-वेगोद्धतानाम्, गजानां, दानवारि-मदजलं यस्मिंस्तादृशः, पक्षे प्रसृतः-संहत्तुं व्यावृतः, रभसोसालःऔत्सुक्योन्तो हर्षमेदुरो वा, गजदानवस्य-गजासुरस्य, अरिः-शत्रुः शिवः संहारभैरव इति यावत्, यस्मिंस्तादृशः; पुनः आतंत्रिदशदारिकान्विष्यमाणरमणसार्थः आर्ताभिः-विरहव्यग्राभिः, त्रिदशदारिकाभिः-देवाशनाभिः, अन्विष्यमाणः, रमणसार्थ:-प्रियसमूहो यस्मिंस्तादृशः, युद्धे मृताना देवत्व प्राप्तः प्रसिद्ध्या वैधव्यविधरितानां तद्वनिताना वरान्वेषणोपपत्तेः, पक्षे त्रिदशाभिः-त्रिवृत्तदशसंख्यकाभिः, त्रिंशत्संख्यकाभिरिति यावत्, उपलक्षणत्वाद् बहुसंख्यकाभिरित्यर्थः, दारिकाभिः-अङ्गनाभिः, अन्विष्यमाणः, रमणसार्थ:-भर्तृगणो यस्मिस्तादृशः; पुनः निपीतनरवशा- . विस्वरविसारिशिवाफेत्कारडामरः निपीता-नितरां पानकर्मतामापादिता या, नराणां-मनुष्याणाम् , वशा-धातुविशेषः, तया विखरेण-विकृतस्वरेण, विसारिणीनां-प्रसारिणीनाम् , शिवानां-शुगालीनाम्, पक्षे विसारिण्याः शिवायाः-चण्डिकायाः. फेत्कारेण-ध्वनिविशेषेण, डामरः-व्याप्तः, रौद्र इति यावत् [च]; पुनः वेतालदृष्टिभिः वेतालानां-मल्लविशेषाणाम् , पक्षे शिवानुचरविशेषाणाम् , दृष्टिभिः-दृष्टिपातः, सतारकावर्षे इव तारकाणां ताराणाम्, यद् वर्ष-वृष्टिः, तत्सहित इवेत्युत्प्रेक्षा; पुनः निशितप्रासवृष्टिभिः निशितानां-तीक्ष्णानाम् , प्रासाना-कुन्ताख्यास्त्राणाम् , या पृष्टयस्ताभिः, सोल्कापात इव उल्कापातसहित इवेति चोत्प्रेक्षा; पुनः गदामहारैः गदाप्रक्षेपैः, सनिर्घातपात इच वज्रपातसहित इव; पुनः . करिशीकरासारैः गजमदजलकणधारासम्पातैः, ससंवर्तकाम्बुदुर्दिन इव संवर्तकस्यतदाख्यमेघविशेषस्य, अम्बुभिः-जलैः, यद् दुर्दिन-मेघाच्छन्नदिनम् , तत्सहित इव; युनः कीलालितकरालचक्रमुक्तिभिः कीलालितं-रुधिराद्रीभूतम् , करालं-भयानकं च, यचक्र-तदाख्यमस्त्रम् , तन्मुक्तिभिः-तद्विमोचनैः, सोत्पादरविमण्डल इव उत्पातरविमण्डलेन-जगत्संहारसूचकसूर्यमण्डलेन, सहित इव; पुनः जवापतज्वलितशक्तिभिः जवेन-वेगेन, आपतन्तीभिः-निपतन्तीभिः, ज्वलिताभिः-दीप्ताभिः, शक्तिभिः-तदाख्यास्त्रविशेषैः, सवैद्युतस्फूर्ज इव वैद्युतेन-विद्युसम्बन्धिना, स्फूर्जेन-स्फुरणेन, सहित इव; पुनः प्रचण्डानिलधूतध्वजसहनैः प्रचण्डेन-उद्दण्डेन, अनिलेन-वायुना, धूताः-कम्पिताः, ये ध्वजास्तेषां सहस्रः, सखण्डपरशुताण्डव इव खण्डपरशो:-शिवस्य, ताण्डवेन-नृत्येन, सहित इव; पुनः प्रकुपितसुभटभृकुटीतमिस्त्रैः प्रकुपितानाम्-अतिकुद्धानाम् , सुभटाना-सुयोधानाम्, भृकुटीभिः-नेत्रीपरितनरोमराजिकौटिल्यैः, यानि तमिस्त्राणि-अन्धकारास्तैः, सकालाग्निधूम इव कालाने:-प्रलयकालिकाग्नेः, धूमेन सहित इवेति
Page #62
--------------------------------------------------------------------------
________________
२०४
टिप्पनक-परागविवृतिसंवलिता समरसंघट्टः [छ। सर्वतश्च गात्रसंघट्टरणितघण्टानामरिद्विपावलोकनक्रोधधावितानामिभपतीनां हितेन, प्रतिबलाश्वदर्शनक्षुभितानां च वाजिनां हृषितेन, हर्षोत्तालसूतताडिततुरङ्गबद्धरंहसां च स्यन्दनानां चीत्कृतेन, सकोपधानुष्कनिर्दयाच्छोटितज्यानां च चापयष्टीनां टङ्कत्तेन, खरखुरप्रदलितदण्डानां च पर्यस्यतां रथकेतनानां कडत्कारेण, निष्ठुरधनुर्यनिष्ठ्यूतानां च निर्गच्छतां नाराचानां सूत्कारेण, वेगोह्यमानविवशवेतालकोलाहलघनेन च रुधिरापगानां धूत्कारेण, प्रतिरसितसंभृतेन समरभेरीणां भाङ्कारेण, निर्भराध्मातसकलदिक्चक्रवालं साक्रन्दमिव साट्टहासमिव सास्फोटनरवमिव ब्रह्माण्डमभवत् [ज] । अनन्तरं च सेनाभराक्रान्तमेदिनीमूर्छान्धकाराकृतिः कवलयितुमिव सशैलद्वीपकाननं त्रिभुवनमुल्ललास लासकस्तरुणजलधरपटलशङ्कया विमुक्तकलकेकाविलापानां वनकलापिनामाब्रह्मलोकमेणाङ्कमण्डलाकाण्डसँहिकेयो रजःसंघातः ।
टिप्पनकम्बृ हितं-जगर्जितम् । सूतः-सारथिः । पर्यस्यतां पतताम् । प्रतिरसितं-प्रतिशब्दः [ज] । लासका नर्तकः । एणाङ्क:-चन्द्रः ।
व सर्वत्रोत्प्रेक्षा [ छ ] 1 सर्वतः परितः, गात्रसंघट्टरणितघण्टानां गात्रसंघद्धेन-गात्राणां-शरीराणां परस्परसंघर्षण, रणिता-ध्वनिता, घण्टा येषां तादृशानाम् , पुनः अरिद्विपावलोकनक्रोधधावितानाम् अरिद्विपानां-शत्रुगजानाम् , अवलोकनेन-दर्शनेन, यः क्रोधस्तेन धावितानां-शीघ्रं गतानाम् , इभपतीनां महागजानाम् , बृंहितेन गर्जितेन; च पुनः, प्रतिबलाश्वदर्शनक्षुभितानां प्रतिबलाश्वदर्शनेन-प्रतिद्वन्द्विसैन्याश्वदर्शनेन, क्षुभिताना-सञ्चलितानाम् , वाजिनाम्अश्वानाम् , हेषितेन-द्वेषाख्यशब्देन; च पुनः, हर्षोत्तालसूतताडिततुरङ्गबद्धरंहसां हर्षेण उत्तालाः-उद्वेलिताः, ये सूताः-सारथयः, तैर्बद्धं-ग्राहितम् , रंहः-वेगो येषां तादृशानाम्, स्यन्दनानां रथानाम् , चीत्कृतेन चीत्कारशब्देन; च पुनः, सकोपधानुष्कनिर्दयाच्छोटितज्यानां सकोपा:-क्रुद्धाः, ये धानुष्का:-धनुर्धारिणः, तैः, निर्दयम्-अत्यन्तं यथा स्यात् तथा, आच्छोटिता-आकृष्टा, ज्या-मौवी, रज्जुरिति यावत् , यासां तादृशीनाम् , चापयष्टीनां धनुर्यष्टीनाम् , टङ्कतेन टकारेण; च पुनः, पर्यस्यताम्-अधःपतताम् , पुनः खरखुरप्रदलितदण्डानां खराणां-गर्दभानाम् , खुरैः-शफैः, दलितानां-विदारितानाम् , रथकेतनानां रथवजानाम् , कडत्कारेण ध्वनिविशेषेण; च पुनः, निष्ठुरधनुर्यन्त्रनिष्ठयूतानां निष्ठुरेण-दृढेन, धनुर्यन्त्रेण, निष्ठयूताना-प्रक्षिप्तानाम् , अत एव निर्गच्छतां ततो निष्कामताम् , नाराचानां वाणानाम् , सूत्कारेण ध्वनिविशेषेण; च पुनः, वेगोह्यमानविघशवेतालकोलाहलघनेन वेगेन उह्यमानानांवहनकर्मतामापद्यमानानाम् , विवशाना-रुधिरपानपरवशानाम् , वेतालानां-भूतविशेषाणाम् , यः कोलाहलस्तेन, घनेन-निबिडेन, रुधिरापगानां रुधिरनदीनाम् , घूत्कारेण ध्वनिविशेषेण; पुनः समरभेरीणां संग्रामढकानाम् , प्रतिरसितसम्भृतेन प्रतिध्वनिपूर्णेन, भाङ्कारेण ध्वनिविशेषेण, निर्भराध्मातसकलदिक्चक्रवालं निर्भरम्-अत्यन्तं यथा स्यात् तथा, आध्मातं-शब्दितम् , सकलानां-सर्वासां दिशाम् , चक्रवालं-मण्डलं यस्मिंस्तादृशम् , ब्रह्माण्डं चतुर्दशभुवनाद्यात्मकं जगत् , साक्रन्दमिव सविलापमित्र, साट्टहासमिव महाहाससहितमिव, सास्फोटनरवमिव, आस्फोटनरवेण-पर्वतावदारणध्वनिना सहितमिव, अभवत् जातम् [ज]। च पुनः, अनन्तरं ब्रह्माण्डस्योक्तस्थित्यनन्तरम् , सेनाभराकान्तमेदिनीमून्धिकाराकृतिः सेनाभरेण-सैन्यभारेण, आक्रान्तायाः, आकुलितायाः, मेदिन्या:-पृथिव्याः, यो मूर्छान्धकारः-मू रूपान्धकारः, सा आकृतिः-आकारो यस्य तादृशः, रजःसङ्घातः धूलिसमूहः, सशैलद्वीपकाननं शैलाःपर्वताः, द्वीपाः-जलमध्यस्थलप्रदेशाः, काननानि-वनानि, तैः सहितम् , त्रिभुवनम् भुवनत्रयम्, कवलयितुमिव भक्षयितुमिव, उल्ललास उच्छलति स्म । कीदृशः? तरुणजलधरपटलशड्या तरुणा:-अभिनवा ये, जलधरा:-मेषाः, तेषां यत् पटलं-समूहः, तस्य शङ्कया-संशयेन, विमुक्तकलकेकाविलापानां विमुक्तः-मुखानिर्गमितः, कल:-मधुरः, केकाविलापः-केकाख्यशब्दविशेषेण विलपनं यैस्तादृशानाम्, वनकलापिनां वनमयूराणाम्, लासक: नर्तकः, पुनः आब्रह्मलोकं ब्रह्मलोकमभिव्याप्य, एणाङ्कमण्डले चन्द्रबिम्बे, अकाण्डसैहिकेयः अकालराहुखरूपः । प्रतिक्षणं
Page #63
--------------------------------------------------------------------------
________________
२०५
तिलकमञ्जरी। प्रतिक्षणमुद्धरैर्गुणध्वनिभिरज्ञायत धनुष्मतामिषुव्यापारः, शस्त्रशिखिकणद्योतेन पदमदीयत प्रचलितैः प्रत्य: रिपदातिभिः, अविदितात्मीयपरविभागेन व्यलम्ब्यत मुहूर्तमुद्भूर्णहेतिनापि सुभटलोकेन, प्रभूतपिशिताभ्यवहारजनिततीव्रोदन्येन कर्दमप्रायमपीयत क्षतजापगाम्बु कौणपगणेन [झ॥
___ एवं च भीषणाबद्धतुमुले कुतूहलोत्तालकालदूताकुलितदशदिशि ऋव्यादकुलविलुप्यमानवीरलोके नृत्यत्परेतपरिषदि कृतान्तमहोत्सव इव निर्भरं प्रवृत्ते समरसंरम्भे क्षीयमाणेषु क्षितिपतिषु निपतत्सु पादातेषु सीदत्सु सादिषु ब्रजत्सु विधुरतामाधोरणेषु प्रहारविकलकायेष्वितस्ततः परिस्खलत्सु शून्यासनेषु सप्तिषु स्फुरत्कृपाणचक्रत्रिशूलकार्मुकप्रायपहरणदुरालोकायामनेकशवमुण्डमालामालितवपुषि चण्डिकायामिव रूपपरिवर्तेन कृतसंनिधावुपलक्ष्यमाणायां क्षितावमर्षमय इव क्रौर्यमय इव वैरमय इव व्याजमय इव हिंसामय इव विभाव्यमाने जगति त्रिभागशेषस्थितौ त्रियामायाममर्षगतमरणशङ्कानिरङ्कुशप्रवृत्तिभिरिलोकैरप्रथमिकया
टिप्पनकम्-उदन्या-तृषा । कौणपा:-राक्षसाः [स] । अन्यादाः-राक्षसाः । परेताः-पिशाचाः [अ]।
क्षणे क्षणे, उद्धुरैः उच्चैः, गुणध्वनिभिः आकृष्टमौवींशब्दैः, धनुष्मतां धनुर्धारिणाम् , इषुव्यापारः बाणविक्षेपात्मको व्यापारः
परः, अज्ञायत ज्ञायते स्म । प्रचलितः प्रस्थितैः, प्रत्यरिपदातिभिः उपस्थितशत्रुपदगामिसैनिकैः, शस्त्रशिखिकणद्योतेन शस्त्रशिखिनः-खशादिरूपानेः, कणानां-स्फुलिशानाम् , योतेन-प्रकाशेन, पदं चरणम् , अदीयत आरोप्यते स्म।उद्गूर्णहेतिनापि उद्यतयाणेनापि, सुभटलोकेन सुयोधजनेन, अविदितात्मीयपरविभागेन अविदितः-अप्रतीतः, आत्मीयाना-खजनानाम् , परेषाम्-अनात्मीयजनानाम् , शत्रुजनानामिति यावत् , विभागः-पार्थक्यं येन तादृशेन सता, मुहूर्त क्षणम् , व्यलम्बत बाणविक्षेपे क्लिम्बः कृतः । प्रभूतपिशिताभ्यवहारजनिततीवोदन्येन प्रभूतस्य प्रचुरस्य, पिशितस्य-मांसस्य, अभ्यवहारेण-भक्षणेन, जनिता-उत्पन्ना, तीव्रा-दुःसहा, उदन्या-पिपासा यस्य तादृशेन, कौणपगणेन राक्षसगणेन, कर्दमप्राय पङ्कमयम् , क्षतजापगाम्बु रुधिरनदीजलम् , अपीयत पीयते स्म [ झ] ॥ एवम् अनेन प्रकारेग, भीषणावद्धतुमुले भीषणं-भयानकम् , आवद्ध-समन्तात् प्रवर्तितम् , तुमुलं-सान्द्रयुद्धं यस्मिंस्तादृशे; पुनः कुतूहलोत्तालकालदूताकुलितदशदिशि कुतूहलेन-औत्सुक्येन, उत्तालैः-उद्धतैः, कालदूतैः यमदूतैः, आकुळिताः-आक्रान्ताः, दश दिशो यस्मिंस्तादृशे पुनः ऋव्यादकुलविलुप्यमानवीरलोके ऋव्यादानां-राक्षसानाम् , कुलेन-समूहेन, विलुप्यमानाः-मांसार्थमुत्कृत्यमानाः, वीरलोकाः-युद्धमृतवीरपुरुषा यस्मिंस्तादृशे; पुनः नृत्यत्परेतपरिषदि नृत्यन्ती-हर्षेणोच्छलन्ती, परेताना-व्यन्तरविशेषाणाम् , परिषत्-सभा समूह इति यावत् , यस्मिंस्तादृशे; पुनः कृतान्तमहोत्सव इव यमराजमहोत्सव इव, निर्भरम् अत्यन्तम् , प्रवृत्ते प्रारब्धे, समरसंरम्भे संग्रामसंघर्षे, क्षितिपतिषु नृपेषु, क्षीयमाणेषु म्रियमाणेषुः पुनः पदातिषु पदगामिसैनिकसमूहेषु, निपतत्सु अधःस्खलत्सुः पुनः सादिषु अश्वारोहिसैनिकेषु, सीदत्सु व्यथमानेषुः पुनः आधोरणेषुहस्तिपकेषु, विधुरतां लेशम् , बजत्सु अनुभवत्सुः पुनःप्रहारविकलकायेषु प्रहारेण-खशाघातेन,विकल:भमः, कायः-शरीरं येषां तादृशेषु, शून्यासनेषु पर्याणादिरहितेषु, सतिषु अश्वेषु, इतस्ततः अत्र तत्र, परिस्खलत्सुपरिपतत्सुः पुनःस्फुरत्कृपाणची कप्रायपहरणदुरालोकायां स्फुरन्ति-उजवलन्ति, यानि कृपाणचक्रत्रिशूलकार्मुकाणि, कृपाणः-खड्गः, चक्रं चक्राकारोऽस्त्रविशेषः, त्रिशूलं-यस्य शूलाकाराणि त्रीणि शिखाग्राणि भवन्ति तादृगनविशेषः, कार्मुकं नाम-धनुः, तत्प्रायः-तत्प्रचुरैः, प्रहरणैः-अस्त्रैः, दुराकोकायां-दुःखेन दृश्यायाम् , च पुनः, अनेकशवमुण्डमालामालितवपुषि अनेकेषां शवानां-मृतकानाम् , या मुण्डमाला-मस्तकस्थितमाला, पक्षे मस्तकपद्धिः, तया मालित-शोभितम् , वपुः-शरीरं यस्यास्तादृश्याम् , क्षितौ पृथिव्याम् , रूपपरिवर्तन खरूपपरिवर्तनेन, कृतसन्निधौ कृतसमीपावस्थानायाम् , चण्डिकायामिव तदाख्यदेव्यामिव, उपलक्ष्यमाणायां प्रतीयमानायां सत्याम् ; पुनः जगति, अमर्षमय इव क्रोधमय इव, पुनः क्रौर्यमय इव क्रूरतामय इव, पुनः वैरमय इव शात्रवमय इव, पुनः व्याजमय इव पारस्परिकच्छलमय इव, पुनः हिंसामय इव हिंसाप्रचुर इव, विभाव्यमाने प्रतीयमाने सति; पुनः त्रियामायां रात्रौ, त्रिभागशेषस्थितौ त्रिभागरूपा
Page #64
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृतिसंवलिता
प्रार्थ्यमानयशसि पर्यायेण जयपराजयावासादयति सैन्यद्वये सहसैव शत्रुसैन्यादसारभसो मृगयुमार्गणप्रहारताडित इव मृगारातिराकर्णित दुनैरेन्द्रमन्त्रपद इव महाहिराघ्रातविपक्षवारणमदगन्ध व वनकरेणुर निलोल - पताकापटसहस्रमरिकुलप्रलयाय मुक्तशिखमिवोत्खातशस्त्र पुरुषकृत परिक्षेपं रथमारूढः प्रौढकालायस कवचगूढ़कायैः पुनरुक्ततर्जितसारथिभिरभङ्गुरभुजबलाभिमानैरनति भूरिभिरव निपतिपुत्रैरनुगम्यमान एको नृपकुमारः कुमारसदृशाकृतिरतिरंहसा निरगमत् [ अ ] | निर्दयास्फालितधनुश्चातिदूरोल्लसितेन श्यामलितदशदिशा कुटिलविषमेण भ्रुकुटि लिलेखात्रयेण धूमोद्गमेनेवानुमीयमानहृदय प्रदीप्तमन्युरभिमन्युरिव चक्रव्यूहस्य सेनापतिपुरोभागपुञ्जितस्य राजसमूहस्य संचरदनेकरथसहस्रदुष्प्रवेशमविशन्मध्यम्, अनुवर्तितक्षत्रधर्मैश्च महाबलैर्नरपतिभिरेकैकशोऽभिमुखीभवद्भिः क्षणमात्रमन्थरितरथगतिः 'वज्रायुध ! वज्रायुध !' इति सगर्वं व्याहरन् वाहिनीभर्तुरन्तिकमधिगच्छत् [ट] ॥
२०६
तृतीयभागरूपा, शेषस्थितिः - शेषावस्थानं यस्यास्तादृश्यां सत्याम् पुनः सैन्यद्वये खसैन्य- शत्रुसैन्ययोः, अमर्षगतमरणशङ्कानिरङ्कुशप्रवृत्तिभिः अमर्षेण - ईर्ष्यावशेन, गता निवृत्ता, या मरणशङ्का-मृत्युभयम् तेन निरङ्कुशप्रवृत्तिभिः - निर्वाध प्रवृत्तिकैः, वीरलोकैः वीरपुरुषैः, अहंप्रथमिकया 'अहं प्रथमः, अहं प्रथमो योधानाम्' इति पारस्परिक स्पर्धाविशेन, प्रार्थ्यमानयशसि प्रार्थ्यमानम्--अभिलष्यमाणं यशो येन तादृशे, अत एव पर्यायेण क्रमेण, जय-पराजयौ, आसादयति प्राप्नुवति सति, सहसैव अकस्मादेव, शत्रुसैन्यात् शत्रुसैन्यसकाशात्, कुमारसद्दशाकृतिः कार्तिकेयतुल्याकारः, एकः, नृपतिकुमारः राजकुमारः, अतिरंहसा अतिवेगेन, निरगमत् निर्गतः । कीदृशः ? असारभसः असह्यः - सोढुमशक्यः, रभसः-वेगो यस्य तादृशः क इव ? मृगयुमार्गण प्रहार ताडितः मृगयोः - व्याधस्य, मार्गण प्रहारेण-बाणप्रक्षेपेण, ताडितः, मृगारातिः सिंह इवः पुनः आकर्णित दुर्नरेन्द्र मन्त्रपदः आकर्णितानि श्रुतानि दुर्नरेन्द्राणां - दुष्टमन्त्रपाठकानाम्, मन्त्रपदानि - मन्त्राक्षराणि येन तादृशः, महाहि; महासर्प इवः पुनः आघातविपक्षवारणमदगन्धः आप्रातः- आघ्राणकर्मतामापादितः, विपक्षवारणानां शत्रुगजानाम्, मदगन्धः - दानवारिगन्धो येन तादृशः, वनकरेणुः वनगज इव; पुनः कीदृशः ? रथमारूढः कृतरथारोहणः कीदृशं रथम् ? अनिललोलपताकापटसहस्रम् अनिलेनवायुना, लोलम् - उद्भूयमानम्, पताकापटानां ध्वजवस्त्राणाम्, सहस्रं यस्मिंस्तादृशम्, पुनः अरिकुलप्रलयाय शत्रुकुलसमूलोच्छेदाय, मुक्तशिखमिव मुक्ता-निर्गमिता, शिखा - ज्वाला येन तादृशम्, अभिमिवेत्युत्प्रेक्षा, पुनः उत्खातशस्त्र पुरुषकृतपरिक्षेपम् उत्खातशस्त्रैः- उद्घाटितशस्त्रैः पुरुषैः कृतः परिक्षेपः- परिवेष्टनं यस्य तादृशम्, पुनः प्रौढ कालायस. haa गूढ कायैः प्रौढेन - सुदृढेन, कालायसकवचेन - लौह विशेषनिर्मितवर्मणा, गूढः रक्षितः, कायः शरीरं येषां तादृशः, पुनरुक्ततर्जितसारथिभिः पुनरुक्तेन - पुनः पुनर्वचनेन, तर्जिताः -- भत्सिताः सारथयो यैस्तादृशः, पुनः अभङ्गुरभुजबलाभिमानैः अभङ्गुरः-- अविनश्वरः, प्रबल इत्यर्थः, भुजबलाभिमानः- भुजबलगव येषां तादृशः, अनतिभूरिभिः अनत्यधिकैः, परिमितैरिति यावत्, अवनिपतिपुत्रैः राजकुमारैः, अनुगम्यमानः अनुत्रियमाणः [ अ ] । च पुनः, निर्दयास्फालितधनुः निर्दयम् - अत्यन्तं यथा स्यात् तथा, आस्फालितम् - आकृष्टं धनुर्येन तादृशः, राजकुमार इति शेषः, सेनापतिपुरोभागपुञ्जितस्य सेनापतेः -सेनानायकस्य, पुरोभागे - अग्रभागे, पुजितस्य- संहृतस्य, राजसमूहस्य - नृपगणस्य, सञ्चर दनेकमहारथसहस्रदुष्प्रवेशं सचरतां प्रचरताम्, अनेकेषां महारथानां सहस्रेण, दुष्प्रवेशं - दुःखेन प्रवेष्टुं योग्यम्, चक्रव्यूहस्य सैन्यसन्निवेशविशेषस्य, मध्यं मध्यभागम्, अभिमन्युः तदाख्योऽर्जुनसूनुरिव, अविशत् प्रविष्टवान् ; कीदृश: ? धूमो मेनेव धूमोत्थानेनेव अतिदूरोल्लसितेन सुदूरादेवाविर्भूतेन, श्यामलितदशदिशा श्यामलिताःमलिनिताः, दश दिशो येन तादृशेन, कुटिलविषमेण कुटिलेन-वक्रेण विषमेण उन्नतानतेन, भ्रुकुटिव लिलेखात्रयेण भ्रुकुटि :- नेत्रोपरितन कुटिल रोमावलिः, तदुपरिस्थिता या वलिलेखाः- वलिरूपा रेखाः, तासां त्रयेण, अनुमीयमानहृदयप्रदीप्तमन्युः अनुमीयमानः- अनुमित्यात्मकानुभवगोचरतामापाद्यमानः, हृदये, प्रदीप्तः - प्रज्वलितः, मन्युः - क्रोधो यस्य तादृशः अनुवर्तित क्षत्रधर्मैः अनुवर्तिताः- अनुसृताः, संग्रामशौर्यादिरूपाः क्षत्रधर्माः क्षत्रियधर्मा यैस्तादृशः, महाबलैः प्रबलैः, एकैकशः प्रत्येकम्, अभिमुखीभवद्भिः सम्मुखमागच्छद्भिः, नरपतिभिः नृपतिभिः क्षणमात्रमन्थरितरथगतिः
Page #65
--------------------------------------------------------------------------
________________
तिलकमारी।
२०७ सेनाधिपोऽपि गम्भीरमधुरेण तेन व्याहृतध्वनिना प्रथमजलधरस्तनितेनेव विन्ध्यः सद्य एवोद्भिन्नसरसरोमाञ्चकन्दलः कोपविस्फारितपुटेन कवलयन्निव तारकोदरप्रतिविम्बितं सप्रगल्भचलितपक्ष्मणा लोचनद्वयेन सतुरङ्गरथमातङ्गपार्थिवं प्रतिपक्षम् 'इत इतः पश्य माम्' इति व्याहरन्नेव वाहितरथः समेत्य तस्येक्षणपथे समस्थित [7] । वारंवारमन्योऽन्यकृततर्जनयोश्च तयोराकर्णान्ताकृष्टमुक्तास्तुल्यकालमाखादितगलामिषा विसारिणो, लङ्क्तिदशदिशो दूराध्वगा, राजकार्योपयोगिनस्तीक्ष्णाः, परितोषितसुराङ्गनाः सुपर्वाणो, महाजवा वाजिनश्वापलतोषिताः क्षितिपालदारका, विषमाश्वमण्डलभेदिनः प्राप्तमोक्षा, दत्तदीर्घनिद्रा महासंनिपाताः,
ट्रिप्पनकम्-आस्वादितगलामिषाः, विसारिणः मत्स्याः, कीदृशाः ? आस्वादितं-भक्षितम् , गलामिषंबडिसीमांसं यैस्ते तथोक्ताः, अन्यत्र प्रसरणशीलास्तथा आस्वादितग्रीवामांसाः । लवितदिशः, दूराध्वगाः दूरपथिकाः, . कीदृशाः ? लवितदिश:-अतिक्रान्ताशा भवन्ति, दूरमार्गगन्तारो लवितदिशश्च । राजकार्योपयोगिनस्तीक्ष्णाः एकत्र तीक्ष्णाः-घातकाः, ते नृपार्थसाधकाः, अन्यत्र निशाताः। परितोषितसुराङ्गनाः, सुपर्वाणः एकन्न देवाः, अन्यत्र शोभनमस्थिद्वयमध्याः, उभयेऽपि हर्षितदेवयोषाः। महाजवा वाजिनः एकत्र वाजिनोऽ[श्वाः, अन्यत्र सपिरछाः, उभयेऽपि महावेगाः । चापलतोषिताः, क्षितिपालदारकाः एकत्र राजपुत्राः, कीदृशाः? चापलतोषिताः-चपलत्व हर्षिताः, अन्यत्र नृपविदारकाः, धनुर्लतास्थिताः। विषमाश्वमण्डलभेदिनः, प्राप्तमोक्षाः एकत्र
क्षणमात्रं-मुहूर्तमात्रम्, मन्थरिता-शिथिलिता, रथस्य गतिः-गमनं यस्य तादृशः, वज्रायुध! वज्रायुध! इति भो वनायुध ! भो वज्रायुध! इति, सगर्व गर्वपूर्वकम् , व्याहरन् ब्रुवन् , वाहिनीभर्नुः अनुपदोकनामकस्य सेनापतेः, अन्तिकं समीपम् , अध्यागच्छत् आगतवान् [2] ॥ सेनाधिपोऽपि सेनापतिरपि, प्रथमजलधरस्तनितेन प्रथममेघगर्जितेन, विन्ध्य इव तदाख्यकुलपर्वत इव, गम्भीरमधरेण गम्भीरेण-तीवेण, मधुरेण च, कथितशब्देन, सद्य एव तत्क्षणमेव, उद्भिग्नसरसरोमाञ्चकन्दलः उद्भिन्नानि-उन्मीलितानि, सरसानि-रसान्वितानि, रोमाञ्चकन्दलानि-रोमाञ्छरूपनवाराणि यस्य तादृशः सन् ; कोपविस्फारितपुटेन कोपेन-क्रोधेन, विस्फारितौ पुटौपुटाकारकनीनिकावरणत्वचौ यस्य तादृशेन, पुनः सप्रगल्भचलितपक्ष्मणा सप्रगल्भ-निर्भयं यथा स्यात् तथा, चलिते पक्ष्मणी-नेत्रावरणरोमलेखे यस्य तादृशेन, लोचनद्वयेन नेत्रद्वयेन, तारकोदरप्रतिबिम्बितं तारकयोः नेत्रमध्यवर्तिकनीनिकयोः, उदरे-मध्ये, प्रतिविम्बितम् , सतुरङ्गरथमातङ्गपार्थिवं तुरहै:-अश्वैः, रथैः स्यन्दनः, मातङ्गैः-हस्तिभिः, पार्थिवैः-नृपैश्च, सहितम्, प्रतिपक्षं शत्रुम् , कवलयन्निव ग्रसन्निव; इत इतः अत्र अत्र, मां वज्रायुधम् , पश्य, इति व्याहरन्नेव कथयन्नेव; चाहितरथः प्रस्थापितरथः, समेत्य समीपमागत्य, तस्य राजकुमारस्य, ईक्षणपथे दृष्टिपथे, समस्थित संतिष्ठते स्म [] ॥ च पुनः, वारं वारं मुहुर्मुहुः, अन्योऽन्यकृततर्जनयोः अन्योऽन्यं-परस्परम् , कृतं तजन-प्रहारो याभ्यां तादृशयोः, तयोः सेनापति राजकुमारयोः, शराः बाप्पाः, प्रसस्त्रःप्रसृताः । कीदृशाः? विसारिणः प्रसरणशीला मत्स्यरूपाश्च, केन साधयेण? आकान्ताकष्टमताः आकान्तं-कर्णान्तपर्यन्तम्, आकृष्टा:-पूर्व कृताकर्षणाः, पश्चान्मुक्ताः-लक्ष्येषु निपातिताः, पक्षे बडिशसूच्या कर्णान्तं यावदाकृष्टाः-जलादुद्धृताः, पश्चान्मुक्काः-बडिशानिष्कासिताः, पुनः आस्वादितगलामिषाः आस्खादित-भक्षितम्, गलामिषं-- ग्रीवास्थमांसम् , पक्षे ग्रीवामांसं च यस्तादृशाः, बडिशसूचीग्रथितमामिषं भक्षतां मत्स्यानां तेन सह तद्विद्धखग्रीवास्थमांसभक्षणस्याप्यवर्जनीयताया लोकप्रसिद्धत्वात्; पुनः लचितदशदिशः लचिताः-त्वरितगत्या कृतलङ्घनाः, दश दिशो यस्तादृशाः, अत एव दूराध्वगाः दूरमार्गगामिनः, दूरगामिपथिकरूपाश्च; पुनः राजकार्योपयोगिनः राज्ञां यानि कार्याणि तदुपयोगिनः-तत्साधकाः, तीक्ष्णाः निशिताः, तीवा आत्मत्यागिनो वा पुनः परितोषितसुराङ्गनाः परितोषिताः-सन्तोषिताः, सुरागानाः-देव्यो यस्तादृशाः, सुपर्वाणः सुछु पर्व प्रन्थिद्वयमध्यमागो येषां तादृशाः, पक्षे देवस्वरूपाश्च, युद्धे स्वमारितानां योधानां देवत्वापादनेन तैः पतिरहितानां देवीनां सन्तोषणोपपत्तेः, पुनः महाजवा अतिवेगशालिनः, वाजिनः वाजः पक्षोऽस्ति येषां तादृशाः, पक्षे अश्वस्वरूपाश्च%B पुनः चापलतोषिताः चापः-धनुरेव लतेति चापलता, तस्याम् उषिताः-कृतनिवासाः, पक्षे चपलस्य भावः-चापलम् , तेन तोषिताः-हर्षिताः, क्षितिपालदारकाः क्षितिपालान्' संग्रामसमवेतनृपान् दारयन्ति-विदारयन्ति, भिन्दयन्तीति यावई
Page #66
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता खेच्छाविहारिणः खेचरा, ऋजुस्वभावा लब्धशुद्धयः, कचिद् वातिका इव सूतमारणोद्यताः, क्वचिद् राजाध्यक्षा इवाकृष्टसुभटप्रामकङ्कटाः, कचिद् बलयकारा इव कल्पितकरिविषाणाः, कचित् कितवा इव लिखिताष्टापदसारफलकाः, कचित् पतङ्गा इव पक्षपवनान्दोलितदीपिकाखण्डार्चिषोऽभिलपितगजदाना मार्गणतामुन्मिषित
कीशास्ते ? विषमाश्वमण्डलभेदिन:-आदित्यमण्डलभेदिनः, अन्यत्र विषमतुरगसंघातदारकास्तथा लब्धमुक्तयः । दत्तदीघनिद्रा महासन्निपाताः एकत्र महासन्निपाता:-ज्वरविशेषाः, दत्ततन्द्राकाः, अत्यन्त्र दत्तमरणाः, तथा महत्सु सनिपात:-निपतन येषां ते तथोक्ताः। स्वेच्छाविहारिणः, खेचराः विद्याधराः, कीदृशास्ते? स्वेच्छाविहारिण:-आत्मेच्छाविहरणशीलाः, अन्यत्र आकाशगामिनः, स्वेच्छाविहारिणश्च । ऋजुस्वभावा लब्धशुद्धयः ऋजुस्वभावाः कीदृशाः? लब्धशुद्धयः-लब्धनैर्मल्याः, एतेष्वन्तर्भूत इवार्थो द्रष्टव्यः। सूतमारणोद्यताः सारथिमारणकृतोद्यमाः, अन्यत्र पारत, मारणोद्यताः। आकृष्टसुभटग्रामकङ्कटाः विदारितसुभटसमूहकवचाः, अन्यत्र आकृष्टाः-अपनीताः, सुभटग्रामेभ्यः कङ्कटा:-कटका यैस्ते तथोक्ताः, आकृष्टाः-आकर्षिताः, सुभटग्रामेभ्यः कङ्कटाः-कृषिबलायैस्ते तथोक्ता इति वा ।कल्पितकरिविषाणाः खण्डितगजदन्ताः, अन्यत्र वि...... 1 लिखिताष्टापदसारफलकाः एकत्र लिखितधुतविशेषशारिगृहकाः, अन्यत्र विदारितसुवर्णमयप्रधानफरकाः। पतङ्गाः शलभाः, पक्षा:-पिच्छानि । अभिलषितगजदाना मार्गणतां दान-वितरण खण्डनं च, मार्गणतां चोद्वहन्तः । उन्मिषितनीलत्विषो वाणतां विद-दीतिरतिशोभा च,
इति क्षितिपालदारकाः, पक्षे क्षितिपालबालकखरूपाः; पुनः विषमाश्वमण्डलमेदिनः विषमा:--विलक्षणा ये अश्वाःशत्रुसैन्यघोटकाः, तद्भेदनशीलाः, पक्षे विषमाः--विषमसंख्यकाः, सप्तेति यावत् , अश्वा यस्य स विषमाश्वः-सूर्यः, तन्मण्डलमेदिनः, पुनः प्राप्तमोक्षाः प्राप्त:-लब्धः, मोक्षः-धनुःसकाशात् मोचनं यैस्तादृशाः, पक्षे मुक्तिशालि जीवस्वरूपाश्चअशेषकर्मक्षयानन्तरं मध्यस्थसूर्यमण्डलमुल्लक्ष्य जीवानां मुक्तिगमनप्रसिद्धः पुनः दत्तदीर्घनिद्राः दत्ता-प्रापिता, दीर्घनिद्रा. मरणम्, पक्षे विवेकशून्यावस्था यस्तादृशाः, महासन्निपाताः महान्-भयङ्करः, सन्निपातः--सम्यङ् निपातो येषां तादृशाः, पक्षे महान्तः सन्निपाता:-कफादिधातुत्रयवैषम्यरूपत्रिदोषजनितज्वरविशेषाः पुनः खेच्छाविहारिणः अप्रतिहतगामिनः पक्षे खेच्छया विहरणशीलाः, खेचरा: आकाशगामिनः, पक्षे विद्याधराः पुनः ऋजुखभावा: वक्रतारहितखभावाः, पर्छ निष्कपटखभावाः, लब्धशद्धयः परिमार्जनतः प्राप्तनमल्याः. पक्षे अन्तर्मालिन्यशन्या भद्रकजना: स्थले, वातिका इव वातव्याधिप्रस्ता इव, सूतमारणोद्यताः सारधिमारणोद्यताः, पक्षे सूतस्य-पारदस्य, मारणे उत्सुकाः; पुनः क्वचित् कमिश्चित् स्थाने, राजाध्यक्षाइवराज्ञः, अध्यक्षा:-करग्रहणाधिकारिजना इव, आकृष्टसुभटग्रामकङ्कटाः आकृष्टा:-विदारिताः, सुभटग्रामस्य-सुभटसमूहस्य, कङ्कटाः-कवचा यः, पक्षे आकृष्टाः-आहृताः, सुभटग्रामेभ्यः कङ्कटाःकवचा यैः, यद्वा आकृष्टाः-करादिग्रहणाय आनीताः, सुभटग्रामेभ्यः कङ्कटा:-कृषीवला यैस्तादृशाः, अथवा आकृष्टा:अपनीताः, सुभटग्रामेभ्यः कटा:-कटका यैस्ते तथा पुनः क्वचित कुलचित् स्थले. वलयकारा इव वलयं-हस्तिदन्तमयं कवणं कुर्वन्ति रचयन्तीति वलयकाराः,त इव, कल्पितकरिविषाणाः कल्पिताः-खण्डिताः, पक्षे वलयाद्याकारमापादिताःकरिणा-हस्तिनाम्, विषाणाः-दन्ता यैस्तादृशाः पुनः क्वचित कुत्रापि स्थले, कितवा इव द्यूतकारा इव, लिखिताष्टापदसारफलकाः लिखिताः-विदारिताः, अष्टापदसारफलकाः-अष्टापदस्य-सुवर्णस्य, सारा:-दृढाः, फलकाः-अस्त्राघातनिवारकाः संग्रामसाधनविशेषा यैस्तादृशाः, पक्षे लिखिताः-चित्रिताः, अष्टापदसारफलकाः-द्यूतसाधनशारीपट्टा यस्तादृशाः3; क्वचित् कुत्रचित् स्थाने, पतङ्गा इव शलभा इव, पक्षपवनान्दोलितदीपिकाखण्डार्चिषः पक्षपवनैः-पिच्छोडूतपवनैः, पक्षे पक्ष द्वितपवनैः, आन्दोलितानि-उद्वेलितानि, दीपिकाखण्डा/षि-दीपिकानां खण्डभूता ज्वाला येस्तादृशाः पुनः अभिलषितगजदानाःअभिलषितम्-इष्टम् , गजाना-हस्तिनाम् .दानं-खण्डन भेदनमिति यावत् ,पक्षेतेषां दान-खसम्प्रदानकवितरण यस्तादृशाः; अत एव मार्गणतांबाणताम. पक्षे याचकताम्, उद्वहन्तः दधाना इत्यग्रिमक्रियापदेनान्वेति पुनः उम्मिषितनीलत्विषः उन्मिषिताः-उद्भासिताः, नीला:-नीलवर्णाः, त्विषः-कान्तयो येषां तादृशाः, अत एव बाणतां
Page #67
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। नीलस्विषो बाणता द्विधाकृतोद्दण्डपुण्डरीकाः कादम्बाभिधामारवमुखरिताशामुखाः शिलीमुखाभिख्यां मुस्यामुद्वहन्तः, सायकाः प्रसस्नुः [ड। अतिसंहततया च तेषामन्तरितचक्षुरिन्द्रियाः पुरोवर्तिनामपि वीराणां रणमतीन्द्रियं नाद्राक्षुरमरपतयः, समीपेऽपि त्रिदशतां सुभटजनमुपागतं न स्वयानमारोपयितुमपारयन्नप्सरसः, समासन्नस्यापि न कबन्धस्य स्कन्धरुधिरधारया कपालान्यपूरयन् परेतयुवतयः, निरुद्धचन्द्रालोकबद्धान्धकारेषु च रुधिरनिम्नगातीरेषु प्ररूढतालतरुवनशङ्कया निर्विशङ्कमध्यासितोयवेतालमण्डलमध्याभिरमराङ्गनाभिररम्यन्त समरासादिताः पत्तयः [8] । मुहूर्ताच्च प्रीतहृदयः स नरपतिकुमारः सेनाधिपतिमवदत्-'वसायुध ! तवानेन सकललोकविस्मयकारिणा भुजबलेन धनुरिवावर्जितं मम निसर्गस्तब्धमपि हृदयम्, आशैशवादपारपौरुषमदोन्मादपरवशस्य मे शतशः संगरेषु संवृत्तः प्रवेशः, जातश्च सहस्रसंख्यैर्धन्विभिः सह समागमः,
बाणतां चोदहन्तः। द्विधाकृतोदण्डपुण्डरीकाः कादम्बाभिधां द्विधाकृतानि-छिन्नानि, उद्गतदण्डानि पुण्डरीकाणिछत्राणि यैस्ते तथोक्ताः, अन्यत्र छिनोद्दण्डपमाः, कादम्बा:-हंसाश्च । आरवमुखरिताशामुखाः शिलीमुखामियां शब्दशब्दितदिशुखाः, शिलीमुखाभिख्या, शिलीमुखाः-भ्रमराः [ड] ।
शारताम् , पक्षे नीलझिण्टीनामकबाणवृक्षताम् , उद्वहन्तः, तद्वृक्षाणामपि तादृक्कान्तिकत्वेन साधात् ; पुनः, द्विधाकृतोहण्ड. पुण्डरीकाः द्विधाकृतानि-खण्डितानि, उद्दण्डानि-ऊर्ध्वदण्डावलम्बितानि, पुण्डरीकाणि-रिपुभूतनृपच्छन्नाणि, पक्षे उद्दण्डानिऊवनालावलम्बितानि, पुण्डरीकाणि-कमलानि यस्तादृशाः, अत एव कादम्बाभिधां कादम्बेति कलहंससाधारणसंज्ञाम् , उद्वहन्तः, कलहंसानां शराणां च कादम्बसंज्ञकत्वात् ; पुनः आरवमुखरिताशामुखाः आरवैः-खशब्दैः, मुखरितानिप्रतिनादितानि, आशामुखानि-दिङ्मुखानि यस्तादृशाः, अत एव मुख्यां प्रधानभूताम् , शिलीमुखाभिख्यां भ्रमरसाधारणशिलीमुखेति संज्ञाम् , उद्वहन्तः, शराणां भ्रमराणां च शिलीमुखेतिसंज्ञकत्वात् [ड] । च पुनः, तेषां बाणानाम् , अतिसंततया अन्योऽन्यमतिमिलिततया, अन्तरितचक्षुरिन्द्रियाः अन्तरित-व्यवहितम् ; चक्षुरिन्द्रियं यासां तादृश्यः, अमरपतयः पतिबद्धदेवगणाः, पुरोवर्तिनामपि अग्रे स्थितानामपि, वीराणां सुयोधानाम् , अतीन्द्रियम् इन्द्रियागोचरम् , रणं संग्रामम् , चक्षुषा नेत्रेण, न अद्राक्षुः द्रष्टुमशक्नुवन् । पुनः समीपेऽपि पार्वेऽपि, पार्थस्थितमपीत्यर्थः, त्रिदशता संग्राममरणजन्यदेवत्वम् , उपागतं प्राप्तम् , सुभटजनं सुयोधजनम् , खयानं खवाह्यरथम् , आरोपयितुम् आरोहयितुम् , अप्सरसः खर्वेश्याः, न अपारयन् अशक्नुवन् , निरन्तरबाणप्रहारजनितान्धकारमयत्वेन पार्श्ववर्तिनोऽपि मृतसुभटा न दृष्टिगोचरीभवितुमशकनिति भावः । एवं समासनस्यापि पार्श्वस्थस्यापि, कबन्धस्य "मनुष्याणां सहस्रेषु हतेषु हतमूर्धसु । तदावेशात् कबन्धः स्यादेकोऽमूर्धा क्रियान्वितः ॥” इत्यन्यत्रोक्तशिरोरहितसक्रियशरीरस्य, स्कन्धरुधिरधारया स्कन्धरुधिरस्य-स्कन्धस्यन्दितशोणितस्य, धारया-प्रवाहेण, परेतयुवतयः पिशाचयुवतयः, कपालानि खकर्परान्, न अपुरयन् न पूरयितुमपारयन् । च पुनःनिरुद्धचन्द्रालोकबद्धान्धकारेषु निरुद्धः-अनवरतबाणवर्षणावरुद्धः, चन्द्रालोकः-चन्द्रप्रकाशो येषु तादृशेषु, अत एव बद्धः स्थापितः, अन्धकारो येषु, यद्वा निरुद्धेन चन्द्रालोकेन बद्धोऽन्धकारो येषु तादृशेषु, रुधिरनिमगातीरेषु शोणितनदीतटेषु, प्ररूढतालतरुवनशङ्कया प्रवृद्धतालाख्यवृक्षविशेषवनसन्देहेन, निर्विशकं निश्शर्वं यथा स्यात् तथा, अध्यासितोलवेतालमण्डलमध्याभिः अध्यासितम्-अधिष्ठितम् , ऊर्ध्ववेतालानाम्ऊर्ध्ववर्तिव्यन्तरविशेषाणाम्, मण्डलमध्य-मण्डलमध्यभागो याभिस्वादशीभिः, अमराङ्गनाभिः देवाशनाभिः, समरा. सादिताः समरात्-रणात्, आसादिताः-प्राप्ताः, पत्तयः पदातयः, अरस्यन्त रम्यन्ते स्म । च पुनः, महात क्षणात्, प्रीतहृदयः प्रसन्नमनाः, स नरपतिकुमारः राजकुमारः, सेनाधिपति सेनानायकं वज्रायुधम् , अवदत् उकवान् , वज्रायुध! हे तत्संज्ञकसेनापते ! सकललोकविस्मयकारिणा सकललोकानां सर्वजनानाम् , विस्मयकारिणापाश्चर्यजनकेन, अनेन तव भुजबलेन बाहुविक्रमेण, निसर्गस्तब्धमपि निसर्गेण-खभावेन, स्तब्धमपि-निश्चेष्टमपि, मम हृदयं, धनुरिच चापदण्ड इव, आवर्जितं नमितम् , सचेष्टतामापादितमित्यर्थः । आ शैशवात् आबाल्यात् , अपार पौरुषमदोन्मादपरवशस्य अपारम्-अत्यन्तम् , यत् पौरुषं पराक्रमः, तज्जन्येन मदेन-अभिमानेन, य उन्मादः
२७ तिलक.
Page #68
--------------------------------------------------------------------------
________________
२१०
टिप्पनक- परागविवृत्तिसंवलिता
न तु जनितमेवंविधं केनाप्यपरेण कौतुकम् अतिवाहितञ्च पुरः करकलितकार्मुकेण काल एतावान्, तदेतर्हि कृत्वा मनः सविशेष सावधानं प्रहर सर्वात्मना विधेहि च स्वशक्त्या महात्मन् ! आत्मनो रक्षाम्, एष मुच्यसे भुजबलाभिमानभङ्गादवलम्बिता समक्षमस्य समक्षमस्य सामन्तलोकस्य मर्त्यलोकावास सौख्येनेति व्याहरन्नेव वेगाकृष्टचापयष्टिरुत्पातजलधर इव जलधारासारमन्धकारिताष्टदिगन्तरालसूत्रिताकालप्रदोषम्, अनवरतमुत्पतद्भिर्नभसि भीषणैज्यनिनादैररिशिरोभिश्च व्याहृतविसर्गम् स्तूयमानमिव सुभटशस्त्रपातरणितेन, प्रणम्यमानमिव भूमिनिक्षिप्तमूर्धभिः कबन्धैः, अर्च्यमानमिव निपतदातपत्रकुसुमैः स्यन्दनैः, क्षिप्यमाणलाजमिव उच्छलत्कुम्भमुक्ताफलाभिः करिघटाभिः, अभिषिच्यमानमिव मुक्तासृग्वृष्टिभिः प्रहारव्रणैः, दीयमानचाभिघातमित्र विलोलमणिकुण्डलैः क्ष्मापालमुण्डैः, प्रबलपरिवारपरिगतमिव शरच्छेदैः, मूकं
7
चित्तविभ्रमः, तत्परवशस्य तदधीनस्य मे मम, शतशः शतशतसंख्यकेषु, संगरेषु संग्रामेषु, प्रवेशः, संवृत्तः निष्पन्नः । व पुनः, सहस्रसंख्यैः सहस्रात्मकसंख्याविशिष्टैः, धन्विभिः धनुर्धारिभिः सह समागमः, जातः अभूत् । तु किन्तु, अपरेण त्वदन्येन, केनापि, एवंविधम् ईदृशम्, कौतुकं न जनितं नोत्पादितम् । च पुनः, करकलितकार्मुकेण करेहस्ते, कलितं-धृतम्, कार्मुकं - धनुर्येन तादृशेन, मयेति शेषः, पुरः पूर्वम्, एतावान्, कालः समयः, अतिवाहितः व्यतीतः, तत् तस्माद्धेतोः, एतर्हि अधुना, मनः हृदयम्, सविशेषसावधानं सविशेषं सातिशयम् सावधानम्अवधानपूर्वकं यथा स्यात् तथा, सर्वात्मना सर्वतोभावेन, प्रहर मदुपरि प्रहारं कुरु । च पुनः महात्मन् ! भो मद्दानुभाव !, स्वशक्त्या खपराक्रमेण, आत्मनः स्वस्थ, रक्षां प्रतीकारम्, विधेहि कुरु । एषः पुरोवर्ती स्त्वमिति यावत्, भुजबलाभिमानस्य बाहुबलगर्वस्य भङ्गात् नाशात्, अवलम्बितासमक्षमस्य अवलम्बिता - आश्रिता, असमाअसाधारणा, क्षमा - सहनशक्तिर्येन तादृशस्यापि समक्षमस्य साधारणसहनशक्ति कस्येति विरोधः, तदुद्धारे तु तादृशस्य अस्य, सामन्तलोकस्य, स्वाधिकृत नृपजनस्य, समक्षम्, मर्त्यलोकावाससौख्येन मर्त्यभुवननिवाससुखेन, मुच्यसे रहितो भवसि एतत्क्षणमेव म्रियसे इति भावः । इति व्याहरनेव इत्थं ब्रुवन्नेव, वेगाकृष्टचापयष्टिः वेगेन- शीघ्रम् आकृष्टा चापयष्टि:- धनुर्दण्डो येन तादृशः सन् पक्षे चाप:- इन्द्रधनुः, उत्पातजलधरः प्रलयका लिकमेघः, जलधारासारमिव वेगविशिष्टवृष्टिमिव यद्वा जलधाराssसारम्, उत्पातजलधर इव, असंख्यं संख्याशून्यम्, मार्गणत्रातं बाणगणम्, असृजत् अमुञ्चत् । कीदृशम् ? अन्धकारिताष्टदिगन्तराल सूत्रिता कालप्रदोषं - अन्धकारितेन-अन्धकारव्यापितेन, अष्टानां दिशाम्, अन्तरालेन - मध्येन, सूत्रितः - कल्पितः, अकाले असमये, प्रदोषः - निशारम्भो येन तादृशम् ; पुनः नभसि आकाशे, उत्पतद्भिः उच्छलद्भिः, भीषणैः भयङ्करैः, ज्यानिनादैः मौर्वाशब्दः, च पुनः, अरिशिरोभिः शत्रुमस्तकैः, व्याहृतविसर्ग व्याहृतः - सूचितः, विसर्गः- विमोचनं यस्य तादृशम् पुनः सुभटशस्त्रपातरणितेन सुभटानां - सुवीराणाम्, यानि शस्त्राणि खङ्गादीनि तत्पातेन तत्प्रहारेण यद्भणितं - शब्दः, तेन, स्तूयमानमिव क्रियमाणस्तुतिकमिवेत्युत्प्रेक्षा; पुनः भूमिनिक्षिप्तमूर्धभिः भूमौ निक्षिप्ताः - प्रक्षिप्ताः, मूर्धानो-मस्तकानि येषां तादृशैः, कबन्धैः शिरोरहितशरीरः, प्रणम्यमानमिव क्रियमाणप्रणाममिवेत्युत्प्रेक्षा पुनः निपतदातपत्रपकुसुमैः निपतन्ति-स्खलन्ति, आतपत्राणां - छत्राणाम्, कुसुमानि-पुष्पाणि येभ्यस्तादृशैः, पक्षे निपतन् य आतपस्ततो रक्षणकर्तृणि कुसुमानि, स्यन्दनैः रथैः, अभ्यर्च्यमानमिव पूज्यमानमिव पुनः उच्छलत्कुम्भमुक्ताफलाभिः उच्छलन्ति- उद्वेलन्ति, कुम्भमुक्ताफलानि - मस्तकस्थित मुक्कामणयः, पक्षे कुम्भवद् वर्तुलानि मुक्ताफलानि यासां तादृशीभिः, करिघटाभिः हस्तिसमूहैः, क्षिप्यमाणलाजमिव क्षिप्यमाणाःप्रक्षिप्यमाणाः, लाजाः - आई तण्डुला मृष्टधान्यानि वा यस्मिंस्तादृशमिव पुनः मुक्तासृग्वृष्टिभिः मुक्ताः- पातिताः, असृजांरुधिराणाम्, वृष्टयः - वर्षा यैस्तादृशैः, प्रहारवणैः प्रहारजन्यक्षतैः, अभिषिच्यमानमिव क्रियमाणाभिषेकमिवः पुनः विलोलमणिकुण्डलैः विलोलानि - चञ्चलानि, मणिकुण्डलानि मणिमयकर्णालङ्करणविशेषा येषु तादृशैः क्ष्मापालमुण्डैः नृपमस्तकैः, दीयमानचक्राभिघातमिव दीयमानः - क्रियमाणः, चक्रेण तदाख्यानविशेषेण, अभिघातः - आघातो यस्य तादृशमिव पुनः शरच्छेदैः अन्यान्यवाणखण्डैः, प्रबलपरिवारपरिगतमिव प्रबलैः -- बलवत्तरैः, परिवारै:
Page #69
--------------------------------------------------------------------------
________________
२११
तिलकमञ्जरी। मांसभेदे, मन्द मेदसि, मुखरमस्थिषु, मन्थरं स्नायुग्रन्थिध्वसंख्यमसृजन्मार्गणबातम् [ण] । अतिवेगध्यापृतोऽस्य तत्र क्षणे प्रोत इव तूणीमुखेषु, लिखित इव मौाम् , उत्कीर्ण इव पुत्रेषु, अवतंसित इव श्रवणान्ते तुल्यकालमलक्ष्यत वामेतरः पाणिः [1] । अविरलशरासारत्रासिता हंसीव मेघागमे पल्वलमनवलोकिताश्रयविसंस्थुला सैन्यपतिवक्षःस्थलममुञ्चद् राजलक्ष्मीः; उद्वान्तहृदया च क्षणं बाहुशिरसि, क्षणं धनुषि, क्षणं कृपाणधाराम्भसि, क्षणमातपत्रे, क्षणं पालिध्वजेषु, क्षणं चामरेष्वकुरुत स्थितिम् । [२] । अहं तु तां तस्य विपदमप्रतिविधेयामुपनतामवलोक्य किंकर्तव्यतामूढः स्तम्भित इव मुहूर्तमतिष्ठम् , प्रयत्नवशाच प्रत्यानीतधैर्य इतस्ततश्च धावता हृदयेन तस्य प्राणपरिरक्षणोपायान् मृगयमाणः सततमासन्नवलंपि व्याकुलतया मुहूर्तमपसृतं स्मृतेझगिति तत्पुरा परमेश्वरेण प्रहितमङ्गुलीयकं बालारुणमस्मरम् , उच्छृसितहृदयश्च तदभिनन्द्य बहुप्रकारमादरकृतप्रणामः पाणिना दक्षिणेनोदक्षिपम् , आक्षेपस्खलद्वाणिश्च तत्क्षणमरातिवाणोन्मथितकेतुच्छत्रकार्मुकं
टिप्पनकम्-पालिध्वजा....... थ] !
परिजनैः, परिगत-व्याप्तमिवेति सर्वत्रोत्प्रेक्षा; पुनः मांसभेदे मांसभेदनावसरे, मूकं निःशब्दम् ; पुनः मेदसि वसायाँ मांसजन्यधातुविशेषे इति यावत् , तद्भेदने इत्यर्थः, मन्दम् अतीक्ष्णम् । पुनः अस्थिषु अस्थिभेदने, मुखरं वाचालम् । पुनः रमायुग्रन्थिषु शारीरिकवायुवाहकनाडीविशेषग्रन्थिभेदने, मन्थरं जडम् , शिथिलप्रवृत्तिकमिति यावत् [ण] । तत्र तस्मिन् , क्षणे मुहूर्ते, अस्य नृपकुमारस्य, अतिवेगव्यापृतः वेगातिशयेन कृतव्यापारः, वामेतरः दक्षिणः, पाणिः हस्तः, तुल्यकालं समकालमेव, अलक्ष्यत लक्षितः । कीदृशः? तूणीमुखेषु इषुधिमुखेषु, प्रोत इव गुम्फित इव; पुनः मौयां ज्यायाम् , लिखित इव चित्रित इव; पुनः पुखेषु बागमूलेषु, उत्कीर्ण इव उरिक्षप्त इव; पुनः श्रवणान्ते कर्णान्तभागे, अवतंसित इव अलङ्करणतामापादित इवेति सर्वत्रोत्प्रेक्षा [त] | मेघागमे वर्षागमे, अन. वलोकिताश्रयविसंस्थला अनवलोकितः-अदृष्टः, आश्रयः-स्थानं यया ताशी, अत एव विसंस्थुला-शिथिला, हंसी, पल्वलं क्षुद्र जलाशयमिव, अविरलशरासारत्रासिता अविरलेन-निरन्तरेण, शराणां-बाणानाम् , आसारेण-धारापातेन, त्रासिता सती, राजलक्ष्मीः राजोपास्यलक्ष्मीनामकदेवी, सैन्यपतिवक्षःस्थलं सैन्यपतेः-सेनानायकस्य, वज्रायुधस्य, वक्षःस्थलं-वक्षःप्रदेशम्, अमुञ्चत् त्यक्तवती । च पुनः, उद्वान्तहृदया उद्वान्तम्-उज्झितम्, हृदयं-सेनापतिवक्षो । यया तादृशी सती, अत्र उद्धान्तहृदयेति पाठे उद्घान्तं-निजाश्रयविश्लेषवशेन, सम्भ्रान्तं-हृदयं यस्यास्तादशी सतीत्यर्थः, राजलक्ष्मीरिति शेषः। क्षणं किञ्चित् कालम् , बाहुशिरसि बाहूलभागे, पुनः क्षणं धनुषि धनुर्दण्डोपरि, पुनः क्षण कृपाणधाराम्भसि खड्गधारात्मकजले, पुनः क्षणम् आतपत्र छनोपरि, पुनः क्षणं किञ्चित् कालम् , पालिध्वजेषु कोणस्थितध्वजेषु, पुनः क्षणं चामरेषु राजव्यजनेषु, स्थिति निवासम् , अकुरुत कृतवती [थ] । अहं तु विजयवेगस्तु, तस्य सेनापतेः, अप्रतिविधेयाम् अप्रतिकार्याम् , उपनताम् उपस्थिताम् , तां विपदं विपत्तिम् , अवलोक्य दृष्ट्वा, किंकर्तव्यतामूढः कर्तव्यविवेकरहितः, स्तम्भित इव कृतस्तम्भन इव, मुहूर्त क्षणम् , अतिष्ठं स्थितवान् । च पुनः, प्रयत्नवशात् आयासवशात् , प्रत्यानीतधैर्यः प्रत्यानीतं-पुनरावाहितं धैर्य येन तादृशः सन् , इतस्ततः अत्र तत्र, धावता भ्रमता, हृदयेन मनसा, तस्य सेनापतेः, प्राणपरिरक्षणोपायान् प्राणपरिरक्षणस्य-जीवनरक्षायाः, उपायान् प्रतीकारान् , मृगयमाणः अन्विष्यन् , सततं सदैव, आसन्नवर्त्यपि पार्श्ववर्त्यपि, व्याकुलतया व्यप्रतया, मुहूर्त क्षणम् , स्मृतेः स्मृतिपथात्, अपस्तं भ्रष्टम् , पुरा पूर्वम् , परमेश्वरेण परमेश्वरतुल्य प्रभावेण भवता, प्रहितं प्रेषितं, तत्, बालारुणं तन्नामकम् , अडलीयकम् अङ्गुलिभूषणम् , झटिति शीघ्रम् , अस्सरं स्मृतवान् । च पुनः, उच्छ्रसितहृदयः उदलितहृदयः सन्, तत् अकुलीयकम् , बहुप्रकारं बहवः प्रकारा यसिस्वादशं यथा स्यात् तथा, अभिनन्ध स्तुत्या, आदरकृतप्रणाम: आदरेण न तूपेक्षया कृतः प्रणामो नमस्कारो येन तादृशः, दक्षिणेन वामेतरेण, पाणिना हस्तेन, उदक्षिपम् उत्क्षिप्तवान् । च पुनः, आक्षेपस्खलवाणिः आक्षेपेण-रिपुकृतापमानेन, स्खलन्तीस्खलनमाश्रयन्ती, वाणी-वचनं यस्य तादृशः, तत्क्षणं तत्कालम्, अरातिवाणोन्मथितकेतुच्छत्रकार्मुकम् .
Page #70
--------------------------------------------------------------------------
________________
१३
टिप्पनक- परागविवृतिसंवलिता
सेनान्यमुच्चैस्तरेण स्वरेणावोचम् — ' दण्डाधिप ! कृतं तावदपरायुधपरिग्रहेण गृहाण बालारुणाभिधानमिदममोघं प्रहरणम्, अनेन परिगृहीतभुजदण्डशक्तिर्विधेहि निरवग्रहप्रसरस्य विद्विषः प्रतापखण्डनम्, अकाण्ड एव निर्व्याजपौरुषतया मा स्म विस्मरः स्वामिकार्यम्' [द] । असौ तु सासूय इव तन्मदीयवचनमवधार्य कृतावधीरणो· रणर सोच्छु सितगात्रयष्टिराविष्ट इव रे रे दुरात्मन् ! दुर्गृहीतधनुर्विद्यामदाध्मात ! द्रविडाधम ! बधान क्षणमात्रमप्रतोऽवस्थानम्, अस्थान एव किं दृप्यसि, पश्य ममापि संप्रति शस्त्रविद्याकौशलम्' इत्युदीर्य निर्यत्पुलकमसिलताग्रहणाय दक्षिणं प्रसारितवान् बाहुम् । अरिवधावेशविस्मृतात्मनश्च तस्योल्लसितकोपसाटोपकम्पिताङ्गुलौ कराप्रभागे गृहीत्वाङ्गुलीमेकां तदहमङ्गुलीयकमतिष्ठिपम् । अधिष्ठितश्च स तदीयच्छायया तत्क्षणमेव दिमागदन्तमुशल इव वज्रप्रतिमया, महाहिभोग इव मणिप्रभया, समुद्रोर्भिरिव वाडवाचिषा, कामप्यभिरामतामधृष्यतां च पर्यपुष्यत् [ध] ॥
टिप्पनकम् - बधान कुरु । अतिष्ठिपं स्थापितवान् [ध ] |
अरातीनां - शत्रूणाम्, बाणैः - वाणाघातैः, उन्मथितानि - उच्छिन्नानि, केतुच्छत्रकार्मुकाणि - केतुः - ध्वजः, छत्रम् आतपत्रम्, कार्मुकं - धनुश्च यस्य तादृशम्, सेनान्यं सेनाधिपतिम् उच्चैस्तरेण अतिदीर्घेण स्वरेण - कण्ठध्वनिना, अबोचम् उक्तवान्, अहमिति सर्वत्र शेषः । किमित्याह--दण्डाधिप । चतुरङ्गसेनापते !, तावदिति वाक्यालङ्कारे, अपरायुधपरिग्रहेण अपरस्य-अन्यस्य, आयुधस्य - शस्त्रस्य परिग्रहेण - ग्रहणेन, कृतम् अलम्, तत्परिमहो वृथेत्यर्थः । किन्तु बालारुणाभिधानं बालारुणनामकम् इदं सन्निकृष्टम्, अमोघम् अव्यर्थम्, प्रहरणम् अस्त्रम् गृहाण धारय । अनेन अङ्गुलीयक प्रहरणेन, परिगृहीतभुजदण्डशक्तिः संगृहीतभुजरूपदण्डसामर्थ्यः सन् निरवग्रहप्रसरस्य निष्प्रतिबन्धात्रप्रहारस्य, विद्विषः शत्रोः, प्रतापखण्डनं पराक्रमक्षयम्, विधेहि कुरु । अकाण्ड एव अनवसर एव, निव्यजिपौरुषतया निष्कपटपराक्रमेण, वास्तविकपराक्रमेणेति यावत्, स्वामिकार्य स्वामिकृतनियोगम्, मा स्म विस्मरः न विस्मर्यताम्] [द]। असौ तु सेनापतिस्तु, सासूय द्रव आविष्कृतदोष इव, तत् अनुपदोक्तम्, मदीयवचनं मदुक्तकर्तव्या वेदवाक्यम्, अनवधार्य इष्टसाधनत्वेनानिश्चित्य, उपेक्ष्येत्यर्थः कृतावधीरणः कृततिरस्कारः, रणरसोच्छ्वसितगात्रयष्टिः रणरसेन -रणानुरागेण, उच्छुसिताः - उद्वलिता, गात्रयष्टिः- शरीररूपा यष्टिर्यस्य तादृशः, आविष्ट इच प्रकुपित इव भूताविष्ट इव वा, रे रे दुरात्मन् ! रे रे दुष्टात्मन् ! दुर्गृहीतधनुर्विद्यामदाध्मात ! दुर्गृहीतायाः - अयथास्थिततया गृहीतायाः, धनुविद्यायाः, मदेन- गर्वेण, आध्मात ! - व्याप्त ! द्रविडाधम ! द्रविडदेशीयाधम !, क्षणमात्रं मुहूर्तमात्रम्, अग्रतः अग्रे, अवस्थानं स्थितिम् बधान कुरु । अस्थान एव अनवसर एव किं कस्माद्धेतोः, हृप्यसि गर्व करोषि ?, सम्प्रति तत्कालम्, पश्य अनुभव, ममापि मदीयमपि शस्त्रविद्याकौशलं शस्त्रविद्यावैदग्ध्यम्, इत्युदीर्य इत्युक्त्वा, निर्यपुलकं निर्यन्तः - निर्गच्छन्तः, पुलका:-रोमाचा यस्मिंस्तादृशं यथा स्यात् तथा असिलताग्रहणाय खलताग्रहणाय, दक्षिणं वामेतरम्, बाहुं प्रसारितवान् व्यापारितवान् । च पुनः, अरिवधावेश विस्मृतात्मनः अविधावेशेनशत्रुमाणाग्रहण, विस्मृत आत्मा खरूपं येन तादृशस्य तस्य सेनापतेः, एकाम् अङ्गुलीं करशाखाम् गृहीत्वा धत्वा, उल्लसितको साटोपकम्पिताङ्गलौ उल्लसितेन- उन्नतेन, कोपेन - क्रोधेन, साटोपं-सविस्तारं यथा स्यात् तथा, कम्पिताःअलयो यस्मिंस्तादृशे, कराग्रभागे दस्ताप्रभागे, तत् बालारुणनामकम् अङ्गुलीयकम्, अहम्, अतिष्ठिपं स्थापितवान्, धारितवानित्यर्थः । स सेनापतिः, तदीयच्छायया अङ्गुलीयककान्त्या, अधिष्ठितः व्याप्तः सन् तत्क्षणमेव तत्कालमेव, कामपि अनिर्वचनीयाम्, अभिरामतां रमणीयताम्, अधृष्यताम् अपराजेयतां च पर्यपुष्यत् परिपुष्टवान् । कया क इव ? वज्रप्रतिमया वज्रसादृश्येन वज्रतुल्याकृत्या वा वज्रप्रतिभयेति पाठे तु वज्रतुल्य कान्त्येत्यर्थः, दिङ्नागदन्त मुशल इस विङ्नागानां - दिग्गजानाम्, मुशलाकारवन्त इव पुनः मणिप्रभया मणिकान्त्या, महाहिभोग इव महासर्पपणा इव
Page #71
--------------------------------------------------------------------------
________________
तिलकमलरी। ' अथ तस्य संनिहितदीपिकाखण्डकरदण्डताडिताः कोपेनेव प्रजज्वलुः प्राज्यतेजसो मणयः, प्रचिक्षिपुश्च दिङ्मुखेषुः क्षेपीयः कटाक्षानिव दीर्घारुणानंशून [न] । तैश्च प्रभापीतचन्द्रातपैः समन्ततः परामृष्टमभिनवार्ककिरणस्पृष्टमिव कुमुदकाननं सद्य इव निद्रया प्रत्यपद्यत प्रतिपक्षसैन्यम् , उद्दामदानपङ्कलमानीव नोद्धर्तुमङ्कुशानि शेकुरनेकपकपोलकूटेभ्यो निषादिनः, सुराङ्गनादर्शनोपारूढमदेव सद्योऽमुकुलायत दृष्टिः सुभटानाम्, कृतकचग्रहकालदूताकृष्यमाणानीव शनैः शनैरवनेमुः परिशिथिलकन्धरासंधीनि शिरांसि योधानाम् , विघटितमुष्टिबन्धविगलितासयश्च कृपाणिकाग्रहणस्पृहयेव निपेतुर्जघनपार्श्वेषु प्रहारदानाय दूरोरिक्षप्ता दक्षिणपाणयः पादातस्य, अर्धावकृष्टसस्तकार्मुकनिरस्ताश्चार्धपथे एवाधोमुखीबभूवुरप्राप्तशरव्यास्त्रपयेव सायका धनुष्मताम् , दृष्टसुरवधूविभ्रमाविर्भूतमदनार्तानामिव प्रावर्तन्त जम्भिका मुखेषु रथारोहाणाम् , स्वप्नदृष्टाचिरविमुक्तोद्वाष्पनिजजायाजनितदुःखानामिव प्रसस्रुरायतानि श्वसितान्यश्ववाराणाम् , श्रवणप्रविष्टारातिसिंहनादमुहूर्तविस्फा
पुनः वाडवार्चिषा वडवानलज्वालया, समुद्रोमिरिव समुद्रतरङ्ग इव [ध] ॥ अथ अालीयकधारणानन्तरम् , तस्य भङ्गुलीयकस्य, प्राज्यतेजसः प्रचुरतेजसः, मणयः, प्रजज्वलुः प्रज्वलन्ति स्म; कीदृशाः केनेव ? सन्निहितदीपिकाखण्डकरदण्डताडिताः सन्निहितानां-पार्वस्थितानाम् , दीपिकानां-प्रदीपानाम् , यः खण्ड:-समूहः, तदीयकरदण्डै:हस्तदण्डाभेदेनाध्यवसीयमानकिरणदण्डैः, ताडिताः-आहताः, अत एव कोपेनेव ताडनजन्यक्रोधेनेवेति प्रज्वलनहेतृत्प्रेक्षा । च पुनः, दिल्खुखेषु दिनायिकामुखेषु, नायकविधया कटाक्षानिव, क्षेपीयः अति शीघ्रम् , दीर्घारुणान् दीर्घान्-आयतान्, अरुणांश्च, अंशून् किरणान् , प्रचिक्षिपुः प्रक्षिप्तवन्तः [न]। च पुनः, प्रभापीतचन्द्रातपैः प्रभया-कान्त्या, पीतः, चन्द्रातपः-चन्द्रिका यस्तादृशैः, तैः मणिकिरणैः, समन्ततः सर्वतः, परामृष्टं स्पृष्टम् , प्रतिपक्षसैन्यं शत्रुसैन्यम् , अभिनवार्ककिरणस्पृष्टम् अभिनवस्य-उदयकालिकस्य, अर्कस्य-सूर्यस्य, किरणः स्पृष्टम् , कुमुदकाननं कुमुदवनमिव, सद्य एव तत्क्षणमेव, निद्रया प्रत्यपद्यत प्राप्यत, अभिभूतमिति यावत् । निषादिनः हस्तिपकाः, उद्दामदानपङ्कलमानीय उद्दामा-उगाढो यो दानपङ्कः-मदकर्दमः, तत्र लग्नानीव-ममानीव, अशानि हस्तिनियामकास्त्रविशेषान् , अनेकपकपोलकुटेभ्यः अनेकपानां-हस्तिनाम् , कपोलकुटेभ्यः-गण्डमण्डलेभ्यः, उद्धर्तुं निष्कासयितुम् , न शेकुः शक्नुवन्ति स्म । सुभटानां सुयोधानाम् , दृष्टिः, सुराङ्गनादर्शनोपारूढमदेव सुराङ्गनाना-देवानानाम, दर्शनेन-अवलोकनेन, उपारून:-उद्भूतः, मदः-व्यामोहो यस्यास्तादृशीव, सद्यः तत्क्षणम् , अमुकुलायत समकुचत् । परिशिथिलकन्धरासन्धीनि परिशिथिलः-अतिशिथिलः, कन्धरासन्धिः-प्रीवासन्धिर्येषां तादृशानि, योधानां सुभटानाम्, शिरांसि मस्तकानि, कृतकचग्रहकालदूताकृष्यमाणानीव कृतः कचहा-केशाकर्षणं यैस्वादशैः, कालदूतैः-यमराजदूतैः, आकृष्यमाणानीव-कृताकर्षणानीव, शनैः शनैः मन्द मन्दम् , अवनेमुः अवनमन्ति स्म । च पुनः, विघटितमुष्टिबन्धविगलितासयः विघटितः-विलिष्टो यो मुष्टिबन्धः-अङ्गुलिसन्निवेशः, तेन विगलिताः-स्खलिताः, असयः-कृपाणा येभ्यस्तादृशाः, प्रहारदानाय प्रहारकरणाय, दरोक्षिताः दूरमुत्पातिताः, पादातस्य पादगामिसैनिकसमूहस्य, दक्षिणपाणयः दक्षिणहस्ताः, कृपाणिकाग्रहणस्पृहयेव कतरिकाग्रणकामनयेव, जघनपार्श्वषु कटिपुरोभागनिकटेषु, निपेतुः निपतिताः। च पुनः, अर्धावकृष्टनस्तकामुकनिरस्ताः प्राग् अर्धम् अवकृष्टानि आकृष्टानि, पश्चात् सस्तानि-स्खलितानि यानि कामुकाण-धषि तेभ्यो निरस्ताः-स्खालताः, धनुष्मतां धनुर्धारिणाम् , सायकाः बाणाः, अप्राप्तशरव्या अप्राप्त. लक्ष्याः, अर्धपथ पव अर्धमार्ग एव, अधोमुखीयभूवुः अधोमुखीभूताः । पुनः दृष्टसुरवधूविभ्रमाविर्भूतमदनार्ता नामिव दृष्टैः-अक्लोकितैः, सुरवधूना-देववधूनाम् , विभ्रमः-विलासैः, आविर्भूतेन-प्रकटितेन मदनेन-कामेन, आर्तानामिषपीडितानामिव, रथारोहाणां रथारूढसैनिकानाम् , मुखेषु जम्भिका:-मुखविकाशाः, प्रावर्तन्त प्रवर्तन्ते स्म। पुनः समरष्टाचिरविमुक्तोदापनिजजायाजनितदुःखानामिव खनदृष्टाभिः-खप्नावस्थाऽवलोकिताभिः, अचिरविमुक्तो. द्वाष्पाभिः-सरक्षणविगलितोद्गताश्रुभिः, निजजायाभिः-खवधूभिः, जनितम्-अनुभावितं दुःखं येषां तादृशांनामिव, मश्ववाराणाम् अश्वारोहिसैनिकानाम् , आयतानि दीर्घाणि, श्वसितानि निःश्वासाः, प्रसनुः प्रसरन्ति स्म। पुनः श्रवणप्रविरा. रातिसिंहनावमुहूर्तविस्फारितापि श्रवणयो:-कर्णयोः, प्रविधैः, अरावीना-शत्रूणाम् , सिंहनादैः-सिंहनादसरसनादः
Page #72
--------------------------------------------------------------------------
________________
२१४
टिप्पनक- परागविवृतिसंवलिता
रिताप्यघटतामवलोहितायमानजडपुटा दृष्टिः सामन्तानाम्, अन्यापृतवामकरतलाली नरश्मिपाशावकृतप्राजनावष्टम्भेन विसंस्थुलावयवास्तस्थुः सारथय: [प]। एवं च तेनातर्कितोपनतेनाप्रतिविधेयेन दैवेनेव लुप्तपुरुषकारेण, जरागमेनेव मन्दीकृताखिलेन्द्रियशक्तिना, महापुरुषेणेव गोपायित समस्तात्मगुणेनाऽनायुःपरिक्षयेण मृत्युनाऽसर्पदंशेन विषवेगेनाऽनभिघातजेन मूर्च्छान्धकारेणाऽदोषक्षोभजन्मना संनिपातेनाऽनुनमीलिततारकेण तमसा, महानिद्रावेगेन युगपदभिभूयमाने वैरिसैन्ये स वीरवर्गाप्रेसरो राजकुमारो शेषदष्टाधरोष्ठमुज्झितरथष्पृष्ठमुद्भूर्णकृपाणमभिमुखमतिरंहसा समापतन्तं सेनापतिमवलोक्य तद्वधाय धनुषि निवेशित - मसितलोलदीधितिजटालफलधारमरातिरुधिरपा नतृष्णया प्रसारितजिह्वासहस्रमिव सद्य एव समहत संहृतानेकप्रतिपक्षमाणं बाणम्, उत्सृष्टचापयष्टिश्च तत्क्षणं क्षात्रसमरनीतिप्रियतया पृथक्कृत्य परिवारतः कृपाणमात्मानं च वेगादवतरभिद्रावेगविगलितपरिस्पन्दः स्यन्दनोत्सङ्गमगमत् [फ] 1
मुहूर्त - किश्चित्कालम्, विस्फारितापि - विस्तारितापि, अमर्षलोहितायमानजडपुटा अमर्षेण क्रोधेन, लोहितायमानौ - रतीभवन्ती, जडपुटौ - व्यामूढचर्मपुटैा यस्यास्तादृशी, सामन्तानाम् अधिकृतनृपाणाम्, दृष्टिः, अघटत समकुचत् । च पुनः, अव्यापृतवामकरतलालीनरश्मिपाशाः अव्यावृताः - व्यापाररहिताः, वामकरतले - बामहस्ततले, आलीनाःसंसकाः, रश्मिपाशाः-अश्वादिनियन्त्रकरज्जुपाशा येषां तादृशाः, विसंस्थुलावयचाः विह्वलावयवाः, सारथयः - अश्व शासकाः, ऊर्ध्वकृत प्राजनावष्टम्भेन ऊर्ध्वोकृतस्य- उन्नमितस्य, प्राजनस्य - अश्वादिप्रेरकदण्डस्य, अवष्टम्भेन - अवलम्बेन, तस्थुः तिष्ठन्ति स्म [ प ] । च पुनः एवम् अनेन प्रकारेण, अतर्कितोपनतेन अकस्मादापतितेन, अप्रतिविधेयेन प्रतीकाररहितेन, अत एव दैवेनेव दुर्भाग्येणेव, लुप्तपुरुषकारेण लुप्तः- विनष्टः, पुरुषकार:- पराक्रमो येन तादृशेन; पुनः जरागमेमेष वार्धक्यागमेनेव, मन्दीकृता खिलेन्द्रियशक्तिना मन्दीकृता-शिथिलिता, अखिलेन्द्रिय शक्तयः- सर्वेन्द्रियसामर्थ्यानि येन तादृशेन; पुनः महापुरुषेणेव महात्मनेव, गोपायितसमस्तात्मगुणेन गोपायिताः - तिरोहिताः, पक्षे संयमेन रक्षिताः, समस्ताः, आत्मगुणाः- वीर्यादयो येन तादृशेन पुनः अनायुःपरिक्षयेण आयुः परिक्षयरहितेन, मृत्युना मृत्युरूपेण पुनः असर्पदंशेन सर्पदशनरहितेन, विषवेगेन विषज्वालारूपेण पुनः अनभिघातजेन प्रहाराजन्येन, आकस्मिकेनेत्यर्थः, मूच्र्छान्धकारेण मूर्च्छारूपान्धकारेण पुनः भदोषक्षोभजन्मना दोषाणां वैषम्यापन्नवातपित्तादीनाम् यः क्षोभःप्रकोपस्तजनितेन, सन्निपातेन महाज्वरेण; पुनः अनुन्मीलिततारकेण अनुन्मीलिताः - अप्रकाशिताः, तारकाः - नक्षत्राणि यस्मिंस्तादृशेन, तमसा अन्धकाररूपेणेति रूपकमाला, गम्योत्प्रेक्षा माला वा; महानिद्रा वेगेन महत्या निद्राया वेगेनऔरकट्येन, चैरिसैन्ये शत्रुसैन्ये, युगपद् एकदैव, अभिभूयमाने बाध्यमाने सति, वीरवर्गाग्रेसरः वीरसमाजाग्रणीः, स राजकुमारः, रोषदष्टाधरोष्ठं रोषेण-क्रोधेन, दष्टः- प्रणितः, अधरोष्ठः- निम्नोष्ठो येन तादृशम् पुनः उज्झितरथपृष्ठम् उज्जातं - त्यक्तम्, रथस्य, पृष्ठ- पृष्ठभागो येन तादृशम् ; पुनः उद्गूर्णकृपाणम् उद्गूर्ण:- उद्यतः, कृपाण :- खङ्गो येन ताहशम् : पुनः अतिरंहसा अन्यन्तवेगेन, अभिमुखं संमुखम्, समापतन्तम् आगच्छन्तम्, सेनापति निरुक्तसेनानायकम्, अवलोक्य दृष्ट्वा तद्वधाय सेनापतिमारणाय, धनुषि, निवेशितम् आरोपितम्, असितलोलदीधितिजटालफलधारम् असिताभिः - कृष्णाभिः, लोलाभिः - तरलाभिः, दीधितिभिः किरणैः, जटाला-व्याप्ता, फलधारा - अवधारा यस्य तादृशम् ; अत एव अरातिरुधिरपानतृष्णया अरातीनां शत्रूणाम्, यानि रुधिराणि - शोणितानि, तत्पानाभिलाषेण, प्रसारितजिह्वालहस्रमिष व्याप्तसहस्रसंख्यक जिह्वा कमिवेत्युत्प्रेक्षा; संहृतानेकप्रतिपक्षप्राणम् संहृताः- विनाशिताः, अनेकेषां प्रतिपक्षाणां शत्रूणाम्, प्राणाः - असवो येन तादृशम्; बाणं शरम्, सद्य एव तत्क्षणमेव, समहत संहृतवान्, प्रहारान्निवारितवानित्यर्थः । च पुनः उत्सृष्टचापयष्टिः त्यक्तधनुर्दण्डः सन् क्षात्रसमरनीतिप्रियतया क्षात्रीक्षत्रियसम्बन्धिनी या समर नीतिः - पराजये शस्त्रत्यागरूपा संग्रामनीतिः, तस्प्रियतया, तत्क्षणं तत्कालम्, परिवारतः खङ्गकोशात्, पक्षे परिजनात्, कृपाणं खहम्, आत्मानं च खं च पृथक्कृत्य, अवतरनिद्रावेगविगलितपरिस्पन्दः अवतरन्त्याः- आपतन्त्याः, निद्रायाः, वेगेन-उत्कर्षेण, विगलितः - विनष्टः, परिस्पन्दः - शारीरिकचेष्ठा यस्य तादृशः, स्यम्वनो
Page #73
--------------------------------------------------------------------------
________________
विलकमलरी।
२१५ अत्रान्तरे लब्धरोषनिर्यातनावसराणि 'हत हत, उपसर्पतोपसर्पत, गृहीत गृहीत' इत्यनवरतकृतकोलाहलानि बद्धवेगद्विरदपृष्ठशारिदोलायमानसकलसायासप्रासपूलानि चलितरथचक्रचीत्कारचकितशाकिनीचक्रवालार्धावलोकितान्युद्गर्णकृपाणपादातपादपातकम्पितधराण्यधावन्त सर्वतोऽस्मत्सैन्यकानि [व]
सेनाधिपस्तु तस्य महात्मनस्त्रिभुवनाभिभाविना भुजवीर्येण निर्व्याजमावर्जितमनास्तानि तथाविधप्रकटितसंरम्भाणि सर्वतः प्रधावितान्यवलोक्य संभ्रमोरिक्षप्तबाहुयुगलो गद्गदिकागृह्यमाणगलनिर्गलदपर्याप्ताक्षरं 'रे रे स देवस्योत्तरकोशलेश्वरस्य पादपङ्कजेभ्यः शपते, योऽस्मै कुप्यति' इति स्वशक्त्या व्याहरन् पुनः पुनरादिष्टसूतसत्वरप्रवर्तितरथ्येन रथेन तं प्रदेशमागच्छत् [भ] । अद्राक्षीच्च तं समासन्नदीपिकालोकप्रकाशितमासक्तसान्द्रसमररेणुधूसराभिरामवपुषम् , औषधीनाथमिव पार्वणमस्तपर्वतप्रस्थे पृथुनि स्थपृष्ठे पर्यस्तम् ,
टिप्पनकम्- रथ्या:-अश्वाः [भ] । तापिच्छं-काकतुण्डिका [म] ।
त्सङ्गं रथमध्यम् , अगमत् गतवान् [क] ॥ अत्रान्तरे अस्मिन्नवसरे, अस्मत्सैन्यकानि अस्मत्सैन्यसमूहाः, सर्वतः सर्वदिक्षु, अधावन्त धावन्ते स्म; कीदृशानि ? लब्धरोषनिर्यातनावसराणि लब्धः-प्राप्तः, रोषेण-क्रोधेन, निर्यातनाया:-शत्रुपीडनायाः,अवसरो यस्तादृशानि पुनः हतहत मारयत मारयत, उपसपत उपसपेत उपगच्छत उपगच्छत, शत्रूनिति शेषः, गृहीत गृहीत, अस्त्राणीति शेषः, इति इत्यम् , अनवरतकृतकोलाहलानि अनवरतं-निरन्तरम्, कृतः कोलाहलो यस्तादृशानिः पुनः बद्धवेगद्विरदपृष्ठशारिदोलायमानसकलसायासप्रासपूलानि बद्धवेगा:-श्रितत्वराः, ये द्विरदाः-हस्तिनः, तेषां पृष्ठशारिषु-पृष्ठाधिष्ठितपर्याणेषु, दोलायमानानि-सच्चलन्ति, सकलानां समस्तानाम् , सायानां बाणानाम् , आसाना-विक्षेप्यास्त्रविशेषाणाम् , प्रासाना-कुन्तानाम् , पूलानि-भारा येषु तादृशानिः पुनः चलितरथचक्रचीत्कारच कितशाकिनीचक्रघालार्धावलोकितानि चलितानि यानि रथचक्राणि-रथसमूहाः, तेषां चीत्कारेण-ध्वनिविशेषेण, चकितं-विस्मितम्, शाकिनीना-देवीविशेषाणाम्, यचक्रवालं-समूहस्तेन, अर्धम् , अवलोकितानि-दृष्टानि पुनः उदगर्मकृपाणपादातपादपातकम्पितधराणि उद्गूर्णाः-उत्थापिताः, कृपाणाः-खड्गा येन तादृशस्य, पादातस्य-पदामिसैनिक. समूहस्य, पादपातेन-चरणाघातेन, कम्पिता-आन्दोलिता, धरा-पृथ्वी यैस्तादृशानि [ब]॥
सेनाधिपस्तु सेनानायकस्तु, पुनः पुनः चार वारम् , आदिष्टसूतसत्वरप्रवर्तितरथ्येन आदिष्टः-आशप्तो यः, सूतः-सारथिः, तेन सत्वर-शीघ्रम् , प्रवर्तिती-प्रेरितो, रथ्यौ-अश्वौ यस्य तादृशेन रथेन, तं प्रदेशं यत्र कुमार आसीदित्यर्थः, आगच्छत् आगतवान् । कीदृशः? महात्मनः महिमशालिनः, तस्य नृपकुमारस्य, त्रिभुवनाभिभा यिना, भुजवीर्येण बाहुविक्रमेण, निाजं निष्कपटं यथार्थमिति यावत्, आवर्जितमनाः हृतहृदयः; पुनः तथाविधप्रकटितसंरम्भाणि तथाविधम्-उकप्रकारं यथा स्यात् तथा, प्रकटितः-आविष्कृतः, संरम्भः-वेग उत्साहो वा यैस्वादशानि, सर्वतः, प्रधावितानि अतिसत्वरं गतानि, तानि सैनिकानि, अवलोक्य दृष्ट्वा, सम्भ्रमोत्क्षिप्तबाहुयुगला वेगोत्यापितभुजयुगलः, किं कुर्वन् ? गद्गदिकागृह्यमाणगलनिर्गलदपर्याप्ताक्षरं गद्गदिकया-शोकादिजन्याव्यक्तोचारणक्रियया, गृह्यमाणात् गलातू-कण्ठात् , निर्गलन्ति-निस्सरन्ति, अपर्याप्तानि-अपरिपूर्णानि, अक्षराणि यस्मिस्तादृशं यथा स्यात् तथा.रेरे इति सम्भ्रमद्योतकम्, उत्तरकोशलेश्वरस्य कोशलराष्ट्रोत्तरविभागेश्वरस्य, देवस्य राज्ञः, पादपङ्कजेभ्यः चरणकमलेभ्यः, स शपते, यः, अस्मै नृपकुमाराय, कुप्यति कोपं करोति, इति स्वशत्या खसामर्थेन, ब्याहरन् झुक्न [भ]। च पुनः, तं नृपकुमारम् , अद्राक्षीत् दृष्टवान् । कीदृशम् ? समासन्नदीपिकालोकप्रकाशितं समासन्नैः-सनिकटैः, दीपिकालोकैः-दीपवाहकजनैः, यद्वा समासन्नायाः-पार्ववर्तिन्याः, दीपिकायाः, आलोक:-प्रभाभिः, प्रकाशितम् ; पुनः आसक्त. सान्द्रसमररेणुधूसराभिरामवपुषम् आसक्तैः-संलग्नैः, सान्द्रः-निबिडेः, समररेणुभिः-संग्रामोद्भूतधूलिभिः, यो धूसरः-किञ्चित्पाण्डुवर्णः, तेन अभिरामम्-मनोहरम्, वपुः-शरीरं यस्य तादृशम्; पुनः अस्तपर्वतप्रस्थे अस्तपर्वतस्य अस्ताचलस्य, प्रस्थे-शिखरे, पार्वण पूर्णिमासम्बन्धिनम्, औषधीनाथमिव चन्द्रमिव, पृथुनि विशाले, रथपृष्ठे
Page #74
--------------------------------------------------------------------------
________________
२१६
टिप्पनक-परागविवृतिसंवलिता आसादितविजयरिपुदर्शनपरिजिहीर्षयेव निमिषितेक्षणारविन्दम् , आजिविपन्नसुभटजीवितसंजिघृक्षायातयमदर्शनागतया यमुनयेयाबद्धविकटतरङ्गया भ्रुकुट्याऽन्धकारितललाटभित्तिम् , उपरि रिपुशिलीमुखासारेणाधस्ताव रणरभसरोमाञ्चजालकेन जर्जरितमुल्लसितमिव मूर्छान्धकारमुन्निद्रतापिच्छनीलमस्थूलं कालायसकवचमुरःस्थलेनोद्वहन्तम् , उत्सृष्टचापयष्टिना वामेन दक्षिणेन च स्फुरितदीर्घनखकिरणेन तत्क्षणभ्रष्टकरवालान्वेषिणेव पाणिना विराजमानम् , उपान्तकेतुस्तम्भविन्यस्तदेहभारैश्च निद्रादूरमुग्नकण्ठनालैरात्मयोधैः परिवृतं प्रसुप्तसर:कुमुदधनमध्यवर्तिनमिव प्रतिमादिनकरम् , अव्याजशौर्यावर्जितहृदयैश्चागत्यागत्य वीरवृन्दैर्वन्धमानबाणत्रणोद्वाम्तरुधिरबिन्दुनिकरं कुमारम् [म], उपजातविस्मयश्च निश्चलस्निग्धतारकेण चक्षुषा सुचिरमवलोक्य तदवलोकनप्रीतमनसा समीपवर्तिना सामन्तलोकेन सह बहुप्रकारमारब्धतद्वीर्यगुणस्तुतिस्तस्मिन्नेव प्रदेशे मुहूर्तमात्रमतिष्ठत् । तद्वृत्तान्तश्रवणसकुतूहलश्च निपुणतरमपि व्यापारितया दृष्टया यदा प्रतिपक्षपक्षे कमपि पुरुष
रथपश्चाद्भागे, पर्यस्तं लीनम् ; पुनः आसादितविजयरिपुदर्शनपरिजिहीर्षयेव आसादितः-प्राप्तः, विजयो येन तारजस्य, रिपो:-वशत्रोः, यद् दर्शनम् , तत्परिजिहीर्षयेव-तत्परिहारेच्छयेव, निमिषितेक्षणारविन्दं निमीलितनयनारविन्दम् । पुनः भृकुट्या नेत्रोपरितनकुटिलरोमराज्या, अन्धकारितललाटभित्तिम् अन्धकारिता-अन्धकारव्यापिता, ललाटभित्तिः-ललाटस्थलं यस्य तादृशम्, कीदृश्या? आजिविपन्नसुभटजीवितसंजिघक्षायातयमदर्शनागतया आजी-संग्रामे, विपन्नाः-मृताः,ये सुभटाः-सुयोधाः, तेषां यानि जीवितानि-प्राणाः, तत्संजिघृक्षया-तत्संहरणेच्छया, आयातस्य-आगतस्य, यमस्य-तदाख्यभ्रातुः, दर्शनाय-अवलोकनाय, आगतया-उपस्थितया, यमुनयेव तदाख्यनयेव, आबद्ध विकटतरल्या आबद्धाः-रचिताः, विकटा:-विशाला, तरङ्गा यया तादृश्या; पुनः कालायसकवचं लोहविशेषमयं कवचम्, उरस्थलेन वक्षःस्थलेन, उद्वहन्तं धारयन्तम् , कीदृशं कवचम् ? उपरि ऊर्श्वभागे, रिपुशिलीमुखासारेण रिपशिलीमुखाना-स्वशक्षिप्तबाणानाम् , आसारेण-धारापातेन, च पुनः, अधस्तात अधोभागे, रणरभसरोमाञ्चजालकेन रणरभसेन-संग्रामवेगेन, उद्गतो यो रोमाञ्चः-पुलकः, तज्जालकेन-तत्पुजेन, जर्जरितं विह्वलीकृतम् , अत एव उल्लसितम् उद्भूतम् , मूर्छान्धकारमिव मूर्छारूपान्धकारमिवेत्युत्प्रेक्षा, पुनः उन्निद्रतापिच्छनीलम् उनिद्रःउत्फुल्लो यस्तापिच्छः-तमालः, तद्वन्नीलवर्णम् , पुनः अस्थूल लघुम्; पुनः कीदृशं कुमारम् ? उत्सृष्टचापयष्टिना
सृष्टा-त्यक्ता, चापाष्टः-धनुदण्डा येन तादृशेन, वामन दक्षिणेतरण, पाणना हस्तेन, च पुनः, स्फुरितदीधेनख किरणेन स्फुरिताः-ज्वालिताः, दीर्धाः, नखकिरणा:-नखकान्तयो यस्मिस्तादृशेन, तत्क्षणभ्रकरवालान्वेषिणेव तत्क्षणंतत्कालम् , भ्रष्टः-खसकाशात् पतितो यः, करवालः-खङ्गः, तदन्वेषिणेव-तदन्वेषणव्यातेनेव, दक्षिणेन, पाणिना हस्तेन, विराजमान शोभमानम् ; च पुनः, उपान्तकेतुस्तम्भविन्यस्तदेहभारः उपान्तेषु-निकटस्थेषु, केतुस्तम्भेषु-ध्वजदण्डेषु, विन्यस्तः-धृतः, देहभारो यैस्तादृशः, पुनः निद्रादूरभुन्नकण्ठनालैः निद्रया दूरभुनानि-दूरपर्यन्तकुटिलानि, कण्ठनालानि-कण्ठरूपकमलदण्डा येषां तादृशैः, आत्मयोधैः स्वकीयसुभटैः, परिवृतं परिवेष्टितम् , अत एव प्रसुप्तसर:कुमुदवनमध्यवर्तिनं प्रसुप्त-संकुचितम् , यत् सरःकुमुदवन-तडागस्थकुमुदवनम्, तन्मध्यवर्तिनम् , प्रतिमादिनकरमिव सूर्यप्रतिबिम्बमिव; च पुनः, अव्याजशौर्यावर्जितहृदयैः अव्याजेन-वास्तविकेन, शौर्येण, आवर्जितम्-अवनमितं हृदयं येषां तादृशैः, वीरवृन्दैः शूरसमूहै, आगत्य आगत्य उपस्थायोपस्थाय, वन्द्यमानबाणवणोद्वान्तरुधिरबिन्दुनिकर वन्धमानः-स्तूयमानः, बाणव्रणोद्वान्तानां-बाणवणनिर्गतानाम् , रुधिरबिन्दूनां-शोणितबिन्दूनाम् , निकरः-समूहो यस्य तादृशम् [मच पुनः, उपजातविस्मयः उत्पन्नाचयः, निश्चलस्निग्धतारकेण निश्चला-निःस्पन्दाः, स्निग्धाः-आर्द्रा च, तारकाकनीनिका यस्य यस्मिन् वा तादृशेन, चक्षुषा नेत्रेण, सुचिरम् अतिदीर्घकालम् , अवलोक्य दृष्ट्वा, तदवलोकनप्रीतमनसा तद्दर्शनप्रसन्नहृदयेन, समीपवर्तिना पार्श्ववर्तिना, सामन्तलोकेन अधिकृतनृपजनेन, सह, बहुप्रकारम् अनेकप्रकारं यथा स्यात् तथा, आरब्धतद्वीर्यगुणस्तुतिः आरब्धा-प्रारब्धा, तीर्यगुणानां-तत्पराक्रमगुणानाम् , स्तुतिः-प्रशंसा येन तादृशः, तस्मिन्नेव प्रदेशे राजकुमारावस्थितिप्रदेशे, मुहूर्तमानं क्षणमात्रम् , अतिष्ठत् स्थितवान्, मेनापतिरिति शेषः। च पुनः, तद्वत्तान्तश्रवणसकुतूहल: नृपकुमारवृत्तान्तश्रवणे, सकुतूहल:-सोत्कण्ठः, निपुणतरमपि
Page #75
--------------------------------------------------------------------------
________________
तिलकमञ्जरी । चैतन्यालिङ्गितं नाद्राक्षीत, तदाऽस्य चामरग्राहिणीमप्राक्षीत्- 'बालिके ! कथय कोऽयम् , कस्य वाऽपत्यम् , किमभिधानः, किंनिमित्तमनपेक्षितात्मविनिपात: पतङ्ग इव पावके सहसैवास्मत्सैन्ये प्रविष्टः, किमर्थमसमर्थसहायेनानेन साहसप्रायमिदमतिदुष्करं कर्माध्यवसितम् , कया प्रत्याशया शक्तेनापि शत्रुवधकर्मणि न कृतो दिवस एवाभियोगः, किं फलमभिलष्य निर्व्याजपौरुषेणाप्यङ्गीकृतः क्षुद्रक्षत्रियलोकसूत्रितः साप्तिकयुद्धमार्गः' [य] । सैवमापृष्टा सेनाधिपेन किमपि ध्यात्वा परामृष्टनयनबाष्पसलिला विलोक्याभिमुखमन्तदुःखावेगपिशुनमत्यायतं निःश्वस्य च शनैरवादीत्-'महाभाग! किं कथयामि मन्दभाग्या, कीडशोऽयमिदानी कथ्यते, गता खल्वस्तमस्य कथा, कथ्यमानापि कीदृशी भवत्येतदवस्थस्यास्य पूर्वावस्था, तथापि श्रूयताम्-- एष खल्वशेषद्वीपावनीपालमौलिमालामलनदुर्ललितपादयुगलस्य युगायतभुजप्राकाररक्षितनिजक्षितेरवधीरितविषधरेन्द्रोप्रवदननिःश्वासविषवेगेनागणितकालकूटज्वालाटोपेनानपेक्षितरामविशिखशिखिशिखाडम्बरेणाविज्ञात
अवधानातिशयपूर्वकमपि यथा स्यात् तथा, व्यापारितया प्रेरितया, उश्या चक्षुषा, यदा यस्मिन् काले प्रतिपक्षपक्षे शत्रुपक्षे, कमपि एकमपि, पुरुष, चैतन्यालिहितं चैतन्यवन्तम् , न, अद्राक्षीत् दृष्टवान् , तदा अस्य राजकुमारस्य, चामरग्राहिणी चामरवाहिनी दासीम् , अप्राक्षीत् पृष्टवान् , किमित्याह-बालिके! भो बाले !, कथय ब्रूहि, कोऽयम् अयं राजकुमारः कः ?, वा अथवा, कस्य अपत्यं पुनः?, किमभिधानः किन्नामा?, किंनिमित्तं कस्माद्धेतोः, पावके अग्नौ, पतङ्ग इव, अनपेक्षितात्मविनिपातः अनपेक्षितः उपेक्षितः, आत्मविनिपातः-खविनाशो येन तादृशः, सहसैव अविविच्यैव, अस्सत्सैन्ये अस्मत्सेनामध्ये, प्रविष्टः आपतितः, किमर्थम् किमुद्दिश्य, असमर्थसहायेन असमर्थः-शक्तिशून्यः, सहायो यस्य तादृशेन, अनेन राजकुमारेण, साहसप्रायम् अविवेकप्रयुक्तम् , अतिदुष्करम् अत्यन्तकठिनम् , इदं, कर्म कार्यम् , अध्यवसितं कर्तुं विचारितम् ?, कया प्रत्याशया सम्भावनया, शत्रुवधकर्मणि रिपून्मूलनात्मककार्ये, शक्तेन समर्थनापि, दिवस एव दिनमध्य एव, अभियोगः सङ्घर्षः, न कृतः ?, किं फलं के परिणामम् , अभिलष्य उद्दिश्य, निर्व्याजपौरुषेणापि वास्तविकपराक्रमशालिनापि, अनेनेति शेषः, क्षुद्रक्षत्रियलोकसूत्रितः क्षुदै:-राजनीतिज्ञानशन्यैः, क्षत्रियलोकैः-क्षत्रियजनैः, सूत्रितः-रचितः, सौप्तिकयुद्धमार्गः सुप्तिकालिकस्य-रात्रिकालिकस्य, युद्धस्य, मार्गःरीतिः, अङ्गीकृतः स्वीकृतः ? [य]। एवम् अनेन प्रकारेण, उक्तप्रकारेणेत्यर्थः, सेनाधिपेन सेनापतिना, आपृष्टा समन्ताजिज्ञासां ज्ञापिता, सा चामरग्रहिणी बालिका, किमपि किञ्चित् , ध्यात्वा विचिन्त्य, परामृष्टनयनबाष्पसलिला परामृष्टानि-प्रोग्छितानि, नयनयोः, बाष्यसलिलानि-अश्रुजलानि यया तारशी सती, अभिमुखं सम्मुखम् विलोक्य निरीक्ष्य, च पुनः, अन
। हार्दिकवेदनातिशयसूचकम् , अत्यायतम आंतदीर्घ यथा स्यात् तथा, निःश्वस्य निःश्वासं कृत्वा, शनैः मन्दम् , अवादीत् उक्तवती । किमिलाह-महाभाग ! हे महोदय !, मन्दभाग्या तुच्छभाग्या, अहमिति शेषः, किं कथयामि किमुत्तरयामि, अतिदुःखाकुलतया न किमपि वक्तुमहीमीत्यर्थः । इदानीम् अस्मिन् विपदवसरे, अयं नृपकुमारः, कीदृशः कथम्भूतावस्थः, कथ्यते वर्ण्यते, खलु निश्चयेन, अस्य राजकुमारस्य, कथा वार्ता, अस्तं विनाशम्, गता प्राप्स्यति। एतदवस्थस्य एषा-मरणरूपा, अवस्था यस्य तादृशस्य, अस्य नृपकुमारस्य, कथ्यमानापि वर्ण्यमानापि, पूर्वावस्था पुरातनवृत्तम् , कीडशी कथम्भूता, दुःखावहेत्यर्थः, भवति सम्पद्यते । तथापि तादृश्यपि, श्रूयतां श्रवणगोचरीक्रियताम् । एषः अयम् , खलु निश्चयेन, सिंहलद्वीपभर्तुः सिंहलाख्यो यो द्वीप:-जलमध्यवर्तिस्थलप्रदेशः, तद्भः-तदधिपतेः, महानरेन्द्रस्य महानृपतेः, अतिसमृद्धनृपतेरित्यर्थः, चन्द्रकेतोः तन्नामकस्य, आत्मजः औरसपुत्रः, समरकेतुः तत्संज्ञकः, अस्तीति शेषः, नामेति वाक्यालङ्कारे । कीदृशस्य ? अशेषद्वीपावनीपालमौलिमालामलनदर्ललितपादयगलस्य अशेषाः-समस्ता ये. द्वीपानां-जलमध्यवर्तिस्थलप्रदेशानाम्, अवनीपाला:-नृपाः, तन्मौलिमालाना-तन्मस्तकस्थमालानाम्, तन्मुकुटपक्कीनां वा, मलनेनसम्पर्केण, दुर्ललितं-सङ्घर्षणदुःखेन, ललित-सुन्दरम्, पादयुगलं-चरणद्वयं यस्य तादृशस्य पुनः युगायतभुज. प्राकाररक्षितनिजक्षितेः युगो नाम वृषस्कन्धारोप्यरथावयवविशेषः, तद्वद् आयतो-दीघौं यौ, भुजा-बाहू, तद्रूपेण
२८ तिलक.
प
Page #76
--------------------------------------------------------------------------
________________
२१८
टिप्पनक-परागविवृतिसंवलिता वाडवदहनदाहवेदनावेगेन जलनिधिनाऽप्यसोढनौतत्रपरिवृढप्रयाणसंमर्दस्य समदसैन्यकरिविषाणकोणविघटितत्रिकूटकटकभित्तेरवस्कन्दपातभीतेनेव सर्वदा शरीषु विहितप्रचारेण नक्तञ्चरचक्रवर्तिना लकेश्वरेणापि सततमभिशङ्कितोत्साहस्य सिंहलद्वीपभर्तुमहानरेन्द्रस्य चन्द्रकेतोरात्मजः सर्वातिशायिना भुजवीर्यविलसितेनास्त्रशिक्षाकौशलेन च विस्मायितसकलपार्थिवः पार्थवत् पृथिव्यामेकधन्वी समरकेतुर्नाम [२] । सोऽयं महाबलतया बाल एवाधिगतयौवराज्याभिषेकः सकलसागरान्तरालद्वीपविजिगीषया गतोऽपि दूरमतिसत्वरः पितुराज्ञया राज्ञोऽस्य कुसुमशेखरस्य साहायकं कर्तुमासन्नवर्तिभिः कतिपयैरेव नृपतिभिरनुप्रयातः काश्चीमनुप्राप्तः । स्थितश्चात्र पञ्चषाण्यपि दिनानि दूनचेतोवृत्तिः, अद्य तु प्रातरेव हेतुना केनापि विधृतोदारशृङ्गारवेषः परि
प्राकारेण-दुर्गेण, खबाहुबलेनेत्यर्थः, रक्षिता-पालिता, निजक्षितिः-खभूमियेन तादृशस्य; पुनः जलनिधिनापि समुद्रेणापि, असोढनौतन्त्रपरिवृढप्रयाणसम्मर्दस्य असोढः-अकृतसहनः, नौतन्त्रस्य-नौकासाध्यस्य, परिवृढस्य-प्रधानभूतस्य, प्रयाणस्य-प्रस्थानस्य, सम्मदः-आक्रमणं यस्य तादृशस्य, समुद्रयात्रोपकरणसंपद्विशिष्टस्येत्यर्थः; कीदृशेन जलधिना? अवधीरितविषधरेन्द्रोग्रवदननिःश्वासविषवेगेन अवधीरितः-तिरस्कृतः, विषधरेन्द्रस्य-महासर्पस्य, खाधःस्थितशेषनागस्येत्यर्थः, उग्रो वदननिःश्वासविषवेगः-मुखनिःसूतपवनविषवेगो येन तादृशेनापि, पुनः अगणितकालकटज्वालाटोपेन अगणितःतुच्छत्वधियोपेक्षितः, कालकूटस्य-“देवासुररणे देवैईतस्य पृथुमालिनः। दैत्यस्य रुधिराज्जातस्तरश्वत्थसन्निभः ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः।" इत्यन्यत्रोक्तनिर्यासरूपविषविशेषस्य, ज्वालाटोपः-ज्वालातिशयो येन तादृशेनापि, पुनः अनपेक्षितरामविशिखशिखिशिखाडम्बरेण अनपेक्षितः-उपेक्षितः, रामस्य-दाशरथेः, विशिखशिखिनः-बाणरूपामेः, शिखाडम्बर:-ज्वालाविस्तारो येन तादृशेनापि, पुनः अविज्ञातवाडवदहनदाहवेदनावेगेन अविज्ञातः अननुभूतः, अवझातेति पाठे-अवज्ञातः-तिरस्कृतः, वाडवदहनस्य-वाडवाग्नेः, दाहवेदनायाः-तापजन्यदुःखस्य, आवेग:-औत्कटयं येन तादृशेनापि । पुनः कीदृशस्य चन्द्रकेतोः ? समदसैन्यकरिविषाणकोणविघटितत्रिकूटकटकभित्तेः समदाना-सगर्वाणाम् , सैन्यकरिणा-सेनासमवेतहस्तिनामू, विषाणकोणैः-दन्ताग्रभागः, विघटिता-विश्लेषिता, त्रिकूटस्य-लङ्कासन्निहितसुवेलाख्यगिरेः, कटकभित्तिः-नितम्बरूपभित्तिर्येन तादृशस्य; अत एव लङ्केश्वरेणापि रावणेनापि, सततम् अनवरतम् , अभिशडितोत्साहस्य अभिशद्वितः-आशङ्कितः, उत्साहः-संग्रामोत्साहो यस्य तादृशस्यः कीदृशेन । भीतेनेव अवस्कन्दः-सैन्यसन्निवेशस्थानम् , तस्य-तदुपलक्षितसैन्यस्य यः पातः-तत्कर्तृकमाक्रमणम् , तद्भीतेनेव, सर्वदा . सर्वस्मिन् दिने, शर्वरीषु रात्रिमध्य एव, विहितप्रचारेण कृतविहारेण, अत एव नक्तञ्चरचक्रवर्तिना रात्रिचराधिपेन, राक्षससम्राजेत्यर्थः, स्वाभाविकेऽपि तदीयरात्रिञ्चरत्वे हेतुविधया तद्भयोत्प्रेक्षाऽत्र बोध्या। कीदृशः समरकेतुः ? सर्वातिशायिना - सर्वोत्कृष्टेन, भुजवीर्यविलसितेन बाहुविक्रमविलासेन, च पुनः, अस्त्रशिक्षाकौशलेन अस्त्रविद्यानैपुण्येन, विस्मायितसकलपार्थिवः विस्मायिताः-आश्चर्यमनुभाविताः, सकलाः-समस्ताः. पार्थिवाः-राजानो येन तादृशः पुनः पार्थवत पार्थः-अर्जुनः, तद्वत् , पृथिव्यां जगति, एकधन्वी अद्वितीयधनुर्धरः [र] । सः अनुपदवर्णितविक्रमः, अयं पुरो दृश्यमानः कुमारः, महाबलतया अतिपराक्रमशालितया; बाल एव वाल्यावस्थ एव, अधिगतयौवराज्याभिषेका अधिगतः-प्राप्तः, यौवराज्याय यौवनावस्थोचितराजकार्यकरणाधिकारार्थ, अभिषेक:-विधिना स्नानं येन तादृशः सन् , सकलसागरान्तरालद्वीपविजिगीषया सकलाः-समस्ता ये, सागरान्तरालद्वीपाः-समुद्रमध्यस्थस्थलप्रदेशाः, तजि. गीषया-तजयेच्छया, दूरं दूरस्थानम् , गतोऽपि प्राप्तवानपि, पितुः जनकस्य, आशया आदेशेन, अस्य प्रत्यक्षभूतस्य, कुसुमशेखरस्य तत्संज्ञकस्य, राक्षः नृपस्य, साहायकं साहाय्यम् , कर्तुम् आचरितुम् , आसन्नवर्तिभिः, पाववर्तिभिः, कतिपयैः परिमितेः, नृपतिभिः राजभिः, अनुप्रयातः अनुसृतः, काञ्ची तदाख्यनगरीम् , अनुप्राप्तः आगतः । च पुनः, दूनचेतोवृत्तिः सन्तप्तमनोवृत्तिः, अत्र काञ्चीनगर्याम् , पञ्चपाण्यपि पञ्च वा षड् वेति पञ्चषाणि, तावन्त्यपि, दिनानि, स्थितः स्थितिम काषीत् । अद्य तु अस्मिन् दिने तु, प्रातरेव प्रभातकाल एव, केनापि केनचित्, हेतुना निमित्तेन, विधृतोदारशृङ्गारवेषः विकृतः-परिगृहीतः, उदार:-साटोपः, शृङ्गारवेषः-शृङ्गाररसानुगुणवेषो येन
Page #77
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२१९
मितैरेव सह सुहृद्भिर्नरेन्द्रभवनोद्यानभूषणं गतः स्मरायतनम् , आसीनश्च तस्य द्वारदेशे विशन्तमनवरतमन्तरुपरतनिमेषेण चक्षुषा निरीक्षमाणो नगरनारीजनं स्थितो दिनमशेषम् [ल], अवसितायां च यात्रायामधिकतरमारूढगाढारतिः कारयित्वा मकरकेतोः पुरः सरोजिनीपत्रशयनम् , 'इहैव मयाद्य शयनीयम्' इत्युदीर्य विसर्जितासन्नपरिजनः केनापि विधिनातिवाह्य प्रदोषमागत्य चार्धरात्रसमये शिविरमकस्मादेव सज्जीकृतसकलनिजबलः, 'कुमार! नायं क्रमो नयस्य' इति विनिवार्यमाणोऽपि मत्रिभिः, 'युवराज ! विरम्यतामितो दुरध्यवसायात्' इति निरुध्यमानोऽपि बन्धुभिः, 'कल्याणिन् ! अङ्गीक्रियतां यात्रालग्नम्' इति निवर्त्यमानोऽपि मौहूर्तिकैः, 'देव ! प्रतिपाल्यतामनुपाति सैन्यम्' इति विज्ञाप्यमानोऽपि प्रधानलोकेन, 'विद्वन् ! निवेद्यतां कुसुमशेखरस्य' इति वारं वारमभिधीयमानोऽपि विबुधवर्गेण, निर्गतः काश्या आकृष्यमाणश्च व्यसनैषिणा पुरो विधिना प्रणिधिनेवानाप्तेन प्राप्तो भुवमिमामवस्थां च [व]। इत्येत्रमावेदयन्यामेव तस्यामुपजातदुःखावेगेव प्रगलिततारका तनिमानमभजत रजनिः, अमरीभूतसुभटनिर्दयाश्लिष्टसुरवधूहारमुक्तमौक्तिक
तादृशः सन्, परिमितैरेव परिगणितैरेव, सुहृद्भिः मित्रः सह, नरेन्द्रभवनोद्यानभूषण राजप्रासादनिकटस्थितारामालङ्करणभूतम् , स्मरायतनं कामदेवमन्दिरम् , गतः प्राप्तः। च पुनः, तस्य कामदेवमन्दिरस्य, द्वारदेशे अन्तःप्रवेशप्रदेशे, आसीनः उपविशन्, उपरतनिमेषेण निवृत्तस्पन्दनेन, चक्षुषा, अनवरतं निरन्तरम् , अन्तःविशन्तम् अन्तः प्रवेशं कुर्वन्तम् , नगरनारीजनं नागरिकस्त्रीजनम् , निरीक्षमाणः अवलोकमानः, अशेष समस्तं, दिनम् , स्थितः स्थितिमकार्षीत् [ ल] । यात्रायां कामदेवमन्दिरयात्रोत्सवे, अवसितायां समाप्तायाम् , अधिकतरम् अत्यधिक यथा स्यात् तथा, आरूढगाढारतिः आरूढाः-उत्पन्ना, गाढा-सान्द्रा, अरतिः-खेदो यस्य तादृशः, मकरकेतोः कामदेवस्य, पुरः अग्रे, सरोजिनीपत्रशयनं कमलिनीपत्रमयीं शय्याम् , कारयित्वा निर्माप्य, अद्य अस्मिन् दिने, मया, इहैव अस्यामेव शय्यायाम् , शयनीयं शयनं कर्त्तव्यम् , इत्युदीर्य इत्युक्त्वा, विसर्जितासनपरिजनः दूरीकृतपार्श्ववर्तिपरिवारः सन् , केनापि अनिर्वाच्येन दुःखमयेनेत्यर्थः, विधिना प्रकारेण, प्रदोषं तद्रात्रिप्रथमभागम् , अतिवाह्य व्यतीत्य अर्धराघसमये रात्रिमध्यभागे, शिबिरं सैन्यसभिवेशस्थानम् , आगत्य, अकस्मादेव अकृतपूर्वविचारमेव, सजीकृतसकल निजबलः सज्जीकृत--सज्जितम् , सकलं-समस्तम् , निजबलं-सैन्यं येन तादृशः, कुमार! भो नृपकुमार !, नयस्य नीतेः, अयं रात्रौ युद्धारम्भरूपः, क्रमः विधिः, न, इति एवम् , मन्त्रिमिः सन्चिवैः, विनिवार्यमाणोऽपि गमनानिवय॑मानोऽपि, पुनः युवराज !, इतः अस्मात् , दुरध्यवसायात् असमीचीनोद्योगात् , विरम्यतां त्वया निवृत्यताम् . इति एवम् , बन्धुभिः श्रात्रादिभिः, निरुध्यमानोऽपि निवार्यमाणोऽपि, पुनः कल्याणिन् ! कल्याणशालिन् !, यात्रालग्नं युद्धार्थ प्रस्थाने शुभजनको राशीनामुदयः, अङ्गीक्रियतां पर्यालोच्यताम् , तत्पर्यालोचनं विना न गभ्यतामित्यर्थः, इति एवम् , मौहूर्तिकः मुहूर्तः, निवर्त्यमानोऽपि अवरुध्यमानोऽपि, पुनः देव ! राजन् !, अनुपाति खानुगामि, सैन्य सेना, प्रतिपाल्यतां प्रतीक्ष्यताम्, इति एवम् , प्रधानलोकेन प्रधानजनेन, विज्ञाप्यमानोऽपि निवेद्यमानोऽपि, पुनः विद्वन् ! विवेकशालिन् !, कुसुमशेखरस्य तत्संज्ञकस्य राज्ञः, निवेद्यतां विज्ञाप्यताम् , सर्वमुक्तपूर्वमिति शेषः, इति एवम् , विबुधवर्गेण विज्ञवर्गेण, अभिधीयमानोऽपि उच्यमानोऽपि, काश्याः तन्नान्या नगर्याः, निर्गतः निष्कान्तः। च पुनः, अनाप्तेन अविश्वस्तेन, प्रणिधिनेव चरजनेनेव, व्यसनैषिणा दुःखाभिलाषिणा, विधिना देवेन, पुरः अग्रे, आकृष्यमाणः बलादुपनीयमानः, इमां, भुवं भूमिम् , अवस्थां दुर्दशां च प्राप्तः [व] 1 इति इत्थम् , तस्यां वालिकायाम् , आवेदयन्त्यामेव कथयन्त्यामेव सत्याम् , उपजातदुःखावेगेव उत्पन्नवेदनातिशयेव, अंगलिततारका नष्टतारका, स्जनिः प्रकृतरात्रिः, तनिमानं कायम् . शेषावस्थामित्यर्थः अमजत प्राप्तवती । पुनः गगनतलम् आकाशतलं कर्तु, अमरीभूतसुभटनिर्दयाश्लिष्टसुरवधूहारमुक्तमौक्ति कविसरमिव अमरीभूतैः-युद्धे मृत्वा अमरतामापनैः, सुभटैःसुयोधैः, निर्दयं-गाढं यथा स्यात् तथा, आश्लिष्टानाम्-आलिङ्गितानाम् , सुरवधूना-देवानानाम् , हारेभ्यः-मुक्तामाल्येभ्यः,
Page #78
--------------------------------------------------------------------------
________________
२२०
टिप्पनक-परागविवृतिसंवलिता विसरमिव तुहिनजलबिन्दुनिकरं ववर्ष गगनतलम , अरुणालोकतरलितानि वेतालवृन्दानीव तिरोबभूवुस्तिमिराणि, रणभूमिशोणितावलोकनत्रस्त इव पाश्चात्यशैलशिखरे स्वलद्विकलपादः पपात तारापतिः, आसक्तबालारुणप्रभाप्रभावपिहितवीर्यः सिंहलेन्द्रसूनुरिव निमिमील नक्षत्रराशिः, उत्सृष्टतरुकुलायकोटराणि प्रशान्तप्रहारभयानीव विरतयोधशरवृष्टिसावकाशे विहायसि व्यचरन्ननाकुलानि पञ्जरथकुलानि, अपवर्गचलितवीरवर्गभिन्नसूर्यमण्डलरुधिरप्रवाह इव पूर्व दिग्भागमरुणीचकार सन्ध्यारागः, भयानकाजिभूमिदर्शनोपजातत्रासा इव सुदूरमपससुराशाः, दिङ्मुखस्रस्ततनुतमिस्रविश्रान्तविरलतारका शोकलम्बितालकलनबाष्पजललवा द्रविडराजलक्ष्मीव तत्क्षणं रराज रजनिः, व्याजविजितसिंहलेन्द्रसुतपराभवरोषित इव पुरस्तादुल्ललास
टिप्पनकम्-आसक्तबालारुणप्रभाप्रभावपिहितवीर्यः एकत्र बालारुणः-बालादित्य सारथिः, अन्यत्र बालारुणम्-अङ्गुलीयकम् [श] ।
मुक्तं-घ्युतम् , मौक्तिकविसरमिव-मुक्तामणिसमूहमिव, तुहिनजलबिन्दुनिकरं हिमजलबिन्दुसन्दोहम् , ववर्ष वर्षयति स्म, पुनः वेतालवृन्दानीव व्यन्तरविशेषसमूहा इव, अरुणालोकतरलितानि अरुणस्य-सूर्यसारथेः, आलोकेन-दर्शनेन, तरलितानि-चञ्चलतामापन्नानि, तिमिराणि अन्धकाराः, तिरोबभव तिरोभवन्ति स्म । पुनः रणभमिशोणिताव लोकनत्रस्त इव रणभूमौ-संग्रामक्षेत्रे, यानि शोणितानि तेषामवलोकनेन-दर्शनेन, त्रस्त इव-भीत इव, पादः स्खलन्तः-स्खलनमासादयन्तः, विकलाः-विरलाः, पादाः-किरणा यस्य तादृशः, तारापतिः चन्द्रः, पाश्चात्यशैलशिखरे पश्चिमपर्वतशृङ्गे, पपात पतितः, असं गत इत्यर्थः । पुनः सिंहलेन्द्रसूनुरिव सिंहलेन्द्रस्य-सिंहलद्वीपनृपतेश्चन्द्रकेतोः, सूनुः-कुमारः, समरकेतुरिव, आसक्तबालारुणप्रभाप्रभावपिहितवीर्यः आसक्ता-सम्पृक्ता, या बालारुणस्य-उदयकालिकसूर्यस्य, पक्षे तत्संज्ञकाङ्गुलीयकस्य, प्रभा-द्युतिः, तस्याः प्रभावेनतेजसा पिहितं, वीर्य-सामर्थ्य यस्य तारशः, नक्षत्रराशिः तारागणः, निमिमिल सङ्कुचितः, तिरोबभूव इत्यर्थः। पुनः उत्सृष्टतरुकुलायकोटराणि उत्सष्टानि-प्रभातवेलायामुज्झितानि, तरुकुलायकोटराणि-वृक्षसम्बन्धीनि नीडात्मकगहराणि यैस्तादृशानि, पत्ररथकुलानि पक्षिवृन्दानि, प्रशान्तप्रहारभयानीव प्रशान्तं-निवृत्तम्, प्रहारेभ्यः-अस्त्राघातेभ्यो भयं येषां तादृशानीव, अत एव अनाकुलानि प्रशान्तचित्तानि सन्ति, विरतयोधशरवृष्टिसावकाशे विरताभिः-निवृत्ताभिः, योधानां-भटानाम् , शरदृष्टिभिःशरवर्षाभिः, सावकाशे-अवकाशसहिते, विहायसि आकाशे, व्यचरन् विचरन्ति स्म । पुनः अपवर्गचलितवीरवर्गभिन्नसूर्यमण्डलरुधिरप्रवाह इव अपवर्गचलितेन-युद्धे मृत्वा मोक्षार्थ प्रस्थितेन, वीरवर्गेण-भटगणेन. भिन्नं-कृतभेदनम् , यत् सूर्यमण्डलं-सूर्यविम्बं तस्य, रुधिरप्रवाह इव-शोणितप्रवाह इव, सन्ध्यारागः प्रातःसन्ध्याकालिकाकाशसम्बन्धिरक्तद्युतिः, पूर्व दिग्भागं पूर्वदिगंशम् , अरुणीचकार रञ्जयामास, पुनः भयानकाजिभूमिदर्शनोपजातत्रासा इव भयानिकाया:-भयजनिकायाः, आजिभूमेः-संग्रामभूमेः, दर्शनेन, उपजात:-उत्पन्नः, त्रासः-भयं यासा तादृश्य इव, आशाः दिशः, सुदरम् अतिदूरम्, अपसम्रः अपसूताः, रात्री निरन्तराधिकारव्याप्ततया दिशः समीपस्थाः प्रतिभान्ति, दिवा त्वन्धकारसम्बन्धाभावाद् दूरवर्तिन्य इति वस्तुस्थितिः । पुनः दिखस्नस्ततनुतमिस्त्रविश्रान्तविरलतारका दिमुखेभ्यः-दिगग्रभागेभ्यः, स्रस्तानि-पतितानि, अपमृतानीति यावत् , तनूनि -कृशानि, यानि तमिस्राणि-अन्धकाराः, तेषु विश्रान्ताः-कृतावस्थानाः, विरलाः-कतिपयाः, सान्तरा इत्यर्थः, तारका:-नक्षत्राणि यस्यां तादृशी, रजनिः रात्रिः, तत्क्षणं तत्कालम्, शोकलम्बितालकलग्नबाष्पजललवा शोकेन-रिपुकृतपराजयखेदेन, लम्बितेषु-सस्तेषु, अलकेषु-केशेषु, लग्नाः-स्थिताः, बाष्पजललवा:-अश्रुजलकणा यस्यास्तादशी, द्रविडराजलक्ष्मीरिव द्रविडस्य-तदाख्यया विख्यात. दाक्षिणात्यदेशविशेषस्य, यो राजा तलक्ष्मीरिव, रराज प्रतिभाति स्म। पुनः व्याजविजितसिंहलेन्द्रसुतपराभवरोषित इव व्याजेन-छलेन, विजितस्य-पराजितस्य, सिंहलेन्द्रसुतस्य-सिंहलद्वीपनृपकुमारस्य, पराभवेन-दुःखेन, रोषित इव-क्रोधित इव, लोहितायमानवपुः रत्तीभूतशरीरः, उष्णदीधितिः सूर्यः, पुरस्तात् अने, उल्ललास उल्लसति स्म, उदित
Page #79
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२२१ लोहितापमानवपुरुष्णदीधितिः [श] । एवं च प्रवृत्ते प्रत्यूषसि विपक्षविजयाभिलाष इव विलीने तमसि, प्रसरति दिगन्तरेषु देवस्य प्रताप इव पातङ्गे महसि सहसैव प्रत्यबोधि सकलमपि तद्विरोधिसैन्यम् । आसावपि कुमारः प्रनष्टनिद्राविकारो 'वज्रायुध ! मा विषादं व्रज, विश्रब्धमेहि, न तावत् प्रहरामि यावश्च त्वया न प्रहृतम्' इत्यविशदाक्षरं पूर्ववासनावशेन व्याहरन् सुचिरनिद्राविमर्दजडपुटोदरमुदमीलयदीक्षणयुगलम् । अवलोक्य च पुरः परिवेष्टितरथमरातिलोकमात्मानं च तदवस्थमुपजातगुरुविषादो लज्जया पुनर्मोहान्धकारमविक्षत् [ष।
सेनापतिरपि तेन तस्यातर्कितेनासंभावनीयेनादृष्टपूर्वेण प्रत्युज्जीवनेन जनितविस्मयः प्रहर्षमन्दतारकेणानन्दजलबिन्दुसेकादिव विकसता नयनारविन्दद्वयेनोद्भासमानस्तत्कालमासादितमहालाभमिव प्राप्तसकलकल्याणमिव समृद्धाखिलकाममिव फलिताशेषगुरुजनाशिषमिव कृतार्थमात्मानं मन्यमानो मुहूर्त स्थित्वा तस्मिन् क्षमे भयतरलेक्षणस्य विपक्षकक्षीकृतस्वामिदर्शनविषण्णबुद्धेरन्धीभूतसकलदिशः कान्दिशीकस्य शत्रुलोक
टिप्पनकम्-कान्दिशीकः-भयद्रुतः [स]।
इत्यर्थः [श]। एवं च अनेन प्रकारेण च, प्रत्यूषसि प्रभाते, प्रवृत्ते प्रारब्धे, विपक्षविजयाभिलाष इव रिपुपराजयमनोरथ इव, तमसि अन्धकारे, विलीने नष्टे सति । पुनः देवस्य भवतः, प्रताप इय प्रभाव इव, पातडे पतङ्कः-सूर्यः, तत्सम्बन्धिनि, महसि तेजसि, दिगन्तरेषु दिमध्येषु, प्रसरति विस्तारमासादयति सति, सहसैव शीघ्रमेव, तद्विरोधिसैन्यं तद्विपक्षसैन्यम् , प्रत्यबोधि अजागरीत् । असौ प्रकृतः, कुमारोऽपि नृपात्मजोऽपि, प्रनष्टनिद्राविकारः क्षीणनिद्रादोषः सन् , जागरितः सन्निति यावत् , वज्रायुध! तत्संज्ञकसेनापते !, विषादं खेदम् , मा ब्रज न प्राप्नुहि । विस्रब्धं सविश्वासं यथा स्यात् तथा, एहि आगच्छ । तावत् तावत्कालपर्यन्तम् , न प्रहरामि बाणप्रहारं करोमि, स्वया, यावत् यावत्कालपर्यन्तम् , न प्रहृतं प्रहारः कृतः, इति इत्थम् , अविशदाक्षरम् अविशदानि-अव्यक्तानि, अक्षराणि यस्मिंस्तादृशं यथा स्यात् तथा, पूर्ववासनावशेन मूच्र्छाप्राकालिकसंस्कारवशेन, व्याहरन् कथयन् , सुचिरनिद्राविमर्दजडपुटोदरं सुचिरनिदायाः-चिरकालिकनिद्रायाः, विमर्दैन - व्याप्त्या, जडं-निष्पन्दम् , पुटयोःनेत्रपुटयोः, उदरं-मध्यं यस्य तादृशम् , ईक्षणयुगलं नेत्रद्वयम् , उदमीलयत् उन्मीलितवान् । च पुनः, पुरः अग्रे, परिवेष्टितरथं परिवेष्टितः-आक्रान्तो रथो येन, पक्षे यस्य तादृशम् , अरातिलोकं शत्रुजनम् , आत्मानं च खं च, तदवस्थं शत्रुमध्यपतितम् , अवलोक्य दृष्ट्वा, उपजातगुरुविषादः उत्पन्नमहाविषादः, लज्जया लजावशेन, पुनः मोहान्धकारं मूरूिपान्धकारम् , अविक्षत् प्रविष्टवान् , प्राप्तवानित्यर्थः [ष ]॥
सेनापतिरपि बजायुधोऽपि, मुहूर्त क्षणम् , स्थित्वा स्थिरो भूत्वा, तस्मिन् दुर्घटनामये, क्षणे, समन्तात् सर्वतः, अभयप्रदानपटहं शत्रुसैनिकभयाभावद्योतकवाद्यविशेषम् , शत्रुलोकस्य शत्रुजनस्य, आश्वसनार्थम् आश्वासनफलकम् , अदापयत् दापितवान् , वादितवानित्यर्थः । कीदृशः ? तस्य नृपकुमारस्य, तेन अनुपदमुपवर्णितेन, अतर्कितेन आकस्मिकेन, असम्भावनीयेन सम्भावयितुमप्यशक्येन, अदृष्टपूर्वेण पूर्व क्वचिददृष्टेन, प्रत्युज्जीवनेन पुनरुजीवनेन, जनितविस्मयः उत्पन्नाश्चर्यः; पुनः प्रहर्षमन्दतारकेण प्रहर्षेण-अतिहर्षेण, मन्दे तारके-कनीनिके यस्मिंस्तादृशेन, तथा आनन्दजलबिन्दुसेकादिव आनन्दजलबिन्दुभिः सेचनादिव, विकसता विकासमासादयता, नयनारविन्दछयेन नयनरूपकमलद्वयेन, उद्भासमानः प्रकाशमानः; पुनः तत्कालं तत्क्षणम् , आसादितमहालाभमिव प्राप्तमहालाभमिद, पुनः प्राप्तसकलकल्याणमिव आसादिताशेषशुभमिव, पुनः समृद्धाखिलकाममिव सम्पन्नसमस्ताभिलाषमिव, पुनः फलिताशेषगुरुजनाशिषमिव फलिताः-सफलतां गताः, अशेषाः-समस्ताः, गुरुजनानां श्रेष्ठलोकानाम् , आशिषः शुभकामना यस्मिंस्तादृशमिव, आत्मानं खं, कृतार्थ सिद्धार्थ मन्यमानः । कीदृशस्य शत्रुलोकस्य ? भयतरलेक्षणस्य भयचञ्चलनेत्रस्य; पुनः विपक्षकक्षीकृतखामिदर्शनविषण्णबुद्धः विपक्षेन-हरिवाहनसैन्यजनेन, कक्षीकृतस्य-बद्धस्य, खामिनो दर्शनेन विषण्णा-विषादप्रस्ता बुद्धिर्यस्य तादृशस्य; पुनः अन्धीभूतसकलदिशः अन्धीभूताः-अन्धकारव्याप्ताः,
Page #80
--------------------------------------------------------------------------
________________
२२२
टिप्पनक-परागविवृतिसंवलिता स्याश्वासनाथं समन्तादभयप्रदानपटहमदापयत् [स] | तदीयसारग्रहणोद्यतं चात्मसैनिकलोकं न्यवारयत्। आसन्नसरिति निर्वर्तितस्नानक्रियश्च दत्त्वा संगरसमाप्तप्राणेभ्यो बान्धवेभ्यः प्रणयिभ्यश्च शोकदीर्घश्वासतरलिततिलोदकं निवापाञ्जलिम् , आदिश्य चायुधप्रहारक्षतमर्मणामरातियोधानामौषधकर्मण्याप्तजनम् , अधिरह्य च ससंभ्रमाधोरणोपनीतं प्रधानजयवारणम् , आरोप्य पुरः प्रत्यग्रयशःसुधाधवलवपुषमभ्युदयमङ्गलकलशमिव सिंहलाधिपसुतम् , आरब्धयुद्धकथालापवाचालेन प्रणयिना राजपुत्रलोकेनानुगम्यमानः शनैः शनैः शिबिरमागमत् [ह] । क्रमेण चासाद्य निजभवनमुपपादितसमस्ततत्कालोचितकरणीयो निर्वर्तितप्रत्यवसानादिकर्मणः समरकेतोरभ्यन्तर एव स्थितिमकल्पयत् । अधिशयिततल्पस्य च परिचारक इव स्वयं व्रणपट्टबन्धनादिक्रियामन्वतिष्ठत् । आप्तचिकित्सितप्रारब्धोपचारं च तमनतिचिरेणैव प्रगुणीभूतवपुषं प्रशस्तेऽहनि सातमुपनिमय सादरममात्यैर्बन्धुभिः सुहृद्भिरपरैश्च प्रधानपुरुषैः सहितमात्मगृहमानयत् [क्ष] । कृतभोजनोपचारं च तं
सकला दिशो यस्य तादृशस्य; पुनः कान्दिशीकस्य को दिशं गच्छामीत्याहेति कान्दिशीकस्तस्य, भयपलायितस्येत्यर्थः [स] । च पुनः, तदीयसारग्रहणोधतं तदीयानां-तत्सम्बन्धिनाम् , साराणां-प्रधानवस्तूनाम् , ग्रहणाय, उद्यतम्-उत्सुकम् , आत्मसैनिकलोकं स्वसैनिकजनम् , न्यवारयत् तद्ग्रहणानिवारितवान् । च पुनः, आसन्नसरिति निकटनद्याम् , निर्वर्तितस्त्रानक्रियः सम्पादितस्त्रानात्मकक्रियः, संगरसमाप्तप्राणेभ्यः संगरे-संग्रामे, समाप्ताः-नष्टाः, प्राणा येषां तादृशेभ्यः, बान्धवेभ्यः बन्धुजनेभ्यः, च पुनः, प्रणयिभ्यः प्रियजनेभ्यः, शोकदीर्घश्वासतरलिततिलोदकं शोकेन-विश्लेषदुःखेन, दी| यः श्वासः-मुखनासावायुः, तेन तरलितं--चञ्चलितम् , तिलोदकं-तिलमिश्रितजलं यत्र तादृशम् , निवापाञ्जलिं मृतोद्देशेन निर्मिताञ्जलिम् , दत्त्वा । च पुनः, आयुधप्रहारक्षतमर्मणाम् आयुधप्रहारेण-बाणाघातेन, क्षतानि-व्रणितानि, मर्माणि-मर्मस्थलानि येषां तादृशानाम् , अरातियोधानां शत्रुभटानाम् , औषधकर्मणि चिकित्साकायें, आप्तजनं विश्वस्तजनं शिष्टजनं वा, आदिश्य नियुज्य । च पुनः, ससम्भ्रमाधोरणोपनीतं ससम्भ्रमेण-सत्वरेण, आधोरणेन हस्तिपकेन, उपनीतम्-उपस्थापितम् , प्रधानजयवारणं प्रधानभूतं जयोपकरणहस्तिनं जयोत्तरमारोहणीयगजं वा, आरुह्य । च पुनः, अभ्युदयमङ्गलकलशमिव अभ्युदयाय-उन्नतये, यो मङ्गलकलश:-मालार्थघटः, तमिव-तं यथा पुरः स्थापयति तथेत्यर्थः, प्रत्यग्रयशःसुधाधवलवपुषं प्रत्यग्रम्-अभिनवं यद् यशः, तद्रूपाभिः सुधाभिः-अमृतैः, धवलं-खच्छम् , वपुः-शरीरं यस्य तादृशम् , सिंहलाधिषसुतं सिंहलद्वीपनृपकुमारम् , पुरः अग्रे, आरोग्य स्थापयित्वा, उपवेश्येत्यर्थः । आरब्धयुद्धकथालापवाचालेन आरब्धा-प्रारब्धा, या युद्धकथा-युद्धवार्ता, तदालापवाचालेन-तदाभाषणमुखरेण, प्रणयिना नेहास्पदेन, राजपुत्रलोकेन राजकुमारजनेन, अनुगम्यमानः अनुत्रियमाणः, शनैः शनैः मन्दं मन्दम् , शिविरं सैन्यसन्निवेशस्थानम् , आगमत् आगतवान् । [ह ] | च पुनः, क्रमेण ऋमिकगल्या, निजभवनं
दम् , आसाद्य प्राप्य, उपपादितसमस्ततत्कालोचितकरणीयः उपपादितानि-सम्पादितानि, समस्तानिसर्वाणि, तत्कालोचितानि-तत्कालयोग्यानि, करणीयानि-कर्तव्यानि येन तादृशः सन् , निर्वर्तितप्रत्यवसानादिकर्मणः कृतभोजनादिकार्यस्य, समरकेतोः तत्संज्ञकस्य नृपकुमारस्य, अभ्यन्तर पव पार्श्व एव, स्थितिम् अक्स्थानम् , अकल्पयत् अकरोत् । च पुन:, अधिशयिततल्पस्य अधिशयितं-शयनार्थमधिष्ठितम् , तल्पं-शव्या येन तादृशस्य, तस्य नृपकुमारस्य, स्वयं स्वयमेव, परिचारक इव सेवक इव, व्रणपट्टवन्धनादिक्रियां व्रणानाम्-अस्त्राघातकृतशरीरक्षतानाम् , पट्टबन्ध• नादिक्रियां-वस्त्रविशेषवेष्टमादिकार्यम्, अन्वतिष्ठत् अनुष्ठितवान् । च पुनः, आप्तचिकित्सितप्रारब्धोपचारम
आप्तेन-विश्वस्तेन शिष्टेन वा, यत् चिकित्सित-चिकित्सनम्, तेन प्रारब्धः, उपचारः-परिचर्या यस्य तादृशम् , अत एवं अनतिचिरेणैव अतिशीघ्रमेव, प्रगुणीभूतधपुषं प्रबलीभूतशरीरम् , प्रशस्ते शुभावहे, अहनि दिने, स्नातं कृतस्नानम् , तं नृपकुमारम् , उपनिमन्त्र्य ससन्मानमाहूय, आमात्यैः मत्रिभिः, बन्धुभिः भ्रात्रादिभिः, सुहृद्भिः मित्रैः, अपरैः अन्यश्च, प्रधानपुरुषः प्रधानजनेः, सहितम्, सादरम आदरपूर्वकम्, आत्मग्रहं स्वगृहम, आनयत आनीतवान् [क्ष] । च पुनः, कृतभोजनोपचारं कृतः, भोजनरूप उपचारः-सेवा यस्य तादृशम् , तं नृपकुमारम् , वितीर्ण
Page #81
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२२३
वितीर्णकुसुमविलेपनवसनालङ्कारमुपनीत विविधव स्त्रवाहनं प्रत्यर्पिताहवगृहीतनिःशेषकरितुरङ्गस्यन्दनं च विधाय विनोद्य च मुहूर्तम रतिच्छेदकारिभिः कथालापैरभिमुखो भूत्वा कृताञ्जलिरवादीत्--- 'कुमार ! सकलजगदेकवीरस्य करदीकृताशेषसागरान्तरद्वीप भूपतेर्विपक्षव्यसन सङ्कटगतैर्महद्भिरपि भूमिपालैरपेक्षणीयसाहाय्यकस्य चतुरुदधिविख्यातपार्थिवप्रथम सूनोः कथचिद् विधिवशाद् गृहायातस्य परेण परिकल्पितात्पवृत्तिरस्मद्विधो जनः किं ते प्रियं करोतु, केन वा कृतेनोपचारेण प्रीतिमधिगच्छतु । तथापि यद्यनुग्रहबुद्धिरस्मासु तदेतदङ्गीकुरु सततमादेशकारिणा समीपदेशस्थितेन मया प्रतिपन्नसकलपृथ्वी व्यापारभरनिराकुलो मदीयमाधिपत्यपदम्, अथ तुच्छमिति मन्दाभिलाषस्तदा स परिजन इतो गत्वा तदेव पित्रा प्रतिपादितमतिप्राज्यवैभवमध्यास्स्व निजमेव यौवराज्यम्, मा च मन्येथा यथाहमेतेन निर्जित्य विहितानुग्रहः कथमिदं करोमि, कोऽहं तब पराजये, धृताधिज्यधन्वानमन्योऽपि किमस्ति जगति यस्त्वां समरकर्मणा करोति विमुखम् । यत्तु मुख्यै
कुसुमविलेपनवसनालङ्कारं वितीर्णानि - समर्पितानि कुसुमानि-पुष्पाणि विलेपनानि - चन्दनादिद्रव्याणि वसनानि-वस्त्राणि, अलङ्काराः - आभूषणानि च यस्मै तादृशम्, पुनः उपनीतविविधवस्त्रवाहनम् उपनीतानि - उपस्थापितांनिदत्तानीत्यर्थः, विविधानि-अनेकप्रकाराणि, वस्त्रानि वाहनानि च यस्मै तादृशम् पुनः प्रत्यर्पिता हवगृहीतनिःशेषकरितुरङ्गस्यन्दनं प्रत्यर्पिताः - प्रत्यावर्त्तिताः, आहवे- रणे, गृहीताः आयत्तीकृताः, करिणः - हस्तिनः, तुरङ्गाः - अश्वाः, स्यन्दनाःरथा यस्मै तादृशम् विधाय कृत्वा, व पुनः, मुहूर्त क्षणम्, अरतिच्छेदकरिभिः पराजयग्लानिविनाशिभिः, कथालापैः वार्तालापैः, विनोद्य विनोदमनुभाव्य, अभिमुखः सम्मुखो भूत्वा कृताञ्जलिः रचिताञ्जलिः, अवादीत् उक्तवान्; सर्वत्र सेनापतिरिति शेषः । किमित्याह - कुमार ! समरकेतो !, परेण अन्येन, परिकल्पिताल्पवृत्तिः परिकल्पिता - सम्पादिता, अल्पा-परिमिता, वृत्तिः - जीविका यस्य तादृशः, अस्मद्विधः अस्मादृशो जनः, ते तब, किं प्रियम् अभीष्टम् करोतु सम्पादयतु, न किमपि कर्तुमर्हतीत्यर्थः । कीदृशस्य ते ? सकलजगदेकवीरस्य सकलेसमस्ते, जगति एकवीरस्य- अद्वितीयवीरस्य पुनः करदीकृताशेषसागरान्तरद्वीपभूपतेः करदी कृताः- करदायकत्वमापादिताः, अधिकृता इति यावत्, अशेषाः समग्राः सागरान्तरद्वीपानां समुद्र मध्यवर्तिद्वीपानाम्, भूपतयः -- नृपतयो येन तादृशस्य; पुनः विपक्षव्यसनसङ्कटगतैः विपक्षव्यसनैः - शत्रुकृतदुःखैः, यत् सङ्कटं - दुःखस्थितिः, तद्गतैः- तत्प्राप्तैः, महद्भिरपि श्रेष्ठैरपि समृद्धैरपीत्यर्थः, भूमिपालैः नृपैः, अपेक्षणीय साहाय्यकस्य अपेक्षणीयम् आश्रयणीयम्, साहाय्यम्उपकारो यस्य तादृशस्य; पुनः चतुरुदधिविख्यातपार्थिवप्रथम सूनोः चतुर्णाम् उदधीनां समुद्राणां समाहारः चतुरुदधि, तत्र - तत्परिच्छिन्नभूमण्डल इत्यर्थः, विख्यातः - प्रसिद्धो यः पार्थिवः - चन्द्रकेतुः, तस्य प्रथमसूनोः - ज्येष्ठपुत्रस्यः पुनः विधिवशाद् दैवयोगात्, कथञ्चित् केनापि प्रकारेण महता कष्टेनेत्यर्थः, गृहायातस्य मगृहातिथितामापन्नस्य । वा अथवा, कृतेन विहितेन, फेन उपचारेण सेवया, प्रीतिं प्रसादम् अधिगच्छतु प्राप्नोतु । तथापि भवत्प्रियकरणा सम्भवेऽपि अस्मासु अस्मद्विषये यदि अनुग्रहबुद्धिः दयादृष्टिः, अस्तीति शेषः, तत् तर्हि, सततं सर्वदा, आदेशकारिणा आज्ञाकारिणा, समीपदेशस्थितेन पार्श्वस्थितेन, मया वज्रायुधेन प्रतिपन्नसकल पृथ्वी व्यापारभरनिराकुलः प्रतिपन्नः - स्वीकृतो यः सकलायाः - समप्रायाः, पृथ्व्याः, व्यापारभरः - शासन कार्यजातम् तेन निराकुल:स्वस्थः सन् एतत् इदम् मदीयं मत्सम्बन्धि, आधिपत्यपदं चतुरङ्गसेनाध्यक्षपदम् अङ्गीकुरु स्वीकुरु । अथ यदि, तुच्छं तत् पदं न्यूनमिति हेतोः मन्दाभिलाषः मन्दः शिथिलः, अभिलाषः- तत्कामना यस्य तादृशः, त्वमसीति शेषः, तदा तर्हि, सपरिजनः सपरिवारः, इतः अस्मात् स्थानात्, गत्वा, पित्रा चन्द्रकेतुना, प्रतिपादितं दत्तम्, अतिप्राज्यवैभवम् अतिप्राज्यम् - अत्यधिकम्, वैभव - धनसम्पत्तिर्यस्मिंस्तादृशम्, निजं स्वकीयम्, यौवराज्यमेव युवराजत्वपदमेव, अध्यास्स्व अधितिष्ठ । च पुनः, मा मन्यथा न मन्यख यथा यत्, एतेन अनेन, निर्जित्य पराजित्य, विहितानुग्रहः कृतानुग्रहः, अहं कथं केन प्रकारेण इदं यौवराज्यकार्यम् करोमि सम्पादयामि । तव रणवीरस्य, पराजये पराजयकार्ये, अहं कः अकिञ्चित्करत्वान्न कोऽपीत्यर्थः । जगति लोके, अन्योऽपि मदन्योऽपि,
Page #82
--------------------------------------------------------------------------
________________
२२४
टिप्पनक-परागविवृतिसंवलिता नृपतिभिः समं समकालमेव नीत्वा वश्यतामिहानीतोऽसि, स तु प्रभावोऽन्यस्य कस्यचित् , अथवा किमनेन दूरस्थोऽपि दृष्टमात्रेण येन प्रनष्टसकलचेष्टस्तदा समिति संजातोऽसि तदेव ते प्रकटमुपदर्शयामि' इत्युदीर्य तत्कालमादिष्टनिकटराजलोकढौकितमनेकमहाप्रभावमाणिक्यखचितमुद्रमङ्गुलीयकरत्नमप्रतो दर्शयन् 'कुतः प्राप्तमेतत्' इति पृष्टश्च देवस्य शक्रावतारगमनात् प्रभृति पूर्ववृत्तं ज्वलनप्रभदेववृत्तान्तमखिलमपि राजलक्ष्मीस्वस्थानगमनपर्यवसानं यथाश्रुतमकथयत् [ज्ञ] । - सोऽपि तच्छ्रुत्वा किंचिदुपशान्तचिन्तासंज्वरः शत्रुभुजयलोत्कर्षसंभावनाकृतामवज्ञाबुद्धिमात्मनि श्लथामकरोत् । अब्रवीच-'दण्डाधिप ! बाढमावर्जितोऽहममुना दूरविनिवारिताहङ्कारप्रवेशपेशलेन त्वदीयसौजन्येन । सदृशनिन्दाप्रशंसो मुनिरपि क ईदृशमात्मगुणापलापबद्धकक्षमरातिपक्षोत्कर्षवर्णनामुखरमखिलराजलोकसमक्षमुल्लपति, यादृक् त्वया सकलदिगन्तविश्रुतपराक्रमेण दक्षिणापथचक्रवर्तिना गदितम् । न केवलमव्याहतप्रसरया बाणसंहत्या महत्तयापि ते तिरस्कृतं भुवनमेतत् । कथमिव न प्रशस्यते स राजा देवराज
अस्ति किम् ? नास्ति कोऽपीत्यर्थः, यः समरकर्मणा संग्रामक्रियया, धृताधिज्यधन्वानं धृताकृष्टधन्वानम् , त्वां विमुखं परावृत्तम् , करोति कुर्यात् । यत् तु यत् पुनः, मुख्यैः प्रधानः, नृपतिभिः राजभिः, समं सह, समकालमेव एककालमेव, इह अत्र, वश्यतां पराधीनताम् , आनीतोऽसि प्रापितोऽसि, स तु अन्यस्य मदतिरिक्तस्य, कस्यचित वस्तुनः, प्रभावः महिमा । अथवा अनेन केवलतत्प्रभावप्रतिपादनेन, किम् अलम् , दूरस्थोऽपि दूरे विद्यमानोऽपि, त्वमिति शेषः, दृष्टमात्रेण केवलमवलोकनेन, येन वस्तुना, तदा तस्मिन् काले, समिति युद्धे, प्रनष्टसकलचेष्टः विलीनाखिलचेष्टाशक्तिकः, मूछित इत्यर्थः, सातोऽसि संवृत्तोऽसि, तदेव वस्तु, ते तुभ्यम् , प्रकटं स्फुटम् , उपदर्शयामि दृष्टिगोचरतामापादयामि । इत्युदीर्य इत्युक्त्वा, तत्कालं तत्क्षणम् , आदिष्टनिकटराजलोकढौकितम् आदिष्टेन-आज्ञप्तेन, निकटराजलोकेन-पार्श्ववर्तिनृपजनेन, ढौकितम्-आनीतम् , अनेकमहाप्रभावमाणिक्यखचितमुद्रम् अनेकानि यानि महाप्रभावाणि-परमप्रभावशालीनि, माणिक्यानि-रत्नविशेषाः, तैः खचिता-व्याप्ता, मुद्रा-आकृतिविशेषो यस्य तादृशम् , अङ्कलीयकरत्नम् अकुल्यलकरणरत्नम्, अग्रतः अग्रे, अदर्शयत् दर्शितवान् । च पुनः, एतत् पुरोवर्ति अङ्गुलीयकरत्नम् , कुतः कस्मात् , प्राप्तं लब्धमिति पृष्टः जिज्ञासा ज्ञापितः, देवस्य भवतः, शक्रावतार. गमनातू प्रभृति तदाख्यतीर्थगमनादारभ्य, राजलक्ष्मीस्वस्थानगमनपर्यवसानं राजलक्ष्म्या यत् खस्थानगमन तत्पर्यन्तम् , पूर्ववृत्तं पूर्वनिष्पन्नम् , अखिलमपि अशेषमपि, ज्वलनप्रभदेववृत्तान्तं ज्वलनप्रभसंज्ञकदेवसमाचारम् , यथाश्रुतं श्रुतमनतिक्रम्य, अकथयत् कथितवान् [श]। सोऽपि नृपकुमारोऽपि, तद् उक्तवृत्तम् , श्रुत्वा, किञ्चिदुपशान्तचिन्तासंज्वरः किञ्चिदुपशान्तः-किश्चिन्निवृत्तः, चिन्तारूपः संज्वरः-सन्तापो यस्य तादृशः, शत्रुभुजबलोत्कर्षसम्भावनाकृतां शत्रूणां-वैरिणाम् , भुजबलस्य-बाहुविक्रमस्य, य उत्कर्षः-प्रकर्षः, तत्सम्भावनाजनिताम् , आत्मनि खविषये, अघझाबुद्धिम् तिरस्कारदृष्टिम् , श्लथां शिथिलाम् , अकरोत् कृतवान् । च पुनः, अब्रवीत् उक्तवान् , किमित्याह-दण्डाधिप ! चतुरङ्गसेनाध्यक्ष ! अहम् , दूरनिवारिताहङ्कारप्रवेशपेशलेन दूरनिवारितेन, अहङ्कारप्रवेशेन-अभिमानोदयेन, यत् पेशलं-मनोहर तादृशेन, अमुना, त्वदीयसौजन्येन त्वत्सुजनतया, बाढम् अत्यन्तम् , आवर्जितः आनमितः । सदृश निन्दाप्रशंसः सदृश्यौ-तुल्ये, निन्दा-प्रशंसे यस्य तादृशः, मुनिरपि कः, ईदृशम् एवंविधम् , आत्मगुणापलापबद्धकक्षम् आत्मगुणानां-खगुणानाम् , अपलापे-अपहवे, बद्धा-कक्षा अन्तरीयपश्चादञ्चलो यस्मिंस्तादृशम् , पुनः अरातिपक्षोत्कर्षवर्णनामुखरम् अरातिपक्षस्य-शत्रुपक्षस्य, य उत्कर्षः-प्रकर्षः, तद्वर्णनया, मुखरं-वाचालं यथा स्यात् तथेति सर्व क्रियाविशेषणम् , अखिलराजलोकसमक्षं सकलनृपजनसमक्षम् , उल्लपति
लपति, न कोऽपीत्यर्थः, यादृक् यथा, सकलदिगन्तविश्रुतपराक्रमेण अखिलदिगन्तप्रसिद्धपराक्रमशालिना, पुनः दक्षिणापथचक्रवर्तिना दक्षिणदेशसम्राजा, त्वया, गदितम् उक्तम् । एतद् इदम् , भुवनं जगत् , केवलम् , अव्याइतप्रसरया अप्रतिहतप्रचारया, ते तव, वाणसंहत्या बाणसमूहेन, न तिस्कृतम् अभिभूतम् , किन्तु तादृश्या महत्त
Page #83
--------------------------------------------------------------------------
________________
२२५
विलकमञ्जरी। प्रभृतिभिः, यस्य वेश्मनि व्यवहरन्ति सद्यःकृवापकारे शत्रावपि वितीर्णप्राणसर्वस्वाः स्वभुजविक्रमोत्कीर्तनावसरेऽपि परकीयसामर्थ्यसमर्थनपरास्त्वद्विधा राज्यचिन्तकाः प्रधानसचिवाः । सर्वमुचितमनुचितं च करणीय मया त्वदीयवचनम् , केवलमिदानी न वक्तव्योऽहमन्यत् किमपि, यदि च पक्षपातबुद्धिर्मयि ततः किमनया, कुरु कृतार्थ मे चक्षुः, तमेव दर्शय प्रीतिविस्तारितेक्षणवदनेन वज्रिणा त्रिदशसंसदि स्तुतगुणमसमसाहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रममपेतरजसं राजर्षिम् , उपजाततर्षोऽहमतितरां तदङ्गियुगलावलोकने [अ]। इति वदन्तं च तं प्रीतहृदयो दण्डाधिपः प्रत्यवादीत्-'कुमार! यद्येवमद्यैव कुरु प्रस्थानम्' इत्युदीर्य निरवद्येऽह्नि शिक्षयित्वा बहुप्रकारमनुचरीकृतप्रचुरपदातिचक्रेण कृत्वा मया सततकृतसेवं देवपादान्तिकमजीगमत्। सोऽहमादाय तमुदप्ररभसं प्रस्थितः पथि वहन्नहरहः प्रयाणैरलघुभिर्विलचितानेकनगरपामजनपदः क्रमेणास्या
यापि महिनापि । स राजा देवराजप्रभृतिभिः इन्द्रादिभिः, कथमिव कस्मादिव, न प्रशस्यते स्तूयते, प्रशस्यत एवेत्यर्थः । यस्य राज्ञः, वेश्मनि गृहे, त्वद्विधाः भवादृशाः, राज्यचिन्तकाः राज्यचिन्तनपराः, प्रधानसचिवाः मुख्यमत्रिणः, व्यवहरन्ति योगक्षेमौ निर्वहन्ति । कीदृशाः? सद्यःकृतापकारे तत्क्षणविहिताप्रिये, शत्रावपि रिपावपि, वितीर्णप्राणसर्वस्वाः वितीर्ण-समर्पितम् , प्राणरूपं सर्वस्वं-सर्वधनम् , सर्वधनेभ्योऽप्यतिप्रियाः प्राणा इत्यर्थः, यदा प्राणाः सर्पखं च यस्तादृशाः; पुनः स्वभुजविक्रमोत्कीर्तनावसरेऽपि निजबाहुबलवर्णनवेलायामपि, परकीयसामर्थ्यसमर्थनपराः परस्य-शत्रोरिद परकीयं तस्य, सामर्थ्यस्य-शक्तेः, समर्थने-श्लाघने, पराः-प्रवीणाः । उचितं योग्यम् , अनुचितम् अयोग्यं च, सर्व त्वदीयवचनं त्वत्सम्बन्धिकर्तव्यावेदकवाक्यम् , मया, करणीयं कर्तव्यं पालनीयमिति यावत् , केवलं किन्तु, अहम् , इदानीं सम्प्रति, अन्यत् अनुपदवक्ष्यमाणकार्यव्यतिरिक्तम् , किमपि कार्य,न वक्तव्यः कर्तव्यत्वमेव न ज्ञापनीयः । यदि, मयि मद्विषये, पक्षपातबुद्धिः उपकारदृष्टिः, वर्तत इति शेषः, तर्हि अनया निरुक्तवार्तया, अन्यया इति पाठेतु वार्तया इति शेषः, तथा च अन्यया वक्ष्यमाणकार्यान्यकार्यविषयिकया वार्तया, किम् अलमिति शेषः। मे मम, चक्षुः,
सफलम,कुरूसम्पादय, तम् वर्णितगुणम्, राजामेव मेघवाहनमेव, दशेयदृष्टिगोचरतामापादय । कीदृशम् । प्रीतिविस्तारितेक्षणवदनेन प्रीत्या-प्रेम्णा, विस्तारिते-विकासिते, ईक्षणे-नयने, वदनं-मुखं च येन तादृशेन, वज्रिणा इन्द्रेण, त्रिदशसंसदि देवसभायाम् , स्तुतगुणं प्रशंसितगुणम् ; पुनः असमसाहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रमम् असमेन-नास्ति समं सदृशं यस्य तादृशेन, असाधारणेनेत्यर्थः, साहसेन-अशक्यकार्यकारित्वेन, आवर्जितया-प्रसादितया,राजलक्ष्म्या-राजोपास्यलक्ष्मीदेव्या,दर्शितः-दृष्टिगोचरतामापादितः, प्रत्यक्षनिजरूपस्य-प्रत्यक्षखमूर्तेः, विभ्रमः-विलासो यस्मै तादृशम् । पुनः अपेतरजसं विगलितकलुषम् । अहं तदझियुगलावलोकने तसादद्वयदर्शने, अतितराम्, अत्यन्तम् , उपजातहर्षः उत्पन्नाभिलाषः, अस्मीति शेषः [अ] । इति इत्थम् , वदन्तं कथयन्तम् , तं नृपकुमारम्, प्रीतहृदयः प्रसनहृदयः, दण्डाधिपः चतुरगसेनाध्यक्षः, वज्रायुध इति यावत् , प्रत्यवादीत् प्रत्युकवान् । किमित्याइ-कुमार! समरकेतो !, यदि एवम् इत्थमभिलष्यसि, तर्हि अद्यैव प्रस्थानं तत्पार्श्वप्रयाणं कुरु, इत्युदीर्य इत्युक्त्या, निरषद्ये प्रशस्ते, अहानि दिवसे, यहुप्रकारं बहवः प्रकाराः प्रभेदा यस्मिस्तादृशं यथा स्यात् तथा, शिक्षयित्वा तयोग्यकार्यक्रममुपदिश्य, अनुचरीकृतप्रचुरपदातिचक्रेण अनुचरीकृतम्-अनुगामितां नीतं सेवकतामापादितं वा, प्रचुराणां-बहूनाम्, पदातीना-पादगामिनाम्, चक्र-समूहो येन तादृशेन, मया, सततकृतसेवं सततम्-अनवरतम् , कृता सेवा यस्य तादृशम् , कृत्वा सेवयित्वेत्यर्थः, समरकेतुमिति शेषः, देवपादान्तिकं देवस्य-भवतः, पादयोः पार्श्वम्, अजीगमत मद्वारा प्रेषितवान् , सेनापतिरिति शेषः । सः गृहीततदानयनभारः, अहं विजयवेगः, उदभ्ररभसं प्रकृष्टवेगम्, तं समरकेतुम् , आदाय गृहीत्वा, प्रस्थितः कृतप्रयाणः, पथि मार्गे, वहन् तं गमयन् , अहरहः प्रतिदिनम् , अलघुभिः दीर्घः, प्रयाणैः यात्राभिः, क्रमेण प्रयाणक्रमण, विलजितानेकनगरप्रामजनपद: बिलकितानि-अतिक्रान्तानि, अनेकानि-बहूनि, नगराणि-"पुण्यक्रियादिनिपुणैश्चातुर्वण्यैर्जनैर्युतम् । अनेकजातिसम्बद्ध नैकशिल्पिसमाकुलम् ॥ सर्वदैवतसम्बई नगरं तदभिधीयते ।" इत्यन्यत्रोतलक्षणानि, प्रामा:-"विप्राश्च विप्रमृत्याश्च यत्र चैव वसन्ति हि। स तु प्राम इवि प्रोतः
२९ तिलक.
Page #84
--------------------------------------------------------------------------
________________
२२६
टिप्पनक-परागविवृतिसंवलिता मनन्तरातीतायां विभावयमिह नगर्यां प्रविष्टः । दृष्टं चाद्य पुण्योदयेन चिरकालाभिकासितदर्शनं चरणकमलद्वयं देवस्य, एतां च दिव्याङ्गुलीयकप्रभावावेदनप्रसङ्गागतामवनिपतिराकर्ण्य विजयवेगतो वज्रायुधसमरकेतुसमरवार्तामास्थानवर्तिना नरपतिसमूहेन सहितः परं विस्मयमगच्छत् । अव्याजशौर्यावर्जितश्च न तथा लब्धविजये सुहृदि बज्रायुधे यथा विपक्षे समरकेतौ बबन्ध पक्षपातम् । तथाहि-अस्य चिन्तयन्नचिन्तितात्मपरसैन्यगुरुलाघवां मनस्विताम् , विभावयन्नेकरथेन कृतमहारथसमूहमध्यप्रवेशां साहसिकताम् , विचारयन् विधृतपौरुषप्रकर्षमरातिपरिभाषणेष्वरोषपरुषमालापविभ्रमम् , अवधारयन्ननादरनिरस्त्रीकृतनिखिलपरचक्रनायकं सायकव्यापारमतिचिरमतिष्ठत् । अनुरागतरलितश्च तत्रैव गत्वा तं द्रष्टुमिव परिष्वमिव संभाषयितुमिवाभ्यर्चितुमिव स्वपदेऽभिषेक्तुमिव चेतसा भिलषितवान् , दर्शनोत्सुकश्च पुनरवोचत्'विजयवेग! कास्ते स सिंहलेश्वरसूनुः कदा च सोऽस्मान् द्रक्ष्यति । स जगाद-'देव ! स शक्रावतारोद्यानसंनिधिरमणीये सरय्वाः परिसरे निवेशितशिबिरस्तिष्ठति । दर्शनं तु यदैव देवः प्रसीदति तदैव करोति ।
शूद्राणां वास एव वा ॥" इत्यन्यत्रोक्तलक्षणाः, जनपदा:-देशाच येन- तादृशः, अस्यां हृदि वर्तमानायाम् , अनन्तरातीतायाम् अव्यवहितपूर्वव्यतीतायाम् , विभावर्या रात्रौ, इह अस्थां, मगर्याम् अयोध्यायाम् , प्रविष्टः कृतप्रवेशोऽभूवम् । च पुनः, पुण्योदयेन सुकृतविपाकेन, चिरकालाभिकाशितदर्शनं चिरकालं-दीर्घकालम् , अभिकाक्षितम्-अभिलषितम् , दर्शनं यस्य तादृशम् , देवस्य भवतः, चरणकमलद्वयं पादपद्मयुगलम् , अद्य अस्मिन् दिने, दृष्टं दृष्टिगोचरीकृतम् । अवनिपतिः मेघवाहननृपतिः, दिव्याङ्गुलीयकप्रभावावेदनप्रसङ्गागतां दिव्यं-मनोहरम यद् अङ्गुलीयकं-लक्ष्मीदेवीदत्तमगुलिभूषणम् , तत्प्रभावावबोधनप्रसङ्गेनोत्थिताम् , एताम् इमाम् , वज्रायुध-समरकेत
माख्यायिकाम् , विजयवेगतः तदाख्यवज्रायुधप्रधानपुरुषात्, आकर्ण्य श्रुत्वा, आस्थानवर्तिना सभावर्तिना, नरपतिसमूहेन राजगणेन, सहितः, परम् अत्यन्तम् , विस्मयम् आश्चर्यम् , अगच्छत् प्राप्तवान् । च पुनः, अन्याजशौर्यावर्जितः अव्याजेन-कपटरहितेन, वास्तविकेनेत्यर्थः, शौर्येण--वीर्येण, आवर्जितः-आह्लादितः सन् , लब्धविजये प्राप्तविजये, सुहृदि मित्रे, वज्रायुधे तदाख्यसेनापतौ, तथा तादृशम् , पक्षपातं प्रीतिम् , न बबन्ध कृतवान् , यथा यादृशम् , विपक्षे शत्रावपि, समरकेतौ तदाख्यनृपकुमारे । शौर्यमुपदर्शयति-तथाहीति । अस्य समरकेतोः, अचिन्तितात्मपरसैन्यगुरुलाघवाम् अचिन्तिते-अनालोचिते, आत्मपरसैन्ययोः-खसैन्य-शत्रसैन्ययोः. गुरुलाघवे-बलाबळे यया तादृशीम्, मनखितां खाभिमानिताम् , चिन्तयन् विचारयन् ; पुनः एकरथेन एकेनैव रथेन, कृतमहारथसमूहमध्यप्रवेशां कृतः, महारथानां-विशालरथानाम् , समूहस्य मध्ये प्रवेशो यया तादृश्चीम् , साहसिक
रकमेकारिताम्, विभावयन् निरूपयन् पुनः अरातिपरिभाषणेषु रिपुजनकर्मकाहानविषयेषु, विधता पौरुषप्रकर्ष विधृतः-व्यजयविधया आश्रितः, आविष्कृत इत्यर्थः, पौरुषप्रकर्षः-पराक्रमोत्कर्षो येन तादृशम् , पुनः अरोषपरुषं रोषजन्यपारुष्यरहितम् , आलापविभ्रमम् आभाषणविलासम्, विचारयन् आलोचयन् । पुनः अनादरनिरस्त्रीकृतनिखिलपरचक्रनायकम् अनादरेण-तिरस्कारेण, निरस्त्रीकृताः-अनशून्यतामापादिताः, परचक्रस्य-शत्रुराष्ट्रस्य, नायका येन तादृशम् , सायकव्यापारं बाणविक्षेपम् , अवधारयन् निश्चिन्वन् ; अतिचिरम् अतिदीर्घकालम् , अतिष्ठत स्थितवान् । च पुनः, अनुरागतरलितः अनुरागेण-प्रीत्या, तर लितः-चञ्चलतापनः, तत्रैव यत्र समरकेतुरासीत् तस्मिनेव स्थाने, गत्वा, तं समरकेतुम् , द्रष्टुमिव निरीक्षितुमिव, पुनः परिष्वङ्गमिव आलिङ्गितुमिव, पुनः सम्भाषयितुमिव आलापयितुमिव, पुनः अभ्यर्चितुमिव अभिपूजयितुमिक, स्वपदे स्वाधिष्ठितराज्यासने, अभिषेक्तुमिव अभिषेकं कर्तुमिव, चेतसा हृदयेन, अभिलषितवान् अभिलषति स्म । च पुनः, दर्शनासुका दर्शनार्थमुत्कण्ठितः सन् , पुनः भूयोऽपि, अवोचत् उक्तवान् , विजयवेग! भो विजयवेग!, सः त्वयेहानीतः, सिंहलेश्वरसूनुः सिंहलद्वीपतृपकुमारः, व कुत्र स्थाने, आस्ते तिष्ठति, कदा कस्मिन् काले, सः तृपकुमारः, अस्मान् , द्रक्ष्यति दृष्टिगोचरीकरिष्यति । स विजयवेगः, जगाद प्रत्युक्तवान् । किमित्याह-देव! राजन् !, शक्रावतारोधानसन्निधिरमणीये शक्रावतारस्य-तदाख्यतीर्थविशेषस्य, यद्यानम्-आरामः, तत्सनिधिना-तत्सामीप्येन, रमणीये-मनोहरे, सरय्वा: सरयूनद्याः, परिसरे प्रान्ते, तटप्रदेश
Page #85
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२२७ तच्छ्रुत्वा नरपतिरासन्नवर्तिनमत्युदारवेषं साकारवपुषमभ्यर्हितमशेषस्यापि परिग्रहस्य महत्सु कार्येषु व्यापारणीय हरदासनामानं महाप्रतीहारमाकारणाय तत्क्षणमेव तस्य प्राहिणोत् । स गत्वा सपरिवारस्तदायासे कृतसमुचितोपचारो बहुप्रकारोपवर्णितनरेन्द्रानुरागनिर्वृतं कृताञ्जलिपुटस्तं राजकुलमानिनाय, प्रावेशयञ्च दर्शितप्रश्रयातिरेकोऽभ्यन्तरम् [आ]। प्रविष्टं च तं धृतविदग्धोज्जवलवेषकतिपयाप्तपदातिपरिवृतम् , आलोकनोपजातसंक्षोभसरभसापसृतेन द्वारवर्तिना राजलोकेन दीयमानमार्गम् , अग्रयायिना विनयपेशलालापेन दौवारिकजनेनागम्यमानम् , आत्मप्रतिबिम्बकैरिव समानरूपैः समानवयोभिः समानवसनालङ्कारधारिभिरव्यभिचारिभिः प्रधानराजपुत्रैः परिवृतम् , उपान्तप्ररूढकल्पपादपविटपमिव नवपारिजातपोतम् , दिगन्तरव्यापिना कुवलयदलश्यामलेन वदेहप्रभासंतानेन तिरोहितसर्वाकारम् , अम्बुराशिजलमध्यवर्तिनं मैनाकमिव विभाव्यमानम् , अनवरतमुन्मिषता निसर्गस्निग्धेन कर्णपूरमौक्तिकस्तवकेन कृत्तिकापुञ्जेनेव कुमारशब्द
इत्यर्थः, निवेशितशिबिरः रचितसैन्यावासः, तिष्ठति वर्तते । देवः भवान् , यदैव यस्मिन्नैव काले, प्रसीदति वर्तमान समीपे भविष्यति, प्रसन्नो भवेत् , तदैव तस्मिन्नेव काले, दर्शनं करोति कुर्यात् । तत् तदुक्तम् , श्रुत्वा श्रवणगोचरीकृत्य, नरपतिः मेघवाहनः, तत्क्षणमेव तत्कालमेव, तस्य नृपकुमारस्य, आकारणाय-आह्वानाय, हरदासनामानं सत्संज्ञकम् , महाप्रतीहारं प्रधानद्वारपालम् , प्राहिणोतु प्रेषितवान् । कीदृशम् ? आसन्नवर्तिनं पाश्ववर्तिनम् , पुनः अत्युदारवेषम् अत्युज्वलवेषम् । पुनः साकारवपुषम् आकारेण-मनोहरावयवसंस्थानेन सहितम्, वपुः-शरीरं यस्य तादृशम् , शरीरे साकारत्वस्य नियतत्वेनात्रोपादानसामर्थ्यादाकारपदस्य सुन्दराकारपरत्वं बोध्यम् ; पुनः अशेषस्यापि समग्रस्थापि, परिग्रहस्य परिजनस्य, अभ्यर्हितं माननीयम्; पुनः महत्सु असाधारणेषु, कार्येषु, व्यापारणीयं नियोज्यम् । स हरदासः, सपरिवारः परिजनसहितः, तदापासे तृपकुमारावासे, गत्वा उपस्थाय, कृतसमुचितोपचारः कृतः-अनुष्ठितः, समुचितः-योग्यः, उपचारः-सेवा येन तादृशः सन् , बहुप्रकारोपवर्णितनरेन्द्रानुरागनिर्वृतं बहुभिः प्रकारैः उपवर्णितेन-व्याख्यातेन, नरेन्द्रस्य मेघवाहननृपतेः, अनुरागेण-प्रेम्णा, निर्वृतं-प्रसन्नम् , तं नृपकुमारम् , कृताञ्जलिपुटः रचिताजलिपुटः, राजकुलं मेघवाहनराजधानीम् , तपार्श्वमित्यर्थः, आनिनाय आनीतवान् । च पुनः, दर्शितप्रश्रयातिरेकः प्रकटितप्रेमातिरेकः, अभ्यन्तरं राजगृहाभ्यन्तरम् , प्रावेशयत् प्रवेशितवान् [आ]। प्रविष्टं कृताभ्यन्तरप्रवे. शम् , तं प्रकृतम् , समरकेतुं तन्नामक नृपकुमारम् , क्षितिपतिः मेघवाहनो नृपः, अद्राक्षीत् दृष्टवान् । कीदृशम् ? धृतविदग्धोज्वलवेषकतिपयाप्तपदातिपरिवृतं धृतः-परिहितः, विदग्धः-मनोहरः, उज्वलः-निर्मलश्च, वेषो यस्तादृशैः, कतिपयैः परिगणितैः, आतैः विश्वस्तैः, पदातिभिः-पदगामिभिः, परिवृतं-परिवेष्टितम् । पुनः आलोकनोपजात. संक्षोभसरभासापसृतेन आलोकनेन-समरकेतोरवलोकनेन, उपजातः-उत्पन्नः, यः संक्षोभः-सम्भ्रमस्तेन सरभसापसृतेन सरभसं-सत्वरम् , अपमृतेन-पृथग्भूतेन, द्वारवर्तिना द्वारदेशस्थेन, राजलोकेन नृपजनेन, दीयमानमार्ग दीयमानःरितीक्रियमाणो मार्गो यस्य तादृशम् । पुनः अग्रयायिना अग्रगामिना, विनयपेशलालापेन विनयेन-नम्रतया, पेशल:रमणीयः, आलापः-आभाषणं यस्य तादृशेन, दौवारिकजनेन द्वारपालजनेन, आगम्यमानं मेघवाहनपा अनुगम्यमानमिति पाठे अनुस्रियमाणम् ; पुनः आत्मप्रतिबिम्बकैरिव खप्रतिविम्बभूतैरिव, समानरूपैः तुल्याकारः, समानवयोमिः तुल्यावस्थाकैः, समानवसनालङ्कारधारिभिः तुल्यवनालङ्कारशालिभिः, अव्यभिचारिभिः नियतसहचारिभिः, प्रधानराजपुत्रैः मुख्यनृपकुमारैः, परिवृतं परिवेष्टितम् ; पुनः उपान्तप्ररूढकल्पपादपविटपम् उपान्ते-निकटे, प्ररूढा-उत्पन्नाः, कल्पपादपस्य-कल्पवृक्षस्य, विटपा:-शाखा यस्य तारशम्, नवपारिजातपोतमिव नवंनवीनम् , पारिजातस्य-तदाख्यदेवतरोः, पोतं-शिशुमिव, बालपारिजातमिवेत्यर्थः, अत्र राजपुत्राणां कल्पवृक्षशाखात्वेन समरकेतो लपारिजासत्वेनोस्प्रेक्षा बोध्या; पुनः स्वदेहप्रभासन्तानेन खशरीरकान्तिकलापेन, तिरोहितसर्वाकारं तिरोहितसर्वावयवम् , कीदृशेन ? दिगन्तरव्यापिना दिङ्मध्यव्यापिना, पुनः कुवलयदलश्यामलेन कुमुदपत्रवत् कृष्णवर्णेन, पुनः अम्बुराशिजलमध्यवर्तिनम् अम्बूनां-जलानाम् , राशिः-समुद्रः, तजले मध्यवर्तिनम्, मैनाकमिव तदाख्य पर्वतमिव, विभाव्यमानं प्रतीयमानम् । पुनः अनवरतं निरन्तरम् , उन्मिषता उद्गच्छता, निसर्गस्निग्धेन स्वाभाविक
Page #86
--------------------------------------------------------------------------
________________
२२८
टिप्पनक-परागविवृतिसंवलिता विप्रलब्धेन कृतमुखालोकम् , हराट्टहासद्युतिहासिना दूरमुल्लसितेन हारप्रभावलयेन वक्षःस्थलनिवासिन्याः श्रियः क्षीरोदमिव दर्शयन्तम् , अतिबहलकेयूरपद्मरागांशुरञ्जितैश्चिरप्ररूढैरपि सरसैरिवारिशस्त्रप्रहारैः स्थपुटितोर:स्थलम् , तरुणतामरसताम्रतलस्य सविलासं प्रेङ्खतः पाणियुगलस्य विसर्पन्तीभिर्धवलनखदीधितिभिरम्बुधाराभिरिव सावष्टम्भचरणपातभरपीडितामुक्षन्तं क्षितिं क्षितिपतिः समरकेतुमद्राक्षीत् [इ]। दृष्ट्वा च संमुखचलितवदनो वारंवारमादरप्रणिहितप्रसादादृष्टिरासन्नसर्पिणा महाप्रतीहारेण कारितप्रणाममादरप्रणतिलग्नकुट्टिमोपहारकुसुमकिञ्जल्कशारीकृतशिरोरुहमे हीति दूरादेवाह्वयत् । उपसृत्य चरणान्तिके भूयः कृतप्रणामं च प्रेम्णातिदूरं प्रसारिताभ्यां भुजाभ्यामाकृष्याङ्कमारोपयत् । आश्लिष्टमुक्तं च तं विनयादनातससंभ्रमाधिकृतढौकितविकटवेत्रासनमासन्नोपविष्टमुन्नमितपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा निरीक्ष्य साचीकृतशिरोधरः
मेहास्पदेन खभावतो मसृणेन वा, कर्णपूरमौक्तिकस्तबकेन कर्णाभरणभूतमौक्तिकगुच्छेन, कृतमुखालोकं कृतः, मुखस्य, आलोक:-प्रकाशो यस्य तादृशम् , केनेव ! कुमारशब्दविप्रलब्धेन कुमारशब्देन-"पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः" इत्यादिकोशेषु कार्तिकेयपर्यायतया पठितेन समरकेतुबोधकेन शब्देन, निपलब्धेन-वपुत्रप्रत्यायनेन प्रतारितेन, कृत्तिकापुजेनेव पुत्रवात्सल्यादागतेन कार्तिकेयमातृभूतकृत्तिकास्यतारागगेनेवः पुनः हराट्टहासद्युतिहासिना हरस्यशिवस्य, योऽहासः महाहासः, तदीयद्युतिहासिना-तदीयकान्तितिरस्कारिणा, पुनः दूरमुल्लसितेन दूर यावदुद्भासितेन, हारप्रभावलयेन हारद्युतिमण्डलेन, वक्षःस्थलनिवासिन्याः उपास्यतया हृदयदेशवर्तिन्याः, श्रियः लक्ष्म्याः, क्षीरोदमिव क्षीरसागरमिव, दर्शयन्तं दर्शनेन प्रत्याययन्तम् । पुनः अतिबलकेयूरपारागांशुरञ्जितैः अतिबलैः-अतिप्रचुरैः, केयूरपदरागांशुभिः-केयूरस्थ-बाहुभूषणस्य, यः पद्मरागः-तदाख्यरक्तमणिविशेषः, तस्य अंशुभिः-किरणैः रञ्जितैः, रक्ततामापादितः, अतः चिरप्ररूढैरपि चिरकालोपजातैरपि, शुष्करपीत्यर्थः, सरसैरिव आरिव, अरिशस्त्रप्रहारैः शत्रुशस्त्रधातैः, स्थपुटितोरस्थालं स्थपुटितं-निनोमतीकृतम्, उरःस्थल-वक्षःस्थलं यस्य तादृशम् , पुनः तरुणतामरसताम्रतलस्य तरुणपरिणतम् , यत् तामरसं-रक्तपद्मम् , तद्वत् ताम्र-रतं, तलं-चपेटं यस्य तादृशस्य, सविलासं विलासपूर्वकं यथा स्यात् तथा, प्रेतः प्रचलतः, पाणियुगलस्य हस्तद्वयस्य, विसर्पन्तीभिः प्रसरन्तीभिः, धवलनखदीधितिभिः खच्छनखकिरगैः, अम्बुधाराभिरिव जलधाराभिरिव, सावष्टम्भचरणपातभरपीडितां सावष्टम्भस्य-साक्रमणस्य, चरणपातस्य-पादारोपणस्य, भरेण-भारेण, पीडितां-व्यथिताम् , क्षिति पृथवीम् , उक्षन्तं सिञ्चन्तम् , सेचनेन तत्पीडामपनयन्तमित्यर्थः [इ]। च पुनः, दृष्ट्वा तं दृष्टिगोचरीकृत्य, सम्मुखचालितवदनः तदभिमुखीभूतमुखः, वारंवारम् असकृत् , भादरप्रणिहितप्रसादाद्रदृष्टिः आदरेण-प्रीत्या, प्रणिहिता-समारोपिता, प्रसादाा-प्रसादेन-प्रसन्नतया, आर्द्रा-सरसा, दृष्टियेन तादृशः, आसनसर्पिणा पार्श्वगामिना, महाप्रतीहारेण प्रधानद्वारपालेन, कारितप्रणामं कारितनमस्कारम् , पुनः आदरप्रणतिलग्नकुट्टिमोपहारकुसुमकिञ्जल्कशारीकृतशिरोरुहम् आदरेण या प्रणतिः, तया लग्नः-सम्पृक्तः, कुट्टिमस्य-मणिबद्धप्रदेशस्य, उपहारभूताना-प्राभूतभूतानाम् , कुसुमाना-पुष्पानाम्, किजल्क:-केसरैः, शारीकृताः-चित्रिताः, शिरोरुहा:-केशा यस्य तादृशम् , समरकेतुमिति शेषः, पहि एहि आगच्छ आगच्छति, दुरादेव दूरत एव, आयत् आहूतवान् । च पुनः, चरणान्तिके चरणसमीपे, उपसृत्य आगत्य, भूयः पुनः, कृतप्रणाम कृतनमस्कारम् , तमिति शेषः, प्रेम्णा स्नेहेन, अतिदूरम् अत्यन्तदूरपर्यन्तम् , प्रसारिताभ्यां विस्तारिताभ्याम् , भुजाभ्यां-बाहुभ्याम् , आकृष्य गृहीत्वा, अङ्क क्रोडम् , आरोपितवान् तत्र स्थापितवान् , च पुनः, आश्लिष्टमुक्तं पूर्वमाश्लिष्टम्-आलिङ्गितम् , पश्चान्मुक्तं त्यतम् , विनयात् नम्रभावात् , अनादृतससम्भ्रमाधिकृतढौकितविकटवेत्रासनम् अनाहतं-तिरस्कृतं त्यक्तमिति यावत् , ससम्भ्रम-सत्वरम्, अधिकृतेन-नियुक्तजनेन, दौकितम्-आनीतम्, विकट-विशालम्, वेत्रासन-वेत्ररचितमूर्खासन येन तादृशम् । आसन्नोपविष्टं पार्वोपविष्टम् , तं समरकेतुम्, उन्नमितपक्ष्मणा उन्नमितमू-उद्धृतम्, पक्ष्म-नयनोपरितनरोमराजिर्यस्य तादृशेन, उम्मीलिवेनेत्यर्थः, निश्चलनिबद्धलक्ष्येण निश्चलं-निर्निमेषं यथा स्यात् तथा, निबद्धमिजरदिमना नियन्त्रितम्, लक्ष्य-दृश्यं येन तादृशेन, चक्षुषा नेत्रेण, निरीक्ष्य अवलोक्य, साचीकृतशिरोधरस
Page #87
--------------------------------------------------------------------------
________________
२२९
विलकमलरी। सुचिरमीपस्मितः समभाषत-वत्स! स्वागतं ते, साधुकृतं यदत्रागतोऽसि, अनेन तव निसर्गसुन्दरेण दृष्टमात्रेण देहाकारेण पुरुषकारेणेव श्रुतेन श्रोत्रमानन्दितं मे किमपि नेत्रयुग्मम् , धन्यस्त्वमेको जगति यस्मादुपजातमात्मनः पराजयं विजयमिव सभासु शंसति प्रीतिविकसिताक्षो विपक्षलोकः, तोकमुपजनयता भवन्तमस्तोकसंचितसुकृतसंभारेण धारितो धुरि समस्तानां पुत्रिणामात्मा महात्मना सिंहलेश्वरेण, तेजस्विसंगमेषु स्फुरदधिकोजसा सहजमार्दवगुणोपेतेन स्थिरप्रकृतिना त्वयैकेन भूषितं पुरुषरत्नेन परुषतरलैर्बहुभिरपि पाषाणरत्नैः परिष्कृताय प्रायो न मे गृहं स्पृहयत्यद्य सिंहलद्वीपाय, सर्वथा कृतार्थोऽहम् , अद्य फलितो मे दक्षिणापथविजयः, अद्य श्लाघनीयतां गतमिदं राज्यम् , अद्याधिगतपरिपूर्णशोभेयमुपजाता सभा, शिरश्छेदसाहसदर्शनादधिकपरितुष्टया दिव्याङ्गुलीयकार्पणव्यपदेशेन देशान्तरादानीय दत्तोऽसि मे द्वितीयस्त्वमात्मजो राजलक्ष्म्या । सामान्यममुना कुमारेण सह तवेदं राज्यमारव यदृच्छया भावितभूरिनिर्वृतिः [] मनसि मा स्म मंस्था:-यथाहमानीतः परैरिति, न कश्चिदप्यत्र परः, सर्वोऽप्येष तव पर्वतस्येव मैनाकस्म
साचीकृता-तिर्यककृता, शिरोधरा प्रीवा यस्य तादृशः, सुचिरम् अतिदीर्घकालम् , ईषत्सितः इषद्धसितः, समभाषित आलपितवान् । किमित्याह-वत्स! भोः कुमार 1, ते सब, खागत-शोभनमागमनम् , अत्र मत्सविधे, यदागतोऽसि यदागमनं कृतम् , तत् साधु सभीचीनं कृतम् । निसर्गसुन्दरेण खभावमनोहरेण, अनेन पुरोवर्तिना, तव देहाकारेण शरीराङ्गसभिवेशेन, बष्टमात्रेण दृष्टिगोचरीभूतमात्रेण, मे मम, नेत्रयुग्मं नयनद्वयम् , किमपि अनिर्वचनीयप्रकारम् , आनन्दितम् आनन्दमनुभावितम् , केन किमिव ? श्रुतेन श्रवणगोचरीकृतेन, पुरुषकारेण पराक्रमेण, श्रोत्रमिव श्रवणेन्द्रियमिव । जगति लोके, एका अद्वितीयः, त्वं, धन्यः श्लाघ्यः, वर्तसे इति शेषः, यस्मात् त्वत्तः, उपजातम् उत्पन्नम, आत्मनः खस्य, पराजयं विजयमिव, प्रीतिविकसिताक्षः प्रेमप्रफुल्लितनेत्रः, विपक्षलोकः रिपुजनः, सभास जनतास, शंसति कथयति, श्लाघत इत्यर्थः । भवन्तं त्वद्रूपम् , तोकम् अपत्यम् , उपजनयता उत्पादयता, अत एवं अस्तोकसञ्चितसुकृतसम्भारेण अस्तोक:-अनल्पः, सञ्चितः-संगृहीतः, सुकृतसम्भारः-पुण्यराभिर्येन तादृशेन, महात्मना पूज्यात्मना, सिंहलेश्वरेण सिंहलद्वीपनृपेण चन्द्रकेतुना, समस्तानां सकलानाम् , पुत्रिणां-पुत्रवताम् , धुरि अने, मात्मा खः, धारितः स्थापितः, पुत्रवतां प्रथमो जात इत्यर्थः । तेजखिसङ्गमेषु पराक्रमिगणेषु, स्फुरदधिकौजसा प्रकाशमानप्रचुरपराक्रमेण, सहजमार्दवगुणोपेतेन स्वाभाविकमृदुत्वगुणशालिना, स्थिरप्रकृतिना प्रकृत्या स्थिरेण, स्वया त्वद्रूपेण, एकेन अद्वितीयेन, पुरुषरत्नेन पुरुषाणां मध्ये रमरूपेण, भूषितम् अलङ्कतम् , मे मम, गृहम् , परुषतरलैः परुषाणि-कठोराणि च तानि, तरलानि च तैः, बहुभिरपि प्रचुरैरपि, पाषाणरत्ने प्रस्तररनैः, परिष्कृताय विभूषिताय, सिंहलद्वीपाय सिंहलाख्यद्वीपविशेषाय, अद्य अस्मिन् दिने, न स्पृहयति स्पृहां करोति, प्रत्युत, तिरस्करो. तीत्यर्थः । अहं सर्वथा सर्वप्रकारेण, कृतार्थः सिद्धार्थः, अस्मीति शेषः । अद्य अस्मिन् दिने, इदं भवद्विभूषितम् , राज्य श्लाघनीयतां प्रशंसनीयताम् , गतं प्राप्तम् , अध अस्मिन् दिने, मे मम, दक्षिणापथविजयः दक्षिणापथस्त्रऋक्षवदवन्तिनगरीमतिक्रम्य दक्षिणदिग्वर्तिदेशविशेषस्य विजयः, सफल:-भवादृशप्राया सफलतां गतः। अद्य अस्मिन् दिने, इयं प्रत्यक्षभूता, समा राजपरिषत् , अधिगतपरिपूर्णशोभा प्राप्तनिरतिशयसौन्दर्या, उपजाता सम्पना । शिरश्छेदसाहसदर्शनात् खशिरःकर्तनाकातरताऽवलोकनात् , अधिकपरितुष्टया अतिसन्तुष्टया, राजलक्ष्म्या राजोपास्यलक्ष्मीदेच्या, दिव्याङ्गलीयकार्पणव्यपदेशेन मनोहराहुलीयकवितरणद्वारा, देशान्तरात् अन्यदेशात्, सिंहलद्वीपादित्यर्थः, आनीय आकृष्य, द्वितीयः हरिवाहनादन्यः, मे मम, आत्मजः पुत्रः, त्वं दत्तोऽसि समर्पितोऽसि । अमुना हरिवाहनेन कुमारेण सह तव इदं राज्य, सामान्यं तुल्यम् , यदृच्छया यथेच्छम् , भावितभूरिनिर्वृतिः अनुभूताधिकसुखः सन्, भास्व उपविश [ई]। मनसि खहृदि, मा स्स मंस्थाः न मन्यताम् , यथा यत् , अहं, परैः शत्रुभिः, अन्यैर्वा, भानीतः बलादाकृष्योपस्थापित इति । अत्र अस्मिन् स्थाने, कश्चिदपि कोऽपि, परः शत्रुः, अन्यो वा, न नाति, अपि स्वात्मीय एवेत्यर्थः । मैनाकस्य तदाख्यख, पर्वतस्येव पर्वतविशेषस्पेव, तव समरकेतोः, एषः सनिष्टः,
Page #88
--------------------------------------------------------------------------
________________
२३०
टिप्पनर्क परागविवृतिसंवलिता पर्यन्तवर्ती सपक्षो भूभृतां वर्गः । स्वर्गोधानवनलेखाचारेकैव दरे तिलकतालचम्पकैलालवङ्गपुन्नागबहुला दक्षिणार्णवोपकण्ठवनराजिः, अपरस्तु सर्वः सनीडः क्रीडोपकरणग्रामः, सर्वथा कुरु स्थिरमवस्थानाय चेतः, यच्चिन्तयसि तत्कृत्स्नमपि तवाचिरेण संपत्स्यते समीहितमिह' [उ] । इत्युक्त्वान्यतो विवर्तितमुखः पादपीठान्तिकोपविष्टमनवरतसंचारितस्नेहार्द्रलोचनं समरकेतुवदने हरिवाहनमवादीत्-'वत्स! एष समरकेतुर्गुणैः समधिक समं चात्मबन्धुवर्गे प्रधानपुरुषमपश्यता मया तवैव सहचरः परिकल्पितः, अस्य कल्पायुषो दर्पणस्येव सद्वृत्तस्य कलङ्करहितात्मनो मत्पुरस्कृतस्य सर्वकालमभिमुखेन भवितव्यम् , सुविदितदण्डनीतेः सौविदलस्येव निजपरिप्रहः सततमायत्ततां नेयः, भोगसुखसाधनैकहेतोः सुकृतकर्मण इव दानादिक्रियाभिः कर्तव्यमजस्रमुपबृंहणम् , सुश्लिष्टपरिवारस्य तरवारेरिव निशास्वपि स्वसंनिधौ विधेयमवस्थानम् [ऊ] । अन्वहं धायमा
टिप्पनकम्-सपक्षः-सपिच्छः, सवर्गश्च, भूभृतां गिरीणां राज्ञां च [] । सद्वृत्तस्य शोभनवर्तुलस्य, अन्यत्र शोभनशीलस्य । कलङ्करहितात्मनः मलत्यक्तस्वरूपस्य, दोषत्यक्तजीवस्य च । सुविदितदण्डनीतेः एकत्र सुष्टुज्ञातक्षेत्रनयनस्य, अन्यत्र सुविज्ञाता दण्डनीति म-राजविद्या येन तस्य । भोगसुखसाधनैकहेतोः विषयसुख
यकारणस्य, उभयत्र तुल्यम्, दानादिक्रियाभिः माहारादिदानशीलादिकरणैः, अन्यत्र प्रामादिदानसन्मानादिक्रियाभिः । सुश्लिष्टपरिवारस्य सुसम्बन्धकोशस्य, अन्यत्र सुसंयुक्तपरिच्छदस्य [ऊ] ।
स्थानाय अत्र निवाससका समस्तः, क्रीडोलवङ्गपुन्नागबहला।
सर्वोऽपि समस्तोऽपि, भूभृतां राज्ञाम् , पक्षे पर्चतानाम् , वर्गः समूहः, पर्यन्तवर्ती समीपवर्ती, सपक्षः सुहृत् , पक्षे पक्षेण-पतत्रेण, सहितः । एका अद्वितीया, दक्षिणार्णवोपकण्ठवनराजिरेव दक्षिणसागरसन्निकृष्टक्रीडावनपतिरेव, दूरे वर्तत इति शेषः, कीदृशी? खोद्यानवनलेखाचारुः खर्गस्य-देवपुर्याः, यत् उद्यानम्-क्रीडाकाननम् , तद्रूपाणां-वनानाम् , या लेखा-पतिः, तद्वत् चारु:-रमणीया, पुनः तिलकतालचम्पकैलालवङ्गपुन्नागबहुला तिलकादिपुनागान्तक्षविशेषः, बहुला-प्रचुरा पूर्णेत्यर्थः । अपरस्तु, सर्वः समस्तः, क्रीडोपकरणग्रामः क्रीडासामग्री, सनीः संनिकृष्ट एवास्तीति शेषः । अवस्थानाय अत्र निवासाय, चेतः स्वमनः, स्थिरं दृढसंकल्पं, कुरु, यद् यद् यत् , समीहितम् अभिलषितं वस्तु, चिन्तयसि चिन्ताविषयीकरोषि, तत् तत् तत् , कृत्स्नमपि समस्तमपि, तव समीहितम् , इह अत्र स्थाने, अचिरेण शीघ्रमेव, सम्पत्स्यते सेत्स्यति [उ]। इत्युक्त्वा इति कथयित्वा, अन्यतः अन्यदिशि, विवर्तितमुखः परावर्तितमुखः, हरिवाहनं तदाख्यनिजकुमारम्, अवादीत उक्तवान् , कीदृशम् ? पादपीठान्तिकोपविष्ट पादपीठस्य-पादस्थापनाधारस्य अन्तिके-समीपे, उपविष्टम्-आसितम्, पुनः समरकेतवदने समरकेतुमुखे, अनवरतसञ्चारित अनवरतं-निरन्तरम् , सञ्चारिते-प्रेरिते, स्नेहार्द्र-स्नेहसरसे, लोचने-नयने येन तादृशम् , वत्स! भोः कुमार!, आत्मबन्धुवर्ग खबन्धुवर्ग मध्ये, गुणैः, समधिकम् उत्तमम् , समं तुल्यं च, प्रधानपुरुष प्रधानजनम् , अपश्यता अनुपलभमानेन, मया, एष पुरोवती, समरकेतुः तत्संज्ञकः कुमारः, तवैव सहचरः सखा, परिकल्पितः कृतः, दर्पणस्य इव आदर्शस्य इव, सद्वृत्तस्य सच्चरित्रस्य, पक्षे समीचीनवर्तुलाकारस्य, कलङ्करहितात्मनः निष्कलङ्कात्मनः, पक्षे निर्मलखरूपस्य, मत्पुरस्कृतस्य मया सम्मानितस्य, पक्षे मया पुर:-अग्रे, कृतस्य-धृतस्य, कल्पायुषः कल्पपर्यन्तायुषः, चिरंजीविन इत्यर्थः, कल्पायुषा इति पाठे तु चिरंजीविना त्वयेत्यर्थः, अस्य समरकेतोः, सर्वकालं सर्वदा, अभिमुखेन अभिमुखवर्तिना, भवितव्यं भवितुं योग्यम् , त्वयेति शेषः । सौविदल्लस्येव अन्तःपुररक्षकस्येव, सुविदितदण्डनीतेः सम्यगवगतदण्डविषयकराजनीतेः, सम्यग्ज्ञातवेत्रयष्टिनयनस्य, सुविहितेति पाठे तु सुप्रयुक्तदण्डनीतेः, अस्येति शेषः, आयत्तताम् अधीनताम् , निजपरिग्रहः स्वपरिवारः, नेयः प्रापयितव्यः । सुकृतकर्मण इव पुण्यकर्मण इव, भोगसाधनैकहेतोः सुखसाधनप्रधानकारणस्य, अस्येति शेषः, दानक्रियादिभिः प्रामादिदानसम्मानादिक्रियाभिः, पक्षे आहारादिदानशीलपरिपालनादिक्रियाभिः, अजनं सन्ततम् , उपबृंहणं परिवर्धनम् , परिपोषणमित्यर्थः, कर्तव्यं कर्तुमुचितम् । तरवारेरिव खगस्येव, मुश्लिष्टपरिवारस्य सुसङ्गतपरिजनस्य, पक्षे सुश्लिष्टः-सुभगः सुदृढो बा, परिवारः-खगकोशो यस्य तादृशस्य, अस्येति शेषः, स्वसन्निधौ स्वसमीपे, निशास्वपि रात्रिष्वपि, अवस्थानम् अवस्थितिः, विधेय सम्पादनीयम् [ऊ] । अन्वहं प्रतिदिनम् ,
Page #89
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२३१ पत्वपरिहारेण, संपत्स्वादरातिशयेन, समानगुणेषु गौरवोत्कर्षेण, विवादेषु पक्षग्रहणेन, नूतनार्थलाभेषु संघिभजनेन, नर्मखमर्मोद्धाटनेन, मत्रणेष्वदूरीकरणेन, दारसंनिधावविकारदर्शनेन, प्रणयकलिकोपेषु स्वयमनुनयेन; उत्सवेष्वप्रपूजासंपादनेन, प्रारब्धवस्तुनिर्वहणेषु स्तुतिप्रपञ्चनेन, प्रतिपन्नकार्येष्वविसंवादनेन, सर्वत्र चातिविश्वासदर्शनेन परं सख्यमानेयः, एष ते भ्राता च भृत्यश्च सचिवश्च सहचरश्च' []। इत्युक्त्वा विसर्जितास्थानराजको नृपतिरासनादुत्तस्थौ । कुमारोऽपि 'यदाज्ञापयति तातः' इत्यभिदधानः करे गृहीत्वा समरकेतुं निषिद्धपरिजनः शुद्धान्तसंचारोचितेन परिचारकगणेनानुगम्यमानो मदिरावतीभवनमगच्छत् । तत्र च कृतणामो मातुर्दर्शयित्वा समरकेतुं कृतसकलतद्वृत्तान्तसंकथः स्थित्वा चिरमवाप्तवस्त्रभूषणेन तेनानुगम्यमानः स्वावासमागच्छत् । तत्र चारब्धनिजनिजकर्मणा सूदवारप्रमदाप्रायेण मदिरावतीपरिजनेन यथायोग्यमुपपादिताः समाहूतसकलप्रधानलोकेन समरकेतुनान्येन च प्रणयिना राजसमूहेन सहितः स्नानभोजनादिकाः क्रिया निरवर्तयत् । अपराहसमये च तस्याहारमण्डपाजिरनिषण्णस्य निकटोपविष्टविशिष्टेष्टराजलोकस्य राज्ञा समादिष्टः
परं सान्द्रम् , सख्यं मित्रताम् , आनेयः प्रापणीयः, कदा केन प्रकारेण ? आपत्सु आपत्कालेऽपि, अपरिहारेण अपरित्यागेन; सम्पत्सु सम्पत्काले, अभ्युदयवेलायामिति यावत् , आदरातिशयेन अत्यम्तादरेण; समानगुणेषु तुल्यगुणकव्यक्त्यपेक्षयापि, यद्वा व्यक्त्यन्तरतुल्यगुणेष्वपि, गौरवोत्कर्षेण असाधारणत्वोत्कीर्तनेन; विवादेषु अन्यैः सह विरोधेषु, पक्षग्रहणेन एतत्पक्षपातेन; नूतनार्थलामेषु नवीनवित्तलामेषु, संविभजनेन तादृशवित्तस्य सम्यग्वण्टनेन; नर्मसु कीडासु, अमर्मोखट्टनेन मर्मप्रदेशानुद्धर्षणेन; मन्त्रणेषु रहस्यविचारणावसरेषु, अदूरीकरणेन अनपसारणेन; दारसन्निधौ खभार्यासन्निधावपि, अविकारदर्शनेन अलजाप्रकटनेन; प्रणयकलिकोपेषु प्रणयेन-मेहेन, यः कलि:कलहः, तज्जन्यक्रोधेषु, स्वयं खेनैव, अनुवर्तनेन अनुसरणेन; उत्सवेषु शुभकार्येषु, अग्रपूजासम्पादनेन सर्वप्रथमसत्कारेण प्रारब्धवस्तुनिर्वहणेषु प्रारब्धकार्यसम्पादनेषु, स्तुतिप्रपञ्चनेन गुणोत्कीर्तन विस्तारेण प्रतिपन्नकार्येषु निश्चितकार्येषु, अविसंवादनेन विरोधाप्रकटनेन; च पुनः, सर्वत्र सर्वेषु कार्येषु, अतिविश्वासदर्शनेन अत्यन्तविश्वासप्रकटनेन । एषः अयम् , समरकेतुकुमार इत्यर्थः, ते तव, भ्राता सोदरः, च पुनः, भृत्यः सेवकः, च पुनः, सचिवः मन्त्री, च पुनः, सहचरः सखा [ऋ]। इत्युक्त्वा इति कथयित्वा, विसर्जितास्थानराजकः विसर्जितखखस्थानगमनार्थमाजप्तम् , आस्थानस्य-अधिष्ठितसभायाः, राजकं-नृपगणो येन तादृशः, नृपतिः मेघवाहनः, आसनात्
नात्, उत्तस्थौ उत्थितवान् । कमारोऽपि हरिवाहनोऽपि, तातः पिता, यत् आज्ञापयति आदिशति तदहमवश्यं करिष्यामीति शेषः, इत्यभिदधानः इति ब्रुवाणः, प्रतिजानान इत्यर्थः, समरकेतुं तत्संज्ञक कुमारम् , करे हस्ते, गृहीत्वा, निषिद्धपरिजनः निवर्तिततदनुयायिवर्गः, शुद्धान्तसञ्चारोचितेन अन्तःपुरसधारयोग्येन, परिचारकगणेन मृत्यवर्गेण, अनुगम्यमानः अनुस्रियमाणः, मदिरावतीभवनं मदिरावत्याः-खमातुः, भवन-प्रासादम् , अगच्छत् गतवान् । तत्र च मदिरावतीभवने च, मातुः मदिरावत्याः, कृतप्रणामः कृतचरणपातः सन् , समरकेतुं तदाख्यमामीतकुमारम्, दर्शयित्वा दृष्टिगोचरीकृत्य, कृतसकलतद्वत्तान्तसंकथः कृता, सकलस्य-समस्तस्य, तद्वृत्तान्तस्य-तदीयसमाचारस्य, संकथा-संलापो येन तादृशः, चिरं दीर्घकालम् , स्थित्वा तत्रावस्थितिं कृत्वा, अवाप्तवस्त्रभूषणेन मदिरावतीलब्धवस्त्रालङ्कारेण, तेन समरकेतुना, अनुगम्यमानः अनुस्रियमाणः, खावासं खभवनम् , अगच्छत् गतवान् , तत्र च तस्मिन्नावासे च, आरब्धनिजकर्मणा आरब्धस्वकार्येण, सूदवारप्रमदाप्रायेण सूदस्य-ओदनपाचकस्य, वारःअवसरः, यासां तादृशप्रमदाप्रायेण-तादृशस्त्रीप्रचुरेण, मदिरावतीपरिजनेन मदिरावतीपरिचारिकाजनेन, यथायोग्यं यथोचितम् , उपपादिताः निष्पादिताः, नानभोजनादिकाः मानभोजनप्रभृतीः, क्रियाः कर्माणि, समाहूतसकलप्रधानलोकेन समाहूताः-सम्यगाहूताः, सकलाः-समस्ताः, प्रधानलोकाः-सचिवजना यस्य तादृशेन, समरकेतुना तदाख्यप्रकृतकुमारेण, अन्येन तदन्येन, प्रणयिना मेहिना, राजसमूहेन नृपसमूहेन च सहितः सन्, निरवर्तयत् समपादयत् । अपराह्नसमये मध्याह्नसमये, आहारमण्डपाजिरनिषण्णस्य भोजनभवनप्राङ्गणोविष्टस्य, पुनः निकटो
Page #90
--------------------------------------------------------------------------
________________
२३२
टिप्पनक-परागविवृतिसंवलिता सुदृष्टिनामाऽझपटलिकः प्रविश्य पट्टकारोपितनिरवशेषमभ्यर्णवर्तिभिरनेकैः कश्मीरादिमण्डलप्रतिबद्धैः प्रधाननगरमामैरुपेतं कुमारभुक्तावखिलमुत्तरापथमर्पयांबभूव, समरकेतोश्च सर्वदायसहितानङ्गजीवनेऽङ्गादिजनपदाम् प्रायच्छत् [ऋ] | एवं च दर्शितप्रसादेन नृपतिना प्रतिदिवसमापाद्यमाननवनवसत्कारयोः, नियुक्तनिजपरिचारया सादरं मदिरावत्या चिन्त्यमानस्नानासनविलेपनादिशरीरस्थितिसाधनयोः, अनुजीविनो राजपुत्रजनस्य पात्रतानुसारेण संविभक्तस्वभुक्तिनगरमामनिवह निनिश्चिन्तयोः, दुष्टदायादसमवष्टब्धराज्यैरागत्यागत्य दिङ्मुखेभ्यो निजपदार्थिभिः पार्थिवकुमारैरनवरतगृह्यमाणसेवयोः, नरेन्द्रसेवया प्रतिदिनमवन्ध्यीकृतोभयसंध्ययोः, दूरीकृतदुष्टसामन्तसख्योपचारव्यवहारयोः, गुणानुरागिभिरागन्तुकफलार्थिभिश्च द्वीपान्तरनराधिपैसोभिराच्छादनै रत्नालङ्कारैर्विलेपनैः फलैरायुधैर्यानैरन्यैश्च निजनिजदेशसंभवैरपूर्ववस्तुभिः सततमुपचर्य
पविष्टविशिष्टेष्ट्रराजलोकस्य निकटे-पार्वे, उपविष्टाः, विशिष्टाः-प्रशस्ताः, इष्टाः-अभिमता आत्मीया इति यावत् , राजलोकाः-नृपजना यस्य तादृशस्य, तस्य हरिवाहन स्य, हरिवाहनायेत्यर्थः, कुमारभुक्तौ कुमारस्य-हरिवाहनस्य, भुक्तोभोगोद्देशेन, तदीययोगक्षेमार्थमित्यर्थः, राज्ञा मेघवाहनेन, समादिष्टः सम्यगाज्ञप्तः, सुरष्टिनामा शोभना दृष्टिः-व्यावहारिकदृष्टिर्यस्येत्यन्वर्थसंज्ञकः, अक्षपटलिकः वित्तदानाऽऽदानादिव्यवहारजाताधिकृतः प्राज्ञिवाकपदप्रतिपाद्यः प्रधानपुरुषः, प्रविश्य मण्डपे प्रवेशं कृत्वा, उत्तरापथम् उदीच्यजनपदम् , अर्पयांवभूव ददौ, कीदृशम् ! पट्टकारोपितनिरव. शेषविशेष पट्टके-जनपदादिचित्रपट्टे, आरोपितः-चित्रितः, निरवशेषः-समस्तः, विशेषः-वैशिष्टयं यस्य तादृशम् , पुनः अभ्यर्णवर्तिभिः निकटवर्तिभिः, काश्मीरादिमण्डलप्रतिबद्धैः काश्मीरादिमण्डलान्तःस्थितैः, प्रधाननगरमामै मुख्यनगरपामैः, उपेतं सहितम् , पुनः अखिलम् अशेषम् । समरकेतोश्च तन्नामककुमारस्य, पुनः अनजीवने आस्यदेहस्य, जीवने-पोषणोद्देशेन, अस्य-अजभूतामात्यादिपरिवारस्य जीवनोहेशेन च, सर्वदायसहितान् अशेषभागसहितान्, अङ्गादिजनपदान् भङ्गादिदेशान्, प्रायच्छत् प्रदत्तवान् [ ]एवं च अनेन प्रकारेण च, दर्शितप्रसादेन प्रकटितप्रसन्नताकेन, नृपतिना मेघवाहनेन, प्रतिदिवसं दिने दिने, आपाद्यमाननवनवसत्कारयोः आपाद्यमानःप्राप्यमाणः, नवनवः-नवीनप्रकारकः, सत्कारः-पारितोषिक, ययोस्ताहशयोः पुनः नियक्तनिजपरिवारया नियुक्तः-तत्सरिचर्यायामधिकृतः, निजपरिवार:-स्वपरिचारकलोको यया तादृश्या, मदिरावत्या राज्या, चिन्त्यमानस्वानासनविलेप. नादिशरीरस्थितिसाधनयोः चिन्यमानानि-अवधानविषयीक्रियमाणानि, मान-जलेन शरीरमार्जनम् , आसनम्उपवेशनम् , विलेपनं-चन्दनादिद्रवोपलेपनम्, तदादीनि, शरीरस्थितिसाधनानि-शरीरस्वास्थ्योपकरणानि कर्माणि ययोस्तादृशयो, पुनः अनुजीविनोः तदधीनजीवनयोः, राजपुत्रजनस्य कुमारजनस्य, पात्रतानुसारेण योग्यतानुसारेण, संविभक. खभुक्तिनगरमामनिश्चिन्तयोः संविभक्तैः-सम्यग्विभज्य समर्पितैः, खभुक्तये-खभोगाय, खनिर्वाहार्थेरिति यावत् , नगरप्रामैः, निश्चिन्तयोः-जीवनचिन्तारहितयोः, पुनः दुष्टदायादसमवष्टन्धराज्यैः दुष्टैः-परधनलुब्धैः, दायादैः-धनभागग्रहीतृभिः, समवष्टब्धं-समाक्रान्तम् , राज्यं येषां तादृशः, निजपदार्थभिः खस्वराज्यप्रत्यावर्तनप्रार्थिभिः, पार्थिवकुमारैः नृपात्मजैः, दिङ्मुखेम्यः दिगन्तेभ्यः, आगत्य आगत्य उपस्थाय उपस्थाय, अनवरतगृह्यमाणसेवयोः सततक्रियमाणसेवयोः पुनः नरेन्द्रसेवया नरेन्द्रस्य-मेघवाहनस्य, सेवया-शुश्रूषया, प्रतिदिनं दिने दिने, अवन्ध्यीकृतोमय. सन्ध्ययोः अवन्ध्यीकृते-सफलीकृते, उभयसन्ध्ये-सायं प्रातश्च याभ्यां तादृशयोः; पुनः दूरीकृतदुष्टसामन्तसख्यो. पचारव्यवहारयोः दूरीकृत-वर्जितम् , दुष्टाना-दुर्जनानाम् , सामन्तानाम्-अधिकृतक्षुद्रनृपाणाम् , सख्यं-मैत्री, उपचारःसेवा, व्यवहारः-दानाऽऽदानादिः, याभ्यां तादृशयोः; पुनः द्वीपान्तरनराधिपः अन्यद्वीपनृपः, सततं निरन्तरम् , उपचर्यमाणयोः सेव्यमानयोः, कीदृशैः ? गुणानुरागिभिः गुणस्नेहिभिः, आगन्तुकैः-आगन्तृभिः, आगतरित्यर्थः, पुनः फलार्थिभिः किञ्चित्किञ्चिदभिमतफलप्रार्थिभिः, आगन्तुकफलार्थिभिरिति पाठे भाविफलाभिलाषिभिः, कर्वस्तुभिः? आच्छादनैः शरीरावरणभूतैः, वासोभिः वः, पुनः विलेपनैः केशरादिसुगन्धिवैः, फलैः खाडुफलोपहारैः, पुनः अन्यैः तद्व्यतिरिक्तैः, निजनिजदेशसम्भवैः स्वखदेशोत्पन्नः, अपूर्ववस्तुभिः विलक्षणवस्तुभिः; पुनः गुणगणैः
Page #91
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२३३
माणयो:, उपचीयमानया तारुण्यलक्ष्म्या प्रतिक्षणमुल्लासितै रूपबललावण्यादिभिः शारीरैरन्तः करणजैश्व सत्यशौर्यावबोधवैदग्ध्यपुरस्सरैर्गुणगणैरगणितक्रममाक्रम्यमाणयो रतिसुखपराङ्मुखेन धूर्जटिललाटलोचनानिनेव हृदयेनानङ्गीकृतकन्दर्पयोः, दुष्टजनपददृष्टिदोषसंरक्षार्थमित्र पौरलोकेन स्वान्तेषु सततधार्यमाणयो:, शरदिन्दुaerobesगुणित गुणेन सुरभिसमयेऽप्यघटिताभिनवमागणेन जलदागमेऽप्यनाकृष्ट चापयष्टिना दृष्टदुर्वारभुजपराक्रमेणोत्पन्न संत्रासेनेव दूरस्थेन मकरलक्ष्मणाऽलक्ष्यीकृतदेहयोः [ ऌ ] । कदाचिन्निजनिजात्रकौशलदर्शनेन कदाचित् पदवाक्यविचारेण कदाचित् प्रमाणप्रमेयस्वरूपनिरूपणेन कदाचिदभिमतागमप्रन्थार्थसमर्थनेन कदाचिदसद्दर्शनोक्तयुक्तिनिराकरणेन कदाचिन्नीतिशास्त्रनिबन्धपाठेन कदाचित् कला विषयविचार
टिप्परकम् — भाक्रम्यमाणयोरति सुख पराङ्मुखेन धूर्जटिलला टलोचनानिनेव हृदयेनानङ्गीकृतकन्दर्पयोः एकत्र कामभार्यासौख्य बाधकेन, अन्यत्र अतिसौख्यपराङ्मुखैन, एकत्र अनङ्गीकृतकन्दर्पता - विनाशितकामता, अन्यत्र अस्वीकृतकामयोः । गुणः- ज्या । सुरभिः- चैत्रः [ल] ।
गुणसमूहैः, अगणितक्रमम् अनपेक्षितक्रमं यथा स्यात् तथा, युगपदेवेत्यर्थः, आक्रम्यमाणयोः आश्रीयमाणयोः, कैः ? उपचीयमानया वर्धमानया, तारुण्यलक्ष्म्या यौवनश्रिया, प्रतिक्षणं प्रतिपलम्, उल्लसितैः उद्भासितैः, रूपवललावण्यादिभिः स्वरूप-शक्ति-सौन्दर्यादिभिः, शारीरैः शरीराश्रितैः पुनः सत्य-शौर्याऽवबोधवैदग्ध्यपुरस्सरैः सत्यं - निष्कपटता, शौर्य - शूरत्वम्, अवबोधः- विवेकः, वैदग्ध्यं नैपुण्यम्, तत्प्रमुखैः, सत्वशौर्येत्यादिपाठे सत्त्वं धर्मज्ञानश्वर्यादिहेतुर्गुणविशेषः, अन्तःकरणजैः अन्तःकरणाश्रितैः; पुनः धूर्जटिललाटलोचनाग्निनेव धूर्जटेः- शिवस्य, ललाटलोचनेन -भालस्थनेत्रभूतेन, अग्निना इव, रतिसुखपराङ्मुखेन कामिनीसम्भोगविरकेन, अतिसुखपरासुखेन वा, पक्षे रतिः - कामदेव भार्या, तत्सुखपराङ्मुखेन तत्सुखबाधकेन, हृदयेन चेतसा, अनङ्गीकृतकन्दर्पयोः अनङ्गीकृतः - अस्वीकृतः, तिरस्कृत इति यावत्, पक्षे अनङ्गीकृतः - अङ्गरहितीकृतः, भस्मीकृत इति यावत्, कन्दर्पः- कामदेवो याभ्यां तादृशयोः पुनः दुष्टजनपद दृष्टिदोषसंरक्षार्थमिव दुष्टानां जनपदानां - जनपदवासिनां यो दृष्टिदोषस्ततः संरक्षार्थ -सम्यग्रक्षणार्थमिव, पौरलोकेन पुरवासिजनेन, स्वान्तेषु स्वस्वहृदयेषु, सततधार्यमाणयोः प्रच्छन्नतया निरन्तरनिवास्यमानयोः; पुनः शरदिन्दुमण्डला लोकेऽपि शरदृतु चन्द्रमण्डलप्रकाशेऽपि, अप्रगुणितगुणेन अप्रगुणितः - अनुन्नमितः, गुणः - मौर्वी येन तादृशेन, पुनः सुरभिसमयेऽपि वसन्तकालेऽपि अघटिताभिनवमार्गणेन अघटिता-धनुष्यनारोपिता, अभिनवाःअभिनवोत्फुल्लकुसुमरूपाः, मार्गणाः-वाणा येन तादृशेन, पुनः जलदागमेऽपि वर्षाकालेऽपि अनाकृष्टचापयष्टिना अनाकृष्टा-अनानता, चापयष्टिः- धनुर्दण्डो येन तादृशेन, अत एव दृष्टदुर्वारभुजपराक्रमेण दृष्टः-अनुभूतः, दुर्वारःदुर्धर्षः, भुजपराक्रमः - तयोर्बाहुबलं येन तादृशेन, अत एव उत्पन्नसंत्रासेनेव उत्पन्न :- संजातः, संत्रासः - सम्यक् नासः - भयं यस्य तादृशेनेव, दूरस्थेन दूरवर्तिना, मकरलक्ष्मणा कामदेवेन, अलक्ष्यीकृतदेहयोः अलक्ष्यीकृतः - स्खलक्ष्यतामनापादितः, देहः- शरीरं ययोस्तादृशयोः [ ऌ ] 1 पुनः भावुकैः भव्यैः, मनोहरैरिति यावत्, सुहृद्भिः स्वमित्रैः, च पुनः, विद्वद्भिः विद्वज्जनैः, रममाणयोः क्रीडतोः, केन केन कर्मणा ? कदाचित् कस्मिंश्चित् काळे, निज निजास्त्र कौशलदर्शनेन स्वस्वास्त्रविद्यानैपुण्यप्रदर्शनेन पुनः कदाचित् कस्मिंश्चिच समये, पदवाक्यविचारेण पद-वाक्यविवेच नेन, पुनः कदाचित् कस्मिंश्चित् समये, प्रमाणप्रमेयस्वरूपनिरूपणेन प्रत्यक्षादिप्रमाणानां तत्प्रमेयाणां च खरूपनिर्व चनेन, पुनः कदाचित् कुत्रचित् काले, अभिमतागमग्रन्थार्थ समर्थनेन अभिमताः - स्वाभिप्रेताः ये, आगमग्रन्थाःधर्मशास्त्राणि तेषां येऽर्थास्तेषां समर्थनेन सङ्गमनेन, पुनः कदाचित् कस्मिंश्चित् काले तृ, असद्दर्शनोक्तयुक्तिनिराकरणेन असद्दर्शनोक्तानाम्-असमीचीनदर्शनप्रतिपादितानाम्, युक्तीनाम् - उपपत्तीनाम्, निराकरणेन - खण्डनेन, पुनः कदाचित् कस्याचिद् वेलायाम्, नीतिशास्त्रनिबन्धपाठेन नीतिशास्त्रसम्बन्धिनां निबन्धानां किञ्चिद्विषयोपपादकवाक्यप्रबन्धानां पाठेन, पुनः कदाचित् कचिदवसरे, कला विषयविचार के लिकलहेन कलाविषयः -शिल्पविषयको यो विचारः - युक्तिप्रतियुक्ति
३० विलक
Page #92
--------------------------------------------------------------------------
________________
२३४
टिप्पनक-परागविवृतिसंवलिता केलिकलहेन कदाचिद्रसाभिनयभावप्रपञ्चोपवर्णनेन कदाचिद् वेणुवीणामृदङ्गादिवाद्यविनोदेन कदाचिच्चिरन्तनकवीन्द्रकाव्यमुद्राभ्यसनेन भावुकैः सुहृद्भिविद्वद्भिश्च सह रममाणयोः, एकत्र कल्पिताशनस्नानासनशयनयोः, सदृशवेषालङ्कारधारिणोः, शाक्यशिष्ययोरिवानुपजातविप्रयोगदुःखयोः, सुखमया इव धृतिमया इव अमृतमया इव प्रीतिमया इवातिचक्रमुः कतिपये दिवसाः [C] । यथोत्तरं प्रकटितप्रसादेन नृपतिना दृश्यमानोऽपि सुतनिर्विशेषमीपदपि समरकेतुर्नोत्सेकमगमत् । अपहाय भुजवीर्यमन्वकृत हरिवाहनस्य सर्वानपि गुणान् , आत्मगुणगणेन प्रगुणितश्च परमया भक्त्या प्रीत्या च निःसामान्यया राजानमिव तमहर्निशमसेवत । हरिवाहनोऽपि तद्गुणानुरञ्जितमनाः स्वप्नदृष्टेऽपि समरकेतौ विपक्षजनपद इव जिगीषुः परां मुदमवापत् [ए]।
एकदा च स ग्रीष्मसमये प्रातरेवोत्थाय निर्वर्तितस्नानभोजनादिविधिरुदधिजलविलुलितवासुकिमुक्तनिर्मोकनिर्मलं परिधाय धासोयुगलमुन्निद्रमल्लिकामुकुलरचितशेखरो मदान्धमधुकरध्वानवाचालरचल इव
टिप्पनकम्-अनुपजातविप्रयोगदुःखयोः एकत्र अनुत्पन्न ब्राह्मणसम्बन्धकष्टयोः, अन्यत्र भजातविरहदुःखयोः ल.] ।
विवेचनम् , तस्य केलिकलहेन-विनोदार्थ कृतेन वाकलहेन, कदाचित् कस्मिंश्चित् समये, रसाभिनयभावप्रपञ्चोपवर्णनेन रसाना-वीरादिरसानाम् , अभिनयस्य- चेष्टाविशेषस्य, तद्द्वारा तदभिव्यक्तिप्रयोजका इत्यर्थः, ये भावाः-आलम्बनोद्दीपनसञ्चारिभावाः, तेषां प्रपञ्चस्य-विस्तरस्य, उपवर्णनेन-उत्कीर्तनेन, पुनः कदाचित् कस्मिंश्चित् काले, वेणुवीणामृदङ्गादिवाद्यविनोदेन वेणुः-वंशीवाद्यम् , वीणा-खनामख्यातवाद्यविशेषः, मृदङ्गः-मुरजनामा वाद्यविशेषः, तदादिवाथैः-वेण्वादिवाद्यवादनेन, यो विनोदः-आनन्दस्तेन पुनः कदाचित् कस्मिंश्चिदवसरे, चिरन्तनकवीन्द्रकाव्यमुद्राभ्यसनेन चिरन्तनाना-प्राचीनानाम्, कवीन्द्राणी-महाकवीनाम्, या काव्यमुद्रा-काव्यरचना, काव्यच्छटेत्यर्थः, तथा अभ्यसनेन-परिशीलनेन । एकत्र एकस्थाने, कल्पिताशननानासनशयनयोः कल्पित-रचितम् , अशनं-भोजनम् , मान-जलेन शोधनम् , आसनम्-उपवेशनम्, शयनं-शय्या च, ययोस्तादृशयोः; पुनः सदृशवेषालङ्कारधारिणोः तुल्यवेषभूषण. वतोः; पुनः शाक्यशिष्ययोरिव शाक्यमुनिशिष्ययोरिव, अनुपजातविप्रयोगदुःखयोः शाश्वतिकसाहचर्यवशादनुत्पन्नविश्लेषवेदनयोः, पक्षे अनुत्पन्नब्राह्मणसम्बन्धकष्टयोः, तयोरिति शेषः, सुखमया इव आनन्दमया इव, धृतिमया इव सन्तोषमया इव, अमृतमया इव अमृतपूर्णा इव, प्रीतिमया इव प्रीतिप्रचुरा इव, कतिपयेऽपि बहवोऽपि, दिवसा: दिनानि, अतिचक्रमुः अतिकान्ताः, व्यतीता इत्यर्थः [ल] __यथोत्तरम् उत्तरोत्तरक्रमेण, प्रकटितप्रसादेन प्रकाशितप्रसन्नताकेन, नृपतिना मेघवाहनेन, सुतनिर्विशेष ख. कुमारतुल्य यथा स्यात् तथा, दृश्यमानोऽपि उपलाल्यमानोऽपि, समरकेतुः तन्नामा राजकुमारः, ईषदपि किञ्चिदपि, उत्सेकं तत्प्रयुक्ताभिमानम् , औद्धत्यमित्यर्थः, न अगमत् प्राप्तवान् । भुजवीर्य बाहुविक्रमाभिमानम् , अपहाय त्यक्त्वा, हरिवाहनस्य तत्संज्ञकस्य कुमारस्य, सर्वानपि समस्तानपि, गुयान , अन्वकृत अनुहृतवान् । च पुनः, आत्मगुणगणेन खगुणसमूहेन, प्रगुणितः परिपूर्णः सन् , परमया, अत्यन्तया, भक्त्या श्रद्धया, निःसामान्यया असाधारणया, प्रीत्या स्नेहेन, राजानमिव मेघवाहनमिव, तं हरिवाहनम् , अहर्निशम् रात्रिंदिवम् , असेवत सेवते स्म । हरिवाहनोऽपि तदाख्यकुमारोऽपि, तहणानुरञ्जितमनाः तद्गुणप्रीणितहृदयः सन् , जिगीषुः वैरिविजयेच्छुः, विपक्षजनपद इव रिपु. राज्य इव, समरकेतो, स्वप्नदृष्टेऽपि स्वप्नावस्थायामवलोकितेऽपि, पराम् उत्कृष्टाम् , मुदं हर्षम् , अवापत् प्राप्तवान् [ए]। एकदा च एकस्मिन् दिने च, स हरिवाहनः, ग्रीष्मसमये ग्रीष्मकाले, प्रातरेव प्रातःकाल एव, उत्थाय जागरित्वा, निर्वर्तितस्त्रानभोजनादिविधिः सम्पादितस्त्रानभोजनादिकार्यः, उदधिजलविलुलितवासुकिमुकनिर्मोकनिर्मलम् उदधिजले-समुद्रजले, विललितः-सञ्चलितो यो, वासुकिः-सर्पराजः, तेन मुक्तः-त्यक्तो यो, निर्मोकः-जीर्णत्वक् , तद्वद् निर्मलंशुभ्रम् , वासोयुगलम्-उत्तरीयाधरी यवत्रद्वयम् , परिधाय धारयित्वा, सरयूतटासङ्गि सरयूतटवर्ति, मत्तकोकिलं मत्ताः-रसालरसास्वादोन्मत्ताः, कोकिला यस्मिन्नित्यन्वर्धसंज्ञकम् , बाह्योद्यानम् अयोध्यातो बहिर्ति उद्यान-क्रीडाकाननम् , अगच्छत् गतवान् , नामेति वाक्यालङ्कारे। कीदृशः ? उन्निद्रमलिकामुकुलरचितशेखरः उनिः-विकसितैः,
Page #93
--------------------------------------------------------------------------
________________
तिलकमलरी।
२३५ मैनाकनामा निर्झरौघैरंसशिखरावलम्बिभि लीकदम्बप्रालम्बैरभिनवैरुद्भासमानः, शिरीपतरुकुसुमकल्पितकर्णपूरः, कर्पूरपरिमलमुचा चन्दनद्रवेण विहितसर्वाङ्गीणाङ्गरागः, तत्कालोपनीतरत्नोपलशकलशीतलममलमुक्ताफलप्रायमल्पमुद्वन् भूषणकलापम् , अच्छकान्तिरत्नदर्पणप्रतिबिम्बितैः प्रीतिनिश्चलचक्षुषो जनस्य सर्वतः सहस्रसंख्यैर्विलोचनैः शवलितगात्रयष्टिः, ऐरावताधिरूढः सहस्राक्ष इव साक्षादुपलक्ष्यमाणः, निक्षिप्तनिजवेषानुरूप. निःशेषनेपथ्यस्य तत्क्षणगृहीतनिशितसृणेनिषादितां प्रतिपद्य सिन्धुरस्कन्धमध्यासितस्य समरकेतोरधिस्कन्धमर्पितोभयबाहुपाशः, पश्चिमासनाध्यासिना ताम्बूलदायकेन प्रतिवेलमुद्भूयमानकनकदण्डडामरैकचामरः, तुलितगत्वरतमालतरुखण्डेन मायूरातपत्रमण्डलेन जयन्त इव संक्रन्दनानुचरीकृतेन बालजलधरव्यूहेनान्धकारिताप्रिमभूमिरप्रेसरेण सरयूतटासङ्गि मत्तकोकिलं नाम बाह्योद्यानमगच्छत् [ऐ]।
मल्लिकामुकुलैः-मल्लिकाख्यकुसुमकलिकाभिः, रचितः-निर्मितः, शेखरः-शिरोमाल्यं येन तादृशः; पुनः मदान्धमधुकरध्वानवाचालै मदान्धाना-मदाकुलानाम् , मधुकराणां-भ्रमराणाम् , ध्यानः-गुजनैः, वाचालैः-मुखरैः, अंसशिखरावलम्बिभिः स्कन्धोपरिभागावलम्बिभिः, अभिनवैः नवीनैः, धूलीकदम्बमालम्वैः धूलीकदम्बानां-परागप्रचुरकदम्बाभिधवृक्षाणाम् , प्रालम्बैः-कण्ठाद् ऋजुतया लम्बमानमाल्यैः, उद्भासमानः उद्दीप्यमानः, कैः क इव ? अंसशिखरावलम्बिभिः स्कन्धशृङ्गावलम्बिभिः, निर्झरौथैः वारिप्रवाहसमूहैः, मैनाकनामा मैनाकसंज्ञकः, अचलः पर्वत इव; पुनः शिरीषतरु. कुसुमकल्पितकर्णपूरः शिरीषतरोः-शिरीषाख्यवृक्षविशेषस्य, यत् कुसुम-पुष्पम् , तेन कल्पितः-रचितः, कर्णपूरःकर्णाभरणं येन तादृशः पुनः कर्पूरपरिमलमुचा कर्पूरसौरभाविष्का, चन्दनद्रवेण चन्दनकर्दमेन, विहितसर्वाङ्गीणाङ्गरागः विहितः-कल्पितः, सर्वाङ्गीणः-सशिव्यापकः, अकरागः-अङ्गविलेपनं येन तादृशः; पुनः तत्कालोपनीतरत्नो. पलशकलशीतलं तत्काल-तत्क्षणम्, उपनीततानि-प्रापितानि, योजितानीति यावत् , यानि, रत्नोपलशकलानि-रत्नरूपपाषाणभागाः, तैः शीतलम् , अमलमुक्काफलप्रायं खच्छमुक्कामणिप्रचुरम् , अल्पं परिमितम्, भूषणकलापम् आभरणसमूहम् , उद्वहन् धारयन् ; अत एव अच्छकान्तिरत्नदर्पणप्रतिविम्बितैः अच्छकान्तिरत्नदर्पणेषु-निर्मलकान्तिकलितरत्नशकलरूपदर्पणेषु, प्रतिबिम्बितैः - प्रतिविम्बरूपेण दृश्यमानैः, सहनसंख्यैः दशशतसंख्याकैः, प्रीति निश्चलचक्षुषः प्रीत्या-स्नेहेन, निश्चलं-निस्पन्दम् , चक्षुर्यस्य तादृशस्य, जनस्य मार्गवर्तिदर्शकलोकस्य, लोचनैः नेत्रैः, सर्वतः समन्तात् , शबलितगात्रयष्टिः शबलिता-चित्रिता, व्याप्त्यर्थः, गात्रयष्टि:-शरीररूपा यष्टिर्यस्य तादृशः; अत एव ऐरावताधिरूढः ऐरावताख्यमहागजारूढः, साक्षात् सहस्राक्ष इव साक्षादिन्द्र इव, उपलक्ष्यमाणः प्रतीयमानः; पुनः समरकेतोः तदाख्यप्रकृतकुमारस्य, अधिस्कन्धं स्कन्धोपरि, अर्पितोभयबाहुपाशः अर्पितः-स्थापितः, उभयबाहुपाशः-उभयबाहुरूपः,, पाश:-बन्धनविशेषो येन तादृशः, कीदृशस्य समरकेतोः? निक्षिप्तनिजवेषानुरूपनिःशेषप्रथ्यस्य निक्षिप्तं-त्यक्तम् , निजवेषानुरूपं-नृपकुमारवेषोचितम् , निःशेष-समस्तम् , नेपथ्य-कृत्रिमशरीरशोभा येन तादृशस्य, पुनः तत्क्षणगृहीतनिशित. सुणेः तत्क्षणं-तत्कालम्, गृहीता-धृता, निशिता तीक्ष्णा, सृणि:-अडशो येन ताशस्य, पुनः निषादितां हस्तिपकताम. प्रतिपद्य प्राप्य, सिन्धुरस्कन्धं हस्तिस्कन्धम्, अध्यासितस्य आरूढस्य; पुनः पश्चिमासनाध्यासिना पश्चिमपश्चाद्भागावस्थितम् , यद् आसनम्-उपवेशनाधारः, तदध्यासिना-तदुपवेशिना, ताम्बूलदायकेन ताम्बूलदानाधिकृतपुरुषेण, प्रतिवेल सततम्, उद्धयमानकनकदण्डडामरैकचामरः उद्भूयमानः-उरिक्षप्यमाणः, कनकदण्डेन-सुवर्णमयदण्डेन, डामरः-सुदृढः, एकचामरः-प्रधानन्यजनविशेषो यस्य तादृशः; पुनः तुलितगत्वरतमालतरुखण्डेन तुलितःउपमितः, गत्वराणां-जङ्गमभूतानाम् , तमालतरूणां-तमालाख्यश्यामलवृक्षविशेषामाम् , खण्डः-विशेषः, वनमिति यावत् , येन तादृशेन, अग्रेसरेण अग्रगामिना, मायरातपत्रमण्डलेन मयूरस्य-विकारो मायूरम्, मयूरपक्षनिर्मितमित्यर्थः, यद्वा मयूराणां समूहो मायूरम् , तद्रूपं यद् आतपत्रं-छत्रम् , तन्मण्डलेन-तत्समूहेन, अन्धकारिताग्रिमभूमिः अन्धकारिताअन्धकारावृता, अग्रिमा-अग्रवर्तिनी, भूमिर्थस्य तादृशः, केन क इव ? संक्रन्दनानुचरीकृतेन संक्रन्दनेन-इन्द्रेण, अनुचरीकृतेन-अनुचरतामापादितेन, जलधरव्यूहेन मेघमण्डलेन, जयन्त इव तत्संज्ञक इन्द्रपुत्र इव [ऐ]।
Page #94
--------------------------------------------------------------------------
________________
२३६
टिप्पनक-परागविवृतिसवलिता प्रविश्य च तत्र परिमिताप्तराजपुत्रपरिवृत इतस्ततस्तत्कालबद्धमुग्धकुमलानि नवपरिमलाकृष्टवाचालषट्पदकुलानि धूलीकदम्बगहनानि, कादम्बकुलनिषेवितोद्दण्डकमलिनीपत्रखण्डाश्च तटपाटलाकुसुमवासिताम्भसः क्रीडादीर्घिकाः, निदाघतप्ताध्वगरचितपल्लवतल्पांश्च सलिलपरिपूरितालवालवलयितमध्यान् माधवीमण्डपान्, वातायनासीनवनिताकरप्रचेयतरुफलांश्च सुधापङ्कधवलान् प्रासादकानवलोकयन्नविरलफलितजलजम्बूनिकुरुम्बमुद्गतस्तोककुसुमस्तबककेतकीस्तम्बमुच्चोचरच्चीत्कारमुखराणां प्रेक्षतामनवरतमुद्घाटकानां घूर्णमानैर्नभसि नभस्खदाघट्टनजर्जरैर्जलतुषारजालकैर्जडीकृतनिदाघकर्कशार्ककरवितानमापानकमृदङ्गरवजनितशृङ्गारैर्नगरीजनैनशिखण्डिभिश्व युगपदारब्धताण्डवैर्मण्डितलतामण्डपमदूरवहदगाधनीरं सरय्वास्तीरपरिसरमुपासरत् [ओ]।
टिप्पनकम्-उद्घाटकानां जलयात्राणाम् [ओ] ।
च पुनः, प्रविश्य तदन्तःप्रवेशं कृत्वा, तत्र तस्मिन्नुद्याने, परिमिताप्तराजपुत्रपरिवृतः परिमितैः परिगणितैः, कतिपयरित्यर्थः, आप्तेः- विश्वस्तैः, राजपुत्रैः-नृपकुमारैः, परिवृतः-परिवेष्टितः, इतस्ततः अत्र तत्र, तत्कालबद्धमुग्ध कुङमलानि तत्काल-सद्यः, बद्धाः-गृहीताः, मुरधाः-मनोहराः, कुडाला:-कलिका यस्तादृशानि, पुनः नवपरिमलाकृष्ट. वाचालषट्पदकुलानि नवपरिमलैः-अभिनवसौरभैः, आकृष्ट-कृताकर्षणम् , वाचालं-मुखरम् , षट्पदफुलं-भ्रमणनिकरो यस्तादृशानि, धूलीकदम्बगहनानि धूलीकदम्बाना-वसन्तविकासिकदम्बतरुविशेषाणाम् ,गहनानि-वनानि च पुनः, कादम्बकुलनिषेवितोद्दण्डकमलिनीपत्रखण्डाः कादम्बकुलेन-हंससमूहेन, निषेविता:-कृतसेवाः, उद्दण्डानाम्-उन्नतकाण्डा. नाम् , कमलिनीनां-कमलसमूहानाम् , पत्रखण्डा:-दलदेशा यासु तादृशीः, पुनः तटपाटलाकुसुमवासिताम्भसः तटेतीरे, यापाटला-कृष्णवृन्ताख्यलताविशेषः, तस्याः कुसुमैः-पुष्पैः, वासितानि-सुगन्धकलितानि, अम्भांसि-जलानि यासांताचीः; क्रीडादीर्घिकाः क्रीडावापिकाः; च पुनः, निदाघतताध्वगरचितपल्लवतल्पान् निदाघतप्तैः-प्रीमतप्तैः, अध्वगैःथिकैः, रचिताः-निर्मिताः, पल्लवतल्पा:-पलपशव्या येषु तादृशान् , सलिलपरिपूरितालवालवलयितमध्यान् सलिलपरिपूरितैः-जलपरिपूरितैः, आलवाले:-क्षमूले सेकार्थ मृदादिरचितर्जलाधारैः, वलयित-वेष्टितम् , मध्यं येषां तादृशान् , माधवीमण्डपान् माधवीनामकलतागृहान् ; च पुनः, वातायनासीनवनिताकरप्रचेयतरुफलान् वातायनेषुगवाक्षेषु, आसीनाभिः-उपविशन्तीभिः, वनिताभिः-वधूभिः, कराभ्यां-हस्ताभ्याम्, प्रचेयानि-प्रचेतु-त्रोटयितुमित्यर्थः, शक्यानि, तरुफलानि-वृक्षफलानि येषु तादृशान् , अत्युचतानित्यर्थः, पुनः सुधापाधवलान् सुधाप?:-चूर्णद्रवैः, धवलान्शुभ्रान्, प्रासादकान् राजगृहान् ; अवलोकयन् पश्यन् , सरय्वाः सरयूनद्याः, तीरपरिसरं तीरप्रान्तम् , उपासरत् उपजगाम, कीदृशम् ? अविरलफलितजलजम्बूनिकुरम्बम अविरलं-निरन्तरम्, सान्द्रमित्यर्थः, फलिताना-संजातफलानाम् , जलजम्बूना-जलसम्पर्केण फलनशीलानां जम्बूवृक्षाणाम् , निकुरम्ब-वृन्दं यस्मिंस्तादृशम् । पुनः उद्गतस्तोक कुसुमस्तषककेतकीस्तम्बम् उद्गत:-उन्मीलितः, स्तोक:-अल्पः, कुसुमस्तबकः-पुष्पगुच्छो येषां तादृशाः, केतकीस्तम्बा:केतकीसंज्ञकलताकाण्डा यस्मिंस्तादृशम् ; पुनः उचोचरञ्चीत्कारमुखराणाम् उच्च-तारं यथा स्यात् तथा, उच्चरनिः-- उद्गच्छद्भिः, चीत्कारैः-घ्यनिविशेषैः, मुखराणां-शब्दायमानानाम्, पुनः अनवरतं निरन्तरम् , प्रेसतां चलताम् , व्याप्रिय मागानामिति यावत् , उद्घाटकानां कूपाजलोद्धरणयन्त्राणाम् ,नभसि गगने, धूर्णमानैः भ्राम्यद्भिः,नमस्खदाघट्टनजर्जरैः नभखतः- पवनस्य, आघट्टनेनआधातनेन, जर्जरैः-खण्डीभूतैः, जलतुषारजालकैः उक्तयन्त्रोद्भूतजलविकारात्मकहिमसंघातैः, जडीकृतनिदाघकर्कशार्ककरवितानं जडीकृतः-शिशिरीकृतः, शैत्यमापादित इति यावत् , निदाधे-ग्रीष्मकाले कर्कशःकठोरः, अर्कस्य-सूर्यस्य, करवितानः-किरणविस्तारः, किरणरूपो गगनमण्डपोल्लोचो वा यस्मिस्तादृशम्, पुन: आपानक मृदङ्गरवजनितशृङ्गारैः आपानके-सुरापानगोष्ट्याम् , यो मृदङ्गरवः-मृदङ्गाख्यवाद्यविशेषध्वनिः, तेन जनितः-आविर्भावितः,
भारः-तदाख्यरसविशेषो येषु तादृशैः, युगपत् एककाले, आरब्धताण्डवैः आरब्धनृत्यैः, नगरीजनैः प्रकृतनगरीवास्तव्यलोकैः, वनशिखण्डिभिः धनमयूरेश्व, मण्डितलतामण्डपम् अलङ्कतलतागृहम् ; पुनः अदूरवहदगाधनीरं
Page #95
--------------------------------------------------------------------------
________________
तिलकमारी। तत्र च संनिधाने मकरध्वजायतनस्य नितान्तसुभगे भूविभागे प्रथममेवागत्य परिजनेन सूत्रितम् , अनतिमात्रोच्छ्रितस्य प्रशस्तविस्तारभाजः कूजितानुमीयमाननीलपल्लवप्रभान्धकारावगुण्ठितकलकण्ठकुलस्य लम्बमानबहलफललुम्बिस्तम्बभारदूरावर्जितोदारचिटपस्य जलतुषारवर्षिणा सरलि(सि)तसमदहंससारसारण नभखता स्वैरमान्दोलितसान्द्रशाखामण्डलस्य तरुणसहकारखण्डस्य मध्ये महता बालकदलीवनेन कवचितम् , [औ], अचिरविकचानामजिरशिरीषशाखिनामलिविघट्टितैर्गलद्भिर्बालशुकशकुनिगलनालनीलैः प्रसूनस्तबकैराकाशजाह्नवीशैवलैरिव शैत्यलोलैरनुसृतपुरोभागम् , प्रतिभित्तिलम्बितविचित्रबिससूत्रचामरम्, प्रतिद्वारमाबद्धहरिचन्दनप्रवालवन्दनमालम् , प्रतिस्तम्भमारोपितहिमशिलाशालभञ्जिकम् , प्रतिगवाक्षमुपनिहितकालागुरु
टिप्पनकम्-सारवेण सरवाः सत्केन [औ] ।
अदूरे-समीपे, वहत्-स्पन्दमानम् , अगाधम् अतिगम्भीरं नीरे यस्य तादृशम् , [ओ]। च पुनः, तत्र तस्मिन् , तीर.
इत्यर्थः, जलमण्डपम्-जलगृहम् , अगच्छत् गतवान् । कीदृशम् ? मकरध्वजायतमस्य कामदेवमन्दिरस्य सन्निधाने समीपे, नितान्तसुभगे अत्यन्तमनोहरे, भूविभागे भूमिप्रदेशे, प्रथममेव पूर्वमेव, आगत्य आगमनं कृत्वा, परिजनेन वपरिवारेण, सुत्रितं रचितम्, पुनः तरुणसहकारखण्डस्य परिणतातिसुरभिरसालवनस्थ, मध्ये, महता विस्तृतेन, बालकदलीवनेन नवकदल्याख्यप्रसिद्धफलप्रसविवृक्षसमूहेन, कवचितं परितो वेष्टितम् , कीदृशस्य तस्य मध्ये ? अनतिमानोच्छ्रितस्य अनत्यन्तोन्नतस्य पुनः प्रशस्तविस्तारभाजः अतिविस्तारशालिनः; पुनः कूजितानुमीयमाननीलपल्लवप्रभान्धकारावगुण्ठितकलकण्ठकुलस्य कूजितेन-शब्दविशेषेण, अनुमीयमानम्-अनुमित्यात्मकज्ञानविषयीकियमाणम् ,नीलपल्लवानां-कृष्णवर्णनवदलानाम् ,याः प्रभा:-कान्तयः, तद्रूपैः, अन्धकारैः, अवगुण्ठितम्-आच्छादितम् , कलकण्ठानां-कोकिलानाम् , कुलं-समूहो यस्मिस्तादशस्य पुनः लम्बमानबहलफललुम्बिस्तम्बभारदुरावर्जितोदारविटपस्थ लम्बमाना:-अघो नमन्त्यः, बहलफला:-बहुफलाः, या लुम्बयः-प्रतिशाखावलम्बमानफलसमूहात्मका गुच्छाः, तासां स्तम्बस्य-समूहस्य, भारेण-गुरुतया, दूर-दूरपर्यन्तम् , आवर्जिताः-आनमिताः, उदारा:-विस्तृताः, विटपाः-शाखा यस्य तादृशस्य पुनः नमस्खता वायुना, खैरं खेच्छानुसारम्, आन्दोलितसान्द्रशाखामण्डलस्य आन्दोलित-प्रकम्पितम सान्द्र-निविडम् , शाखामण्डलं-शाखासमूहो यस्य तादृशस्य, कीडशेन वायुना? जलतुषारवर्षिणा जलहिमकणोत्क्षेपिणा, पुनः सरसितसमदहंससारसारवेण सरसिताः-सरसतामापादिताः, यद्वा सरसितेन-शब्देन सहिताः, शब्दायमाना इस्यर्थः,ये समदा:-मदान्विताः, हंससाराः-हंसश्रेष्ठाःतैःसारवेण-मुखरेण, यद्वा सरसिताः-सशब्दाः, समदाः-हर्षान्विताश्च, हंससाराः-श्रेष्ठहंसा येन तेन सरसितसमदहंससारेण, पुनः सारवेण-सरयुनदीसम्बन्धिना, सरयूनदीजलसंस्पर्शिनेत्यर्थः [औ । पुनः प्रसूनस्तबकैः पुष्पगुच्छैः, अनुसूतपुरोभागम् अनुसृतः-आश्रितः, व्याप्त इति यावत् , पुरोभागः-अग्रभागो यस्य तादृशम् , केषां तैः ? अचिरविकचानाम् अभिनवविकसितानाम् , अजिरशिरीषशाखिनां प्राङ्गणवर्तिशिरीषाख्यवृक्षविशेषाणाम् ; कीदृशैस्तैः ? अलिविघट्टितैः भ्रमरवि लेषितैः, पुनः गलद्भिः पतद्भिः पुनः बालशुकशकुनिगलनाल. नीलैः बालानां-शैशवावस्थानाम् , शुकशकुनीनां-शुकाख्यपक्षिविशेषाणाम् , यद् गलनालं-कण्ठकाण्डः, तद्वद् नीलैः-कृष्णवणः; कीदृशैः कैरिव ! शैत्यलोलैः शैत्येन हेतुना, लोलैः-तरलैः, आकाशजाह्नवीशैवलैरिव आकाशजाहव्याः-आकाशगङ्गायाः, शैवलैः-जलीयतृणविशेषैरिव; पुनः प्रतिभित्तिलम्बितविचित्रबिससूत्रचामरं प्रतिभित्ति-प्रतिकुडयम् , लम्बिताः-अधोनताः, विचित्रा:-विविधवर्णाः. बिससूत्राणां-मृणालतन्तूनाम् , चामरा:-व्यजनविशेषा यस्मिस्तादृशम् । पुनः प्रतिद्वारमाबद्धहरिचन्दनप्रवालवन्दनमालं प्रतिद्वार-द्वारे द्वारे. आबद्धा-लम्बिता, हरिचन्दनप्रवालानां-हरिचन्दनाख्यदिव्यधूक्षपालवानां चन्दनविशेषपालवानां वा, वन्दनमाला-तोरणमाला यमिंस्तादृशम् । पुनः प्रतिस्तम्भ प्रतिस्थूणम्, आरोपितहिमशिलाशालभलिकम आरोपिता-स्थापिता, हिमशिलायाः-शीतलप्रस्तरस्य, शालभजिका-पुत्तलिका यस्मिस्तादृशम् । पुनः प्रतिगवाक्षं प्रतिवातायनम् , उपनिहितकालागुरुधूपर्धाटेकम् उपनिहिता-आरोपिता, कालागुरूणां--
Page #96
--------------------------------------------------------------------------
________________
२३८
टिप्पनक-परागविवृतिसंवलिता धूपघटिकम् , सतारागणमिवाङ्गरागमणिभाजनैः, सान्धकारमिव परिमलाकृष्टमधुकरपटलैः, सज्योत्स्नमिव चीनांशुकवितानः, अतिशिशिरतया च जलकलशैरपि निबिडकर्पटावगुण्ठितकर्णैरुत्पन्नशिरोवेदनैरिवाधिष्ठितम् , उद्यानहंसैरपि चनुसंपुटधृतमृणालसूत्रपिण्डैः प्रावरणपटवानार्थिभिरिवेतस्ततो धावद्भिरध्यासितम् , आक्रीडगिरिभिरपि वारंवारमुञ्चरत्तारमयूरकेकैराकारितनिदाघतप्तापरशिलोश्चयैरिवामुक्तसांनिध्यम् , अशिपैरपि परस्परसंवलितशाखैरभिलषितनिरन्तरशरीराश्लेषैरिव परीतम् , अरतिविनोदस्थानमिव सागरविप्रयोगे सरय्त्राः, दुर्गनिवेशमिव ग्रीष्मनिर्दयावस्कन्देषु शिशिरस्य, दाहज्वरचिकित्सागृहमिव दिवसकरमण्डलप्रवेशेषु चन्द्रमसः, शिशिरोपचारमन्दिरमिव वनाग्निसंतापातिवाहनेषु हिमगिरेः, उपरि वर्षतां च प्रावृषेण्ययत्रजलधराणामु रनिनादनर्तितमयूरमण्डलेन निपतता समन्तादशान्तसंतानेन निरन्तरन्यस्तचन्द्रमणिशिलाप्रणाल विगलि.
सुगन्धिद्रव्यविशेषाणां यो धूपः, सस्य घटिका-घटी यस्मिंस्तादृशम् । पुनः अङ्गरागमणिभाजनैः अङ्गरागाणाम्-अङ्गविलेपन द्रव्याणाम् , मणिभाजनैः-मणिमयपात्रः, सतारागणमिव तारागणसहितमिव । पुनः परिमलाष्टमधुकरपटलैः परिमलेन-सौरभेण, आकृष्टानि-कृताकर्षणानि, यानि मधुकरपटलानि-भ्रमरवृन्दानि, तैः, सान्धकारमिय अन्धकारसहितामिव । पुनः चीनांशुकवितानः चीनांशुकं-चीनदेशरचितवस्त्रम्, तत्सम्बन्धिभिः, वितानैः-उल्लोचैः, सज्योत्स्नमिव ज्योत्स्नयाचन्द्रिकया सहितमिव; पुनः अतिशिशिरतया अतिशीतलतया हेतुना, उत्पन्न शिरोवेदनैरिव उत्पन्न शिरोव्यथैरिव, निबिडकर्पटावगुण्ठितकर्णः निविडेन-सान्द्रेण, कपटेन-पटखण्डेन, अवगुण्ठितः-आवृतः, कर्णो येषां तादृशैः, जलकलशैरपि जलपूर्णपटैरपि, किमुत तत्रत्यमनुष्यरित्यर्थः, अधिष्ठितम् आश्रितम् । पुनः प्रावरणपटयानार्थिभिरिव प्रावरणपट:-शीतावरणवस्त्रम् , तस्य वान-निर्माणम् , तदर्थिभिरिव तदभिलाषिभिरिवेत्युरप्रेक्षा, चञ्चसम्पुटधृतमृणालसूत्रपिण्डैः, चक्षुसम्पुटेन-सम्पुटितचञ्चुभ्याम् , धृतः-गृहीतः, मृणालसूत्रपिण्ड:-विसतन्तुपिण्डो यैस्तादृशैः, पुनः इतस्ततः अत्र तत्र, धावद्भिः सञ्चरद्भिः, उधानहंसैरपि क्रीडाकाननहसैरपि, किमुतान्यजनैरित्यर्थः, अध्यासितम् अधिष्ठितम् । पुनः वारंवारम अनेकवारम, उच्चरत्तारमयरकेकैः उच्चरन्ती, तारा-उच्चा, मयूराणां केका-कृजितविशेषो येषु येभ्यो या तादृशैः, अत एव आकारितनिदाघसप्तापरशिलोचयैरिव आकारिताः-शैत्यानुशीलनाय आहूताः, निदाघे-प्रीष्मे, अपरे-अन्ये, शिलोच्चयाः-पर्वता यैस्तादृशैरिवेत्युत्प्रेक्षा, आक्रीडगिरिभिरपि क्रीडापर्वतैरपि, अमुक्तसान्निध्यम् अमुकम्-अत्यक्तम् , सान्निध्यं यस्य तादृशम् । पुनः परस्परसंवलितशाखैः परस्परं संवलिता-सम्पृक्ता, शाखा येषां तादृशैः, अतः अभिलषितनिरन्तरशरीराश्लेषैरिव अभिलषितः, निरन्तरम्-अनवरतम् , शरीराश्लेषः-शरीरासको यैस्तादृशेरिवे. त्युत्प्रेक्षा, अङ्गिपैः पादपैः, परीतं व्याप्तम् । पुनः सरय्वाः सरयूनद्याः, सागरविप्रयोगे समुद्ररूपपतिविरहे, अरतिविनोदस्थानमिव अरतिः-खेदः, सन्ताप इत्यर्थः, तस्य विनोदः-अपनोदनम् , शमन मित्यर्थः, तस्य स्थानमिवेत्युत्प्रेक्षा । पुनः शिशिरस्य तत्संज्ञकस्य ऋतोः, ग्रीष्मनिर्दयावस्कन्देषु प्रीष्मेण-ग्रीष्मर्तुना, ये निर्दया:-दृढतराः, अवस्कन्दाः-आक्रमणानि, खेषु सत्सु, दुर्गनिवेशमिव तद्वारणार्थप्राकारनिवेशमिवेत्युत्प्रेक्षा । पुनः चन्द्रमसः चन्द्रस्य, दिवसकरमण्डलप्रवेशेषु सूर्यबिम्बप्रवेशेषु सत्सु, दाहज्वरचिकित्सागृहमिव तद्विम्बकृतदाहजन्यज्वरस्य या चिकित्सा-प्रतीकारः, तद्गृहमिवेत्ति चोप्रेक्षा । पुनः हिमगिरेः हिमालयपर्वतस्य, वज्राग्निसन्तापातिवाहनेषु वज्रामिना-इन्द्रप्रक्षिप्तवज्रानलेन यः सन्तापः, तदतिवाहनेषु-तदुपशमनेषु, तदर्थमित्यर्थः, शिशिरोपचारमन्दिरमिव शीतोपचारगृहमिवेत्युत्प्रेक्षा । पुनः स्फाटिकेन स्फटिकमणिमयेन, प्राकारवलयेनेव प्राकारमण्डलेनेव, पाथसां जलानाम् , प्रवाहेण निर्झरेण, प्रान्तेषु पर्यन्तप्रदेशेषु, कृतपरिक्षेपं कृतः, परिक्षेपः-परिवेष्टनं यस्य तादृशम् , किंसम्बन्धिना तेन ? उपरि अर्ध्वम् , वर्षतां वर्षणं कुर्वताम् , प्रावृषेण्ययनजलधराणां प्रावृषेण्या:-वर्षासम्बन्धिनो ये यन्त्राः, तद्रपाणां जलधराणां-मेघानाम्, तत्सम्बन्धि नेत्यर्थः, कीदृशेन प्रवाहेण ? उद्धरनिनादनर्तितमयूरमपडलेन उद्धरेण-उच्चन, निनादेन-ध्वनिना, नर्तितं-नृत्यं कारितम् , मयूरमण्डलं-मयूरसमूहो येन तादृशेन, पुनः समन्तात् सर्वतः, निपतता स्यन्दमानेन, पुनः अश्रान्तसन्तानेन अविच्छिन्नधारण, पुनः निरन्तरन्यस्तचन्द्रमणिशिलाप्रणालविगलितेन निरन्तरम्-अविरलम् , न्यस्ता स्थापिता, या चन्द्र
Page #97
--------------------------------------------------------------------------
________________
विलकमञ्जरी।
२३९ तेन स्थवीयसा पाथसां प्रवाहेण प्राकारवलयेनेव स्फाटिकेन प्रान्तेषु कृतपरिक्षेपम् [अं], अम्लानमल्लिकामाल्यरचितशेखराभिः श्रवणावलम्बिशैवलवल्लरीहरितायमाननवबन्धूकपाण्डुगण्डस्थलाभिः कण्ठकन्दलामुक्तहिमगुलिकाहारभासितोन्नतस्तनकलशाभिरसितोत्पलनालवलयाधिष्ठितप्रकोष्टकाण्डाभिः पदे पदे रणितमधुकरजालकिङ्किणीचक्रवालेन बकुलमालामेखलागुणेन परिक्षिप्तघनजघनभागाभिर्घनसारसंपर्ककर्कशामोदेन स्पर्शेन्द्रियहारिणा हरिचन्दनरसद्रवेण संपादिताप्रपदीनचर्चाभिर्जलार्द्रबिससूत्रसंव्यानवाहिनीभिरुद्यानदेवताभिरिव संभूयोपस्थिताभिरभिनवयौवनाभिर्वाररमणीभिरध्यासितविततवातायनम् , अतिविचित्रानेकचित्रशालं जलमण्डपमगच्छत् [अ]]
, प्रविश्य च तत्र कतिपयाप्तसहचरसहायो विभावयनितस्ततस्तस्य रचनाविचित्रतामतिचिरं बभ्राम, विरतकौतुकच कणद्भिरप्रतः श्वासपरिमलावकृष्टैरलिभिरभ्यर्थित इवानल्पमेकं कुसुमतल्पमध्यास्त । निषण्णं
मणिशिला-चन्द्रकान्तमणिरूपः प्रस्तरः, तत्सम्बन्धि यत् प्रणालं-जलनिर्गमनमार्गः, ततो विगलितेन-स्यन्दितेन, अतः स्थवीयसा अतिस्थूलेन [अं] । पुनः वाररमणीमिः वेश्याभिः, अध्यासितवातायनम् अध्यासितम्-उपविष्टम् , अधिष्टितमित्यर्थः, वातायनं- गवाक्षो यस्य तादृशम् , कीदृशीभिः ? अम्लानमल्लिकामाल्यरचितशेखराभिः अम्लानानाम्अचिरावचितानाम्, मल्लिकानो-तदाख्यकुसुमानाम् , यन्माल्यं तेन रचितं शेखर-शिरोमण्डनं याभिस्तादृशीभिः पुनः श्रवणावलम्बिशैवलवल्लरीहरितायमाननवबन्धूकपाण्डुगण्डस्थलाभिः धवणावलम्बिनी-कर्णावलम्बिनी, या शैवलबालरी-शैल्याधायकतृगजललतिका, तया, हरितायमान-हरितवर्णायमानम् , नववन्धूकपाण्ड-नव-नवीनं यद् बन्धूक-तदाख्यरतकुसुमम् , तद्वत् , पाण्डु-रक्तवर्णम् , गण्डस्थलं-कपोलस्थलं यासां तादृशीभिः, पुनः कण्ठकन्दलामुक्तहिमगुलिकाहारभासितोन्नतस्तनकलशाभिः कण्ठकन्दलेन-कण्ठनालेन, अमुक्तः-शैत्यानुभवाय अत्यक्तः, धृत इत्यर्थः, यः, हिमगुलिकाहारः-हिमखण्डमाला, तेन भासिता-उद्दीपिता-उन्नती, स्तनकलशौ कलशायमानस्खनौ यासां तादृशीभिः पुनः असितोत्पलनालवलयाधिष्ठितप्रकोष्ठकाण्डामिः असितोत्पलनालवलयेन नीलकमलदण्डमण्डलेन, अधिष्ठितः-व्याप्तः, प्रकोष्ठकाण्डःमणिबन्धाधोभागरूपो दण्डो यासां तादृशीभिः; पुनः पदे पदे प्रतिपदम् , प्रतिपादन्यासमित्यर्थः, रणितमधुकरजालकिङ्किणीचक्रवालेन रणितं-शब्दायितम् , मधुकरजालरूपं-भ्रमरमण्डलात्मकम् , किङ्किणीचक्रवाल-क्षुद्रघण्टिकामण्डलं यस्मितादृशेन, बकुलमालामेखलागुणेन बकुलमालायाः-बकुलाख्यकुसुमविशेषमालारूपायाः, मेखलायाः-स्त्रीकटिभूषणस्य, गुणेन-सूत्रेण, परिक्षिप्तधनजघनभागाभिः परिक्षिप्तः-परिवेष्टितः, घनः-दृढः, जघनभाग:-कटिपुरोभागमण्डलं यासां ताश्चीभिः; पुनः हरिचन्दनरसद्वेण हरिचन्दनाख्यचन्दनविशेषरसपङ्केन, सम्पादिताप्रपदीनचर्चाभिः सम्पादिताकृता, आप्रपदीना-पादाप्रपर्यन्ता, चर्चा-शरीरविलेपनं याभिस्वादशीभिः; कीदृशेन तेन ? घनसारसम्पर्ककर्कशामोदेन घनसारस्य-कर्पूरस्य, सम्पर्केण-मिश्रणेन, कर्कशः-उत्कटः, आमोदः-सुगन्धो यस्य तादृशेन, पुनः स्पर्शेन्द्रियहारिणा त्वगिन्द्रियकर्षिणा, अतिशीतलेनेत्यर्थः; पुनः जलाईबिससूत्रसंव्यानवाहिनीभिः जलाई-जलाप्लुतम् , यद् बिससूत्राणां मृणालतन्तूनाम् , संव्यानम्-उत्तरीयवस्नम्, तद्वाहिनीभिः-तद्धारिणीभिः; काभिरिव ? सम्भूय संघीभूय, उपस्थिताभिः उपागताभिः, उद्यानदेवताभिरिव क्रीडावनदेवताभिरिवेत्युत्प्रेक्षा; पुनः अभिनवयौवनाभिः नवीनयुवतीभिः। पुनः कीदृशम् ? आतविचित्रानेकांचत्रशालम् अतिविचित्रा:-अत्यन्तविलक्षणाः, अनेकाः-बहवः, चित्रशाला:-आलेख्यग्रहा यस्मिंस्तादृशम् [:]।
____ च पुनः, तत्र तस्मिन् जलमण्डप इत्यर्थः, प्रविश्य प्रवेशं कृत्वा, कतिपयाप्तसहचरसहायः कतिपयैः-परिगणितैः, आतैः-विश्वस्तैः, सहचरैः-सहगामिभिः, सहायः-सहितः, इतस्ततः अत्र तत्र, तस्य जलमण्डपस्य, रचनाविचित्रतां रचनावैलक्षण्यम् , विभावयन् पर्यालोचयन् , अतिचिरम् अतिदीर्घकालम् , बभ्राम भ्राम्यति स्म । च पुनः, विरतकौतुका निवृत्ततद्वैचित्र्यावलोकनकुतूहल: सन् , अग्रतः अमे, कणद्भिः गुञ्जद्भिः, श्वासपरिमलाकृष्टैः श्वासस्यनासामारुतस्य, परिमलैः-सौरभैः, आकृष्टैः-कृताकर्षणैः, अलिभिः भ्रमरैः, अनल्पम् अत्यन्तम् , अभ्यर्थित इव प्रार्थित
Page #98
--------------------------------------------------------------------------
________________
२४०
टिप्पनक-परागविवृतिसंवलिता च तत्र तमुपसेवितुमतीय सेवाकुशलाः कलाविदो विदितसकलशालतत्त्वाः कवयो वाग्मिनः काव्यगुणदोषज्ञा विज्ञातविविधपुराणेतिहासकथाः कथाख्यायिकानाटकादिप्रबन्धबद्धरतयो रतितन्त्रपरम्परापरामर्शरसिक मनसः प्रियदर्शना विदग्धोज्जवलवेषवपुषः परिहासशीलाः स्वभावपेशलोक्तयः प्रत्येकमावेदिताः प्रतिहारेण राजपुत्राः प्राविशन् । अपरेऽपि तत्कालसेवोचिताः सवयसः प्रधानराजलोकाः संनिदधुः [क]।
यथास्थानमुपविष्टैश्च तैः सह प्रस्तुत विचित्रकथालापस्य चित्रपदभङ्गसूचितानेकसुन्दरोदारार्था प्रवृत्ता कथञ्चित् तस्य चित्रालङ्कारभूयिष्ठा काव्यगोष्ठी । तत्र च पठ्यमानासु विद्वत्सभालब्धख्यातिषु प्रहेलिकाजातिषु, चिन्त्यमानेषु मन्दमतिजनितनिर्वेदेषु प्रश्नोत्तरप्रभेदेषु, भाव्यमानासु प्रसन्नगम्भीरभावार्थासु षट्प्रज्ञक
इव, एकम् अद्वितीयम् , कुसुमतल्पं पुष्पशय्याम् , अध्यास्त तदुपरि उपाविशत् । तत्र तस्मिन् , कुसुमतल्प इत्यर्थः, निषण्णम् उपविष्टम् , तं हरिवाहनम् , सेवितुं परिचरितुम्, राजपुत्राः राजकुमाराः, प्राविशन् प्रविष्टाः, कीदृशाः! अतीव अतिशयेन, सेवाकुशलाः परिचरणनिपुणाः पुनः कलाविद: शिल्पाभिज्ञाः पुनः विदितसकलशास्त्रतत्त्वा: परिशीलिताशेषशास्त्रसाराः; पुनः कवयः कवित्वशक्तिशालिनः पुनः वाग्मिनः सम्यग्वतार, पुनः काव्यगुणदोषशा: काव्यसम्बन्धिनो ये गुणाः-माधुर्यादयः; ये च दोषाः-श्रुतिकटुत्वादयः, तेषां विज्ञाः; विश्वातविविधपुराणेतिहासकथाः विज्ञाताः-सम्यगवगताः, अभ्यस्ता इत्यर्थः, विविधानि अनेकप्रकाराणि यानि पुराणानि-सर्गप्रतिसर्गादिपञ्चलक्षणोपेतप्रबन्धाः, इतिहासाः-महाभारतादिपूर्ववृत्तार्थकग्रन्थाः, तेषां कथाः-कथानकानि यैस्तादृशाः पुनः कथाख्यायिकानाटकादिप्रबन्धबद्धरतयः कथा नाम-कादम्बर्यादयः कल्पितप्रबन्धाः, आख्यायिका-उपलब्धार्थकः प्रबन्धः, नाटकं-दृश्यकाव्यम्, तदादयःतत्प्रभृतयो ये प्रबन्धाः-ग्रन्थाः, वेषु बद्धरतयः-बद्धानुरागाः; पुनः रतितन्त्रपरम्परापरामर्शरसिकमनसः रतितत्रस्यरतिशास्त्रस्य, कामशास्त्रस्येत्यर्थः, या परम्परा-समूहः, तत्परामर्श-तत्समालोचने, रसिकम-अनुरक्तं मनो येषां तादृशाः पुनः प्रियदर्शनाः प्रियम्-आनन्दजनकम् , दर्शनम्-अवलोकनं येषां तादृशाः; पुनः विदग्धोज्वलवेषवपुषः विदग्धःनैपुण्यपूर्णः, उज्ज्वल:-उद्भासुरश्च, वेषः-कृत्रिमाशमण्डनं यस्य तादृशं, वपुः-शरीरं येषां तादृशाः; पुनः परिहासशीलाः परिहासखभावाः; पुनः खभावपेशलोकयः खभावेन पेशलाः-प्रियाः, उत्तयः-वचनानि येषां तादृशाः; पुनः प्रतीहारेष द्वारपालेन, प्रत्येक प्रतिव्यक्ति, आवेदिताः हरिवाहनं प्रति सूचितागमनवार्ताः। अपरेऽपि अन्येऽपि, तत्कालसेवोचिता: तत्कालसेवायोग्याः, सवयसः समानवयस्काः,प्रधानराजलोकाः मुख्यराजकीयजनाः, सन्निदधुः सन्निहिताः [क]। __ च पुनः, यथास्थानं खखस्थानमनतिकम्य, उपविष्टैः कृतोपवेशनैः, तैः राजपुत्रैः, सह, प्रस्तुतविचित्रकथालापस्य प्रस्तुतः-प्रारब्धः, विचित्रकथानाम्-अपूर्वकथानाम्, आलापः-आभाषणं येन तादृशस्य, तस्य हरिवाहनस्य, चित्रपदभङ्गसूचितानेकसुन्दरोदारार्था चित्राणाम्-अर्थचित्रालङ्कारविशिष्टानाम् , पदानाम् , भङ्गेन-विच्छित्या, चमत्कृत्येत्यर्थः, सूचिताः अभिव्यक्ताः, अनेके, सुन्दराः-मनोहराः, उदाराः-विस्तृताः, अर्था यया ताक्षी, चित्रालङ्कारभूयिष्ठा चित्रालङ्कारप्रचुरा, काव्यगोष्ठी काव्यपाठपरिषत् , कथञ्चित् केनापि प्रकारेण, प्रवृत्ता। पुनः तत्र गोष्टयाम्, विद्वत्सभालब्ध. ख्यातिषु विद्वत्सभायां-विद्वगोष्टयाम् , लब्धा-प्राप्ता, ख्यातिः-प्रसिद्धिर्याभिस्तादृशीषु,प्रहेलिकाजातिषु प्रहेलयति-सूचयति वास्तविकार्थगोपनपूर्वकमवास्तविकमसम्भाव्यमर्थ या सा प्रहेलिका, यथा-"पानीयं पातुमिच्छामि स्वतः कमललोचने 1। यदि दास्यसि नेच्छामिन दास्यसि पिबाम्यहम् ॥ इति, तजातिषु-तजातीयेषु दुर्वेद्यार्थककाव्येषु, पठ्यमानासु पठनकर्माक्रियमाणासु । पुनः प्रश्नोत्तरभेदेषु प्रश्नोत्तरविशेषेषु, चिन्त्यमानेषु आलोच्यमानेषु, कीदृशेषु मन्दमतिजनितनिवेदेषु मन्दमतीनाम्ऊहापोहाक्षमबुद्धीनाम् , जनितः-उत्पादितः, निर्वेदः-ग्लानियेस्तादृशेषु । पुनः प्रसनगम्भीरभावार्थासु प्रसन्नः-श्रवणमात्रेण बोधविषयः, गम्भीरः-गाम्भीर्यगुणयुक्तश्च, भावार्थ:-अभिप्रायविषयार्थी यासां तादृशीषु, षट्पक्षकगाथासु पदसु-'धर्मः, अर्थः, कामः, मोक्षः, लोकः, तत्त्वार्थः' एषु षद्विषयेषु, प्रज्ञा येषां ते षट्प्रज्ञकाः, तदुक्तम्-“धर्मार्थ-काम-मोक्षेषु लोकतत्त्वार्थयोरपि । पदसु प्रज्ञा तु यस्यासी षट्प्रज्ञः परिकीर्तितः ॥ १ ॥ इति, तदीयगाथासु-तदीयकथासु, भाव्यमानासु आलोच्य
Page #99
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
गाथासु, विमृश्यमानेषु बाधानुपदसंपादितोत्सेकेषु बिन्दुमात्राक्षरच्युतकश्लोकेषु, हस्यमानेषु दीर्घकालानुभूतनिष्फलचिन्तामौनेषु प्राज्ञंमन्येषु, प्रकाश्यमाने साधुवादविधिना बुधानां बोधरभसे, विजृम्भमाणे निर्भरं सभ्यानां कौतुकरसे काव्येष्वतीय रसिकः सर्वदा निकटवर्ती कुमारस्य नर्मपात्रं सकलराजपुत्राणां मञ्जीरनामा बन्दिपुत्रः किञ्चिदुपसृत्य हरिवाहनमवोचत् [ख] - ' कुमार ! प्रक्रमागतमेव किञ्चिद् विज्ञाप्यसे । कुरु क्षणमात्रमवधानदानेनानुग्रहम्, अस्यैव समनन्तरातिक्रान्तस्य मधुमासस्य शुद्ध त्रयोदश्यामहमहमिको पदर्शित निजविभवविच्छ्र्देन नगरीनिवासिना भुजङ्गलोकेन भक्त्या प्रवर्तितं यात्रोत्सवमवेक्षितुमिदमेव सर्वतोविरचितविचित्रवस्त्रध्वजवितानमात्तकनकशृङ्गवेश्याङ्गनाभुजङ्गजनपरस्परारब्धजलसेकयुद्धं भगवतो मकरध्वजस्यायतनमागतोऽस्मि, विस्मयस्मेरचक्षुषा च प्रविशता मया प्राङ्गणसहकारपादपस्य मूले मृणालसूत्रवलयितग्रीवा विभागं मध्यभागविन्यस्तमुग्धस्तनमुखमुद्रेण स्त्यानतुहिन पाण्डुरत्विषा शोषाधिगतकाठिन्येन चन्दनपङ्कवेदिकाबन्धेन
२४१
मानासु; पुनः बाधानुपदसम्पादितोत्सेकेषु अनुपदं प्रतिपदम्, सम्पादितः, बाधस्य अर्थबोधव्याघातस्य, उत्सेक:- आधिक्यं यैस्तादृशेषु, बिन्दुमात्राक्षरच्युतकश्लोकेषु बिन्दुच्युतः, मात्राच्युतः, अक्षरच्युत इति बिदुमात्राक्षरच्युतास्ते एव बिन्दुमात्राक्षरच्युतकाः, तादृशेषु लोकेषु विमृश्यमानेषु विविच्यमानेषु । पुनः दीर्घकालानुभूतनिष्फल चिन्ता मौनेषु दीर्घकालं चिरकालम्, अनुभूतं - प्रतीतम्, निष्फलचिन्तया निष्फलभावनया, मौनं- मूकत्वं येषां तादृशेषु, प्राज्ञम्मन्येषु आत्मानं प्राज्ञ-पण्डितं मन्यन्ते न तु पण्डिता ये ते प्राज्ञम्मन्याः तेषु हस्यमानेषु उपहासास्पदतामापाद्यमानेषु । पुनः बुधानां पण्डिताना, बोधरभसे बोधवेगे, अर्थबोधाविलम्बे इति यावत् साधुवादविधिना प्रशंसाविधानेन, प्रकाश्यमाने प्रकटीक्रियमाणे । पुनः सभ्यानां सभायां गोष्ठयां साधुः सभ्यः, तेषां कौतुकरसे काव्याला पकुतूहलात्मक र से, निर्भरम् अत्यन्तम्, विजृम्भमाणे प्रकाशमाने, मञ्जीरनामा मञ्जीरसंज्ञकः, बन्दिपुत्रः खुतिपाठकपुत्रः किञ्चित् ईषत् उपसृत्य समीपमागत्य, हरिवाहनं तदाख्यं मेघवा इननृपकुमारम् अवोचत् उक्तवान् कीदृश: ? काव्येषु काव्यविषयेः अतीव रसिकः अत्यन्तानुरागी, पुनः सर्वदा सर्वकालम्, कुमारस्य हरिवाहनस्य, निकटवर्त्ती पार्श्ववतीं सकलराज - पुत्राणां समस्तनृपकुमाराणाम्, नर्मपात्रं परिहासास्पदम् [ख] । किमवोचदित्याह कुमार ! भो नृपात्मज !, प्रक्रमागतमेष प्राविकमेव, किञ्चित् किमपि वृत्तम्, विज्ञाप्यसे निवेयसे, अवधानदानेन मनोवृत्तिदानेन, क्षणमात्रं मुहूर्त मात्रम्, अनुग्रहं कृपां कुरु, विषयान्तरान्निवर्त्य वक्ष्यमाणवृत्तश्रवणे मनः समाधेहीत्यर्थः; समनन्तरातिक्रान्तस्य अव्यवहितव्यती तस्य, मधुमासस्य चैत्रमासस्य, शुद्धत्रयोदश्यां शुक्लत्रयोदशतिथौ, अहमहमिकोपदर्शितनिज विभवविच्छुदैन अहमहमिकया- पारस्परिकस्पर्धया, उपदर्शितः, निजविभवविच्छदः - स्ववित्तव्ययो येन तादृशेन, नगरीनिवासिना अयोध्यावास्तव्येन, भुजङ्गलोकेन विटजनेन, भक्तया कामदेवप्रीत्या, प्रवर्तितं प्रारब्धम्, यात्रोत्सवं कामदेवमन्दिरयात्रोत्सवम्, अवेक्षितुं द्रष्टुम्, सर्वतः परितः, विरचितविचित्रवस्त्रध्वजवितानं विरचितः - निर्मितः, विचित्रवाणी ध्वजःपताका, वितानः-उल्लोचश्च यद्वा ध्वजरूपो वितानः, ध्वजानां वितानः-विस्तारो वा यस्मिंस्तादृशम्, पुनः आत्तकनकशृङ्गवेश्याङ्गनाभुजङ्गजन परस्परारब्धजलसेक युद्धम् आत्तं प्राप्तम्, गृहीतमित्यर्थः, कनकशृशं सुवर्णमयनलिका याि स्तादृशीभिः, वेश्याङ्गनाभिः - वेश्यारूपाभिः स्त्रीभिः, भुजङ्गजनैः - विटजनैश्व, परस्परम् आरब्धं प्रवर्तितम् जलसेकयुद्धंजलसेचन संप्रामो यस्मिंस्तादृशम्, भगवतः पूज्यस्य, मकरध्वजस्य कामदेवस्य इदमेव प्रत्यक्षभूतमेव, आयतनं मन्दिरम् आगतोऽस्मि उपस्थितोऽस्मि । च पुनः प्रविशता प्रवेशं कुर्वता, विस्मयस्मेरचक्षुषा विस्मयेन - आश्चर्येण, स्मेरं-विकस्वरम्, चक्षुर्यस्य तादृशेन मया, प्राङ्गण सहकारपादपस्य मन्दिर प्राङ्गणवर्तिचूतहृक्षस्य मूले अधस्तात्, ताडीपत्रखण्डं तालपत्र खण्डम्, अवलोकितं दृष्टम् कीदृशम् ? मृणालसूत्रवलयित ग्रीवाविभागं मृणालसूत्रेणबिसतन्तुना, वलयितः-वेष्टितः, ग्रीवाविभागः - कण्ठस्थलं यस्य तादृशम् ; पुनः मध्यभाग विन्यस्तमुग्धस्तनमुखमुद्रेण मध्यभागे-मध्यस्थले, विन्यस्ता - रचिता, मुग्धस्य- सुन्दरस्य, स्तनमुखस्य मुद्रा - प्रतिकृतिर्यस्मिंस्तादृशेन, पुनः स्त्यानतुहिन पाण्डुरत्विषा स्त्यानं घनीभूतम्, यत् तुहिनं - हिमम्, तद्वत् पाण्डुरा-पीतवर्णमिश्रितशुक्लवर्णा, विट् - कान्तिर्यस्य तादृशेनं, पुनः शोषाधिगतकादिन्येन शोषेण-शुष्कतया, अधिगतं काठिन्यं - घनीभावो येन तादृशेन, चन्दनपङ्कवेदिका - ३१ तिलक०
Page #100
--------------------------------------------------------------------------
________________
२४२
टिप्पनक-परागविवृतिसंवलिता संदा नितोभयान्तमभिमतवियोगविधुराभीरकामिनीकपोलपाण्डु ताडीपत्रखण्डमवलोकितम् [ग] आदाय च सकौतुकेनोत्तरीयवस्खैकदेशे नियत्रितम् , अवसितायां च यात्रायां निज निवासमागतेन विजने निविश्य कौतुकावेशात् कस्येदमिति सर्वतो निरूपितम् , अपश्यता च पृष्ठे नामाक्षराणि तत्क्षणमेवापनीय मुद्रामुद्वेष्टितम् , दृष्टा च तत्र ललितपदसंनिवेशा सान्द्रमृगमदमषीपङ्कलिखितैः प्रत्यप्रकुकुमपत्रभङ्गशोभिभिः कृष्णागुरुधूपवाससंभृतसौरभातिरेकैरभिनवमौक्तिकक्षोदविशदवर्णेन पुण्यपरिमलमुचा कपूरचूर्णेन समन्तादवकीर्णैर्निरन्तरैरपि परस्परासंस्पर्शिभिरवाप्तपरिणतिप्रकर्षैरपि सुकुमारसर्वावयवैरक्षरैरुपेता दुरवबोधतात्पर्यवस्तुरेकैवार्या, परिभाविता च वारंवारमादरव्यापारितहृदयेन, न तु तदीयं हृदयमवगतम् ; [ध] । तदादिशतु कुमारः सर्वमेवानुक्रमेण किं तत् पत्रक केन प्रेषितं कस्य वा प्रेषितं किमत्र कार्य विवक्षितम् । इत्युदीर्य विशदवर्गोच्चारया गिरा
टिष्पनकम्-निरन्तरैरपि परस्परसंस्पर्शिभिः यानि अन्तररहितानि तानि कथं परस्परासंस्पर्शीनि, अन्यत्र निरन्तराणि-संततानि, परस्परासलमानि च । अवाप्तपरिणतिप्रकर्षेरपि सुकुमारसर्वावयवैः ये प्रातपरिणामप्रकर्षास्ते कथं सौकुमार्ययुक्तसकलभुजाअवयवाः, अन्यत्र प्रकृष्टपरिणामानि मुश्लिष्टसर्वशिरःप्रभृत्यवयवानि च [घ।
बन्धेन चन्दनपङ्कमयी या वेदिका-वेदिकाप्रतिकृतिः, तद्वन्धेन-तन्निवेशेन, सन्दानितोभयान्तं सन्दानितौ-बद्धौ, उभयान्तीपूर्वापरान्तभागौ यस्य तादृशम् , पुनः अभिमतवियोगविधुराभीरकामिनीकपोलपाण्डु अभिमतवियोगेन-इष्टवियोगेन, विधुरा-व्यथिता, या आभीरका मिनी गोपवधूः, तस्याः कपोलवत्-गण्डस्थलवत्, पाण्डु-पीतशुक्लवर्णम् [ग] च पुनः,
आदाय गृहीत्वा, सकौतुकेन कुतूहलसहितेन, मयेति शेषः, उत्तरीयचौकदेशे उत्तरीयवस्वाञ्चले, नियन्त्रितं बद्धम् । च पुनः, यात्रायां यात्रोत्सवे, अवसितायां समाप्तायाम् , निजनिवासं खगृहम् , आगतेन, मयेति शेषः, विजने रहसि, कौतुकावेशात् कुतूहलोदयात् , कस्य किंसम्बन्धि, इदं प्रत्यक्षभूतं पत्रम् , इति सर्वतः समन्तात् , निरूपितं विलोकितम् । च पुनः, पृष्ठे पृष्ठभागे, नामाक्षराणि नामघटकान्यक्षराणि, अपश्यता अनवलोकमानेन, मयेति शेषः, तत्क्षणमेव तत्कालमेव, मुद्राम् उभयान्तबन्धनम्, अपनीय दूरीकृत्य, उद्वेष्टितम् उद्घाटितम्, तत् पत्रमिति शेषः । च पुनः, तत्र तस्मिन् पत्रे, एकैव अद्वितीयैव, आर्या तदाख्यवृत्तबद्धः श्लोकः, दृष्टा दृष्टिगोचरीकृता । कीदृशी ? ललितपद सन्निवेशा ललितः-सुन्दरः, पदसन्निवेश:-पदविन्यासो यस्यां तादृशी; पुनः सान्द्रमृगमदमषीपङ्कलिखितैः सान्द्रःनिबिडो यः, मृगमदस्य-कस्तूरिकायाः, मषीपङ्कः-पत्राज्ञनकर्दमः, तेन लिखितैः, पुनः प्रत्यग्रकुमपत्रभङ्गशोमिभिः प्रत्यग्रस्य-अभिनवस्य, कुडमपत्रस्य-केसरपत्रस्य यः, भङ्गः-खण्डः, तद्वत् शोभनशीलः, पुनः कृष्णागुरुधूपवाससम्भृतसौरभातिरेकैः कृष्णागुरुधूपस्य-कालागुरुधूपस्य, वासेन-सौरमेण, सम्भृतः-समोधेतः, सौरभातिरेकः-सुगन्धातिशयो येषां तादृशैः, पुनः कर्पूरचूर्णेन कर्पूरपरागेण, समन्तात् सर्वतः, अवकीर्णैः व्याप्तैः, कीदृशेन ? अभिनवमौक्तिकक्षोदविशदवर्णन अभिनवो यो मौक्तिकक्षोदः-मुक्तामणिचूर्णम् , तस्येव विशदः-शुभ्रः, वर्ण:-कान्तिर्यस्य तादृशेन, पुनः पुण्यपरिमलमुचा पुण्यः-मनोहरो यः, परिमल:-गन्धः, तन्मुचा-तदभिव्यञ्जकेन, पुनः निरन्तरैरपि अवकाशरहितैरपि, परस्परासंस्पर्शिभिः परस्परमसंसृष्टैरिति विरोधः, तत्परिहारे तु निरन्तरैः-सान्द्ररित्यर्थः, पुनः अवाप्तपरिणतिप्रकर्षेरपि प्राप्तपरिपाकोत्करपि, सुकुमारावयवैः कोमलावयवैरिति विरोधः, घटादेः परिपाकोत्तरं काठिन्योदयात् , तत्परिहारे तु मसीदाथै प्राप्तदायोत्कर्षैः, प्राप्त फलप्रसवोत्करिति वार्थः, अक्षरैः लिपिभिः, उपेता अन्विता, पुनः दुरवबोध. तात्पर्यवस्तुः दुर्वेद्यभावार्था । च पुनः, आदरब्यापारितहृदयेन आदरेण व्यापारित-प्रेरितं हृदयं यस्य येन वा तादृशेन, मयेति शेषः, परिभाविता विचारिता, तदीयं तस्या आर्यायाः, हृदयं गूढार्थवस्तु, न अवगतं ज्ञानम् [घ] 1 तत् तस्माद्धेतोः कुमारः श्रीमान् , अनुक्रमेण मत्प्रश्नक्रमानुसारम् आदिशतु बोधयतु,तत् पत्रकं ताडीपत्रम् ,किं किमर्थकम् !, केन प्रेषितं प्रेषणकर्मतामापादितम् ?, वा अथवा, कस्य पार्श्व इति शेषः, प्रेषितम् ?, अत्र अस्मिन् पत्रे, किं कार्य कर्तव्यम् , विवक्षितं वक्तुमभिप्रेतम् ?, इत्युदीर्य इत्युक्त्वा, विशदवर्णोच्चारया विशदः-विस्पष्टः, वर्णानामुच्चारः-उच्चा
Page #101
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२४३
सप्रागल्भ्यमार्यामिमां पपाठ
गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमंचिरेण । स्थातासि पत्रपादपगहने तत्रान्तिकस्थाभिः ॥
अस्यां च पठ्यमानायामवहिताः सर्वे सभासदो बभूवुः । परिभावयतामेव च तेषां पाठसमकालमेव प्रज्ञाबलेन बुद्धा कोशलाधिपतिसूनुरवदत् - 'सखे ! यत् तदासादितं त्वया तथाविधं ताडीपत्रकम्, असावनङ्गलेखस्तावत् । स च कयाचिदीश्वरकन्यया समारूढमैौढयौवनया गुणानुरागप्रगुणितेन स्वचेतसा विदग्धाप्तसहचरीजनेन वा भूयो भूयः प्रवर्तितया कुमारीजन सहोत्थामपत्र पामपहाय कस्यचित् पूर्वमेवानुरागपिशुनैरिङ्गिताकारैरभिनन्दितोपांशुप्रयुक्तप्रार्थनस्य 'सुतनु ! सततानुवृत्तिपरोऽपि गुरुभिस्त्वदीयैर्नाह मनुगृहीतो भवत्याः प्रदाने, तदिदानीमनिच्छतोऽपि मे दुरात्मनानेन मदनवह्निना दह्यमानमिदमनुचितेनापि विधिना जीवितस्वामिनीं कर्तुमिच्छति त्वामतर्कितोपायान्तरं हतहृदयम्, अतो नाहमत्रापराधी'
टिप्पनकम् - उपांशु - रहः [ङ] ।
रणं यत्र तादृश्या, गिरा वाण्या, सप्रागल्भ्यं प्रागल्भ्येन- प्रौढतया सहितं यथा स्यात् तथा, इमाम् उपस्थिताम् आर्या पपाठ पठितवान् गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमचिरेण । स्थातासि पत्रपादप गहने तत्रान्तिकस्थानिः ॥ १ ॥ गुरुभिः मत्पित्रादिभिः, अदत्तां विद्वेषवशेन स्वयमप्रतिपादिताम् माम्, अक्रमात्प्रसिद्धोद्वाहृप्रकारं विनैव, बलादपहारेणेत्यर्थः, वोढुं परिणेतुम्, वाञ्छन् इच्छन् त्वम्, तत्र तस्मिन् यत्रावयोः सम्मेनमभूदित्यर्थः, पत्रपादपगहने पत्र पूर्णवृक्षवने, अन्तिकस्थाग्निः पार्श्वस्थितानिरूपवैवाहिकोपकरणः, अचिरेण अविलम्बेन, स्थातासि स्थास्यसि, गृहे गुरुजनानुमतिरहितोद्वाहस्यानौचित्यादसम्भवाच्चेत्यर्थः, यद्वा बलादपहरणपूर्व कोद्वा हजन्यप्रत्यवायेन, अन्तिकस्थाझिः पार्श्वज्वलदभिः, असिपत्रपादपगहने असयः खगाः, खड्गवन्मारणसामर्थ्य कलितानीत्यर्थः, पत्राणि येषां तादृशानां पादपानां नारकवृक्षाणाम् गहने वने, स्थाता स्थितिकर्ता, भविष्यतीति शेषः, नरकं प्राप्स्यतीत्यर्थः । च पुनः अस्याम् आर्यायाम्, पठ्यमानायाम् उच्चार्यमाणायाम्, सर्वे सकलाः, सभासदः सभोपविष्टाः, अवहिताः तदर्थविचारे सावधानाः बभूवुः जाताः । परिभावयतामेव तदर्थमालोचयतामेव, तेषां सभासदां मध्ये, कोशलाधिपतिसूनुः कोशलाधिपतेः - कोशल देशाधिपतेः, मेघवाहनस्य, सूनुः - कुमारः, हरिवाइनः, प्रशाबलेन खंबुद्धिबलेन, पाठसमकालमेव पाठसमय एव, बुद्ध्वा तत्तात्पर्यमवधार्य, अवदत् उक्तवान् । किमित्याह - सखे ! भो मित्र !, त्वया मञ्जीरेण, तथाविधं तादृशम्, तत् अनुपदप्रस्तुतम्, यत् ताडीपत्रकम्, आसादितं प्राप्तम्, असौ सः, अनङ्गलेखः कामदेव विषयक लेखः, तावदिति वाक्यालङ्कारे । स च प्रकृतलेखश्च कयाचित् अविदितनान्या, ईश्वरकन्यया धनाढ्य - कुमार्या, कस्यचित् कस्यापि, महानागरिकस्य अत्यन्त नागरिकस्य, नगरवास्तव्यतया कान्तोपभोगकुशलस्य, यूनः तरुणपुरुषस्य, पार्श्व इति शेषः, प्रेषितः प्रेषणकर्मीकृतः कीदृश्या तया ? समारूढप्रौढयौवनया समारूढं सम्यगवाप्तम्, प्रौढं-प्रगल्भम्, यौवनं तम्हण्यं यया तादृश्या, पुनः गुणानुरागप्रगुणितेन अभिमतनायक गुणप्रीतिवृद्धेन, स्वचेतसा स्वकीयहृदयेन, विदग्धाप्तसहचरीजनेन वा निपुणविश्वस्त सखीजनेन वा, भूयो भूयः पुनः पुनः प्रवर्तितया प्रेरितया, कीदृशस्य यूनः ? तयेश्वरकन्यया कुमारीजन सहोत्थामपत्रपां कुमारीजनानां सहोत्था सहजा, या अपत्रपा - अन्यहेतुक. लज्जा, ताम्, अपहाय त्यक्त्वा, अनुरागपिशुनैः अनुरागसूचकैः, इङ्गिताकारैः चेष्टिताकारैः, आकारचेष्टया, पूर्वमेव, अभिनन्दितोपांशुप्रयुक्तप्रार्थनस्य अभिनन्दिता - अनुमोदिता, अङ्गीकृतेत्यर्थः, उपांशुप्रयुक्ता - रद्दसि कृता, प्रार्थना यस्य तादृशस्य, पुनः 'सुतनु ! हे सुन्दराङ्गि !, सततानुवृत्तिपरोऽपि निरन्तरानुसरणपरायणोऽपि, अहं भवत्याः श्रीमत्याः, प्रदानेन त्वदीयैः भवदीयैः, गुरुभिः पित्रादिभिः, न अनुगृहीतः अनुकम्पितः, तत् तस्माद्धेतोः, इदानीं सम्प्रति, अनिच्छितोऽपि त्वामनभिलषतोऽपि, 'मम, दुरात्मना दुष्टात्मना, अनेन प्रत्यक्षभूतेन, मदनवह्निना कामामिना, दह्यमानं सन्तप्यमानम्, अतर्कितोपायान्तरम् अतर्कितम् - अनालोचितम् उपायान्तरम् - उचित प्रकारान्तरं येन ताहशम्, इदं सन्निकृष्टम्, हतहृदयं कलुषितहृदयम्, अनुचितेनापि अयोग्येनापि, अवैधेनापीत्यर्थः, विधिना प्रकारेण, त्वां जीवितस्वामिनीं स्वप्राणस्वामिनीम्, स्वप्राणप्रियामित्यर्थः कर्तुं विधातुम्, परिणेतुमित्यर्थः इच्छति अभिलषति,
3
Page #102
--------------------------------------------------------------------------
________________
२४४
टिप्पनक-परागविवृतिसंवलिता इति दूतीमुखेन च ख्यापितनिजसाहसाध्यवसायस्य महानागरकस्य यूनः प्रेषितः [3] । प्रयोजनं पुनरत्रेदं विवक्षितम्-अकारणद्विष्टैर्मदीयगुरुभिः सामप्रयोगोपक्रमेण कथञ्चिदपि न प्रतिपादितामपमानासहिष्णुत या प्रसिद्धमपहाय क्रममपहारादिना प्रकारेण मामुद्वोदुमिच्छन्ननुचितकारी त्वम् , अतो मा त्वरस्व, सेत्स्यति तवैष कामः, यतः कतिपयैरेव दिवसैर्यत्र पुरादर्शनमाषयोरभवत् , तत्र पत्रप्रायपादपगहने निगूहितो मदीयदूतिकया त्वमनपेक्षितापरविवाहमङ्गलोपकरणः केवलेनैवामिना सनाथीकृतपार्श्वः स्थास्यसि । स्थितश्च तत्र द्वित्राभिराप्तसहचरीभिः सहानुपदमेव मे समुपस्थितायाः पाणिग्रहणमग्निसाक्षिकं कर्तासीति । यः पुनरिहापरः 'केनापि वैगुण्येन गुरुभिरप्रदत्तामभिलषन मामन्यायतः क्षिप्रमेव प्राप्य नारकत्वमन्तिकज्वलदग्निरसिपत्राणां पादपानां गहने स्थाता त्वं पापकारिन् !' इति शापरूपोऽर्थः प्रकाशते, स सर्वथा निरवकाश एव । नहि विरक्ताः स्त्रियः कदाचिदक्षिगतानामीक्षणहारिणस्तादृशानुदारविरचनाँल्लेखानभिलिख्य तथाऽत्यादरेण
टिप्पनकम्-अक्षिगतानां शत्रूणाम् [च]।
सङ्कल्पत इत्यर्थः, अतः अस्माद्धेतोः, अत्र अस्मिन् , अवैधाचरण इत्यर्थः, अहम् , अपराधी दोषी, न भवेयमित्यर्थः, इति इत्यम्, दूतीमुखेन खदूतीद्वारा, ख्यापितनिजसाहसाध्यवसायस्य ख्यापितः-सन्देशवाचा निवेदितः, निजसाहसस्य-खानुचितकार्यस्य, अध्यवसायः-उद्योगो येन तादृशस्य [0] । पुनः अत्र अस्मिन् लेखे, इदं प्रयोजनं फलम् , विवक्षितं वक्तुमभिप्रेतम् , अकारणद्विष्टैः विनैव कारणम् अप्रीतिं प्रापितैः. मदीयगुरुभिः मत्पित्रादिभिः, सामप्रयोगोपक्रमेण सामप्रयोगरूपः-सान्त्वनारूपो य उपक्रमः-प्रकारः, तेन कथञ्चिदपि कथमपि, न प्रतिपादितां दत्ताम् , माम् , अपमानासहिष्णुतया अप्रतिपादनजन्यानादरासहनशीलतया, प्रसिद्धं वैधतया शिष्टाचारसिद्धम् ,क्रम परिणयप्रकारम् , अपहाय त्यक्त्वा, अपहारादिना बलाद् ग्रहणप्रभृतिना, प्रकारेण, उद्वोदं परिणेतुमिच्छन् , त्वं भवान्, अनुचितकारी अयोग्याचारी, वर्तसे इति शेषः, अतः अस्माद्धेतोः, मा त्वरख न त्वरां कुरु, तव एष कामः मत्परिणयमनोरथः, सेत्स्यति सिद्धिमेष्यति, यतः यस्मात् , कतिपयैरेव परिगणितैरेव, दिवसैः दिनैः, यत्र यस्मिन् , आवयोः, दर्शनं परस्सरमवलोकनम् , अभूत् जातम् , तत्र तस्मिन् , पत्रप्रायपादपगहने पत्रपूर्णवृक्षवने, मदीयदूतिकया महत्या, निगृहितः पिहितः, त्वम्, अनपेक्षितापरविवाहमङ्गलोपकरणः अनपेक्षितम् . अपरं-अग्न्यतिरिक्तम् विवाहरूपस्य मङ्गलस्य-शुभकर्मणः, उपकरण-साधनं येन तादृशः, केवलाग्निना अग्निमात्रतदुपकरणेन. सनाथी सनाथीकृत-सनाथतामापादितम्, पार्श्व-सविधं यस्य तादृशः, स्थास्यसि वर्तिध्यसे, च पुनः, तत्र तस्मिन् स्थाने, स्थितः कृतावस्थितिकः, द्वित्राभिः द्वाभ्यां तिसृभिर्वा, आप्तसहचरीभिः विस्रब्धसखीभिः, सह, अनुपदमेव अतिशीघ्रमेव, समुपस्थितायाः समागतायाः, समागमिष्यन्त्या इत्यर्थः, मे मम, अग्निसाक्षिकम् अग्निरेव साक्षी-साक्षादृष्टा, प्रमाणभूत इत्यर्थः, यस्य तादृशम्, पाणिग्रहणं विवाहम्, कर्तासि करिष्यसि, इति । इह अस्यामार्यायाम , केनापि केनचित्, वैगुण्येन दोषेण, गुरुभिः पित्रादिभिः, अप्रदत्तां प्रदानकर्मतामनापादिताम् , माम् , अभिलषन् बलादुद्वोढुं वान्छन् , त्वम् , अन्यायतः अनुचिताचरणात् , क्षिप्रमेव शीघ्रमेव, नारकत्वं नरकदुःखभोक्तृत्वम् , प्राप्य, अन्तिकज्वलदग्निः अन्तिके-निकटे, ज्वलन्-दीप्यमानः, अग्निर्यस्य तादृशः, ताइगग्निसन्तप्यमानः समित्यर्थः, असिपत्राणां असयः-कृपाणाकाराणि कृपाणवद्धातकानि च पत्राणि येषां तादृशानाम्, पादपानां वृक्षाणाम् , गहने बने, स्थाता भविष्यसीति शेषः, पापकारिन् ! भोः पापिन् 1, इति ईदृशः, यः, पुनः, अपरः, शापरूपः, अर्थः अर्थान्तरमित्यर्थः, प्रकाशते श्लेषमहिना प्रतिभासते, सः अर्थः, सर्वथा सर्वप्रकारेण, निरवकाश एव असत एव । यतः विरक्ता अपरक्ताः, स्त्रियः, ईक्षणहारिणः नयनहारिणः, उदारविरचनान् विशिष्टविन्यासान् , तादृशान् अनुपदोपवर्णितस्वरूपान् , लेखान् , अभिलिख्य सम्यग्लिखित्वा, अक्षिगतानां शत्रुभूतजनानाम् , पार्श्व इति शेषः, तथाऽत्यादरेण ताहगल्यन्तादरेण, कदा
Page #103
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। प्रेषयन्ति []। कौतुकेरिता पत्रकहारी स्वयमेव मुद्रामुद्वेष्टय विदितकार्यतत्त्वा प्रकृतिपारिप्लवतया स्त्रीस्वभावस्य कदाचिन्मत्रभेदमाचरेदिति तां वञ्चयितुं तस्य च विलासिनश्छेकोक्तिगुणहार्यहृदयस्य वचनभङ्गीवैदग्ध्यमात्मीयमाविष्कर्तुमप्रयत्नावसेयविवक्षितार्थो नायमभिलिखितः ।' इत्युक्तवति तस्मिन् सर्वेऽपि ते पार्श्ववर्तिनो यथावस्थितविदितलेखार्थाः समं मञ्जीरेण राजपुत्राः प्रजहषुः । अनेकधाकृतप्रतिभागुणस्तुतयश्च राजसूनोः पुनः प्रस्तुतकाव्यवस्तुविचारनिष्ठाः समरकेतुवर्जमतिष्टन् । समरकेतुरपि विषादविच्छायवदनः शुष्काशनिनेव शिरसि ताडितस्तत्क्षणमेवाधोमुखोऽभवत्, उत्सृष्टसृष्टदीर्घनिःश्वासश्च निश्चलनयनयुगलो विगलिताश्रुशीकरक्लिन्नपक्ष्मा कराङ्गुष्ठनखलेखया भूतलमलिखत् [छ ।
अवलोक्य च तथावस्थित तमस्थान एव प्रतिपन्नशोकावस्थमुपजातविस्मयाः सभासदः किमेतदिति वितर्कतरलतारकाणि परस्परं मुखान्यवालोकयन् । अथ तेषां पुरोवर्ती समरकेतुना समानप्रतिपत्तिरत्यन्तमभिमतो राजपुत्रस्य सकलशास्त्रभाषाविचक्षणः क्षीणभूयिष्ठशैशवे वयसि वर्तमानो माननीयः कुमारपरिग्रहस्य प्रकृतिप्रगल्भवाक् किमपि कोविदः परिहासकेलिघु कमलगुप्तनामा कलिङ्गदेशाधीशसूनुः शनैर्विहस्यावोचत्
चित् कदापि, नहि, प्रेषयन्ति उपस्थापयन्ति [च ] । कौतुकेरिता कुतूहलप्रेरिता, पत्रहारिका पत्रवाहिका दूती, खयमेव, मुद्रां पत्रोभयान्तबन्धनम् , उद्वेष्ट्य उद्घाट्य, विदितकार्यतरवा विज्ञातकार्यसारा सती, स्त्रीखभावस्य, प्रकृतिपारिलवतया प्रकृत्या चञ्चलतया, कदाचित् कदापि, मन्त्रभेदं रहस्योद्घाटम् , आचरेत् कुर्यात्, इति अस्माद्धेतोः, तां पत्रवाहिकाम् , वञ्चयितुं प्रतारयितुम , च पुनः, छेकोक्तिगुणहार्यहृदयस्य छेक:-विदग्धः, तस्य या उक्तिःवैदग्ध्यपूर्णोक्तिरित्यर्थः, तस्या गुणहस्यहृदयस्य--आकर्षणीयहृदयस्य, यद्वा छेकोक्तिः-वक्रोक्तिरूपालङ्कारः, तद्गुणेन-तदात्मक गुणेन हार्यहृदयस्य, तस्य मनोगतस्य, विलासिनः विलासनिपुणस्य, तं प्रतीत्यर्थः, आत्मीयं-खकीयम्, वचनभङ्गीवैदग्ध्यं वचनस्य भङ्गी-कौटिल्यं विच्छित्तिर्वा, तद्वैदग्ध्यं तन्नैपुण्यम्, वक्रोकिकौशलमित्यर्थः, आविष्कत प्रकटयितुम् , अप्रयत्नाघसेयविधक्षितार्थः अप्रयत्न-विनैवोहापोह प्रयासम् , अवसेयः-अवधारणीयः, विवक्षितः-वभिप्रेतः, अर्थो यस्य तादृशः, अयं लेखः, न अभिलिखितः उल्लिखितः, किन्तु संकीर्णार्थक एवं लिखित इत्यर्थः । तस्मिन् हरिवाहने, इति इत्थम् , उक्तवति मजीरकृतप्रश्नोत्तरं कथितवति सति, सर्वेऽपि समस्ता अपि, पार्श्ववर्तिनः तन्निकटवर्तिनः, ते प्रकृताः, राजपुत्राः नृपकुमाराः, यथावस्थितविदितलेखार्थाः यथावस्थिताः-वास्तविकाः, लेखार्थाः-लेखाशयाः, विदिता यस्तादृशाः सन्तः, मजीरेण तदाख्यबन्दिपुत्रेण, समं सह, प्रजहषुः प्रहृष्टाः । च पुनः, राजसूनोः नृपकुमारस्य हरिवाहनस्य, अनेकधाकृतप्रतिभागुणस्तुतयः अनेकधा-अनेकप्रकारैः, कृता, प्रतिभागुणस्य-काव्याविषयकोहा. पोहात्मकगुणस्य, स्तुतिः-प्रशंसा यैस्तादृशाः सन्तः, पुनः पुनरपि, समरकेतुवजे समरकेतुरहितं यथा स्यात् तथा, तं विनेत्यर्थः, प्रस्तुतकाव्यवस्तुविचारनिष्ठाः प्रस्तुतः-प्रकृतो यः, काव्यरूपवस्तुनो विचार:-विवेचनम् , तनिष्ठाः-तलमाः, अतिष्ठन् स्थिताः। समरकेतुरपि तन्नामा नृपकुमारोऽपि, विषादविच्छायवदनः विषादेन-खेदेन, विच्छायं-मलिनम्, वदनं-मुखं यस्य तादृशः सन् , शिरसि मस्तके, शुष्काशनिना वृष्टिरहितवज्रपातेन, ताडित इव आहत इव, तत्क्षणमेव तत्कालमेव, अधोमुखः अवनतमुखः, अभवत् जाता; च पुनः, उत्सृष्टदीर्घनिःश्वासः उत्सृष्टः यकः, दीर्घःमहान् , निःश्वासः-नासिकामारुतो येन तादृशः, पुनः निश्चलनयनयुगलः निश्चलं निर्निमेषम् , नयनयुगलं यस्य तादृशः, पुनः विगलिताश्रुशीकरक्लिन्नपक्ष्मा विगलितैः-स्यन्दितैः, अश्रुशीकरैः-नयनजलकणैः, क्लिन्नम्-आर्द्रम् , पक्ष्म-नेत्ररोमलेखा यस्य तादृशः, कराङ्गुष्ठनखरेखया करस्य यदङ्गुष्ठं तदीयया नखरेखया-नखपङ्क्त्या , भूतलं पृथ्वीतलम् , अलिखत् लिखितवान् [छ । तथा तेन प्रकारेण, अवस्थितं कृतावस्थितिकम् , पुनः, अस्थान एव अनवसर एव, प्रतिपन्नशोकावस्थं प्रतिपन्ना-प्राप्ता. शोकावस्था-दुःखावस्था येन तादृशम् , तं समरकेतुम् , अवलोक्य दृष्टा, उपजातविस्मयाः उत्पन्नाश्चर्याः, सभासदः सभामध्यवर्तिनो लोकाः, एतत् इदं दुःखम् , किं किंकारणकम् , इति इत्थम् , वितकतरलतारकाणि वितर्केण--विशिष्टतर्केण, तरला-चञ्चला, तारका-कनीनिका येषु तादृशानि, मुखानि मुखमण्डलानि, परस्परम् अन्योऽन्यम्, अवालोकयन् अवलोकितवन्तः । अथ अनन्तरम्, कमलगुप्तनामा कमलगुप्तसंज्ञकः, कलिङ्ग
Page #104
--------------------------------------------------------------------------
________________
२४६
टिप्पनक- परागविवृतिसंवलिता
'युवराज' ! किमर्थमनवगतार्थ इव अप्रगल्भ इव मत्सरीवाऽरसिक इव मूकतामवलम्ब्य स्थितः, किं न वर्णयसि शतमुखो भूत्वा सर्वतोमुखीम खिलबुधजनाश्चर्यकारिणीं कुमारस्य काव्यतत्त्वावबोधशक्तिम्, अस्मद्विधानां हि स्वभावकश्मलस्थूलबुद्धीनां सर्वांत्मनापि प्रयुक्ता बाह्येव वर्णना न प्रविश्य सम्यग्वस्तुतत्त्वमुल्लिखति, अतोऽद्यापि त्वयि प्रजल्पति परितोषः प्रत्ययश्चात्मविषयः कुमारस्य भविष्यति [ज]। किं चाश्रुसलिलक्किन्ननिश्चलचक्षुTatar बारबद्ध व वनकरी लब्धमिध्याभिशाप इव साधुरकस्मात् प्रनष्टसकलगृहस्वापतेय इव गृहपतिरायतोष्णान् मुहुर्मुहुः सृजसि निःश्वासान्, अजातप्रेयसीपाणिग्रहो महद्दुःखमनुभविष्यति महात्मेति कचिन्न तं कुमारोपवर्णितवृत्तान्तयुवानमनुशोचसि : किमेकमिह शोच्यते, सर्व एवायमेवंप्रकारः संसारः न जानासि, यदुत दुःखहेतुरनुरागः, विषोपमा विषयोपभोगवाञ्छा, वाञ्छितार्थप्रतिपन्थीन्यधर्मविलसितानि, सर्वतः
देशाधीशसूनुः कलिङ्गदेशाधिपतिपुत्रः शनैः मन्दम्, विहस्य, किमपि किश्चित् अवोचत् उक्तवान् । कीदृशः ? तेषां सभासदाम्, पुरोवर्ती अप्रवर्ती, पुनः समरकेतुना तत्संज्ञककुमारेण, समानप्रतिपत्तिः तुल्यगौरवः पुनः राजपुत्रस्य हरिवाहनस्य, अत्यन्तम् समधिकम्, अभिमतः इष्टजनः पुनः सकलशास्त्र भाषाविचक्षणः अखिलशास्त्रभाषाभिज्ञः; पुनः क्षीणभूयिष्ठशैशवे क्षीणं-व्यतीतम् भूयिष्ठं- बहुतरम्, यत् शैशवं बाल्यम्, तद्रूपे, वयसि अवस्थायाम्, शैशवशेषावस्थायामित्यर्थः, वर्तमानः पुनः कुमारपरिग्रहस्य हरिवाहनपरिजनस्य, माननीयः आदरणीयः; पुनः प्रकृतिप्रगल्भवाक् प्रकृत्या स्वभावेन, प्रगल्भा - प्रौढिपूर्णा, वाक्-वाणी यस्य तादृशः पुनः परिहासकेलिषु परिहासक्रीडासु, कोविदः निपुणः । किमवोचदित्याह युवराज ! भोः समरकेतो!, किमर्थ केन हेतुना, मूकतां मौनम् . अवलम्ब्य गृहीत्वा स्थितः असीति शेषः । क इव ? अनवगतार्थ इव अविज्ञाततदभिप्राय इवः पुनः अप्रगल्भ इव कातर इवः पुनः मत्सरी इव अन्यशुभद्वेषी इव; अरसिक इव नीरस इव । शतमुखः शतं मुखानि यस्य तादृशः, भूत्वा, सर्वतोमुख चतुरस्राम्, अखिल बुधजनाश्चर्यकारिणीम् अशेषकविजनविस्मापिनीम्, कुमारस्य हरिवाहनस्य, काव्य तत्त्वावबोधशक्तिं काव्य रहस्यार्थोत्प्रेक्षण सामर्थ्यम्, किं कस्माद्धेतोः, न वर्णयसि कीर्तयति । हि यतः, सर्वात्मना सर्वांशेन, प्रयुक्तापि कृतापि, वर्णना कविता, बाह्येव बहिरेवावस्थितेव, स्वभावकश्मलस्थूलबुद्धीनां खभावेन, कश्मला–मलिना, स्थूला-सूक्ष्मविषयानवगाहिनी, बुद्धिर्येषां तादृशानाम्, अस्मद्विधानाम् अस्मत्सदृशानाम्, प्रविश्य अन्तःप्रवेशं कृत्वा, सम्यक् समीचीनं यथा स्यात् तथा वस्तुतत्त्वं वस्तुनः- काव्यार्थस्य, तत्त्वं - सारांशम्, न उल्लिखति प्रकटयति । अतः अस्माद्धेतोः, अद्यापि अधुनापि, त्वयि समरकेतौ प्रजल्पति प्रकथयति सति, अनुमोदयति सतीत्यर्थः, कुमारस्य हरिवाहनस्य, परितोषः सन्तोषः, आत्मविषयः खोत्प्रेक्षितकाव्यार्थविषयः, प्रत्ययः विश्वासश्व, भविष्यति उत्पत्स्यते [ ज ] । च पुनः, अश्रुसलिल क्लिन्ननिश्चलचक्षुः अश्रुसलिलेन - नयननिःसृतजलेन, क्लिन्नम् - आलुतम् निश्चलं-निःस्पन्दम्, चक्षुर्यस्य तादृशः; पुनः अधोमुखः अवनतमुखः, त्वमिति शेषः, वारिबद्धः जल निगृहीतः, वनकरीव वनगज इव, पुनः लब्धमिथ्याभिशापः प्राप्तमिथ्यापवादः, साधुः सच्चरित्रपुरुष इत्र, अकस्मात् अतर्कितम्, प्रनष्टसकलगृहस्वापतेयः प्रनष्टं - प्रध्वस्तम्, अपहृतमित्यर्थः, सकलं समस्तम्, गृहखापतेयं - गृहस्थितं धनं यस्य तादृशः, गृहपतिरिव गृहस्वामीव, आयतोष्णान् आयतान् दीर्घान्, उष्णान् - उष्णस्पर्शाच, निःश्वासान् नासावायून्, मुहुर्मुहुः बारं वारम्, किं किमर्थम्, सृजसि मुश्चसि । अजातप्रेयसीप्राणिग्रहः अजातः - असम्पन्नः, प्रेयस्याः प्रकृतप्रियतमायाः, पाणिग्रहः-परिणयो यस्य तादृशः माहात्मा महनीयात्मा, महद्दुःखम् अत्यन्तदुःखम्, अनुभविष्यति अनुभवविषयीकरिष्यति, इति अस्माद्धेतोः तं प्रकृतम्, कुमारोपवर्णितवृत्तान्तयुवानं कुमारेण - हरिवाहनेन, उपवर्णितः--प्रतिपादितः, वृत्तान्तः--समाचारो यस्य तादृशं युवानं तरुणपुरुषम्, न अनुशोचसि अनु-पश्चात्, शोचसि कश्चित् किम् ? इह लोके, एकम् एकमात्रम्, किं कुतः, शोच्यते, अपि तु सर्व एव समस्त एव, एवंप्रकारः एतादृशः, संसारः, शोचनीय इति शेषः । यदुत यस्माद्धेतोः, अनुरागः प्रीतिः, दुःखहेतुः दुःखजनकः, पुनः विषयोपभोगवाञ्छा विषयोपभोगेच्छा, विषोपमा विषसदृशी, पुनः अधर्मविलसितानि पापविलासाः, वाञ्छितार्थप्रतिपन्थीनि अभि
1
Page #105
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२४७
सुलभविनोद्गमाः काम्यक्रियारम्भाः । सोऽपि किं करोतु वराको यस्य दुष्करे तादृशि संबन्धघटने झटिति दर्शितफला विफलतां नीता देवेन नीतिः । किं क्रियते, निसर्गत एव निरङ्कुशः पापकारीव व्यालो बलीयान् विधिर्बद्धोऽपि बुद्धिमद्भिरतिनिबिडेन प्रज्ञालोहनिगडेन निरवग्रहो विचरति, वामचारिण्यत्र मार्गमृग इवाsant नाधिगच्छन्ति वाञ्छितानि व्यापारितसकलसामर्थ्या अपि फलार्थिनः [झ ] । तदलमनया स्वचित्तसंतापैकफलया फल्गुचिन्तया, मनागपि महात्मना न शोचनीयोऽसौ शोच्यः पुनरसौ पापकर्मा कर्मचण्डालः प्रकृतिदुष्टात्मा विशिष्टाभासः सकलचौरप्रामणीरप्राथनामा मञ्जीरो, येन मार्जारेणेव मूषिका मिथुनमुपसृत्य निभृतमत्र विनिहितमनुपलक्षिता प्रेक्षकजनेन दर्शयिष्यामि दूरस्थैव यात्रां द्रष्टुमायातस्य यूनस्तस्येत्यभिप्रायेण लेखहारिण्या सहकारमूले स्थापितमपहृत्य लेखपत्रकं तादृशस्य दूरारूढसदृशप्रेम्णः प्रतिकूलगुरुजनकृतप्रति
टिप्पनकम् - निरङ्कुशः शृणिरहितः, अन्यत्र उच्छृङ्खलः । वामचारिणि मार्गमृग इव एकत्र वामचारिणिसव्यचारिणि, अन्यत्र विपरीतकारिणि [झ ] |
लषितार्थप्रतिबन्धकानि, पुनः काम्यक्रियारम्भाः काम्यकर्मारम्भाः सर्वतः सर्वथा, सुलभविघ्नोद्गमाः सुलभ :सुगमः, विघ्नोद्गमः– कर्मफलसिद्धिव्या घातकदुरदृष्टोदयो येषु तादृशाः । सोऽपि वराकः शोच्यजनः, किं करोतु प्रतिकरोतु, यस्य वराकस्य, दुष्करे प्रयाससाध्ये, तादृशि उक्तप्रकारे, संबन्धघटने सम्बन्धप्रबन्धे, झटिति शीघ्रम्, दर्शितफला प्रकटितफला, नीतिः उपायानुष्ठानम्, दैवेन विधिना, विफलतां निष्फलताम्, नीता प्रापिता । किं क्रियते प्रतिक्रियते, किमपि नेत्यर्थः । निसर्गत एव स्वभावादेव, निरङ्कुशः निगृहीतुमशक्यः, पक्षे अङ्कुशरहितः पापकारी पापाचारी, अनिष्टकारीत्यर्थः, व्याल इच दुष्टगज इव, बलीयान् बलवत्तरः, विधिः दैवम्, प्रशालोहनिगडेन प्रशारूपो यः लोहनिर्मितः, निगड : - शृङ्खलः, पक्षे पादबन्धनम् तेन बुद्धिमद्भिः विवेकिभिः बद्धोऽपि नियन्त्रितोऽपि, निरवग्रहः निष्प्रतिबन्धः, विचरति भ्रमति, अत्र अस्मिन् विधावित्यर्थः, मार्गमृग इव मार्गस्थहरिण इव, वामचारिणि प्रतिकूलवर्तिनि पक्षे वामभागगामिनि सति, फलार्थिनः क्रियाफलाभिलाषिणः, पक्षे प्रयाणफलाभिलाषिणः, व्यापारितसकलसामर्थ्या अपि प्रयुक्ताशेषशक्तिका अपि, वाञ्छितानि अभिलषितवस्तूनि, न अधिगच्छन्ति प्रामु
[झ ] | तत् तस्मात् अनया वर्तमानया, स्वचित्तसन्तापैकफलया खचित्तस्य-निजान्तःकरणस्य, सन्तापःपरिताप एव फलं यस्यास्तादृश्या, फल्गुचिन्तया तुच्छचिन्तया, अलं न किमपि साध्यम् । महात्मना महनीयात्मना, विवेकिनेत्यर्थः, असौ तत्पाणिग्रहणप्रवणः पुमान्, न शोचनीयः शोचितुमनर्हः । पुनः किन्तु, असौ स मञ्जीरः, शोचनीयः शोचितुमुचितः कीदृशः ? पापकर्मा पापं पापप्रयोजकम् कर्म कार्यं यस्य तादृशः; अत एव कर्मचण्डालः कर्मणा - खदुष्कर्मणा, चण्डालः क्रूरः पुनः प्रकृतिदुष्टात्मा प्रकृत्या स्वभावेन, दुष्टः-दोषान्वितः, परकीय शुभद्वेषीत्यर्थः, आत्मा यस्य तादृशः; अत एव विशिष्टाभासः विशिष्टवदाभासमानः, न तु विशिष्ट इत्यर्थः सकलचौरग्रामणीः समस्ततस्कराधिपतिः, तस्करश्रेष्ठ इत्यर्थः पुनः अग्राह्यनामा अनुच्चारणीयसंज्ञकः । येन मञ्जीरेण निभृतम् एकान्तम्, प्रच्छनमित्यर्थः, यथा स्यात् तथा, उपसृत्य उपगत्य, मार्जारेण बिलाडेन, मूषिकामिथुनमिव मूषिकाद्वन्द्वमिव लेखपत्रकं लेखपत्रम्, अपहृत्य अपहरणकर्मीकृत्य, प्रयोजनमन्तरेण स्वार्थं विनैव, मिथुनस्य निश्चितदम्पतिद्वन्द्वस्य विघटनं विश्लेषणम्, कृतं विहितम् कीदृशं तत् पत्रकम् ? अत्र अस्मिन् स्थाने, विनिहितं स्थापितम्, तत्पत्रमिति शेषः, दूरस्यैव दूरमवस्थितैव, प्रेक्षकजनेन दर्शकजनेन, अनुपलक्षिता अनवलोकिता सती, यात्रा कामदेवमन्दिरयात्रोत्सवम्, द्रष्टुम् अवलोकितुम्, आयातस्य आगतस्य, तस्य प्रकृतस्य, यूनः तरुणपुरुषस्य, दर्शयिष्यामि दृष्टिपथमुपस्थापयिष्यामि, इस्यभिप्रायेण इत्याशयेन, लेखहारिण्या पत्रवाहिकया, सहकारमूले आम्रवृक्षाधस्तात्, स्थापितं धृतम् । कीदृशस्य मिथुनस्य ? तादृशस्य निरुक्तप्रकारस्य पुनः दूरारूढसदृशप्रेम्णः दूरम् - अत्यन्तम्, आरूढः - वृद्धिं गतः, सदृशः- तुल्यः, प्रीतिर्यस्य तादृशस्य; पुनः प्रतिकूल गुरुजनकृत प्रतिबन्धस्य प्रतिकूलैः, गुरुभिः - कुमारिकापित्रादिभिः कृतः प्रतिबन्धः -
प्रेमा
Page #106
--------------------------------------------------------------------------
________________
२४८
टिप्पनक-परागविवृतिसंवलिता बन्धस्य स्वरसतः कृतानुग्रहेण भगवता मकरकेतनेन संयोज्यमानस्य मिथुनस्य प्रयोजनमन्तरेण विघटन कृतम् , घटितश्च जीवितावधिनिधुवनसुखानां सख्यस्य रूपसौभाग्यादिगुणकलापस्य विषयोपभोगानां च सर्वकषो विनाशः [अ] | को वास्य मोहोपहतधिषणस्य दोषः । कुमारस्यैवायं प्रमादो यदीडशेऽप्यपराधे नैनमन्यायकारिणं करचरणकल्पनेन वा स्वदेशनिर्वासनेन वा रासभसमारोपणेन वान्येन वा धर्मशास्त्रप्रणीतनीतिना निग्रहणेन विनयं ग्राहयति, यदि वा किमनेन क्लिष्टफलयानया नरेन्द्रसेवयैव शासितेन भूयः कर्थितेन कृपणेनेति कृपामनुरुद्धयमानो न निष्टुरं व्यवहरति, ततोऽयमपि तिष्ठतु, जन्मान्तरे नरकातिथीभूतः खत एव जाल्मः कल्मषस्य सदृशं दशापाकमनुभविष्यति । तत्तावदन्वेष्य मिथुनं मिथः संयोजनीयं भवति । यद्विप्रयोगसंभावनया स्वशरीरभूतस्य सुहृदो हृदयदाह ईदृशो युवराजस्य' इत्युक्तवति तस्मिन् सकलोऽपि परिहासालापरञ्जितः कुमारवर्जमहसदुश्चैः प्रणयी राजलोकः [ट] । कुमारोऽपि मन्दस्पन्दिताधरपुटः स्फुरणलोले कपोलदर्पणोदरे दरलब्धावकाशमपसार्य सद्यःस्मितप्रकाशं साभ्यसूय इव 'कमलगुप्त ! किमयमस्थाने
अवरोधो यस्य तादृशस्य, पुनः स्वरसतः स्वेच्छया, कृतानुग्रहेण कृतः, अनुग्रहः-दया येन तादृशेन, भगवता ऐश्वर्यशालिना, मकरकेतनेन मकरध्वजेन, कामदेवेनेत्यर्थः, संयोज्यमानस्य संघट्यमानस्य । च पुनः, जीवितावधिनिधुवनसुखानां जीवनपर्यन्तरतिसुखानाम् , सख्यस्य परस्परसौहार्दस्य, रूपसौभाग्यादिगुणकलापस्य रूपलावण्यादि. गुणगणस्य, च पुनः, विषयोपभोगानां गन्धरसा दिविषयकप्रत्यक्षजन्यसुखानुभवानाम् , सर्वकषः समूलोच्छेदकरः, विनाशः, घटितः कृतः [अ] । वा अथवा, मोहोपहतधिषणस्य मोहेन-अविवेकेन, उपहता-दूषिता, धिषणा-बुद्धियस्य, तादृशस्य, अस्य मजीरस्य, को दोषः अपराधः, न कोऽपीत्यर्थः । किन्तु कुमारस्यैव हरिवाहनस्यैव, अयं प्रमादः अनवधानम् , यत् यस्मात् , ईदृशेऽपि एवंविधेऽपि, अपराधे दोषे, अन्यायकारिणं न्यायविरुद्धाचारिणम् , एनं मीरम् , निग्रहेण नियन्त्रणेन दण्डेनेत्यर्थः, विनयं नम्रताम् , न ग्राहयति प्रापयति, कीदृशेन निग्रहेण ? करचरणकल्पनेन हस्तपादविध्वंसनेन, वा अथवा, स्वदेश निर्वासनेन खदेशाद् बहिष्करगेन, वा अथवा, रासभसमारोपणेन गर्दभपृष्ठारोहणेन, वा अथवा, अन्येन तद्भिन्नेन, धर्मशास्त्रप्रणीतनीतिना धर्मशास्त्रेण प्रणीता-प्रकल्पिता, नीतिःन्याय्या पद्धतिर्यस्य तादृशेन । चा अथवा, क्लिष्टफलया क्लिष्टं--क्लेशसाध्यम् , फलं यस्यास्तादृश्या, अनया वर्तमानया, नरेन्द्रसेवयैव नृपसेवयैव, शासितेन विनयं ग्राहितेन, कृपणेन क्षुद्रेण, अनेन मजीरेण, भूयः पुनः, कर्थितेन भसिंतेन, किं न किमपि, फलमित्यर्थः, इति ईदृशीम् , कृपामतुरुध्यमानः तस्मिन् दयामिच्छन् , यदि निष्ठरं कठोर यथा स्यात् तथा, न व्यवहरति नाचरिष्यति, भवानिति शेषः, ततः तर्हि, अयमपि मजीरोऽपि, तिष्ठतु यथावदस्तु। किन्तु जन्मान्तरे अन्यजन्मान, जाल्मः अन्यायकारा मझौर इत्यर्थः, नरकातिथीभूतः नरकलोकातिथिः सम्पत्स्यमानः, खत एव कल्मषस्य खकृतपापस्य, सदृशम् अनुरूपम् , दशापाकं परिणामफलम् , दुःखमित्यर्थः, अनुभविष्यति उपभोक्ष्यते । तावत् प्रथमम् , तत् मिथुनं विघटितत्वेन शङ्कितं द्वन्द्वम् , अन्वेष्य अन्वेषणं कृत्वा, मिथः परस्परम् , संयोजनीयं सङ्घटनीयम् , भवति विद्यते, यद्विप्रयोगसम्भावनया यद्विघटनशङ्कया, युवराजस्य हरिवाहनस्य, खशरीरभूतस्य खशरीरवदाचरितस्य, अत्यन्तान्तरजस्येत्यर्थः, सुहृदः मित्रस्य समरकेतोः, ईदृशः एतादृशः, हृदयदाहः
ति इत्थम. उक्तवति कथितवति सति, परिहासालापरोञ्जतः परिहासालापेन-तत्कृतोपहासकथया, रञ्जितः-प्रमोदितः, सकलोऽपि सर्वोऽपि, प्रणयी स्नेही, राजलोकः नृपजनः, कुमारवर्ज हरिवाहनरहितं यथा स्यात् तथा, उच्चैः उच्चवरेण, अहसत् हसितवान् [2]। कुमारोऽपि हरिवाहनोऽपि, मन्दस्पन्दिताधरपुटः किञ्चिच्चलितोष्टपुटः सन् , स्फुरणलोले स्पन्दनतरले, कपोलदर्पणोदरे कपोलौ दर्पणाविव समुजबलत्वादिति कपोलदर्पणी तयोरुदरे-मध्ये, दरलब्धावकाशं किश्चिदवाप्तसमावेशम् , स्मितप्रकाशं मन्दहासालोकम् , सद्यः तरक्षणम् , अपसार्य निवार्य, साभ्यसूय इव अभ्यसूयया-दोषाविष्कारेण सहित इच, कमलगुप्त ! भोः
Page #107
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२४९ विप्लवप्रपश्चः' इत्युदीर्य तिर्यग्वलितवदनः सिंहलेन्द्रसुतमवादीत्-'सखे! किंनिमित्तं प्रहर्षस्थानेऽप्येवमस्वस्थेन भवता स्थीयते, किमर्थमिदमतर्कितागतेन तमसा समास्कन्दितं वदनमिन्दुमिव चन्द्रिका नायति नालीपेष्वपि कुन्दनिर्मला ते स्मितद्युतिः, किमित्यधिकमधुरा अपि परपुरन्ध्रिदूतीगिर इव श्रवसि न विशन्ति शृङ्गारप्रधानाश्चिरन्तनकवीनामुक्तयः, केन हेतुना नूतनैरपि सुहृजनसूक्तैरजातपुलकोद्गतिरुभयपाणिपर्यङ्कशरणा धार्यते कपोलद्वयी । कञ्चिन्न मयि जल्पति जातमुपतापदायिनः स्ववृत्तान्तस्य कस्यचिदाकस्मिकं स्मरणम् , यथाऽयमार्यार्थसूचितो युवा तथा न त्वमपि कुसुमायुधजयपताकया, कयाप्यवनिपालकन्यया कापि नयन. मार्गणैर्विद्धः। प्रयुक्तप्रार्थनश्च निपुणमनयेव चतुरया वचनभझ्या न कचित् सङ्केतस्थानकथनेन कृतार्थीकृतोऽसि, कृतप्रयत्नश्च तदवाप्तये विधिवशादतर्कितोपनतेन केनचिद् गरीयसा कार्येण तत्समागमसुखानां न दूरीकृतोऽसि [3]|' इत्याहतेन नृपतिसूनुना प्रयुक्तहृदयंगमप्रश्नः शनैरुन्नम्य सत्वरगृहीतोत्तरीयपल्लवप्रमृष्टदृष्टिवदनमनादरविलोकितपार्श्ववर्तिराजलोकः सशोक इव समरकेतुर्विरतवाक्प्रवृत्तिः स्थित्वा मुहूर्तमुपचक्रमे वक्तुम्
कमलगुप्त !, अस्थाने अनवसरे, अयं विप्लवप्रपञ्चः क्षोभविस्तारः, किं किमर्थः, इत्युदीर्य इत्युक्त्वा, तिर्यग्वलितवदनः तिर्यक्-कुटिलं यथा स्यात् तथा, वलितं-सन्दितं मुखं यस्य तादृशः सन् , सिंहलेन्द्रसुतं सिंहलद्वीपनृपकुमारम् , समरफेतुमित्यर्थः, अवादीत् उक्तवान् किमित्याह-सखे ! भो मित्र ! प्रहर्षस्थानेऽपि प्रमोदावसरेऽपि, किंनिमित्तं किमर्थम् , भवता त्वया, एवम् अनेन प्रकारेण, अवस्थेन शोकाकुलेन, स्थीयते, किमर्थ कस्य हेतोः, कुन्द निर्मला कुन्दपुष्पवद्धवला, ते तव, स्मितद्युतिः मन्दहासच्छविः, नर्मालापेऽपि परिहासालापेऽपि, अतर्कितागतेन अकस्मादुपस्थितेन, तमसा शोकेन, पक्षे राहुणा, समास्कन्दितं समाकान्तम्, वदनं मुखम् , इन्दु चन्द्रम् , चन्द्रिका इव ज्योत्स्ना इव, न आर्द्रयति आद्रीकरोति, रूक्षतामपनयतीति यावत् , उद्भासयतीत्यर्थः। अधिकमधुरा अपि अत्यन्तश्रोत्रपेया अपि, शृङ्गारप्रधानाः प्राधान्येन शृङ्गाररसाभिव्यक्षिकाः, चिरन्तनकवीनां प्राचीनकविसम्बन्धिन्यः, उक्तयः वाचः, परपुरन्धिदूतीगिर इव पराङ्गनादूतीवचनानीव, श्रवसि कर्णे, किमिति किमर्थम् , न विशन्ति प्रविशन्ति, केन हेतुना कारणेन, नूतनैरपि नवीनैरपि, सुहृजनसूक्तैः मित्रजनसुभाषितैः, अजातपुलकोदतिः अजातरोमाञ्चोदया, पुनः उभयपाणिपर्यशरणा उभयपाणी-उभयकरावेव, पर्यको-तदाख्यशयनाधारविशेषौ, शरणे-आधारो यस्यास्तादृशी, कपोलद्वयी गण्डयुगलम् , धार्यते धारणकर्मतां प्राप्यते। मयि जल्पति भाषमाणे सति, उपतापदायिनः सन्तापकारिणः, कस्यचित् कस्यापि, स्ववृत्तान्तस्य, आकस्मिकम् अतर्कितोपनतकम् , स्मरणं न जातम् उत्पन्नम् , कच्चित् किम् ? यथा येन प्रकारेण, आर्यार्थसूचितः प्रकृतार्याशयेन कृतसूचनः, अयं बुद्धिसन्निकृष्टः, युवा तरुणः पुमान् , कयापि कन्यया नेत्रवाणविद्धो वर्तते, तथा तेन प्रकारेण, त्वमपि कुसुमायुधजयपताकया कामदेवजयपताकारूपया, कयापि कयाचित् , अवनिपालकन्यया नृपकन्यया, क्वापि कुत्रापि स्थाने, नयनमार्गणैः नेत्रबाणैः, विद्धः ब्रणितः, आहत इत्यर्थः, न वर्तसे इति शेषः; च पुनः, अनयेव प्रकृतकन्ययेव, चतुरया चातुरीपूर्णया, वचनभङ्गया वचनकौटिल्येन, वचनविच्छित्त्या वा, निपुणं स्फुटं यथा स्यात् तथा, प्रयुक्तप्रार्थनः प्रयुक्ता-कृता, प्रार्थना यस्य तादृशः सन् , क्वचित् कुत्रापि, संकेतस्थानकथनेन संकेतस्य-प्रतिज्ञातोभयसम्मेलनसमय प्रतीक्षाया यत् स्थानं तस्य, सूचनेन न कृतार्थीकृतोऽसि सफलीकृतोऽसि । च पुनः, तदद्वाप्तये तत्प्राप्तये, कृतप्रयत्नः विहितप्रयासः सन् , विधिवशात् दुर्दैवयोगात् , अतार्कतोपनतेन अकस्मादुपस्थितेन, गरीयसा गुरुत्तरेण, केनचित केनापि, कार्येण, न तत्समागमखानां तत्सम्मेलनानन्दानाम. दूरीकृतोऽसि दूरमवस्थापितोऽसि, ततो वञ्चितोऽसीत्यर्थः [2]। इति इत्थम् , आदृतेन सादरेण, नृपतिसूनुना नृपात्मजेन हरिवाहनेन, प्रयुक्तहृदयङ्गमप्रश्नः प्रयुक्तः-कृतः, हृदयङ्गमः-हार्दिकार्थविषयकः, प्रश्नो यस्य तादृशः, पुनः शनैः मन्दम् , उन्नम्य ऊर्ध्वमूखीभूय, सत्वरगृहीतोत्तरीयपल्लवप्रसृष्टदृष्टिवदनं सत्वरं-शीघ्रम् , गृहीतेन, उत्तरीय
३२ तिलकर
Page #108
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता अमानुषी कुमार! तव प्रज्ञा प्रजापतेरिव तनुस्तनोति सर्वतोमुखतया परं मे मनसि विस्मयम् , अखिलजनमानसनिवासादिव त्वया समासादितमिदं पराशयज्ञानकौशलम् , किमहमत्रापरं कथयामि, निजयैव प्रशया निवेदितस्ते सकलोऽपि सामान्येन मदुःखवृत्तान्ता, यदि परं परिकर एव मयास्य कथनीयः, तमपि वज्रसारकठोरहृदयस्त्वया समाज्ञापित इति विज्ञापयामि, किन्तु महती कथैषा न शक्यते संक्षिप्य कथयितुम् , विस्तरतस्तु कथ्यमाना पराणि कार्यान्तराण्यन्तरयिष्यति तथापि यदि कौतुकमावेदयामि, श्रूयतामेतत् प्रायेण श्रुतिविषयमायातमेव श्रुतिमतां वरस्य [ड]___ यथा-सिंहलेष्वस्ति समस्तवसुमतीभूषणमभ्रषप्राकारवलया विमानाकारपौरालयसहस्रशालिनी रङ्गशाला नाम नगरी । तत्रस्थः पिता मे चन्द्रकेतुः कदाचिद् देशकालाधवष्टम्भसंभृतावलेपानां प्रपन्नमपि पूर्व
टिप्पनकम्-विक्षेपः-दण्डो घाटको [ ढ]। पल्लवेन-पल्लवमृदुलोत्तरीयवस्त्रेण, प्रमृष्ट-प्रोच्छितम् , दृष्टिवदन-मुखनयनं यस्मिंस्तादृशं यथा स्यात् तथा, अनादरविलोकितपार्श्ववर्तिराजलोकः अनादरेण-दुःखवशादादरराहित्येन, विलोकितः, पार्श्ववर्ती-सविधवर्ती, राजलोकः-नृपजनो येन तादृशः, समरकेतुः, सशोक इव शोकान्वित इव, विरतवाक्प्रवृत्तिः निवृत्तवचनप्रयोगः सन् , सूकः समित्यर्थः, मुहूर्त क्षणम् , स्थित्वा, वक्तुं कथयितुम् , उपचक्रमे प्रारेमे, किमित्याह-कुमार! भो हरिवाहन ! प्रजापतेः ब्रह्मणः, तनुरिव शरीरमिव, सर्वतोमुखतया सर्वतः-सर्वत्र, अतीताऽनागतवर्तमानसन्निकृष्ट-विप्रकृष्ट-स्थूल-सूक्ष्म-सर्वविषयेषु, मुख-प्रवृत्तिर्यस्यास्तादृशतया, पक्षे सर्वतः-सर्वभागेषु, मुखं यस्यास्ताहशतया चतुर्मुखतयेत्यर्थः, अमानुषी-मानवगणेऽदृश्यमामा, दिव्येत्यर्थः, तब, प्रज्ञा प्रतिभा, मे मम, मनसि चेतसि, परम् अत्यन्तम् , विस्मयम् , आश्चर्यम् , तनोति विस्तारयति । अखिलजनमानसनिवासादिव सर्वजनहृदयागारनिवासादिवेति हेतूत्प्रेक्षा, इदं प्रत्यक्षवदनुभूयमानम् , पराशयज्ञानकौशलं पराभिप्रायनिर्णयनैपुण्यम् , त्वया, समासादितं प्राप्तम् । अत्र अस्मिन् विषये, अपरम् अन्यत् , किं कथयामि ब्रवीमि, सकलोऽपि सर्वोऽपि, महुःखवृत्तान्तः मदीयदुःखवार्ता, निजया स्वकीयया, प्रायैव प्रतिभमैच, ते तव, सामान्येन अविशेषेण, निवेदितः विज्ञापितः, परं केवलम् , मया, अस्य दुःखवृत्तान्तस्य, परिकर एव विस्तार एव, विशेषांश एवेत्यर्थः, यदि कथनीयः कथनाहः, अवशिष्यत इति भावः, तदा वज्रसारकठोरहदयः वजस्य यः सार:-दृढांशः, तद्वत् कठोरं-निछुरं हृदयं यस्य तादृशः, अहमिति शेषः, त्वया हरिवाहनेन, समाशापितः कथयितुमा- . दिष्टः, इति हेतोः, तमपि तद्विस्तारमपि, विज्ञापयामि निवेदयामि, कथयामीत्यर्थः, किन्तु परन्तु, महती विपुला, एषा इयम् , कथा वार्ता, संक्षेपेण समासेन, कथयितुं निवेदयितुम् , न शक्यते, विस्तरतस्तु व्यासेन तु, कथ्यमाना निवे. धमामा, पराणि अग्रिमाणि, अनन्तराणीत्यर्थः, कार्यान्तराणि अन्यान्यकार्याणि, अन्तरयिष्यति व्यवधास्यति, तथापि एवं सत्यपि, यदि कौतुकं श्रवणकुतुहलम् , तदा आबेदयामि प्रतिपादयामि, एतद् इदं वृत्तान्तम् , श्रूयतां निशम्यताम् , झीहरु प्रायेण बाहुल्येन, संक्षेपेण इत्यर्थः । श्रुतिमतां शास्त्रज्ञानवताम् , वरस्य श्रेष्ठस्य, भक्त इति शेषः, श्रुतिविषयं श्रवपागोचरताम्, आयसमेव प्राप्तमेव ।
यथा विवक्षिसन्तान्तस्वरूपोपदर्शनार्थोऽयंशब्दः, सिंहलेष तदाख्यद्वीपमध्ये, रङ्गशालानगरी तदाख्यपुरी, नामेति वाक्यालङ्कारे, अस्ति विद्यते, कीदृशी? समस्तवसुमतीभूषणम् अखिलपृथ्वीभूषणभूता, पुनः अभ्रऋषप्राकार. बलया अभ्रषं गगनचुम्बि, अत्युनतमित्यर्थः, प्राकारवलयं-प्राकारमण्डलं यस्यास्तादशी, पुनः विमानाकारपोरालय सहस्रशालिनी विमानाकार-व्योमयानतुल्याकारं यत् , पौरालयानां-पुरमध्यवर्तिगृहाणाम् , सहस्रं तेम शालते-शोभते, या तादृशी, तत्रस्थः तत्र वास्तव्यः, मे मम, पिता, चन्द्रकेतुः तदाख्यनृपतिः, कदाचित् कस्मिंश्चित् काले, दुष्टसामन्तानां दुष्टानां-दोषान्वितामाम् , सामन्तानां-खाधिकारवर्तिनृपाणाम्, प्रतिक्षेपाय अपनयनाय, दण्डनाय आक्रमणाय वा, दक्षिणापथयायि दक्षिणदेशगामि, नौसैन्यं नौद्वारा गमनकर्तृसैन्यम् , आदिक्षत आज्ञापिसवान् । कीदृशानाम् ? देशकालाधवष्टम्भसम्भृतावलेपानां सिद्धेर्दण्डस्य चाङ्गविधया यो देशकालादिविवेक उक्तः, तदवष्टम्मेन तदाश्रयणेन,
Page #109
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२५१
दायमप्रयच्छतां विक्षेपविसर्जनेषु कालक्षेपकारिणामाह्वानेषु बह्वनागमनकारणव्याहारिणामुत्सवेष्वहृष्टानामापत्सु सविलासचेष्टानामुक्त्या प्रीतिमुपदर्शयतां युक्तया प्रतिलोमं व्यवहरतां सुवेलशैलोपकण्ठवासिनां दुष्टसामन्तानां प्रतिक्षेपाय दक्षिणापथयायि नौसैन्यमादिक्षत । प्रस्थितस्य च तस्य रिपुविनाशाय यथाशक्तिकृतशास्त्रपरिचयमधीतनीतिविद्यमभ्यस्त निरवद्यधनुर्वेदमसिगदाचक्रकुन्तप्रासादिषु प्रहरणविशेषेषु कृतश्रममचिरारूढयौवनमभिषिच्य यौवराज्ये मामेव नायकमकल्पयत् । अर्पितानल्पपदातिसैन्यं च पुण्येऽहनि प्रधानैरवनिपतिभिरमात्यैः सामन्तश्च कृत्वा ससहायं प्राहिणोत् [ ढ ] ।
अथाहं प्रातरेव स्नातो निर्वर्तिताभिमतदेवताविशेषपूजः संपूज्य वस्त्राद्यतिसर्जनेन द्विजातिलोकं प्रतिकला बलोकितशङ्कुच्छायैज्र्ज्योतिर्गणितविद्भिः साधिते लग्ने सितदुकूलवासाः सितकुसुमदामप्रथितशेखरः शरश्चन्द्रा तपेनेव . कौमुदीमहोत्सव भ्रमणलमेन स्पर्शाहादिना चन्दनाङ्गरागेण सर्वाङ्गीणेन शोभमानः स्थूलस्वच्छ मुक्ताफलग्रथितां
सम्भृतः-कृतः, अचलेपः-गर्यो यैस्तादृशानाम्; पुनः प्रपन्नमपि स्वयमङ्गीकृतमपि पूर्वदायं पूर्वदेभकरम्, अप्रयच्छताम् अप्रददताम् ; पुनः विक्षेपविसर्जनेषु दण्डद्रव्यदानेषु कालक्षेपकारिणां कालातिक्रमकारिणाम् पुनः आह्वानेषु स्वसविधाहूतिषु सतीषु, बहनागमनकारणव्याहारिणां बहूनि यानि अनागमनकारणानि - आगमनाभाव हेतवः, तदूव्याहारिणां तत्प्रतिपादिनाम् ; उत्सवेषु मङ्गलावसरेषु, अहृष्टानाम् अमुदितानाम्; पुनः आपत्सु आपत्त्यवसरेषु, सविलासचेष्टानां विलासेन - मुखप्रसादादिविभ्रमेण सहिता चेष्टा- शारीरिक क्रिया येषां तादृशानाम् पुनः उक्तया वचनेन, प्रीर्ति प्रेमाणम्, उपदर्शयतां प्रकटयताम् ; पुनः युक्त्या उपायेन, प्रतिलोमं प्रतिकूलं यथा स्यात् तथा, व्यवहरताम् आचरताम् ; पुनः सुवेलशैलोपकण्ठवासिनां सुवेलशैलस्य- सुवेलपर्वतस्य, उपकण्ठे निकटे, वास्तव्यानाम् । च पुनः रिपुविनाशाय शत्रुविनाशाय, प्रस्थितस्य प्रयातस्य तस्य सैन्यस्य नायकं पतिम् मामेव, अकल्पयत् कृतवान् किं कृत्वा ? यौवराज्ये युवराजपदे, अभिषिच्य अभिषेकं कृत्वा, कीदृशं मामू ? यथाशक्तिकृतशास्त्र परिचयं खशक्त्यनुसारविहितशास्त्रानुशीलनम् ; पुनः अधीतनीतिविद्यम् पठितनीतिशास्त्रम् पुनः अभ्यस्तनिरवद्यधनुर्वेदम् अभ्यस्तः- घुषितः, निरवद्यः - प्रशस्यः, धनुर्वेदः - धनुर्विद्या येन तादृशम्; पुनः असि -गदा-चक्र- कुन्त-प्रासादिषु तत्तदस्त्रविशेषप्रभृतिषु, प्रहरणविशेषेषु अनविशेषेषु, कृतश्रमं कृतशिक्षणायासम्; पुनः अचिरारूढःयौवनम् अभिनवोद्भूततारुण्यम् । च पुनः अर्पितानल्पपदातिसैन्यम् अर्पितं दत्तम्, अनल्पं प्रचुरम्, पदातिसैन्यं - पदगामि सैन्यं यस्मै तादृशम्, मामिति शेषः, प्रधानैः मुख्यैः, अवनिपतिभिः नृपतिभिः, अमात्यैः सचिवैः, सामन्तैः अधीननृपैश्व, स सहायं सहायसहितम् कृत्वा, पुण्ये प्रशस्ते, अहनि दिने, प्राहिणोत् प्रेषितवान् [ ८ ] 1
अथ अनन्तरम्, प्रातरेव प्रातः काल एव स्नातः कृतस्नानः, सभामण्डपं सभागृहम् अगच्छम् गतवान् ; कीदृश: ? निर्वर्त्तिताभिमतदेवताविशेषपूजः निर्वर्त्तिता - सम्पादिता, अभिमत देवताविशेषस्य- इष्टदेवविशेषस्य पूजा येन, यद्वा अभिमतदेवताया विशेषपूजा येन तादृशः किं कृत्वा ? वस्त्राद्यतिसर्जनेन क्स्त्रादिदानेन द्विजातिलोकं द्विजजनम्, सम्पूज्य सम्यक् पूजयित्वा कदा ? प्रतिकलावलोकितशङ्कुच्छायैः कला नाम-राशेः षष्टितमोऽशः, कलां कलां प्रति-प्रतिकलम्, अवलोकिता - दृष्टा, शङ्कोः - आरोपित द्वादशाङ्गुलदण्डस्य, छाया यैस्तादृशैः तच्छायावलोकन, निर्णीतेष्टकालकैरित्यर्थः, ज्योतिर्गणितविद्भिः ज्योतिर्नाम - नक्षत्रम्, तत्प्रधानकं शास्त्रमिति यावत्, तत्सम्बन्धि यद् गणितं - गणना, तद्विद्भिः-तदभिज्ञैः, दैवविद्भिरित्यर्थः, साधिते निरूपिते, लग्ने राश्युदये; पुनः कीदृशः ! सितदुकूलवासाः सितंशुभ्रम्, दुकूलं—पट्टम्, वासः–वस्त्रं यस्य तादृशः पुनः सितकुसुमदामग्रन्थितशेखरः सितानि - श्वेतानि यानि कुसुमानि - पुष्पाणि, तेषां दाम्ना-मालया, ग्रथितः - कल्पितः, शेखरः- शिरोभूषणं येन तादृशः पुनः कौमुदीमहोत्सव भ्रमणलग्नेन कौमुद्याः चन्द्रिकायाः, यो महोत्सवः - महानुत्सवः, तत्र यद् भ्रमणं - विहरणम्, तेन लग्मेन शरीरसम्पृक्तेन, शरच्चन्द्रातपेन इव शरच्चन्द्रकिरणेनेवेत्युत्प्रेक्षा, स्पर्शाह्लादिना स्पर्शसुखावहेन, सर्वाङ्गीणेन सर्वाङ्गव्यापकेन चन्दनाङ्गरागेण
Page #110
--------------------------------------------------------------------------
________________
२५२
टिप्पनक-परागविवृतिसंवलिता तत्क्षणप्रमुदिताया वक्षःस्थलभाजो राजलक्ष्या लोचनद्वयादानन्दाश्रुपद्धतिमिव द्विधाप्रवृत्तां नाभिचक्रचुम्बिनीमेकावलीं दधानो बद्धचन्दनप्रवालवन्दनमालातरङ्गिततोरणमुद्दामगन्धोदकच्छटाविच्छर्द विरजीकृताजिरमागृहीतोज्वलवेषसविशेषचारसंचरद्वारवनिताजनमवहितप्रतीहारनिर्धार्यमाणानिबद्धभाषिबाह्यपरिजनं सभामण्डपमगच्छम् [ण] ।
तत्र च पवित्रमणिवेदिकापृष्ठनिहिते महति हेमासने प्राङ्मुखोपविष्टस्तत्कालमभिमुखीभूताभिः साक्षादिव जयश्रीभिरूरुसंदंशदष्टनिवसनाप्रपल्लवस्पष्टीकृतनितम्बपरिणाहाभिरीषदवनमितपूर्वकायतया मिलद्वलित्रयव्यस्रीभूतनाभिमण्डलाभोगाभिः कनकवलयावलीवाचालभुजलतोत्क्षेपलक्ष्यमाणपीनोद्भुरपयोधराभिरुज्झितस्तनोत्सङ्गनिःसङ्गलम्बमानप्रलम्बमौक्तिकपालम्बाभिः पुरोनिहितदधिकुसुमदूर्वाङ्कुरसनाथाश्तपूर्णकनकपात्राभिरन्तःपुर
चन्दनसम्बन्धिशरीरलेपनद्रवेण, शोभमानः दीप्यमानः; पुनः स्थूलखच्छमुक्ताफलग्रथितां स्थूलानि, स्वच्छानि-. शुभ्राणि च, यानि मुक्ताफलानि-मौक्तिकानि, तैः, प्रथितां-गुम्फिताम् , द्विधाप्रवृत्तां द्विधाऽवस्थिताम् , भागद्वयेनावस्थितामित्यर्थः, पुनः नाभिचक्रचुम्बिनीम् नाभिमण्डलव्यापिनीम् , एकावलीम् एकपलयात्मिकाम् , मालां दधानः धारयन् , कामिव? तत्क्षणप्रमुदितायाः तत्कालप्रहृष्टायाः, पुनः वक्षःस्थलभाजः वक्षःस्थलस्थितायाः, राजलक्ष्म्याः राजसम्बन्धिन्या लक्ष्म्याः , लोचनद्वयात् नेत्रद्वयात् , निर्गतामिति शेषः, द्विधाप्रवृत्ताम् , आनन्दाश्रुपद्धतिमिव आनन्दजन्यनेत्रजलप्रवाहमिवेत्युत्प्रेक्षा; कीदृशं सभामण्डपम् ? बद्धचन्दनप्रवालवन्दनमालातरङ्गिततोरणम् बद्धाभिः, चन्दनप्रवालानां-चन्दनपल्लवानाम्, वन्दनमालाभिः-तोरणमालाभिः, तरङ्गित-व्याप्तम् , तोरणं-बहिरिं यस्य तादृशम् ; पुनः उद्दामगन्धोदकच्छटाविच्छदविरजीकृताजिरम् उदानाम्-अप्रतिहतानाम्, गन्धोदकच्छटाना-गन्धान्वितजलधारा णाम् , विच्छर्दैन-विक्षेपेण, विरजीकृतः-निर्धूलीकृतः, अजिर:-प्राङ्गणं यस्य तादृशम् , पुनः आगृहीतोजवलवेषसविशेषचारुसञ्चरद्धारवनिताजनम् आ-समन्तात् , गृहीतेन, उज्जलवेषेण, सविशेषचारवः-अत्यन्तमनोहराः, सञ्चरन्तःप्रचरन्तः, वारवनिताजनाः-वेश्याजना यस्मिंस्तादृशम् , पुनः अवहितप्रतीहारनिर्धार्यमाणानिबद्धभाषिबाहपरिजनम् अवहितप्रतीहारैः-सावधानद्वारपालैः, निर्धार्यमाणाः-पृथक्क्रियमाणाः, निरुध्यमाना इति यावत्, अनिबद्धभाषिण:-असम्बद्धभाषिणः, बाह्यपरिजनाः-बाह्यपरिवारा यस्मिंस्तादृशम् [M]।
च पुनः, तत्र सभामण्डपे, पवित्रमणिवेदिकापृष्ठनिहिते निर्मलमणिमयवेदिकोपरिधृते, महति विशाले, हेमासने सुवर्णमयासने, प्राङ्मुखोपविष्टः पूर्वाभिमुखकृतोपवेशनः सन् , राजकुलात् राजधानीतः, निरगच्छम् निर्गतवानित्यप्रेणान्वेति; कीदृशः? अन्तःपुरविलासिनीभिः अन्तःपुरवधूभिः, सम्पादितसकलयात्रामङ्गलः सम्पादितानिनिष्पादितानि, सकलानि-समस्तानि, यात्रामङ्गलानि-यात्राकालिकमङ्गलोपचारा यस्य तादृशः; कीदृशीभिः तत्कालं तत्क्षणम् , अभिमुखीभूताभिः सम्मुखीभूताभिः, साक्षात् , जयश्रीभिरिव रिपुविजयलक्ष्मीभिरिवेत्युत्प्रेक्षा, पुनः ऊरुसन्दंशदष्टनिवसनामपल्लवस्पष्टीकृतनितम्बपरिणाहाभिः ऊरुरूप:-जानूपरितनभागरूपो यः, सन्देशः-वस्तुनियन्त्रणोपकरणविशेषः, तेन दष्टेन-नियन्त्रितेन, आकुञ्चितेनेत्यर्थः, निवसनस्य-सूक्ष्मवस्त्रस्य, अग्रपल्लवेन-पल्लवकोमलाग्रभागेन, स्पष्टीकृतःस्फुटीकृतः, नितम्बस्य-कटिपश्चाद्भागस्य, परिणाहः-विस्तारो यासां तादृशीभिः, पुनः ईषदवन मितपूर्वकायतया किञ्चिदधोनमितशरीरपूर्वार्धतया हेतुना, मिलद्वलित्रयम्यस्त्रीभूतनाभिमण्डलाभोगाभिः मिलता सङ्कटमानेन, वलि. त्रयेण-नाभिमण्डलाधस्तनरेखात्रयेण, व्यवीभूतः-त्रीणि अस्राणि-कोणा यस्य तादृशीभूतः, नाभिमण्डलस्य, आभोग:-विस्तारो यासां तादृशीभिः, पुनः कनकवलयावलीवाचालभुजलतोत्क्षेपलक्ष्यमाणपीनोद्धरपयोधराभिः कनकवलयानासुवर्णमयप्रकोष्ठाभरणानाम् , आवल्या-पतया, वाचालायाः-मुखरायाः, भुजलतायाः-बाहुलतायाः, उत्क्षेपेण-उद्वेलनेन, लक्ष्यमाणी-दृश्यमाना, उद्धुरी-उन्नती, पीनों-स्थूलो च, पयोधरो-स्तनी यासां ताशीभिः, पुनः उज्झितस्तनोत्सङ्ग. निःसङ्गलम्बमानप्रलम्बमौक्तिकप्रालम्बाभिः उज्झितः-त्यक्तः, स्तनोत्सङ्गः-स्तनमध्यभागो येन तादृशम् , अत एव निःसङ्ग-तत्सम्पर्करहितं यथा स्यात् तथा, लम्बमानम्-अधोनमत् , प्रलम्ब-दीर्घम् , मौक्तिकानां-मुक्तामणीनाम् , प्रालम्बऋजुलम्बिमाल्यं यासां तादृशीभिः, पुनः पुरोनिहितदधिकुसुमदूर्वाङ्करसनाथाक्षतपूर्णकनकपात्राभिः पुरः-अग्रे,
Page #111
--------------------------------------------------------------------------
________________
तिलकमारी।
२५३ विलासिनीभिः संपादितसकलयात्रामङ्गलः [त], प्रत्यग्रसप्तच्छद्प्रवालदत्तसान्द्रमुखमुद्रमभिवन्द्य पुरःस्थापितं राजतपूर्णकुम्भमप्रतिरथाध्ययनध्वनिमुखरेण पुरःसरपुरोधसा द्विजातिवृन्देनानुगम्यमानश्चरणाभ्यामेव गत्वा प्रथमकक्षान्तरद्वारभूमिमग्रतः ससंभ्रमव्यापारिताकुशेन वज्राङ्कशनाम्ना महामात्रेण प्राङ्मुखीकृत्य विधृतं सितपिष्टपकपाण्डुरितगात्रमक्षुद्रमणिचित्रनक्षत्रमालापरिक्षिप्तं सिन्दूरपाटलविकटकुम्भभागमारोपितानेकनिशितशस्त्रप्रभाशारशातकुम्भशारीपरिकरितपृष्ठपीठमश्रान्तमदवारिधारादुर्दिनान्धकारितकरटकूटं त्रिकूटपर्वतमिव परित्यक्तस्थावरावस्थममरवल्लभाभिधानं गन्धगजमधिरूढो [थ], दृढावनद्धतारतूणीरबन्धुरोभयस्कन्धशिखरः कनकपत्रभङ्गचित्रमध्यभागभाजा शरासनेन सनाथवामहस्तः सलीलमुद्भूयमानवालव्यजनकलापः सदर्पसर्प
टिप्पनकम्---अप्रतिरथः-प्रस्थानमन्त्रः । शारः-कर्बुरः [थ] ।
निहितं-स्थापितम् , दध्ना, कुसुमैः-पुष्पैः, दूर्वानुरै -दूर्वाख्यतृणविशेषाङ्करैः, सनार्थ-सहितम् , अक्षतपूर्णम्-आर्द्रतण्डुलपूर्णम्। कनकपात्रं-सुवर्णपात्रं याभिस्तादृशीभिः [त]। पुनः प्रत्यग्रसप्तच्छदप्रवालदत्तसान्द्रमुखमुद्रम् प्रत्यप्रैः-अभिनवैः, सप्तच्छदस्य-सप्तसप्तपत्र विशिष्टवृन्तकवृक्षविशेषस्य, प्रवालै:-पल्लवैः, दत्ता-सम्पादिता, सान्द्रा-निबिडा, मुखमुद्रा-मुखावरणं यस्य तादृशम्, पुरः अग्रे,स्थापितं धृतम् , राजतपूर्णकुम्भं रजतनिर्मितपुर्णकलशम् , अभिवन्द्य नमस्कृत्य, अप्रतिरथाध्ययनध्वनिमुखरेण अप्रतिरथस्य-प्रस्थानमन्त्रस्य, यः, अध्ययनध्वनिः-पठननादः, तेन, मुखरेण-वाचालेन, पुनः पुरस्सरपुरोधसा पुरःसरः-अग्रेसरः, पुरोधाः पुरोहितो यस्य तादृशेन, द्विजातिवृन्देन द्विजगणेन, अनुगम्यमानः अनुस्त्रियमाणः, पुरस्सरपुरोध इति पाठे तु पुरस्सरः-पुरोधा यस्मिंस्तादृशम् यथा स्यात् तथेति क्रियाविशेषण विधया व्याख्येयम् ; पुनः प्रथमकक्षान्तरित भूमिम् प्रथमकक्षाया-प्रथमप्रतोलिकाया, अन्तरद्वारभूमि-बाह्यद्वारप्रदेशम् , चरणाभ्यामेव पन्यामेव, गत्वा, अग्रतः अग्रे, ससम्भ्रमव्यापारिताङ्कुशेन ससम्भ्रमं-सत्वरं यथा स्यात् तथा, व्यापारितः-प्रयुक्तः, प्रेरित इति यावत् , अडशो येन तादृशेन, वज्राशनाम्ना अन्वर्थतदाख्येन, महामात्रेण हस्तिपकेन, प्राङ्मुखीकृत्य पूर्वमभिमुखीकृत्य, विधृतं स्थापितम् , पुनः सितपिष्टपङ्कपाण्डुरितगात्रम् सितं-शुभ्रम्, यत् पिष्टं-चूर्णम् , पिष्टातकमित्यर्थः, तस्य पर्न-कर्दमेन, पाण्डुरितं-किञ्चित्पीतरक्तीकृतम् , गात्रं-शरीरं यस्य तादृशम् , पुनः अक्षुद्रमणिचित्रनक्षत्रमालापरिक्षिप्तम् अक्षुद्राः-महार्धाः,ये मणयः, तद्रूपाणां-चित्राणाम्-अनेकवर्णानाम् , नक्षत्राणां-ताराणाम् , मालया-समूहेन, सप्तविंशतिमौक्तिकनिर्मितहारेण वा, परिक्षिप्त-व्याप्तम् पुनः सिन्दरपाटलविकटकम्भभागमा सिन्दूरेण-रक्त रक्तः, विकटः-विशालः, कुम्भभाग:-घटाकारमस्तकभागो यस्य तादृशम् , पुनःअनेकनिशितशस्त्रप्रभाशारशातकुम्भशारीपरिकरितपृष्ठपीठम् अनेकेषां-बहूनाम् , निशितानां-तीक्ष्णानाम् , शस्त्राणां प्रभाभि:-द्युतिभिः, शारा:चित्रवर्णाः, याः शातकुम्भशार्यः-सुवर्णमयपर्याणानि, ताभिः परिकरित-परिवेष्टितं, पृष्ठपीठं-पृष्ठरूपमासनं यस्य तादृशम् , पुनः अश्रान्तमद्वारिधारादुर्दिनान्धकारितकरटकूटम् अश्रान्ताभिः-अविच्छिन्नाभिः,मदवारिधाराभिः-मदजलधाराभिः, यदुर्दिन-मेघाच्छन्नदिनम् ,तेन अन्धकारितः-अन्धकारावृतः,करटकूट:-गण्डस्थलशिखरं यस्य तादृशम् , अत एव परित्यक्तस्थावरावस्थम् परित्यक्ता स्थावरावस्था-स्थावरत्वरूयावस्था येन तादृशम्, गृहीतजङ्गमावस्थमित्यर्थः, कि पर्वतमिव त्रिकूटाख्यपर्वतविशेषमिवेत्युत्प्रेक्षा, अमरवल्लभाभिधानम् अमराणां-देवानाम्, वल्लभः-प्रियः, इत्यन्वर्थतदाख्यम्, गन्धगजम् यस्य गन्धेनान्ये हस्तिनः पलायन्ते तादृशं मदगन्धाढ्यहस्तिनम् , अधिरूढः आरूढः [थ पुनः दृढा. वनद्धतारतूणीरबन्धुरोभयस्कन्धशिखरः दृढं यथा स्यात् तथा, अवनद्धेन-आबद्धेन, तारामां-विशुद्धमौक्तिकानाम् , तूणीरेण-इषुधिना, बाणाधारपात्रेणेति यावत् , बन्धुरम-उन्नतानतम्, उभयस्कन्धशिखरं-स्कन्धद्वयोपरिभागो यस्य तादृशः: पुनः कनकपत्रभङ्गचित्रमध्यभागभाजा कनकपत्रभङ्गैः-सुवर्णपत्ररचनाभिः, चित्र:-चित्रवर्णो यो मध्यभागस्तद्वता. शरासनेन धनुषा, सनाथवामहस्तः सनाथः-सहितः, वामहस्तो यस्य तादृशः, पुनः सलीलं-सकोडं यथा स्यात् तथा, उद्भूयमानबालव्यजनकलापः उद्भूयमानः-उत्क्षिप्यमाणः, बालव्यजनस्य-चामरस्य, कलापः-समूहो यस्मितादृशः;
Page #112
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृतिसंवलिता
त्पदातिनिर्दयपादपातप्रवर्तिताकाण्डमेदिनीकम्पः प्रहर्षोत्ता लवैतालिकन्नात तारतरो द्रुष्यमाणजयजयध्वनिर्ध्वनद्विजयमङ्गलाभिधानतूर्यनिर्घोषबधिरिताखिलब्रह्मस्तम्बः पुरस्तात् सलीलचलित करिघटारूढ किङ्करपुरुषपातितविरलघनघातानामुत्पातनिर्घातघोरघोषोद्गारमतितरमारसन्तीनां ढक्कानां ध्वनितेन मुखरयन्निखिलान्यपि दिशां मुखानि [द], शिखरविस्फुरत्पद्मरागस्थूलकलशस्य दोलायमानावचूलमुक्ताफलदान्नश्चित्ररत्नखण्डखचितचामीकरदण्डस्य पुरः प्रसर्पतः श्वेतातपत्रखण्डस्य पर्यन्तयायिनामनिलभरितरन्ध्रवर्त्मव्यक्तरूपाणामि भवराहशरभशार्दूलमकरमत्स्याद्याकारधारिणामनेकपार्थिवसमरसंगृहीतानां चिह्नकानामपहृतार्करोचिषां चक्रवालेन जटिलीकृतदिगन्तरालो राजकुलान्निरगच्छम् [ ध ] | अनुपदं च प्रणामपरितुष्टभिर्विजयाशिषाभिनन्द्यमानो द्विजातिपरिषद्भिर्विनयविरचिताञ्जलिपुटाभिः प्रणम्यमान: पौरजनताभिरुत्सृष्ट लाजवृष्टिभिरुदुष्यमाणमनोरथ सिद्धिर्नगर
२५.४
पुनः सदर्पसर्पत्पदातिनिर्दय पादपातप्रवर्तिताकाण्डमेदिनीकम्पः सदर्प- सगर्व यथा स्यात् तथा, सर्पतां गच्छताम् पदातीनां-पादगामिसैन्यानाम्, निर्दयं निष्ठुरं यथा स्यात् तथा पादपातेन - पादविक्षेपेण, पादाघातेनेत्यर्थः प्रवर्तितःप्रारब्धः, अकाण्डे-अनवसरे, मेदिनीकम्पः - भूकम्पो येन तादृशः, पुनः प्रहर्षोत्तालवैतालिक वाततारतरोदुष्यमाणजयजयध्वनिः प्रहर्षेण - प्रमोदेन, उत्ताल:- उद्धतः, यो वैतालिकानां- बन्दिपुत्राणाम्, व्रातः- समूहः तेन तारतरम् - उच्चतरं यथा स्यात् तथा, उद्बुध्यमाण:- असकृदुच्चार्यमाणः, जयजयध्वनिः- जयजयकारो यस्य तादृशः; पुनः ध्वनद्विजयमङ्गलाभिधान तूर्यनि घोषवधिरिता खिल ब्रह्मस्तम्बः ध्वनतः - शब्दायमानस्य, विजयमङ्गलाभिधानस्य - विजयमङ्गलाख्यस्य, सूर्यस्यवाद्यविशेषस्य, निर्घोषैः - नादैः, बधिरितः - बधिरीकृतः, अखिल ब्रह्मस्तम्बः - समस्त ब्रह्माण्डो येन तादृशः; पुनः ढक्कानां यशःपटहानाम्, ध्वनितेन ध्वनिना, अखिलान्यपि सर्वाण्यपि, दिशाम्, मुखानि अग्रभागान्, मुखरयन् ध्वनयन्, कीदृशीनाम् ? पुरस्तात् अमे, सलीलचलित करिघटा रूढ किङ्कर पुरुषपातितविरलघनघातानाम् सलीलं -सखेलम्, चलितांप्रयाताम्, करिघटां- हस्तियूथम्, आरूढैः - कृतारोहणैः, किङ्करपुरुषैः - मृत्यभूतपुरुषैः, पातितः - सङ्घर्षविश्लेषितः, विरलधनःकदाचिद् विरलः, कदाचिद् घनः घातः - अभिघातो यासां तादृशीनाम् पुनः उत्पातनिर्घातघोर घोषोद्गारम् उत्पातरूपःशुभाशुभसूचकभूतविकारभूतः यः निर्घातः- ध्वनिः, तद्वद् घोरः- भयङ्करः, घोषोद्गारः - नादोद्रेको यस्मिंस्तादृशं यथा स्यात् तथा, अतितारम् अत्युचैः, आरसन्तीनाम् आ-समन्ताद् ध्वनन्तीनाम् ; [द] । पुनः शिखरविस्फुरत्पद्मरागस्थूलकलशस्य शिखरे - ऊर्ध्वभागे, विस्फुरन - प्रकाशमानः, पद्मरागस्य तदाख्यरक्कमणेः, तन्मणिमय इत्यर्थः, स्थूलः - कलशो यस्य तादृशस्य, पुनः दोलायमानावचूलमुक्ताफलदाम्नः दोलायमानम्, अवचूलानां - वर्तुलानाम्, मुक्ताफलानां - मुक्तामणीनाम् ं, दाम-पङ्क्तिर्यस्मिंस्तादृशस्य, पुनः चित्ररत्नखण्डखचितचामीकरदण्डस्य चित्रैः -नानावर्णैः, रत्नखण्डैः, खन्चितःव्याप्तः, चामीकरदण्डः–सुवर्णमयदण्डो यस्य तादृशस्य, पुनः पुरः अग्रे, प्रसर्पतः उद्वेलतः, श्वेतातपतत्रस्य वेतच्छत्रस्य, पर्यन्तपातिनाम् प्रान्तवर्तिनाम्, अनिलभरितरन्ध्रवर्त्मव्यक्तरूपाणाम् अनिलभरितेन वायुपूर्णेन, रन्ध्रवर्त्मना - छिद्र - मार्गेण, व्यक्तं-प्रकटितभ्, रूपं स्वरूपं येषां तादृशानाम्, इभ- वराह- शरभ शार्दूल मकर-मत्स्याद्याकारधारिणाम् इभः - हस्ती, वराहः - शूकरः, शरभः - मृगविशेषः, शार्दूलः - व्याघ्रः, मकरः- जलजन्तु विशेषः, तदादीनां तत्प्रभृतीनाम्य आकारः-प्रतिकृतिः, तद्धारिणाम्, अनेक पार्थिवसमरसंगृहीतानाम् अनेकपार्थिवैः - नानानृपैः सह समरे - संग्रामे, संगृहीतानाम्-सश्चितानाम्, अपह्नुतार्करोचिषाम् अपह्नुतम् - अपलपितम्, अर्कस्य - सूर्यस्य, रोचिः-प्रकाशो यैस्तादृशानाम्, चिह्नकानां ध्वजानाम्, चक्रवालेन मण्डलेन, जटिलीकृतदिगन्तरालः व्याप्तदिङ्मध्यः [ ध ] |
व पुनः, अनुपदं प्रतिपदम् प्रणामपरितुष्टाभिः अभिवादन सन्तुष्टाभिः, द्विजातिपरिषद्भिः द्विजमण्डलीभिः, विजयाशिषा विजयशुभैषणया, अभिनन्द्यमानः अभिवर्घ्यमानः पुनः विनयविरचिताञ्जलिपुटाभिः विनयेननम्रभावेन, विरचितः - निर्मितः, अञ्जलिपुटो याभिस्तादृशीभिः, पौरजनताभिः पुरवासिजनसमूहैः, प्रणम्यमानः अभिवाद्यमानः; पुनः उत्सृष्टलाजवृष्टिभिः उत्सृष्टाः - विमुक्ताः, लाजत्रृष्टयः - भ्रष्टधान्यवृष्टयो याभिस्तादृशीभिः, नगरवृद्धाभिः नगरवास्तव्यवृद्धस्त्रीभिः, उद्घुष्यमाणमनोरथसिद्धिः उदुष्यमाणा - असकृदुच्चार्यमाणा, मनोरथसिद्धिः - अभिलषितार्थ
Page #113
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२५५
वृद्धाभिः प्रीतिनिर्भरदृष्टिपातकुवलयितदिग्वलयाभिरवलोक्यमानो नागरिकाभिर्नगरानिरगमम् [ न ] । क्रमेण च शरत्समय परिचयप्रपश्चितशोभाम्, आभोगिनीम्, उदारकलमकेदारपरिमलामोदितवनानिलाम्, उन्मदकुररकादम्बसारसाराव मुखरितसरस्तीरनीराम्, कीरचनु संपुटच्युतार्धजग्धप्रियङ्गमञ्जरीपिञ्जरजरहुमतलाम् [प], अक्षुद्रपादपालानितैरनवर तबेल्लत्कर्णपल्लवतरलितेन प्रतिषेलमुड्डीयमानेन निलीयमानेन च झङ्कारकारिणा मधुकरमण्डलेन पीयमानोद्दामदान निर्झरैरप्रमत्तरक्षकपदातिवार्यमाणा संस्तुतजनप्रत्यासत्तिभिः पर्यन्तरचिततृणकुटीरकेण प्रतिक्षणमाधोरणगणेन क्रियमाणविविधोपचारैरनवलोकितपरस्परैः प्रसिद्धाभिधानैर्जगंति प्रधानवारणैरधिष्ठितोदेशाम् [फ], आगृहीतद्वीपान्तरगामिभूरिभाण्डैराभरणपर्याणकादिवृषोपस्कर समारचन संतत
सिद्धिर्यस्य तादृशः; पुनः प्रीतिनिर्भरदृष्टिपातकुवलयित दिग्वलयाभिः प्रीतिनिर्भरद्दृष्टिपातैः - प्रेमपूर्णकटाक्षपातैः, कुवलयितं - संजातानि कुवलयानि कमलानि यस्मिंस्तादृशम्, दिग्वलयं-दिमण्डलं याभिस्तादृशीभिः, नागरिकाभिः नगरतरुणीभिः, अवलोक्यमानः दृश्यमानः; नगरात् रङ्गशालाख्यनगरात् निरगमम् निर्गतवानहम् [ न ] |
च पुनः क्रमेण क्रमिकगल्या, नगरसीमाम् उक्तनगर परावधिम् अलङ्घन्यम् अतिक्रान्तवानहम् कीदृशीम् ? शरत्समयपरिचयप्रपञ्चितशोभाम् शस्त्समयेन - आश्विन कार्तिकमासात्मकशरत्कालेन यः परिचयः - सङ्गमः, तेन पश्चिता- विस्तारिता, शोभा यस्यास्तादृशीम् पुनः आभोगिनीं विस्तारवतीम्; पुनः उदारकलमकेदार परिमला. मोदितवानिलाम् उदाराः - महान्तः, समृद्धा इति यावत्, कलमाः - शालयो येषु तादृशानाम्, केदाराणां ये परिमलाःसौरभाणि तैः आमोदिताः - सुरभिताः, वनानिलाः- वनपवना यस्यां तादृशीम् ; पुनः उन्मद् कुररकादम्बसार - सारावमुख रितसरस्तीरनीराम, उन्मदानाम् - उन्मत्तानां कुरर - कादम्ब सारसानाम्, कुरराः - उत्क्रोशपक्षिणः, कादम्बाःकलहंसाः, सारसाः - स्वनामख्याताः पक्षिणः तेषाम्, आरावैः शब्दैः, मुखरितानि - प्रतिध्वनिता नि, सरस्तीरनीराणिकासारतटस्थितजलानि यस्यां तादृशीम्; पुनः कीरचञ्चसम्पुटच्युतार्धजग्धप्रियङ्गुमञ्जरीपिअरजरद्रमतलाम् कीराणां - शुकानाम्, चसम्पुटात् - सम्पुटितच सकाशात्, च्युताभिः - स्खलिताभिः, अर्धजग्धाभिः - अर्धभुक्ताभिः, प्रियमञ्जरीभिः प्रियङ्गुलतामञ्जरीभिः, पिञ्जराणि - पीतानि, जरतां जीर्णानाम्, द्रुमाणां वृक्षाणाम्, तलानि - अघः स्थलानि यस्यां तादृशीम् [प]; पुनः प्रधानवारणैः प्रधान हस्तिभिः, अधिष्ठितोद्देशाम् अधिष्ठितः - आक्रान्तः, उद्देशः- उच्चप्रदेशो यस्यां तादृशीम् ; कीदृशैः ? अक्षुद्रपादपालानितैः विशालवृक्षरूपस्तम्भबद्धैः, पुनः मधुकरमण्डलेन भ्रमरपुञ्जेन, पीयमानोद्दामदाननिर्झरैः पीयमानः - पानकमक्रियमाणः, उद्दामा उद्धतः, अप्रतिहत इत्यर्थः ; दाननिर्झरः- मदजलप्रवाहो येषां ताः कीदृशेन ! अनवरतवेल्लत्कर्णपल्लवतरलितेन अनवरतं निरन्तरम्, वेल्लद्भ्याम्-उच्चलद्भयाम्, कर्णमल्लवाभ्यां कर्णरूपपल्लवाभ्याम्, तरलितेन - चञ्चलितेन उत्क्षिप्तेनेति यावत् अत एव प्रतिवेलम् सर्वकालम्, उड्डीयमानेन उपरि भ्रमता च पुनः, निलीयमानेन मदजलनिर्झरे तिरोभवता; पुनः झङ्कारकारिणा कोलाहलकारिणा, पुनः अप्रमतरक्षकपदातिवार्यमाणासंस्तु तजनप्रत्यासत्तिभिः अप्रमत्तैः - अवहितैः, रक्षकैश्च पदातिभिःपादगामिजनैः, वार्यमाणा - अवरुध्यमानां, असंस्तुतानां - अपरिचितानाम् जनानां प्रत्यासत्तिः - सान्निध्यं येषां तादृशः, पर्यन्तरचिततृणकुटीरकेण पर्यन्ते-निकटे, रचितः - निर्मितः, तृणकुटीरः - तृणमयहस्त्रकुटी येन तादृशेन, आधोरणगणेन हस्तिपक समूहेन, प्रतिक्षणं प्रतिपलम्, क्रियमाण विविधोपचारैः क्रियमाणाः - विधीयमानाः, विविधाः - अनेकप्रकाराः, उपचाराः - सेवा येषां तादृशैः, पुनः अनवलोकित परस्परैः कलहभिया परस्परदृष्टिपथमगसितैः पुनः जगति भुक्ने, प्रसिद्धाभिधानैः विश्रुतनामधेयैः [फ ]; पुनः कीदृशीम् ! आढ्यनैगमानाम् धनाढ्यवणिजाम्, साथैः समूहैः, स्थानस्थानेषु प्रतिस्थानम् कृप्तावस्थानाम् कृतम्, अवस्थानम् - अवस्थितिर्यस्यां तादृशीम् कीदृशैः ? आगृहीतद्वीपान्तरगामिभूरिभाण्डैः आ - समन्तात्, गृहीतानि द्वीपान्तरगामीनि अन्यद्वीप गन्तुकानि भूरिभाण्डानि - बहुभाण्डानि यैस्तादृशैः, 'पुनः आभरणपर्याणकादिवृषोपस्कर समारचन सन्त तन्या पृतभृतकैः आभरणम् - अलङ्कर
Page #114
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृति संवलिता
व्यापृतभृतकैरभिनवस्यूत ताम्रपटकुटीरकोणावस्थापितस्थूलद्रविणकण्ठालैः प्राङ्गणोपरचितगोणीगणाट्टालकसूचितैः प्रस्थाननिर्गतानामाढ्यनैगमानामनेकतुरगाश्वतरसंकुलैः साथै: स्थानस्थानेषु कृतावस्थानाम् [ब], अच्छशीतलस्वादुसलिलाभिः सुधाधवलव रण्डिका वलया कुण्डलितकूलाभिर्द्वारभित्तिगर्भप्रतिष्ठितानेकदेवताप्रतिमाभिस्तृष्णातुरावतरदनन्तपथिकपातभयादिव पुरः प्रसारितोभयाग्रहस्तेन भेककुटुम्बिनीकदम्बकेन कृतकल कलेनावलम्बितसोपानमाल।मूलदेशाभिरतिसुश्लिष्टलोहेष्टकचिताभिर्मार्गवा पीभिः स्थपुटितमहावटद्रुमोपान्तस्थलाम् [भ], अन्तराऽन्तरा च प्रावृषेण्यसलिलपूरक्षालना पनीत सकलपङ्कमलाभिरासन्नग्रामवासिना वणिग्जनेन तत इतः प्रकटितौदनाज्यदधिभाण्डखण्डमोदकप्राय पण्यप्रसारका भिस्तटस्थपथिकबालिकाविलोक्यमानभुक्तोज्झितान्नलयकवलना
२५६
णम्, पर्याणकं - पृष्ठास्तरणम्, तदादिः तत्प्रभृतिः, यः, वृषाणां - बलीवर्दानाम्, उपस्करः- वेषः, तत्समारचने - तद्विन्यासे, सन्ततम्-अनवरतम्, व्यावृताः- संलग्नाः भृतकाः किङ्करा येषां तादृशैः, पुनः अभिनवस्यूतताम्रपट कुटीर कोणाव स्थापितस्थूलद्रविणकण्ठालै : अभिनवस्यूताः - अचिरत्रोताः, ये ताम्रपदाः- रक्तवस्त्राणि, तत्कुटीरस्य - तन्निर्मितह्रस्वकुव्याः कोणे, अवस्थापिताः धृताः, स्थूलाः- बृहदाकाराः, द्रविणकण्ठालाः- धनभाण्डविशेषा यैस्तादृशैः, पुनः प्राङ्गणोपरचितगोणीगणाट्टालकसूचितैः प्राङ्गणे, उपरचितैः सन्निवेशितैः, गोणीनाम् - आवपनानाम्, गणैः- समूहरूपैः, अट्टालकैः - प्रासादोपरितनगृहैः, सूचितैः-उपलक्षितैः, पुनः अनेकतुरगाश्वतरसङ्कुलैः अनेकैः - बहुभिः, तुरगैः-अर्वैः, अश्वतरैःखचरैश्च संकुलैः-व्याप्तैः [ व ]; पुनः मार्गवापीभिः मार्गदीर्घिकाभिः स्थपुटित्तमहावटद्रुमोपान्तस्थलाम् स्थपुटितम् - उन्नतानतीकृतम्, महावदद्रुमाणां - विशालवटवृक्षाणाम् उपान्तस्थल - निकटस्थानं यस्यास्तादृशीम् कीदृशीभिः ? अच्छशीतलखादुसलिलाभिः अच्छे-निर्मलम्, शीतलं, खादु-मधुरं च सलिलं जलं यासां तादृशीभिः पुनः सुधाधवलवरण्डिकावलया कुण्डलितकूलाभिः सुधाधवलानां - चूर्णोपलेपशुभ्राणाम्, वरण्डिकानाम् लघुप्राकार भूतभित्तिविशेषाणाम्, वलयेन मण्डलेन, आकुण्डलितानि - आवेष्टितानि, कूलानि -तटा यासां तादृशीभिः पुनः द्वारभित्तिगर्भप्रतिष्ठितानेकदेवताप्रतिमाभिः द्वारभित्तिगर्भे-द्वारस्थ कुज्यमध्ये, प्रतिष्ठिता स्थापिता, अनेकासां देवतानाम् प्रतिमा-प्रतिकृतिर्यासां तादृशीभिः, पुनः भेककुटुम्बिनीकदम्ब्रेन भेकानां - मण्डूकानाम्, याः कुटुम्बिन्यः स्त्रियः, तासां कदम्बकेनसमूहेन, अवलम्बितसोपान मालामूलदेशाभिः अवलम्बितः - आश्रितः, सोपानमालानाम् अधिरोहणीपङ्कीनाम्, मूलदेशः-मूलस्थानं यासां तादृशीभिः कस्मादिव ? तृष्णातुरावतरदनन्तपथिकपातभयादिव तृष्णातुराणां पिपासा - पीडितानाम्, अवतरताम्-अवरोहताम्, अधस्तादागच्छतामित्यर्थः, अनन्तानां - बहूनाम् पथिकानां मार्गगामिनाम् यः पातः- निपतनम्, तद्भयादिवेति हेतूत्प्रेक्षा, कीदृशेन ? पुरः प्रसारितोभयाग्रहस्तेन पुरः- अग्रे, प्रसारितौ-तत्पातनिवारणाय विस्तारितौ, उभयाग्रहस्तौ उभयहस्ताग्रभागौ येन तादृशेन, पुनः कृतकलकलेन तदातङ्कवशाद् विहितकोलाहलेन, पुनः अतिसुलिष्टलोहेष्टकचिताभिः अतिसुश्लिष्टम् - अतिशयेन परस्परसम्पृक्तम्, लोहेष्टकानां- लोहमयेष्टकानाम्, चितंसमूहो यासु तादृशीभिः [ भ ]; च पुनः, अन्तरा अन्तरा मध्ये मध्ये, वनस्रोतोवहाभिः वननदीभिः, सीमन्तिताम् सञ्जातकेशवेशाम्, प्रावृषेण्यसलिलपूरक्षालनापनीतपङ्कमलाभिः प्रावृषैण्येन, सलिलपूरेण - जलप्रवाहेण, यत् क्षालनं-मार्जनम्, तेन, अपनीताः - दूरीकृताः, पङ्करूपाः - कर्दमरूपाः, मला यासां तादृशीभिः; पुनः आसन्नग्रामवासिना निकटग्रामवास्तव्यैन, वणिग्जनेन वणिग्लोकेन तत इतः अत्र तत्र, प्रकटितौदनाज्यदधिभाण्डखण्डमोदकप्रायपण्यप्रसारकाभिः प्रकटितः - प्रकाशितः, ओदनः - भक्तम्, आज्यं घृतम्, दधि- दुग्धघनीभावावस्थाविशेषः, तेषां भाण्डखण्डानां भाजनप्रभेदानाम्, यद्वा भाण्डानां - भाजनानाम्, खण्डं च - इक्षुविकारः, तस्य यद्वा खण्डमोदकप्रायाणांखण्डनिर्मितमिष्टान्नप्रचुराणाम्, पण्यानां विक्रेतव्यवस्तूनां च प्रसारो यासु तादृशीभिः पुनः तटस्थपथिकबालिकाविलोक्यमानभुक्तोज्झितान्नलवकवलना कुल शकुनकुलाभिः तटस्थाभिः - तीरस्थिताभिः पथिकबालिकाभिःपथिककन्याभिः, अवलोक्यमानं - दृश्यमानम् भुक्तोज्झितानां - भोजनावशिष्टानाम्, अन्नलवानाम् - अन्नलेशानाम्, कवलने
Page #115
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२५७
कुलशकुलकुलाभिर्दूरनिर्गतजलार्द्रमार्गपिशुनित पशु परम्परोत्ताराभिरनवरत लोकविश्रामक्षामितोपान्तवेत सवनाभिनस्रोतोवहाभिः सीमन्तिताम् [म], ईषदुपजातशोषकरीषसुखसंचारविशिखैः सपर्णतरुलता निवेशजटालवेश्मपटलैरजिर मण्डपच्छायानिविष्ट गोरसपरिपुष्टमहाकाय पुष्टकौलेयकैः सकलकलोच्छलत्प्राज्य परिमलव्यञ्जिततप्ताज्यतऋविन्दुक्षेपैरुत्कर्णतर्णकाकर्णितमध्यमानमथितमन्थन मन्थरनिर्घोषैः सतोष घोषाधिपसमाहूयमानपर्यटत्पायसार्थिपथिकपेटकैः क्रमागतैकैकवठ र द्विजातिवचननिर्विचारप्रवर्तितशयनासन स्नानदानादिसर्वक्रियैः प्रातरेव प्रचार निर्गताभिस्तत्कालमधिगताधिकबलोपचयबृंहितेन स्वाभाविकभव्यतागुणेन द्विगुणाकृष्टलोकदृष्टिभिः पीनपरिमण्डलापीनभार विकटमन्थरगमनाभिरनणुमणिघण्टिका घोषरमणीयमितस्ततो विचरन्तीभिः सततानु
भक्षणे, आकुलं-व्यप्रम्, शकुलकुलं - मत्स्य विशेषगणो यासां तादृशीभिः पुनः दूर निर्गतजलाई मार्गपि शुनित पशुपरम्परोत्ताराभिः दूरनिर्गतेन दूरनिष्कान्तेन, जलाईमार्गेण - जलालुतवरमैना, पिशुनितः - सूचितः, पशुपरम्पराणां - पशुसमूहानाम्, उत्तरः- उपरिनिर्गमनं याभ्यस्तादृशीभिः, पुनः अनवरत लोकविश्रामश्चमितोपान्तवेतसचनाभिः अनवरत - निरन्तरम्, लोकानां जनानाम्, विश्रामे - खेदापनयने, क्षमितानि - क्षमतामापादितानि, क्षामितेति पाठे तेषां विश्रामेण क्षामितानि - क्षीणतां गमितानीत्यर्थः, उपान्तानि - निकटानि, वेतसवनानि - वञ्जुलवनानि याभिस्तादृशीभिः [म]; पुनः गोकुलैः गोठैः, rat स्थानैरित्यर्थः, अधिष्ठितकक्षोपकण्ठाम् अधिष्ठितः - व्याप्तः, कक्षस्य - वनस्य, उपकण्ठः- समीपप्रदेशो यस्यां तादृशीम्, यद्वा अधिष्ठितस्य कक्षस्य- वनस्य, उपकण्ठाम् - समीपाम् कीदृशैः ? ईषदुपजातशोषकरीष सुख सञ्चारविशिखैः ईषत् - किञ्चित्, उपजातः- उत्पन्नः, शोषः- शुष्कता येषां तादृशैः, करीषैः- गोमयैः, सुखसञ्चारा - सुकरगमना, विशिखा - रथ्या, येषां तादृशैः, पुनः सपर्णतरुलता निवेश जटा लवेश्मपटलैः सपर्णानां पत्रपूर्णानाम्, तरुलतानां तरूणां-वृक्षाणाम्, तदाश्रितलतानां च निवेशेन- समावशेन, जटालं- समृद्धम्, वेश्मपटलं गृहसमूहो येषां तादृशैः पुनः अजिरमण्डपच्छायानिविष्टगोरस परिपुष्ट महाकाय पुष्टकौलेयकैः अजिरमण्डपस्य- प्राङ्गण वर्तिगृहविशेषस्य, छायायां निविष्टः - अवस्थितः, तथा गोरसेन पयोदधिघृतादिना, परिपुष्टः - अतिपुष्ठः, महाकाय :- विशालशरीरं यस्य तादृशः, तथा पुष्टः- प्रबलः, एवंविधः कौलेयकः - कुलागतः कुकुरो येषां तादृशैः पुनः सकलकलोच्छ लत्प्राज्यपरिमलव्यञ्जिततप्ताज्य तत्रबिन्दुक्षेपैः सकलकलम् - कलकलेन- शब्दविशेषेण सहितं यथा स्यात् तथा उच्छलन्तः- उद्गच्छन्तः, प्राज्यपरिमलेन - प्रचुर सौरभेग, व्यञ्जिताःसूचिताः, तप्तघृत सुगन्धज्ञापिता इत्यर्थः एवंविधाच ये, तप्तस्य, आज्यस्य - घृतस्य, तऋबिन्दवः, तप्यमाननवनीतावस्थागतघृतस्थतकस्य बिन्दर इत्यर्थः तेषां क्षेपाः - विक्षेपः- दूरीभवनं येषु तादृशैः पुनः उत्कर्णतर्णका कार्णितमध्यमानमथितमन्थनी मन्थरनिर्घोषैः उत्-ऊर्ध्वो, कर्णौ येषां तादृशैस्तर्णकैः वत्सैः, आकर्णितः - श्रुतः, मध्यमानस्य - आलोक्यमानस्य, मथितस्य-तक्रस्य, या मन्थनी - मथनदण्डः, तस्या मन्थरः - मन्दः, निर्घोषो येषां तदृशैः पुनः सतोष घोषाधिपसमाहूयमान पर्यटत्पायसार्थिपथिकपेटकैः सतोषं परितोषेण सहितं यथा स्यात् तथा, घोषाधिपेन आभीरयामाधिपेन, समाहूयमानं - सम्यगाद्धूयमानम्, पर्यटतां - परिभ्रमताम्, पायसार्थिनां क्षीरान्नाभिलाषिणाम् पथिकानां मार्गगामिनाम्, पेटकं समूहो येषु तादृशैः, पुनः क्रमागतैकै कठरद्विजातिवचन निर्विचारप्रवर्तितशयनासनस्नानदानादिसर्वक्रियैः क्रमेण आगतस्य एकैकस्य बठरस्य मूर्खस्य, द्विजातेः - द्विजस्य, वचनेन - वाक्येन, निर्विचार - स्वविचारं विनैत्र, प्रवर्तिता-गोपैः प्रारब्धा, शयनम्, आसनम्, स्नानम्, दानम्, तदादिः - तत्प्रभृतिः, सर्वा-सकला, क्रिया येषु तादृशैः, पुनः गोभिः धेनुभिः, अशून्यपर्यन्तैः व्याप्तनिकटैः कीदृशीभिः ! प्रातरेव प्रातःकाल एव, प्रचारनिर्गताभिः प्रचाराय विचरणाय, यद्वा तृणभक्षणाय, गृहान्निष्क्रान्ताभिः पुनः तत्कालं प्रचारकालमेव, अधिगताधिकबलोपचयबृंहितेन अधिगतः - प्राप्तः, योऽधिकवलोपचयः - अधिक बलवृद्धिः, तेन बृंहितेन वर्धितेन स्वाभाविक भव्यतागुणेन स्वाभाविक सौन्दर्यगुणेन, द्विगुणाकृष्ट लोकष्टिभिः द्विगुणं यथा स्यात् तथा आकृष्टाः कृताकर्षणाः, लोकानां जनानाम् दृष्ट्यो याभिस्तादृशीभिः पुनः पीनपरिमण्डलापीनभार विकटमन्थरगमनाभिः पीनानि - स्थूलानि, परिमण्डलानि - वर्तुलाकाराणि च यानि आपीनानिऊषांसि, स्तना इत्यर्थः, तेषां भारेण-गुरुतया, विकटं प्रकटम्, मन्थरं मन्दम्, गमनं यासां तादृशीभिः पुनः अनणुमणिघण्टाघोषरमणीयम् अनणुमणिघण्टिकानाम् स्थूलमणिमयग्रीवास्थ किङ्किणीनाम्, घोषेण ध्वनिना, रमणीयं- मनोहरं यथा स्यात् तथा, इतस्ततः अत्र तत्र विचरन्तीभिः विहरन्तीभिः पुनः सततानुचरचाटुकार खैरसौरभेयाभिः
३३ तिलक •
Page #116
--------------------------------------------------------------------------
________________
२५८
टिप्पनक-परागविवृतिसंवलिता चरचाटुकारस्वैरसौरभेयाभिरचिरजातप्रसवाभिरद्यश्वीनाभिश्च गोभिरशून्यपर्यन्तैस्तुहिनपातशीनहैयंगवीनवर्णतनुलतालावण्याभिः क्षीरधवलचलत्कटाक्षच्छटाप्रतिक्षणक्षालितदिङ्मुखाभिर्नवनीतपिण्डपाण्डवलात्कठिनपरिमण्डलस्तनकलशयुगलाभिर्गोरसश्रीभिरिव शरीरिणीभिः सविभ्रमरगवलनैः स्नेहनिर्भराणि दधीनि बल्लवह्रदयानीव निर्दयमामभतीभिर्गोपललनाभिः सर्वतः समाकुलैगोकुलैरधिष्ठितकझोपकण्ठां नगरसीमामलङ्घयम् [य] । ___ अथाप्रेसराश्ववारदर्शनक्षुभितैः 'कटकमागच्छति' इति जनरवादुपलभ्योपलभ्य सर्वतः प्रधावितैः परित्यक्तनिजनिजव्यापारैरवकरकूटकेष्वधिरूढेस्तडागपालीषु पुञ्जितैर्देवकुलवरण्डकेषु कृतावस्थानैः पादपस्कन्धेषु बद्धासनैरूश्वोपविष्टैश्च लम्बितोभयभुजैश्च जघनपार्श्वविन्यस्तहस्तयुगलैश्च शीर्णपट्टिकागाढप्रथितासिधेनुकैश्च धौतशाटककृतशिरोवेष्टनैश्च वेणुयष्टिषु कृतावष्टम्भैश्च स्कन्धाधिरोपितदयितडिम्भैश्च सर्वत्र सकुतूहलैरपि सविशेष
टिप्पनकम्-विशिखा-रथ्या । आपीनम्-ऊधः । अद्यश्वीनाः -अद्य श्वरे वा प्रसूताः । स्नेहनिर्भराणि घृतभरिवानि प्रेमपूरितानि च दधीनि वल्लभहृदयानि च । निर्दयमामतीभिः निष्करुणम्, मातीभिः-मदयन्तीभिः पीडयन्तीभिश्च [य]।
सततम्-अनवरतम् , अनुचरस्य-भृत्यस्य, यः, चाटुकारः-प्रियवाक्यप्रयोगः, तत्र खरा:-स्वतन्त्राः, सौरभेया: वृषभा यासां तादृशीभिः, पुनः अचिरजातप्रसवाभिः अभिनव प्रसूताभिः, च पुनः, अद्यश्वीनाभिः अद्य श्वो वा प्रसविष्यमाणाभिः, अत्यासन्नप्रसवाभिरित्यर्थः । पुनः कीदृशैः ? गोपालललनाभिः गोपवधूमिः, सर्वतः सर्वभागेषु, समाकुलैः व्याप्तैः; कीदृशीभिः ? तुहिनपातशीनहैयङ्गवीनवर्णतनुलतालावण्याभिः तुहिनपातेन-हिमपातेन, शीनं-घनीभूतम् , यद् हैयङ्गवीन-नवनीतम् , तस्येव वर्ण:-रूपं यस्य तादृशम्, तनुलतायाः-शरीरलतायाः, लावण्य-कान्तिर्यासां तादृशीभिः, पुनः क्षीरधवलचलत्कटाक्षच्छटाप्रतिक्षणक्षालितदिङ्मुखाभिः क्षीरवत्-दुग्धवत् , धवलाना- शुभ्राणाम् , चलतां च, कटाक्षाणाम्-अपाङ्गानाम्, छटाभिः-धाराभिः, प्रतिक्षणं-प्रतिपलम् , क्षालितानि-धौतानि, दिङ्मुखानि-दिगग्रभागा याभि. स्तादृशीभिः, पुनः नवनीतपिण्डपाण्डुवलगत्कठिनपरिमण्डलस्तनकलशयुगलाभिः नवनीतपिण्डवत् , पाण्डुकिञ्चित्पीतश्वेतवर्णम् , बल्गत्-चलत् , कठिनं कठोरम्, परिमण्डलं-वर्तुलं च, स्तनकलशयुगलं-कलशाकारस्तनद्वयं यासा तादृशीभिः, पुनः शरीरिणीभिः शरीरवतीभिः, गोरसश्रीभिरिव गवाम् , रसः-पयोदध्यादि, तदीयशोभाभिरिवेत्युत्प्रेक्षा, पुनः सविभ्रमैः विलाससहितैः, अङ्गवलनः अङ्गसञ्चलनैः, स्नेह निर्भराणि स्नेहेन-दध्यादिगुणविशेषेण, पक्षे प्रीत्या, निर्भराणि-पूर्णानि, दधीनि, च पुनः, कहाभहृदयानि पतिहृदयानि, बल्लवहृदयानि इति पाठे तु गोपहृदयानीत्यर्थः, निर्दयम् अत्यन्तम् , आमथ्नतीभिः आलोडयन्तीभिः [य]। ___ अथ अनन्तरम् , भगवन्तम् ऐश्वर्यशालिनम् , अम्भोनिधि समुद्रम् , अपश्यम् दृष्टवानहम् , इत्यप्रेणान्वेति । कीदृशः ? ग्रामेयकैः ग्रामवासिभिः, अवलोक्यमानबलसन्ततिः दृश्यमानसैनिकसङ्घः, कीदृशैः ? अग्रेसराश्ववार दर्शनाभितः अप्रेसराणाम्-अग्रगामिनाम् , अश्ववाराणाम्-अश्ववाहकानाम् , दर्शनेन, क्षुभितैः-सञ्चलितः, कटकं सैन्यम् , आगच्छतीति, जनरवात् लोकोक्तशब्दात् , उपलभ्योपलभ्य ज्ञात्वा ज्ञात्वा, सर्वतः सर्वदिग्भ्यः, प्रधावितैः कृतसत्वरगमनैः, पुनः परित्यक्तनिजनिजव्यापारैः संत्यक्तस्वस्वकार्यः, पुनः अवकरकूटेषु अवकीर्यते-मार्जन्या विक्षिप्यते इत्यवकरः, धूल्यादिराशिः, तत्कूटेषु-तदुपरिभागेषु, अधिरूढैः आरूढः, पुनः तडागपालिषु तडागकोणेषु, तडागसेतुषु वा, पुञ्जितैः सङ्घीभूतैः, पुनः देवकुलवरण्डकेषु देवकुलस्य देवमन्दिरस्य, वरण्डकेषु-प्राकारस्थानीयभित्तिषु, कृतावस्थानः अवस्थितैः, पुनः पादपस्कन्धेषु वृक्षस्कन्धेषु, बद्धासनैः कल्पितासनैः, च पुनः, ऊर्वैः उत्थितैः, च पुनः, उपविष्टैः कृतोपवेशनैः, च पुनः, लस्वितोभयभुजैः नमितोभयबाहुभिः, च पुनः, जघनपार्श्वविन्यस्तहस्तयुगलैः कटिपुरोभागनिवेशितहस्तद्वयैः, च पुनः, शीर्णपट्टिकागाढग्रथितासिधेनुकैः शीर्णपट्टिकायां-शीर्णावस्थपटखण्डे, गाढंदर्द यथा स्यात् तथा, प्रथिता-बद्धा, असिधेनुः-छुरिका यस्तादृशैः, च पुनः, धौतशाटककृतशिरोवेष्टनः धौतेनक्षालितेन, शाटकेन-वस्त्रेण, कृतं शिरोवेष्टन-मस्तकावरणं यैस्तादृशैः, च पुनः, वेणुयष्टिषु वंशदण्डेषु, कृतावष्टम्भैः कृता
Page #117
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२५९ करिषु कपिषु क्रमेलकेषु च प्रहितदृष्टिभिः प्रमाणरूपवलोपचयशालिनां प्रत्येकमनडुहां मूल्यमानमुट्टयद्भिः [२] 'कथय, क एष राजपुत्रः, केयं राज्ञी, किमभिधानोऽयं द्विरदः' इत्यनवरतप्रयुक्तया प्रश्नपरम्परया कथितसकृदृष्टकटकग्रामलाकुटिकैः करेणुकाधिरूढं क्षुद्रगणिकागणमप्यन्तःपुरमिति घृतोष्णवारणं चारणमपि महाराजपुत्र इति कनकनिष्कावृतकन्धरं वणिजमपि राजप्रसादचिन्तक इति चिन्तयद्भिः पृष्टैरपि प्रतिवचनमप्रयच्छद्भिराहूतैरप्यन्यतो गच्छद्भिः पश्यतोऽप्यभिमुखमङ्गुलीभिर्दर्शयद्भिः शृण्वतामपि चेष्टितमशङ्कितैरुश्चस्वनेन सूचयद्भिर्विषमावतारसंमर्देषु दुर्दान्तकरभवाजिवृषभोत्प्लवनेषु व्यालदन्तिवेगोपसर्पणेषु च स्खलत: पततः पलायमानानवलोक्यावलोक्य समकालकृतकलकलैः सतालशब्दमुच्चस्तरां हसद्भिः [ल], कैश्चिन्मार्गनिहितनिश्चल. दृष्टिभिः पश्चादेष्यतां दिगन्तविख्यातयशसामुभृितां कुमाराणां राजपत्नीनां प्रधानगणिकानां पट्टहस्तिनां च दर्शनाशया क्षुत्पिपासापरिगतैरूवंशोषं शुष्यद्भिः, कैश्चित् पृष्ठसङ्गिस्वैरिपामरीपीवरस्तनस्पर्शलुब्धैः पीडितैरपि
वलम्बनैः, च पुनः, स्कन्धाधिरोपितदयितडिम्भैः स्कन्धे, आरोपितः-धृतः, दयितः-प्रियः, डिम्भः-शिशुयैस्तादृशैः, पुनः सर्वत्र सर्वविषयेषु, सकुतूहलैरपि कौतुकान्वितैरपि, करिषु हस्तिषु, कपिषु मर्कटेधु, च पुनः, क्रमेलकेषु उष्ट्रेषु, सविशेष विशेषेण, प्रहितदृष्टिभिः प्रेरितलोचनैः, पुनः प्रमाणरूपबलोपचयशालिनाम् प्रमाणं-देयम् , रूपं-सुन्दराकृतिः, बलोपचयः-बलवृद्धिः, तैः, शोभावताम्, अनडुहां वृषभाणाम् , प्रत्येकम् एकैकस्य, मूल्यमानम् मूल्यप्रमाणम् , उद्धट्टयद्भिः कथयद्भिः [र] कथय ब्रूहि, एषः अयम् , राजपुत्रः नृपकुमारः, कः किनामा ?, इयं पुरोवर्तिनी, राज्ञी राजपत्नी, का किन्नानी ?, अयं पुरोवर्ती, द्विरदः हस्ती, किमभिधानः किनामा ?, इति इस्थम् , अनवरतप्रयुक्तया निरन्तरकृतया, प्रश्नपरम्परया प्रश्नसमूहेन, कदार्थतसकृष्टकटकनामलाकुटिकैः कदर्थिता:-क्लेशिताः, सकृत-एकवारम् , दृष्ट-दृष्टिगोचरीकृतम् , कटक-सेना यैस्तादृशाः, ग्रामलाकुटिका:-प्रामवासिदण्डिजना यैस्तादृशैः, करेणुकाधिरूढं हस्तिनीमारूढम् , क्षुद्रगणिकागणमपि साधारणवेश्यावृन्दमपि, अन्तःपुरम् अन्तःपुराङ्गनागणम्, इति चिन्तयद्भिः मन्यमानैः, पुनः धृतोष्णवारणं गृहीतच्छत्रम् , चारणमपि भृत्यमपि, महाराजपुत्र इति महाराजकुमार इति, चिन्तयद्भिः, पुनः कनकनिष्कावृतकन्धरं कनकस्य-सुवर्णस्य, निष्केण-अष्टोत्तरशतेन, आवृता-व्याप्ता, कन्धरा-प्रीवा यस्य तादृशम् , वणिजमपि आपणिकमपि, राजप्रसादचिन्तकः राजप्रीतिप्रार्थी, इति चिन्तयद्भिः, पुनः पृष्टैरपि कृतप्रश्नैरपि, प्रतिवचनम् उत्तरम् , अप्रयच्छद्धिः अप्रददद्भिः, पुनः आहूतैरपि कृताह्वानरपि, अन्यतः अन्यत्र, गच्छद्भिः, पुनः अभिमुखं सम्मुखम् , पश्यतोऽपि अवलोकमानानपि, लोकान् , अङ्गुलीभिः, दर्शयद्भिः संकेतयद्भिः, पुनः चेष्टितं शरीरचेष्टाविशेष शृण्वतामपि श्रुतिगोचरीभूतध्वनिना जानतामपि, अशङ्कितैः तच्छ्वणशङ्कयापि रहितैः, उच्चखनेन उच्चशब्देन, सूचयद्भिः बोधयद्भिः; पुनः विषमावतारसंमर्देषु निनोन्नतस्थला वतरणार्थजनसम्मेलनेषु, स्खलतः विचलतः, पुनः दुदान्तकरभ-वाजि-वृषभोप्नुवनेषु दुदोन्तः-उद्धतो यः करभःहस्तिशिशुः, वाजी-अश्वः, वृषभः-वृषः, तेषाम् , उत्प्लवनेषु-उत्कूदनेषु, पततः, च पुनः, व्यालदन्तिवेगोपसर्पणेषु व्यालदन्तिना-दुष्टहस्तिनाम् , “ज्यालो दुष्टगजे सर्प शठे श्वापद-सिंहयोः" इति हैमः, वेगेन-स्वरया, यद् उपसर्पण-समीपागमनं तेषु, पलायमानान् भयादिना स्थानत्यागेनान्यस्थानं गच्छतो जनान् , अवलोक्य अवलोक्य दृष्ट्वा दृष्ट्वा, समकालकृतकलकलैः समकालं-एककालम् , कृतः कलकल:-कोलाहलो यैस्तादृशैः; पुनः सतालशब्दं प्रसृतहस्तध्वनिपूर्वकम् , उच्चैस्तराम् अत्युच्चैः, हसद्भिः हासं कुर्वद्भिः [ल]; कैश्चित् कैरपि जनैः, मार्गनिश्चल निहितदृष्टिभिः भार्गे-पथि, निश्चलं-निःस्पन्दं यथा स्यात् तथा, निहिते-निवेशिते, दृष्टी लोचने यैस्तादृशैः, पुनः पश्चात् पृष्ठदेशतः, एष्यताम् आगमिष्यताम् , दिगन्तविख्यातयशसाम् आदिगन्तप्रसिद्धयशस्कानाम् , उर्वीभृतां नृपाणाम् , कुमाराणां राजपुत्राणाम् , राजपत्नीनां राजीनाम् , प्रधानगणिकानां मुख्यवेश्यानाम् , च पुनः, पट्टहस्तिनां प्रधानगजानाम् ; दर्शनाशया दर्शनाभिलाषेण, क्षुत्-पिपासापरिगतैः बुभुक्षा-पिपासाव्याप्तैः, अत एव ऊर्वशोषं शुष्यद्भिः ऊर्ध्व कण्ठताल्वादिप्रदेशावच्छेदेन शोषणमनुभवद्भिः; पुनः कैश्चित् कैरपि, पृष्ठसङ्गिस्वैरिफामरीपीवरस्तनस्पर्शलुब्धैः
Page #118
--------------------------------------------------------------------------
________________
२६०
टिप्पनक- परागविवृतिसंवलिता
समन्ततः प्रेक्षक जनेन स्थानमत्यजद्भिः, कैश्चिन्मनोरथशतासादितग्रामपतिसुता संनिधानैर्लब्ध महानिधानैरिव खलधानतः साधनिकलोकेन निखिलमपि नीयमानं बुसं बुसाय मत्वाऽवधीरयद्भिः [व], कैश्चिद् गृह्यमाणयबसरक्षणव्यप्रैरर्थलोभादभिलषितलञ्चानां लञ्चया लाकुटिकानां क्लेशमनुभवद्भिः [ ], कैश्चिदाष्टहस्तिपकचोदितद्विरदपुरस्कृतैः प्रपलाय्य दूरीकृतात्महननैरात्मनोऽविडम्बनाय ब्राह्मण्यमाविष्कुर्वद्भिः, कैश्चिदनिबद्धलोकलुण्ट्यमानशाकशाकटैरघटितप्रयोजनामवनिपाज्ञां सावज्ञमुपहसद्भिः [ष], कैश्चिदानन्द गद्द्वदिकागृहीत
गृहीत टाकतातया लुण्डितेक्षुवाटदुःखदुर्बलं कृषीवललोकमपशोकं कुर्वद्भिः कैश्चिज्जवप्राप्तपरिपालक व्यूहरक्षितसुजातत्रैहेयैरनेकधा नरेन्द्रमभिनन्दयद्भिः [स], कैश्चिदलब्धावकाश ठक्करह ठनिराकृतैराश्रयाय प्रतिगृहं गृहीतभाण्डैर | हिण्डयद्भिः कैश्चित् कलह निष्कासितशाली नकुलपुत्रकवर्गैः सगर्वमग्रतो ग्रामपोटानां
,
टिप्पनकम् -- लञ्चया नीवीभव (ज) नेन [श ] । शाकशाकटं - शाकक्षेत्रम् [ष] 1 [त्रैहेयम् ] ब्रीहिक्षेत्रम् [स] ।
स्वस्य,
पृष्ठसङ्गिनीनां-पृष्ठसंसर्गिणीनां वैरिणीनां स्वेच्छाचारिणीनाम्, पामरीणां नीचाङ्गनानाम्, पीवरस्तनयोः - स्थूलस्तनयोः, स्पर्शे लुब्धैः संजातलोभैः, अत एव प्रेक्षकजनेन दर्शकजनेन, समन्ततः सर्वभागेषु, पीडितैरपि मर्दितैरपि, स्थानं स्वाधिष्ठितप्रदेशम्, अत्यजद्भिः अमुञ्चद्भिः पुनः कैश्चित् कैरपि जनैः, मनोरथशतासादितग्राम पतिसुतासन्निधानैः मनोरथशतेन - अभिलाषशतेन, आयादितं प्राप्तं, ग्रामपतिसुतायाः सन्निधानं - सान्निध्यं यैस्तादृशैः, अत एव लब्धमहानिधानैरिव लब्धं प्राप्तं महानिधानं महानिधिर्यैस्तादृशैरिव, खलधानतः धान्यविमर्दनस्थानतः, "खलधानं पुनः खलम्” इति हैमः, साधनिकलोकेन सैनिकलोकेन, नीयमानं हियमाणं, निखिलमपि सर्वमपि, बुसं यवादिधान्यम्, बुलाय मत्वा तृणमिति मत्वा अवधीरयद्भिः अनाद्रियमाणैः [ व ]; पुनः कैश्चित् कैरपि गृह्यमाणयव सरक्षणयः गृह्यमाणस्य-बलादादीयमानस्य, यवसस्य - घासस्य, रक्षणे- रक्षाकार्ये, व्यप्रैः - च्याकुलैः, अर्थलोभात् धनलिप्सावशात्, अभिलषितलञ्चानाम् अभिलषिता - अभिप्रेता, लञ्चा-लायते प्रच्छन्नं गृह्यत इति लब्बा, यैस्तादृशानाम्, लाकुटिकानां वेत्रधारिणां रक्षकाणाम्, लञ्चया लञ्चासमर्पणेन, क्लेशं दुःखम्, अनुभवद्भिः प्राप्नुवद्भिः [श ]; पुनः कैश्चित् कैरपि, आक्रुष्टहस्तिपकचोदितद्विरदपुरस्कृतैः आकुष्टाः - कृतशब्दा ये हस्तिपकाः - हस्तिवाहकाः तैः चोदितैः - प्रेरितैः, द्विरदैः-हस्तिभिः, पुरस्कृतैः-अग्रतः कृतैः, प्रपलाय्य अतिशयेन पलायनं कृत्वा, दूरीकृतात्महननैः दूरीकृतम् आत्मनःहननं-हत्या यैस्तादृशैः, आत्मनः खस्य, अविडम्बनाय अतिरस्काराय स्वरक्षणायेत्यर्थः, ब्राह्मण्यं ब्राह्मणत्वम्, आविष्कुर्वद्भिः प्रकटयद्भिः पुनः कैश्चित् कैरपि, अनिबद्धलोकलुष्ट्यमानशाकशाकटैः अनिबद्धैः - निरङ्कुशैः, लोकैः - राजपुरुषादिजनैः, लुण्ट्यमानानि - बलादाच्छिद्यमानानि शाकशाकटानि मार्गवर्तिशाकक्षेत्राणि येषां तादृशैः, अघटितप्रयोजनाम् असम्पादितफलाम् अवनिपाज्ञां सैन्येन कस्यापि कष्टं न कार्यमित्यादिराजाज्ञाम्, सावज्ञं सतिरस्कारम्, उपहसद्भिः ['ष ]; पुनः कैश्चित् कैरपि, आनन्दगद्गदिकागृहीतकण्ठैः आनन्देन या गद्गदिका - अव्यक्तशब्दता, तत्रा गृहीतः-आश्रितः कण्ठो येषां तादृशैः, पुनः लुण्टितेक्षुवाटदुःखदुर्बलं लुण्डितेन- बलादाच्छिन्नेन, इक्षुवाटेन- इक्षुक्षेत्रेण यद् दुःखं तेन दुर्बलम्, कृषीवललोकं कर्षकजनम्, निगृहीतलुष्ट |कवातवार्तया निगृहीतस्य दण्डितस्य, लुण्टा कानांबलादपहारकार्णा, व्रातस्य-समूहस्य, वार्तया वृत्तान्तेन, अपशोकं शोकरहितम्, कुर्वद्भिः सम्पादयद्भिः पुनः कैश्चित् कैरपि, जवप्राप्तपरिपालकव्यूह रक्षित सुजात त्रैहेयैः जवेन - शीघ्रतया प्राप्तेन लब्धेन, परिपालक व्यूहेन - परिरक्षकसमूहेन, रक्षितानि, सुजातानि मनोहराणि ब्रयाणि त्रीहिक्षेत्राणि येषां तादृशैः, अनेकधा अनेकप्रकारैः, नरेन्द्र राजानम्, अभिनन्दयद्भिः स्तुवद्भिः [ स ] । पुनः कैश्चित् कैरपि, अलब्धावकाश ठकुरहठ निराकृतैः अलब्धः-अदृष्टः, अवकाशः - स्थानं येन तादृशेन ठकुरेण ऐश्वर्यशालिना गृहपतिना, हठेन- बलात्कारेण, निराकृतैःनिष्कासितैः, अत एव गृहीतभाण्डैः उद्धृतभाण्डैः प्रतिगृहं गृहं गृहम् आश्रयाय अवस्थानाय, आहिण्डयद्भिः भ्राम्यद्भिः पुनः कैश्चित् कैरपि, कलह निष्कासितशालीन कुलपुत्रकवगैः कलहेन निष्कासितः - बहिष्कृतः,
:
>
J
Page #119
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२६१ प्रौढिमात्मनः प्रकटयद्भिः [ह), अन्यैस्तु दूरोदस्तकण्ठैः पृष्ठलग्नहृष्टबालकवृन्दकलकलसूचितान् ग्राममध्ये विचरतः स्वच्छन्दचारिणो महामात्रतत्रेण परिवृतान् वारणपतीनवलोक्य जातसंक्षोभैझटिति कोष्ठकद्वारेषु संग्रहकान् पातयद्भिः पश्चाद्वाटकेषु गोमयपिण्डकूटानि गोपयद्भिर्भनवृतिषु निष्कुटेषु त्रपुसकर्कारुकारवेल्लकादिवल्लीफलान्यादायादाय वेश्मनि प्रवेशयद्भिगृहधनं च कांस्यपात्रिकासूत्रकम्बलप्रायं बलाधिकृतधामन्यवलाजनस्य न्यासीकुर्वद्भिरनेकवृत्तान्तैसियकैरवलोक्यमानबलसंहतिः [१] प्रतिमार्गमुत्तम्भिताभिनयतोरणान् स्थानस्थानो. पसर्पत्कुसुमफलहस्तवास्तव्यवित्ताढ्यलोकानू/कृतासु तत्क्षणं वेणुयष्टिषु कुड्मलीकृत्य योजितैर्माञ्जिष्टैश्व माहारजनैश्च कर्पटैः जटालीकृतशीर्णगृहपटलानतिक्रम्य कतिचिद् वेलावनग्रामकानग्रतो दत्तदृष्टिः [ज्ञ] पिधानमिव पातालस्य, मणिकुट्टिममिय त्रिभुवनचतुःशालस्य, जन्मपल्वलमिवाकाशकुवलयस्य, प्रभापटलमिव
टिप्पनकम्-कोष्ठकः-वरण्डकः, संग्रहकाः-पलिहकाः, निष्कुट:-गृहवाटिका क्ष] । माहारजनानि-कौसुम्भानि [] ॥
शालीनः-अधृष्टो लज्जायुक्तः, कुलपुत्रकाणां-कुलप्रसूतानुकम्पितपुत्राणाम् , वर्ग:-समूहो येस्तादृशैः, ग्रामपोटानां ग्रामस्थानां पुलक्षणानां स्त्रीणाम् , अग्रतः अग्रे, सगर्व साभिमानम् , आत्मनः स्वस्य, प्रौढिं प्रगल्भताम् , प्रकटयद्भिः प्रदर्शयद्भिः [ह]; पुनः अन्यैस्तु अन्यन्यक्तिभिस्तु, दूरोदस्तकण्ठैः दूरम्, उदस्तः-उरिक्षप्तः, कण्ठःकण्ठव्यापारो येस्तादृशैः, अतिशुष्ककण्ठैरियर्थः, पृष्ठलग्नहृष्टबालकवृन्दकलकलसूचितान् पृष्ठलमस्य-पृष्ठसम्बद्धस्य, हृष्टबालकवृन्दस्य-प्रसन्नशिशुसमूहस्य, कलकलेन-कोलाहलेन, सूचितान-बोधितान्, ग्राममध्ये विचरतः भ्रमतः, स्वच्छन्दचारिणः खेच्छाचारिणः, महामात्रतन्त्रेण हस्तिपकप्रधानेन, परिवृतान् परिवेष्टितान् , वारणपतीन् गजेन्द्रान् , अवलोक्य दृष्ट्वा, जातसंक्षोभैः उत्पन्नसम्भ्रमैः, कोष्ठकद्वारेषु वरण्डकद्वारेषु, संग्रहकान् परिधकान् , पातयद्भिः, पुनः पश्चाद्वाटकेषु वृतीनां पश्चाद्भागेषु, गोमयपिण्डकूटानि गोमयपिण्डसमूहान् , गोपयद्भिः रक्षद्भिः, पुनः भग्नवृतिषु भन्नाः-भङ्गं प्राप्ताः, वृतयः-प्राकारा येषां तादृशेषु, निष्कुटेषु गृहवाटिकासु, पुस-कर्कारु-कारवेल्ल. कादिवल्लीफलानि त्रपुसं नाम-फलविशेषलता, कारः-कूष्माण्डलता, कारवेलक 'कारेला' प्रसिद्धफलविशेषलता, तदादीनां-- तत्प्रभृतीनो, वल्लीना-लतानां फलानि, आदाय आदाय गृहीत्वा गृहीत्वा, वेश्मनि गृहे, प्रवेशयद्भिः प्रवेश्य गोपयद्भिः, च पुनः, कांस्यपात्रिकासूत्रकम्बलप्रायं कांस्यपात्रिका-कांस्यस्य-धातुविशेषस्य भाजनम् , सूत्र-तन्तुः, कम्बल:ऊतन्तुमयः पटः, तत्प्रायं-तत्प्रचुरम् , गृहधनं गृहवित्तम् , अबलाजनस्य स्त्रीजनस्य, बलाधिकृतधामनि बलेनस्वसामर्थेन बलात्कारेणेत्यर्थः, अधिकृते रक्षिताधिकारे, धामनि-गृहे, न्यासीकुर्वद्भिः निक्षिपद्भिः, पुनः अनेकवृत्तान्तैः विविधवार्ताकैः, बहुविधप्रवृत्तिकैरिति यावत् [२] 1 पुनः कीदृशोऽहं समरकेतुः? कतिचित् कतिपयान , वेलावनग्रामकान वेलाया:-जलधितीरस्य यद् द्वनं तन्मध्यवर्तिनो लघुग्रामान् ,अतिक्रम्य उल्लङ्घय, अग्रतः तदने, दत्तहष्टिः क्षिप्तलोचनः, कीदृशान् ? प्रतिमार्गमार्गे मार्ग, उत्तम्भिताभिनवतोरणान् उत्तम्भितानि, उदद्धानि, अभिनवानि-नवीनानि, तोरणानिद्वारा स्तम्भोपरि निबद्धानि बहिराणि येषु तादृशान् , पुनः स्थानस्थानोपसर्पत्कुसुमफलहस्तवास्तव्यवित्ताढ्यलोकान् स्थाने स्थाने उपसर्पन्तः-उपगच्छन्तः, कुसुमफलहस्ताः-पुष्पफलरूपोपहारहस्ताः, वास्तव्याः-तग्रामवासिनः, वित्तायाः-धनाब्याः, लोकाः-जना येषु तादृशान् , पुनः तत्क्षणं तत्कालमेव, ऊर्वीकृतासु उन्नमितासु, वेणुयष्टिषु वंशदण्डेषु, कुडालीकृत्य आकुव्य, योजितैः उत्क्षिप्तः, माञ्जिष्ठैः मञ्जिष्ठाख्यरागविशेषरक्तैः, च पुनः, माहारजनैः माहारजनेन-कुसुम्माख्यरागविशेषेण रक्तैः, कर्पटैः पटखण्डैः,जटालीकृतशीर्णगृहपटलान् जटालीकृत-व्याप्तं, शीर्णानांभन्माना, गृहाणां पटलं-समूहो येषु तादृशान् []। कीदृशमम्भोनिधिम् ? पातालस्य अधोलोकस्य, पिधानमिव आवरणमिव, पुनः त्रिभुवनचतुःशालस्य त्रिभुवनरूपस्य चतुःशालस्य-चतसृणां शालानां समाहारस्य, अन्योऽन्याभिमुखगृहतुष्टय स्य, मा डेमसिव मणिखचितं मध्यवर्ति संस्कृतभूमितलमिव, पुनः आकाशकुवलयस्य आकाशरूपस्य कमलस्य,
Page #120
--------------------------------------------------------------------------
________________
२६२
टिप्पनक-परागविवृतिसंवलिता दिग्मण्डलेन्द्रनीलवलयस्य, छायाचक्रमिव ब्रह्मस्तम्बतरूगहनस्य, प्रच्छदपटमिव महीतलमहाशयनस्य, अदृष्टपर्यन्ततया दृष्टान्तमिव संसारस्य, मूर्ततापरिणाममिव कालस्य, रूपान्तरग्रहणमिव शब्दराशेः, उदाहरणमिव निःश्रेयससुखानाम् , अनुकारमिव महाकविप्रज्ञाऽऽलोकस्य [अ], सर्वतश्चान्धकारितदिगन्तराभिरन्धकारातिकन्धराकान्तिकालीभिः पातालतिमिरेभ्य इव जम्भिताभिरितस्ततः सर्पदहिकुलप्रभाभिरिव संतर्पिताभिरसुर. लोकादिव लब्धनिर्गमाभिरवगाहावतीर्णदिमागमदक्षालनादिव क्षुभितामिरन्तःप्रसुप्ताच्युतशरीरात्येव दत्तसंस्काराभिरनिलविलुलितैरौवैज्वलनधूमैरिवानुरञ्जिताभिरन्तःकरणवासिवैवस्वतानुजादेहलावण्येनेव लिप्ताभिस्तटतमाल. काननच्छायानिर्गमैरिव निरर्गलीकृतप्रसराभिरुल्लसन्तीभिरम्भसः प्रभावर्तिभिरत्यन्तधीराणामपि मनसि साध्वसमादधानम् [आ], मुद्रितमुखरहंसनूपुरस्वनाभिः त्वरितगतिवशोत्कम्पमानपृथुपयोधरतटाभिर्मुक्तवाचाल. क्रौञ्चमालामेखलानि पुलिनजधनस्थलानि विभ्रतीभिरितस्ततो वलितविलोलतारशफरलोचनाभिर्बहलशैवलप्रवालकस्तूरिकास्तबककलङ्कितानि पङ्कमलिनेन नवनीरवाससा सुदूरमावृण्वतीभिर्मुखानि विजृम्भिताभिनव.
टिप्पनकम्-वैवस्वतानुजा-यमानुजा [आ]। सुघटितकाष्ठस्य गगनारघट्टस्य काष्ठाः-दिशः, काष्ठानिदारूण च [ई]।
जन्मपल्वल मिव जन्मस्थानभूतजलाशयमिव, पुनः दिङ्मण्डलेन्द्रनीलवलयस्य दिङमण्डलरूपस्य इन्द्रनीलमणिनिर्मितकङ्कणस्य, प्रभापटलमिव द्युतिसमूहमिव, पुनः ब्रह्मस्तम्बतरुगहनस्य ब्रह्माण्डरूपस्य वृक्षसमूहस्य, छायाचक्रमिव छायामण्डलमिव, पुनः महीतलमहाशयनस्य भूमण्डलरूपमहाशय्यायाः, प्रच्छदपटमिव आस्तरणवस्त्रमिव, पुनः अदृष्टपर्यन्ततया अदृष्टान्तिमावधिकतया, संसारस्य जगतः, दृष्टान्तमिव उपमानमिव, आदर्शभूतमिवेति यावत् , पुनः कालस्य कालाख्यामूर्तद्रव्यस्य, मूर्ततापरिणाममिव मूर्ततया क्रियादिवदव्यभावेन विकारभूतमिव, पुनः शब्द. राशेः शब्दसमूहस्य, रूपान्तरग्रहणमिव रूपान्तरापत्तिमिव, पुनः निःश्रेयससुखानां मोक्षसुखानाम् , उदाहरणमिध निरवसानताया दृष्टान्तमिव, पुनः महाकविप्रज्ञाऽऽलोकस्य महाकविप्रतिभाप्रकाशस्य, अनुकारमिव अनुकरणमिव [अ], पुनः अम्भसः जलस्य, प्रभावर्तिभिः प्रभारूपाङ्गलेपैः, अत्यन्तधीराणामपि परमधैर्यशालिनामपि, मनसि हृदये, साध्वसं भयम् , आदधानं जनयन्तम् , कीदृशीभिः? सर्वतः सर्वभागेषु, अन्धकारितदिगन्तराभिः अन्धीकृतदिनमभ्याभिः, पुनः अन्धकारातिकन्धराकान्तिकालीभिः अन्धकस्य-तदाख्यराक्षसस्य, अरातिः-शत्रुः शिवः, तस्य या कन्धरा-ग्रीवा, तस्या या कान्तिः-कृष्णवर्णः, तद्वत् कालीभिः कृष्णवर्णाभिः, पातालतिमिरेभ्य इव
लस्थान्धकारेभ्य इव, जम्भिताभिः जृम्भया प्रकाशिताभिः, पुनः इतस्ततः अत्र तत्र, सर्पदहिकुलप्रभाभिः सर्पताम्-उद्वेलताम् , अहिकुलाना-सर्पगणानां, प्रभाभिः-कान्तिभिः, सन्तर्पिताभिरिव परिपोषिताभिरिय, पुनः असुरलोकात् दैत्यलोकात्, लब्धनिर्गमाभिरिव प्राप्तनिस्सरणाभिरिव, पुनः अवगाहावतीर्ण दिनागमदक्षालनात् अवगाहाय-सलिलान्तःप्रवेशाय, अवतीर्णैः-आगतैः, दिनांगैः-दिग्गजैः, मदानां-दानवारीणां, क्षालनात्-मार्जनात्, क्षुभिताभिरिव कलषिताभिरिव, पुनः अन्तःप्रसुप्ताच्युतशरीरधुत्या अन्तः-मध्ये, प्रसुप्तस्य-शयितस्य, अच्युतस्यविष्णोः, शरीरद्युल्या-शरीरकान्त्या, दत्तसंस्काराभिरिव कृतसंस्काराभिरिव, पुनः अनिलविलुलितैः पवनोद्भूतैः, और्वज्वलनधूमैः मौर्षज्वलनः-वाडवाग्निः, तस्य धूमः, अनुरञ्जिताभिरिव मलिनिताभिरिव, पुनः अन्तःकरणवासि
हलावण्येन अन्तःकरणवासिन्या:-हृदयवास्तव्यायाः, वैवखतानुजायाः-यमानुजाया यमुनाया इत्यर्थः, देहलावण्येन-शरीरकान्त्या, लिप्ताभिरिव मिश्रिताभिरिव, पुनः तटतमालकाननच्छायानिर्गमैः तटेषु यानि तमालकामनानि-तमालाख्यतरुवनानि, तेषां छायानां निर्गमैः-निःसरणैः, निरर्गलीकृतप्रसराभिः निरर्गलीकृतः-अप्रतिहतीकृतःप्रसरः-प्रसरणं यासां सादृशीभिरिव, उल्लसन्तीभिः उद्दीप्यमानाभिः [आ]। पुनः कीदृशम् ? विजृम्भिताभि. नवमेघदुर्दिनेषु विजृम्भितेन-उद्धृतेन, अभिनवेन-सद्यःसम्भृतसलिलेन, मेधेन, दुर्दिनेषु-अन्धकारावृतेषु, दिनेषु वासरेषु,
Page #121
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२६३ मेघदुर्दिनेषु दिनेषूत्पथेनागत्यागत्य निम्नगाभिसारिकाभिर्गाढमुपगूढम् [इ], मुहुरवतरन्त्या तोयमादायादाय पुनरूद्धमतिदूरमुत्पतन्त्या सान्द्रशीकरमोदविरचितानेकसुरचापया जगदुपवनं सेक्तुममरपतिना प्रकल्पितस्य सर्वतः सुघटितकाष्ठस्य गगनारघट्टस्य घटीमालयेव जलदसंतत्या सततमुदच्यमानम् [ई], विषमवाहनविसंस्थुलस्य निजरथस्याष्टमं तुरङ्गममसमग्रताजनितवैरूप्यस्य चात्मवपुषः षोडशी कलामन्वेष्टुमिव मथनदृष्ट. दिव्याश्वशशिखण्डसंभवाभ्यामहिमगभस्तिभ्यामनवरतकृतमजनोन्मजनम् [3], अगस्त्यजठरानलमिव पानावसरलनं युगान्तविद्युद्वलयमित्र संवर्तकाभ्रगर्भगलितमनवरतमानीयमानं वृद्धिमुदकैरुदरैकदेशेन दहन
उत्पथेन विरुद्धमार्गेण, आगत्य आगत्य, निम्नगाभिसारिकाभिः निम्नं नीचं गच्छन्तीति निम्नगा नद्यः, तद्रूपाभिः, अभिसारिकाभिः-परपुरुषगामिनीभिः कामिनीभिः, गाढं अत्यन्तं यथा स्यात् तथा, उपगूढम् आलिसितम्, कीडशीभिः! मुद्रितमुखरहंसनूपुरस्वनाभिः मुखराः-वाचाला ये हंसाः-पक्षिविशेषाः, तद्रूपाणां नूपुराणां-पादाभरणविशेषाणां, खनाः-ध्वनयः, मुदिताः-निरुद्धा याभिस्तादृशीभिः, वर्षासु नदीजलानां दूषिततया हंसानां मानससरोवरप्रस्थानभ्रवणादिति भावः, पुनः त्वरितगतिवशोत्कम्पमामपृथुपयोधरतटाभिः त्वरितगतिवशेन-ससम्भ्रमगमनवशेन, उत्कम्पमानःउत्-ऊर्ध्व कम्पमानः, उद्गच्छन्नित्यर्थः, पृथुपयोधरः-स्थूलस्तनरूपः, तटो यासां तादृशीभिः, पुनः मुक्तक्रौञ्चमालामेख. लानि मुक्ता-त्यक्ता, कौचानां-तज्जातीयपक्षिविशेषाणां, माला-पतिरूपा, मेखला-काञ्ची यस्तादृशानि, पुलिनजघनस्थलानि सिकतामयस्थलरूपाणि कटिपुरोभागस्थलानि, बिभ्रतीभिः धारयन्तीभिः, इतस्ततः अत्र तत्र, वलितविलोलतारशफरलोचनाभिः बलितानि-व्यापारितानि, विलोलताराणि-तरलकनीनिकानि, शफररूपाणि-मत्स्य विशेषरूपाणि, लोचनानिनेत्राणि यामिस्तादृशीभिः, वलितविलोलतामरसेति पाठे तु तामरसरूपाणि-कमलरूपाणि लोवनानि याभिरित्येवं व्याख्ये. यम्, पुनः बहलशैवल-प्रवाल-कस्तूरिकास्तबककलङ्कितानि बहलानां-विपुलानाम् , शैवलाना-जलतृणविशेषाणाम् , प्रवालान-विद्रुमाणाम् , तद्रूपणामित्यर्थः, कस्तूरिकाणां-मृगमदानां, स्तबकेन-गुच्छेन, कलङ्कितानि-चिद्धितानि, मुखानि अग्रभागरूपाणि वदनानि, पङ्कमलिनेन कर्दमकलुषितेन, नवनीरवाससा नवीनजलरूपेणवाससा-वरेण, सुदरम् अतिदूर. पर्यन्तम् , आवृण्वतीभिः आच्छादयन्तीभिः [इ ] । पुनः जलदसंतत्या मेघपतया, सततम् अनवरतम् , उदच्या मानम् उद्भियमागजलम् , कीदृश्या? मुहुः अनेकवारम् , अवतरन्त्या आपतन्त्या, पुनः तोयं जलम् , आदाय आदाय गृहीत्वा गृहीस्वा, पुनः अतिदूरम् अत्यन्तदूरम् , ऊर्ध्वम् उपरि, उत्पतन्त्या उद्गच्छन्त्या, पुनः सान्द्रशीकरक्षोदविरचितानेकसुरचापया सान्द्राणां शीकराणां-जलकणानां, क्षो दैः-चूर्णैः, विरचिताः-निर्मिताः, अनेके सुरचापाः-इन्द्रधनषि यया तादृश्या, कयेव ? जगदुपवनं जगद्रूपमारामम् , सेक्तुं सेकेन संवर्द्धयितुम् , अमरपतिना इन्द्रेण, प्रकटितस्य आविष्कृतस्य, सर्वतः सर्वभागेषु, सुघटितकाष्ठस्यः सुघटितानि-सनिवेशितानि काष्ठानि यस्मिंस्तादशस्य, अन्यत्र सुघटिताः काष्ठाः-दिशो यत्र तस्य, गगनारघट्टस्य आकाशरूपजलनिष्कासनयन्त्रस्य, घटीमालयेव घटीपतयेव [ई] । पुनः मथनदृष्टदिव्याश्व-शशिखण्डसम्भवाभ्यां मथनेन-आलोडनेन, दृष्टः-परीक्षितः, दिव्यावस्य-वर्गीयाश्वस्य, उच्चैःश्रवस इत्यर्थः, शशिखण्डस्य-चन्द्रखण्डस्य च, सम्भवः-उत्पत्तिर्याभ्यां तादृशाभ्याम् , अहिमाहिमगभस्तिभ्याम् अहिमः-उष्णः, गभस्तिः-किरणो यस्य सोऽहिमगभस्तिः सूर्यः, हिमः-शीतो गभस्तिः-किरणो यस्य स हिमगभस्तिश्चन्द्रः, ताभ्याम् , अनवरतकृतमजनोन्मजनम् अनवरतं-निरन्तरे, कृतं मजनम्-अन्तरवगाहनम् , उन्मजनम्-उत्प्लवनं च, प्रवेशनिर्गमावित्यर्थः, यस्मिंस्तादृशम् , किं कर्तुमिव ? विषमवाहनविसंस्थुलस्य विषभैः-विषमसंख्यैः सप्तभिरित्यर्थः, वाहनैः-अश्वैः, विसंस्थुलस्य-शिथिलगतिकस्य, निजरथस्य खरथस्य, अष्टमं तुरङ्गमम् अश्वम् , अन्वेष्टुमिव गवेषयितुमिव सूर्येण, असमग्रताजनितवैरूप्यस्य असमग्रतया-अपूर्णतया, जनितम्-उत्पादितम् , वैरूप्यम्-अचारुत्वं यस्य ताह. शस्य, आत्मवपुषः खशरीरस्य, षोडशी षोडशसंख्यापूरणीम् , कलाम् अंशम् , अन्वेष्टुमिव चन्द्रेण [3] 1 पुनः उरैकदेशेन खोदरैकभागेन, और्वाभिधानं वाडवाख्यम् , दहनम् अग्निम् , दधानं धारयन्तम् , कमिव ? पानावसर लग्नम् अगस्त्यकृतशोषणसमयसम्पृक्तम् , अगस्त्यजठरानलमिव अगस्त्यस्य-तदाख्य मुनेः, उदराग्निमिव, पुनः संवकाभ्रगर्भगलितं संवर्तकाख्यमेघगर्भनिर्गतम् , युगान्तविद्युद्वलयमिव प्रलयकालिकविद्युन्मण्डलमिवेति चोत्प्रेक्षा, पुनः
Page #122
--------------------------------------------------------------------------
________________
२६४
टिप्पनक-परागविवृतिसंवलिता मौर्वाभिधानं दधानम् [ऊ], अमराङ्गनागात्रभूषणोचितैरतिमात्रगम्भीरेऽपि पयसि भास्वरतया करतलस्थितैरिव विभाव्यमानैरत्यन्तविशदतया च सुरभीप्रनवेनेव स्लपितैरैरावतकरशीकरनिकरेणेव संवर्धितेधूर्जटिहठाकृष्ट. शिशुचन्द्रमुक्ताश्रुबिन्दुशङ्काविधायिभिलक्ष्मीस्तनस्वेदलेशैरिव लब्धकाठिन्यैरमृतशुक्तिगर्भसंभवैर्मुक्ताफलैरलंकृताभ्यन्तरम् [], अपरैरपि महाप्रमाणैः क्वचित् प्रलयबातविधूतपुष्करावर्तकमेघमुक्तैः कचित् कुलिशकर्कशहिरण्याक्षवक्षोऽभिघातदलितमहावराहदंष्ट्राङ्कुरोच्छलितैः क्वचित् कमठपतिपृष्ठकषणोत्थपावकप्रदीप्तमन्दरनितम्बवेणुस्तम्वनिष्ट्यूतैः क्वचिद्वेदान्वेषणक्लान्तहरिशकुलगलरन्ध्रोज्झितैः कचित्प्रौढकेशरिनखरदारितैरावणकुम्भकूटभ्रष्टैः कचिन्मधुकैटभरोषितजलशायिशाद्भिनिर्दयापूरितपाञ्चजन्यशङ्खोद्गीणैः क्वचिन्मथनाविष्टबलिहठाकृष्टवासुकि. फणापीठगलितैर्भिन्नजातिभिर्मौक्तिकैः स्तबकिततलम् [ ऋ], सर्वतः प्रसारितायतज्वालाजिह्वस्य सततमा
टिप्पनकम्–हरिशकुल:-विष्णुमत्स्यः [ ऋ]।
उदकैः जलैः, अनवरतं निरन्तरं, वृद्धिं वैपुल्यम् , आनीयमानं प्राप्यमाणम् [3] ! पुनः अमृतशुक्तिगर्भसम्भवैः अमृत-सुधा, तदुत्पन्ना या शुक्तिस्तद्गर्भोत्पनैः, मुक्ताफलैः मुक्तामणिभिः, अलङ्कताभ्यन्तरं भूषिताभ्यन्तरम् , कीदृशैः ? अमराङ्गनागात्रभूषणोचितैः अमराइनाना-देवानानाम् , गात्रभूषणोचितैः शरीराभरणयोग्यः, पुनः अतिमात्रगम्भीरेऽपि अत्यन्तागाधेऽपि, पयसि जले, भास्वरतया दीप्तिमतया, करतलस्थितैरिव हस्ततलस्थितैरिव विभाव्यमानैः प्रतीयमानः, च पुनः, अत्यन्तविशदतया अत्यन्तखच्छतया, सुरभीप्रस्त्रवेन धेनुदुग्धेन, स्वपितैरिव क्षालितैरिव, पुनः ऐरावतकरशीकरनिकरण ऐरावतस्य-इन्द्रगजस्य, करशी करनिकरेण-शुण्डादण्डजलकणसमूहेन, संघ. धितैरिव सम्यग्वपितैरिव, पुनः धूर्जटिहठाकृष्टशिशुचन्द्रमुक्ताश्रुविन्दुशङ्काविधायिभिः धूर्जेटिना-शिवेन, हठाकृष्टेन-बलादाकृष्टेन, शिशुचन्द्रेण-बालचन्द्रेण, मुक्ताः-त्यक्ता ये अश्रुबिन्दवस्तच्छङ्काकारिभिः, पुनः लक्ष्मीस्तनखेदलेशैरिव लक्ष्मीस्तनधर्मोदबिन्दुभिरिव, लब्धकाठिन्यैः प्राप्तकाठिन्यैः [क]। पुनः, अपरैरपि अन्यैरपि, महाप्रमाणैः अधिकप्रमाणैः, भिन्नजातिभिः नानाजातीयैः, मौक्तिकैः मुक्तामणिभिः, स्तबकिततलं सजातः स्तबकः-गुच्छो यस्मिंस्तादृशं, तलम्-अधःस्थलं यस्य तादृशम् , कीदृशैः ? कचित् कुत्रचित् स्थले, प्रलयवातविधूतपुष्करावर्तकमेघमुक्तैः प्रलयवातेन-प्रलयकालिकपवनेन, विधूतः-विक्षिप्तो यो, पुष्करावर्तकः-तत्संज्ञकः, मेघः-जलधरस्तेन, मुक्त:पातितैः; पुनः क्वचित् कमिश्चित् स्थले, कुलिशकर्कशहिरण्याक्षवक्षोऽभिघातदलितमहावराहदंष्ट्राङ्कुरोच्छलितैः कुलिशकर्कशेन-वज्रवत् कठोरेण, हिरण्याक्षस्य-हिरण्यकशिपोः, वक्षसा-उरस्थलेन, योऽभिधातः-आघातः, तेन दलितात्-विशीर्णात् , महावराहस्य--महाशूकरस्य, दंष्ट्राङ्कुरात्-दन्ताभिनवोद्गमात् , उच्छलितैः-उत्पतितैः, पुनः कचित् कुत्रापि, कमठपतिपृष्ठकषणोत्थपावकप्रदीप्तमन्दरनितम्बवेणुस्तम्ब निष्टयूतैः कमठपतेः-कूर्मराजस्य, पृष्ठकषणेन-पृष्ठसङ्घर्षणेन, उत्थः-उद्भूतो यः पावकः-अग्निः, तेन प्रदीप्तात्-प्रज्वलितात् , मन्दरनितम्बवेणुस्तम्बात्-मन्थाचलमध्यभागस्थितवंशसमूहात् , निष्ठ्यूतैः-निर्गलितैः, पुनः क्वचित् क्वापि स्थले, वेदान्वेषणक्लान्तहरिशकुलगलरन्ध्रोज्झितैः पयोधिपतितवेदगवेषणाय क्लान्तः-श्रान्तो यो हरिशकुल:-विष्णोरवतारभूतो मत्स्यः, तस्य गलरन्ध्रात्-ग्रीवाविवरात्, उज्झितैः,-पतितै; युनः क्वचित कुत्रापि, प्रौढ केसरिनखरदारितैरावणकुम्भकटभ्रः प्रौढेन-प्रबलेन, केसरिणासिंहेन, नखरदारित:-नखभिन्नः, य ऐरावणः-ऐराक्तनामकः सागरस्थ इन्द्रगजः, तदीयकुम्भकूटात्-मस्तकशृङ्गात् , भ्रष्टैःगलितैः, पुनः क्वचित् कापि, मधुकैटभरोषित जलशायिशाङ्गिनिर्दयापूरितपाञ्चजन्यशङ्खोद्गीणः मधु-कैटभाभ्यां तदाख्यदैत्याभ्यां, रोषितेन-क्रोधितेन, जलशायिना-समुद्रशायिना, शार्षिगा-विष्णुना, निर्दयम्-अत्यन्तम् , आपूरितात्नादितात् , पाञ्चजन्यात्-पञ्चजनाख्यदैत्यविशेषभवात् शङ्खात् , उद्गीणै:-उन्मुक्तः; पुनः क्वचित् कुत्रचित् स्थले, मथनाविष्टबलिहठाकृष्टवासुकिफणापीटगलितैः मथने-समुद्रालोडने, आविष्टेन-साग्रहेण, बलिना -तदाख्यदैत्यराजेन, हठेनबलात् , आकृष्टः-कृताकर्षणो यो वासुकिः-तदाख्यसर्पराजः, तस्य फणापीठात्-फणाप्रदेशात्, गलितैः-च्युतः [३]] कैलासविशदैः कैलासाख्यरजतपर्वतवद् धवलैः, फेनराशिभिः फेनयुजैः, आशामुखानि दिङ्मुखानि, धवलयन्तं
Page #123
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२६५ वय॑मानैरपि मुखे पयोभिरनुपजाततृप्तेरौदहनस्य दर्शनाझटिति निःसृतैरट्टहासच्छेदैरिव कैलासविशदैः फेनरा शिभिराशामुखानि धवलयन्तम् [ल], अमृतपकैकशरणजीर्णजलकरिकुलातिवाह्यमाननिरवसानकालकूटविषदाहवेदनमामोदावकृष्टपन्नगदृढाश्लिष्टसुरतरुजटाच्छेदप्ररूढविटपमासन्ननगरायातदैत्यदारिकाविष्यमाणकौस्तुभसजातीयरनोपलशकलमुदश्रुजलदेवतादृश्यमानलक्ष्मीचिरोपभुक्तप्रदेशं त्रिदशनीतशेषकतिपयाप्सर:संचारसूचितं मथनस्थानमुद्वहन्तम् [ 0], गृहीतवेलैः सद्भूत्यैरिव वनैः परिवृतममृतस्यन्दिभिर्गुरूपदेशैरिव शशाङ्कपादैराहितोदयं विस्तारितरङ्गैः कुशीलवैरिव नदीपूरैनय॑मानमुल्लासितवेत्रयष्टिभिः प्रतीहौररिव मरुद्भिर्दिक्षु संचार्यमाणं [ए] स्वदेहोद्भवेन दुष्पुत्रेणेव वाडवाग्निना शोष्यमाणमूर्मिमालाभिरप्यनासादितपरपारमाशागजैरप्यसोढगोंगारं खेचरैरप्यवीक्षितशिखाविश्रामं सर्वज्ञेनाप्यविज्ञातसर्वजलचरनामग्रामं तिमिङ्गिल
टिप्पनकम् -गृहीतवेलैः सद्भुत्यैरिव वनैः एकत्र वेला-अडलाछेदनम् (?) अन्यत्र पर्यन्तभूमिः। विस्तारितरङ्गः कुशीलवैरिव नदीपूरैः एकत्र विस्तृतकल्लोलैः, अन्यत्र विस्तारितनर्तनस्थानः, कुशीलवाः-नटाः । उल्लासितवेत्रयष्टिभिः एकत्र वेग्रयष्टिः-दण्डः, अन्यत्र जलवंशः [ए] । शुभ्रयन्तम् , कीदृशैः ? और्वदहनस्य वाडवानलस्य, दर्शनात् , झटिति शीघ्रम् , निःसृतैः निर्गतः, अट्टहासच्छेदैरिव महाहासखण्डैरिवेत्युत्प्रेक्षा, कीदृशस्य तस्य ? सर्वतः सर्वदिक्षु, प्रसारितायतज्वालाजिह्वस्य प्रसारिता-विस्तारिता, आयता-दीर्घा, ज्वालारूपा जिह्वा येन तादृशस्य; पुनः मुखे सततम् अनवरतम् , आवय॑मानैरपि आहियमाणैरपि, पयोभिः जलैः, अनुपजाततृप्तः अनुत्पन्नपिपासानिवृत्तेः[ल11 पुनः त्रिदशनीतशेषकतिपयाप्सरःसञ्चारसूचितमथनस्थानं-त्रिदशैः-देवैः, आनीताभ्यः-गृहीताभ्यः, शेषाः-अवशिष्टा याः कतिपयाः-परिमिताः, अप्सरसःखर्वेश्याः, तासां सञ्चारेण-विहारेण, सूचितं मथनस्थान-मन्थनस्थलम् , उद्वहन्तं धारयन्तम् , कीदृशं तत् ? अमृतपकैकशरणजीर्णजलकरिकुलातिवाद्यमाननिरवसानकालकूटविषदाहवेदनम् अमृतपङ्कः-सुधाकर्दम एव, शरणंस्थानं यस्य तादृशेन, जीर्णेन-जरावस्थेन, जलकरिकुलेन-जलहस्तियूथेन, अतिवाह्यमाना-व्यतीयमाना, सह्यमानेत्यर्थः, कालक्टेन-तद्रूपेण, विषण-विषविशेषेण, यो दाहः-तापः, तद्वेदना-तद्दुःखं यस्मिंस्तादृशम् । पुनः आमोदावकृष्टपन्नगदृढाश्लिष्टसुरतरुजटाच्छेदप्ररूढविटपम् आमोदैः-अतिसौरभैः, अवकृष्टाः-आकृष्टा ये पन्नगाः-सर्पाः, तैः दृढम्-अत्यन्तम् , आश्लिष्टानाम्-आलिजितानाम् , सुरतरुजदाना-समुदस्थकल्पवृक्षशिफानां, छेदैः-खण्डैः, प्ररूढः-उद्भिन्नः, विटपः-वृक्षो यस्मिंस्तादृशम् , पुनः आसन्ननगरायातदैत्यदारिकान्विष्यमाणकौस्तुभसजातीयरत्नोपलशकलम् नगरेभ्यः-निकटनगरेभ्यः, आयाताभिः-आगताभिः, दैत्यदारिकाभिः-दैत्यकन्यकाभिः, अन्विष्यमाणानि-गवेष्यमाणानि, कौस्तुभसजातीयानां--कौस्तुभसमानजातीयानां, रन्नोपलानां-रत्नपाषाणानाम् , शकलानि-खुण्डानि यस्मिंस्तादृशम् । पुनः उदश्रुजलदेवतादृश्यमानलक्ष्मीचिरोपभुक्तप्रदेशम् , उदश्रुभिः-उद्गतं अश्रु-नेत्रजलं यासा तादशीभिः, जलदेवताभिःजलाधिष्ठातृदेवताभिः, दृश्यमानः-दृष्टिगोचरीक्रियमाणः, लक्ष्म्या-लक्ष्मीदेव्या, चिरोपभुक्तः-दीर्घकालोपभुक्तः, प्रदेशो यस्मिस्तादृशम् [ल.] । पुनः वारि जलम् , उद्वहन्तं धारयन्तम् , कीदृशम् ? सद्भुत्यैरिव सत्कर्मकरैरिव, गृहीतवेलैः गृहीता वेला-तटम् , पक्षे कर्मकरणावसरो यस्तादृशैः, वनैः परिवृतं परिवेष्टितं व्याप्तमित्यर्थः; पुनःगुरूपदेशैरिव गुरूपांधर्माचार्याणाम् , अनुशासनैरिव, अमृतस्यन्दिभिः सुधास्राविभिः, पक्षे मोक्षविधायिभिः, शशाङ्कपादैः चन्द्रमरीचिभिः, आहितोदयं जनितविकाशम् ; पुनः कुशीलवैरिव नाटकीयनायकबन्दिभिरिव, विस्तारितरङ्गैः विस्तारिणः-विस्तारवन्तः, तरङ्गा येषां तादृशैः, पक्षे विस्तारितः-स्वकृतकीर्तिगानशब्दैव्याप्तः, रङ्गः-नाट्यशाला यैस्तादृशैः, नदीपूरैः नदीप्रवाहैः, नर्त्यमानं कार्यमाणनर्तनम् ; पुनः प्रतीहारैरिव द्वारपालैरिव, उल्लासितवेत्रयष्टिभिः उल्लासिता-उद्यता, पक्षे उद्वेलिता, वेत्रयष्टिः-वेत्रदण्डो जलवंशो वा यैस्तादृशः, मरुद्भिः पवनैः, दिक्षु दिशासु, सञ्चार्यमाण कार्यमाणसञ्चारम् [ए] पुनः दुष्पुत्रेणेव दुष्टसुतेनेव, स्वदेहोद्भवेन खशरीरजातेन, वाडवाग्निना वाडवाख्यसमुद्रस्थाग्निविशेषेण, शोष्यमाणं क्रियमाणशोषणम् ; पुनः ऊर्मिमालाभिरपि तरङ्गपतिभिरपि, किमुतान्यैः अनासादितपरपारम् अनासादितः परःउत्तरः, पारो यस्य तादृशम् ; पुनः आशागजैरपि दिग्गजैरपि, किमुतान्यैः, असोढगोंद्रारम् असोढः-सहनकर्मता
३४ तिलक.
Page #124
--------------------------------------------------------------------------
________________
२६६
टिप्पनक-परागविवृतिसंवलिता गिलैरप्यलचितभीषणावर्त मैनाकगोत्रगिरिभिरप्यनवगाढकुक्षिगुहागत [ऐ] प्रभवं विषस्य पीयूषस्य च पात्रं जलस्य जातवेदसश्च पदं वृद्धेः क्षयस्य च सदनमसुरारेर्दानवानां च धुर्य मर्यादावतामदृष्टसीनां च कुलमन्दिरं मदिराया द्विजराजस्य च [ओ] निवातकवचयुद्धमिव मुक्ताफलववेन्द्रनीलप्रभासुरदुरालोकं वृत्रमिवोपकण्ठलग्नवनानुविद्धफेनच्छटापहृतहदयासुखं सुराचलमिव स्वर्णदीप्रकटकान्तं स्थिरमपि विसारि चारुकल्लोलमपि
टिप्पनकम्-द्विजराजः-चन्द्रः [ओ] । निवातकवचयुद्धमिव मुक्ताफलवजेन्द्रनीलप्रभासुरदुरालोकं निवातकवचः-दानवविशेषः, तस्य युद्धमिव प्रेरितनिष्फलकुलिशशक्र-कृष्णतेजोऽसुराभ्यां दुःखदर्शनीयम् , अन्यत्र मौक्तिकहीरक-मरकतैः प्रभासुर-दुरालोकम् , तेषां वा प्रभा तया सुराणामपि दुःखदृशम् । [वृत्रमिवोपकण्ठलग्नवज्रानुविद्धफेनच्छटापहृतहृदयासुखं] वृत्रमिवोपकण्ठलग्नवज्रानुविद्धफेनच्छटा पहृतं लोकमनसामसुख-दुःखं येन स तथोक्तस्तम् । सुराचलमिव स्वर्णदीप्रकटकान्तं एकत्र सुवर्णदीप्यमानप्रस्थपर्यन्तम् , अन्यत्र गङ्गाव्यक्तभर्तारम् । स्थिरमपि विसार यदि स्थिरं कथं प्रसरणशीलम् ? अन्यत्र मत्स्यवत् । चारुकल्लोलमपि कृर्मि यदि शोभनोर्मि कथं कुत्सितकल्लोलम् ? अन्यत्र सकच्छपम् । ता_वपुरिवाखण्डितं सर्पदशनैः अहिदन्तैः, अन्यत्र सर्पत्-प्रसरत् , अशनैः-शीघ्रम् । वसुन्धराया मधुरिपोश्च वासः एकत्र वासः-वस्त्रम् , अन्यत्र निवासः [ औ]।
मनापादितः, गोंगार:-गर्जनातिरेको यस्य तादृशम् ; पुनः खेचरैरपि आकाशगामिभिरपि, किमुतान्यैः अवीक्षितशिखाविश्रामम् अवीक्षितः-अदृष्टः, शिखायाः-अग्रभागस्य, विश्रामो-विरामो यस्य तादृशम् ; पुनः सर्वशेनापि सर्वज्ञात्रापि,
अविज्ञातसर्वजलचरनामग्रामम् अविज्ञातः-अविदितः, सर्वजलचराणाम्-अशेषजलजन्तूना, नामनामः-नामसमूहो यस्य तादृशम् ; पुनः तिमिगिलगिलैरपि “अस्ति मत्स्यस्तिमि म शतयोजनविस्तृतः । तिमिझिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघव !" इत्यन्यत्रोक्तमहामत्स्यैरपि, अलवितभीषणावर्तम् अलचितः-न लखितः, भीषणः, आवर्तः-जलभ्रमो यस्य तादृशम् ; पुनः मैनाकगोत्रगिरिभिरपि स्वोदरस्थमैनाकवंशजपर्वतैरपि, किमुतान्यैः, अनवगाढकुक्षिगुहागर्तम् अनवगाढम् -अगाधतयाऽप्रविष्टम् , कुक्षिरूपायाः-उदररूपायाः, गुहाया:-कन्दरायाः, गर्तः-श्वभ्रं यस्य तादृशम् [पे] च पुनः, विषस्य, पुनः पीयूषस्य अमृतस्य, परस्परविरुद्धयोरपि तयोरित्यर्थः, प्रभवम् उत्पत्तिस्थानम् ; पुनः जलस्य, च पुनः, जातवेदसः अग्नेः, परस्परविरोधिनोरपि तयोरित्यर्थः, पात्रं स्थानम् , पुनः वृद्धः समृद्धेः, च पुनः, तद्विरुद्धस्य क्षयस्य हासस्य, स्थानम् अधिकरणम् ; पुनः असुरारेः विष्णोः, च पुनः, तद्विरोधिनां दानवानां दैत्यानाम् , सदनं गृहम् ; पुनः मर्यादावतां व्यवस्था शालिनाम् , तद्विरुद्धानाम् , अदृष्टसीनाम् अदृष्टा-न दृष्टा, सीमा-व्यवस्था, पक्षे अवधिर्येषां तादृशानां वस्तूना, धुर्यम् अग्रेसरम् ; पुनः मदिरायाः तदाख्यमादकवस्तुनः, च पुनः, द्विजराजस्य तद्विरुद्धब्राह्मणस्य, पक्षे चन्द्रस्य, कुलमन्दिरम् उत्पत्तिगृहम् [ओ]; पुनः निवातकवचयुद्धमिव निवातः-निवृत्तो वातः-वायुर्यस्मात् तादृशः, दृढ इत्यर्थः, कवचः-वर्म येषां तादृशानां तन्नामकासुराणां युद्धमिव, मुक्ताफलवजेन्द्रनीलप्रमासुरदुरालोकं मुक्कं-प्रहितम् , अफलं निष्फलं, वज्रं येन तादृशेन, इन्द्रेण, नीलप्रभैः, असुरैः-राक्षसैश्च, दुरालोकं-दुर्निरीक्ष्यम् , पक्षे मुक्ताफलंमुक्तामणिः, वज़-हीरकमणिः, इन्द्रनीलं नीलमणिः, तैः प्रभासुरम्-अतिभासुरम् , अत एव दुरालोक-दुःखेन आलोकितुं शक्यम् । पुनः वृत्रमिव वृत्रासुरमिव, उपकण्ठलग्नवज्रानविद्धफेनच्छटाऽपहतहृदयासुखम् उपकण्ठलमाभिः-निकटलग्नाभिः, वज्रानुविद्धाभिः-हीरकमणिसम्पृक्ताभिः, फेनच्छटाभिः-जलविकारराशिभिः, अपहृतं-निवारितं, हृदयासुख-निर्धनताप्रयुक्तदुःखमाजां जनानां हृदयदुःखं येन तादृशम् , पक्षे कण्ठसमीपलम्माभिः, वज्रेण-अस्त्रविशेषेण, अनुविद्धाभिः-सलमाभिः, फेनच्छटाभिः-अधिकफराशिभिः, अपहृतं-हृदयासुख-तत्पीडितजनहृदयदुःखं येन तादृशम् ; पुनः सुराचलमिव मेरुगिरिमिव, स्वर्णदीप्रकटकान्तं स्वर्गद्याः-खर्गनद्या गङ्गायाः, प्रकटं-प्रकाशमानं, कान्तं-पतिम् , पक्षे खर्णेन-सुवर्णेन, दीप्रः-भासुरः, कटकस्य-नितम्बस्य, अन्तः-खरूपं चरमावयवो वा यस्य तादृशम् पुनः स्थिरमपि निवृत्तगतिकमपि विसारि विशेषेण गमनशीलमिति विरोधः. तदद्धारे तु विसारि विसाराः-मत्स्याः सन्ति अस्मिन्निति व्याख्येयम् । पुनः चारुकल्लोलमपि चारवः-मनोहराः, कल्लोला:-महातरजा यस्य तादृशमपि, कूर्मि कुत्सिताः-ऊर्मयो
Page #125
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२६७ कूर्मि तार्क्ष्यवपुरिवाखण्डितं सर्पदशनैर्वसुंधराया मधुरिपोच वास इति विश्रुतमुद्वहन्तं चारि भगवन्तमम्भोनिधिमपश्यम् [ औ ] |
तस्य चाविषमविस्तीर्णावकाशे सर्वतो वहत्स्वादुसलिलस्रोतसि चलाचलप्रान्तपरिसरे सन्निविष्टम्, अनतिसन्निकृष्टप्रधान सचिवावासम्, उल्लासितानेकवर्णघनवितानैरुत्पातगगनमिव दिगन्तैः परिगतमशेषतः सामन्तशिविरैः, प्रतिद्वारमुच्छ्रतानेक्रम करतोरणम्, अनेककक्षान्तरोपेतम्, इतस्ततः प्रकल्पिताधिकारिकर्मशालं, कुण्डलीकृतशक्रकोदण्डशोभा विडम्बनदक्षाभिः शरीररक्षाधिकार नियुक्तानां वीरपुरुषाणामन्योऽन्यलग्नाभिरनेकवर्णगुणल्यनिकाभिस्त्रिः परिक्षिप्तम्, ऊर्ध्वनिखात निश्चलस्थूणाश्रेणि संयतया वेणुदण्डिकामय्या महाप्रमाणया वृत्या समन्ततः परिवृतैः श्वेतैश्च शितिभिश्च लोहितैश्च कल्माषैश्च महाकायमण्डपिका मण्डिताजिरैरखण्डबुनाण्डकपरिमण्डलाकारैः पटागारैः स्थपुटितावकाशं स्वावासमत्रजम् [अं] ।
टिप्पनकम् - उल्लासितानेकघनवितानैः स्वीयैयत (?) [ रुद्धपर्यन्त ] नानावर्णमेघ संघातैः, अन्यत्रोल्लासितानेकवर्णनिबिढचन्द्रोदयैः [अं] ।
यस्य तादृशमिति विरोधः, तदुद्धारे तु कूर्माः - कच्छपाः सन्ति अस्मिन्निति व्याख्येयम्; पुनः तार्क्ष्यवपुरिव गरुडशरीरमित्र, सर्पदशनैः सर्पदन्तैः, अखण्डितम् अवदारितम् अन्यन्त्राखण्डितमपरिच्छिन्नम्, अशनैः - शीघ्रं, सर्पत्-प्रसरत्, पुनः 'वसुन्धराया पृथिव्याः, मधुरिपोः विष्णोश्व, वासः वस्त्रं वासस्थानं च इति विश्रुतम् [ औ ] ।
च पुनः, तस्य समुद्रस्य, चलाचलप्रान्तपरिसरे चलाचले - चञ्चले, प्रान्तपरिसरे - निकट कच्छस्थले, सन्निविष्टं समवस्थितम्, स्वावासं खनिवासस्थानम्, अव्रजम् अगच्छम् । कीदृशे ? अविषमविस्तीर्णावकाशे अविषमः समभूतः, विस्तीर्णः - दीर्घश्व, अवकाशो - निरावरणस्थानं यस्मिंस्तादृशे, पुनः सर्वतः सर्वभागेषु, वहत्वादुसलिलस्रोतसि वहन्तिस्यन्दमानानि, खादूनां मधुराणां सलिलानां जलानां, स्रोतांसि प्रवाहा यस्मिंस्तादृशे कीदृशमावासम् ? अनतिसन्निकृष्टप्रधान सचिवावासम् अनतिसन्निकृष्टः-- अनत्यन्तसन्निहितः, प्रधानसचिवस्य- मुख्यमन्त्रिगः, आवासो - वासभवनं यस्य तादृशम् ; पुनः दिगन्तैः दिगमैः, उत्पातगगनमिव युगान्त कालिकाकाशमण्डलमिव, सामन्तशिबिरैः क्षुद्रनुपसेनासन्निवेशैः, अशेषतः सर्वतः परिगतं परिवृतम्, कीटशैर्दिगन्तैः सेनासन्निवेशैश्वे याह- उल्लासितानेकवर्ण घन वितानैः उल्लासिताः-उन्नमिताः, अनेकवर्णाः - नानावर्णाः, घनाः - निविडाश्च, वितानाः-उल्लोचाः चन्द्रातपा येषु तादृशैः, पक्षे उल्लासिता नानावर्णा धनाः- मेघा एवं बितानाः, तादृशानां घनानां - मेघानां वितानाः - विस्तारा वा येषु तादृशैः; पुनः प्रतिद्वारं सर्वद्वारेषु, उच्छ्रितानेकमकरतोरणम् उच्छ्रिताः- उन्नमिताः, अनेके मकरतोरणाः-नक्रमया बाह्यद्वाराणि यस्मिंस्तादृशम् ; पुनः अनेककक्षान्तरोपेतम् अनेकैः - बहुभिः, कक्षान्तरैः - अवान्तरभवनावलीभेदैः, उपेतं युक्तम् ; पुनः इतस्ततः अत्र तत्र, प्रकल्पिताधिकारिकर्मशालं प्रकल्पिताः- निर्मिताः, अधिकारिणां कार्याधिकृतजनानां, कर्मशाला:- कार्यालया यस्मि स्तादृशम् ; पुनः शरीररक्षाधिकार नियुक्तानां - राजकीयशरीररक्षणात्मक कार्ये कृतनियोगानाम्, वीरपुरुषाणां पराक्रमशालिजनानाम्, अनेकवर्णगुणलयनिकाभिः अनेकवर्णाः - नानावर्णा ये गुणाः - तन्तवः, तन्मयीभिः, लयनिकाभिः मण्डपिकाभिः, त्रिः त्रिवारम्, परिक्षितं परिवेष्टितम् कीदृशीभिः ? कुण्डलीकृतशककोदण्डशोभा विडम्बनदक्षाभिः कुण्डलीकृतस्य- वलयाकारितस्य शक्रकोदण्डस्य -- इन्द्रधनुषः, या शोभा तद्विडम्बनदक्षाभिः - तदनुकरणकुशलाभिः, पुनः अन्योऽन्यलग्नाभिः परस्परसम्बद्धाभिः पुनः कीदृशम् ? पटागारैः वस्त्रमयगृहैः, स्थपुटितावकाश स्थपुटितः - नित्रोन्नतीकृतः, व्याप्त इति यावत्, अवकाशः - अनावृत्त प्रदेशो यस्मिंस्तादृशम् कीदृशैः ? वृत्या प्राकारेण, समन्ततः सर्वतः, परिवृत्तैः परिवेष्टितैः कीदृश्या वृत्त्या ? ऊर्ध्व निखातनिश्चलस्थूणाश्रेणिसंयतया ऊर्ध्वया - उन्नतया, यद्वा ऊर्ध्वे - उपरिभागे, निखातया- भूगर्भावस्थापितमूलया, निश्चलया - स्थिरया, स्थूणाश्रेण्या - स्तम्भपङ्ख्या, संयतमा नियत्रितया पुनः वेणुदण्डिकामय्या वंशयष्टिप्रचुरया, महाप्रमाणया अधिकप्रमाणया, अत्युन्नतयेत्यर्थः, पुनः श्वेतैः शुभ्रवर्णैः च पुनः, शितिभिः कृष्णवर्णैः च पुनः, लोहितैः रक्तवर्णैः, च पुनः, कल्माषैः चित्रवर्णैः, पुनः महाकाय मण्डपिका
Page #126
--------------------------------------------------------------------------
________________
२६८
टिप्पनक-परागविवृतिसंवलिता तत्र चाभिनवपितृवियोगशून्येनापि चेतसा चिन्तयन्नमात्यमण्डलेन सह परमण्डलकृत्यमनुपालयन् गमनसामग्रीव्यग्रमात्मपरिग्रहप्राग्रहरलोकमालोकयन्नानीतानि गत्वा सत्वरैर्द्वारपालैरासन्नवेलाकूलनगरेभ्यो यात्राक्षमाणि यानपात्राणि द्वित्राणि दिनान्यतिष्ठम् [अ] । अनुष्ठितसकलतत्कालकृत्यश्च पुरः प्रतिष्ठासुरन्यतरेयुरपराह्नसमये समाहूतसकलनिजपरिषद्विजातिरुल्लसत्तारसूर्यघोषामुदारवेषयोषिद्वन्दगीयमानगाम्भीर्यमहिममर्यादादिजलनिधिगुणामाचमनपूतपुरोहितगृहीतकनकापात्रनिक्षिप्तदधिदूर्वाक्षता स्वयमेवोक्षितैर्भक्ष्यबलिभिविलेपनैः पुष्पदामभिरंशुकै रत्नालंकारैश्च बहुविकल्पैरुपकल्पितामनल्पया भक्त्या भगवतो रत्नाकरस्य पूजां प्रातिष्ठिपम् [क]। अतीतभूयिष्ठायां च शर्वर्यामाहते प्रयाणपटहे, रटत्सु राजद्वारि तारध्वनिषु मङ्गलतूर्येषु, सत्वरोत्थितगृहस्थनिर्दयाक्रोशकर्शितनिद्रेषु निःसरत्सु तृणकुटीरकोटरादतिकष्टमुक्तसंस्तरेषु कर्म
मण्डिताजिरैः महाकायाभिः-विस्तृतखरूपाभिः, मण्डपिकाभिः-गृहविशेषैः, मण्डितः-अलङ्कृतः, अजिरः-प्राङ्गणभूमिर्येषां तादृशैः, पुनः अखण्डबुध्नाण्डकपरिमण्डलाकारैः अखण्ड-सम्पूर्ण यत् बुघ्नं-घटमूलभागः, अण्डकं-हखं पक्ष्याण्ड च, तयोरिव परिमण्डलः-वर्तुलः, आकारः-स्वरूपं येषां तादृशैः [ अं] ।
च पुनः, तत्र तस्मिन्नावासे, अभिनवपितृवियोगशून्येनापि अभिनवेन-नवीनेन, पितृवियोगेन-पितृविरहेण हेतुना, शून्येनापि-लुप्तसंज्ञेनापि, चेतसा चित्तेन, अमात्यमण्डलेन मन्त्रिमण्डलेन सह, परमण्डलकृत्यं रिपुमण्डलकार्यम् , चिन्तयन् विचारयन् पुनःगमनसामग्रीव्यग्रं गमनोपकरणजातसंघटनव्याकुलम्, आत्मपरिग्रहप्राग्रहरलोक खपरिवारप्रधानजनम् , अनुपालयन् परिरक्षन् ; सत्वरैः त्वरा-शैघ्य, तत्सहितैः, द्वारपालैः प्रतीहारैः, गत्वा, आसन्न घेलाकलनगरेभ्यः आसन्नेभ्यः-सन्निहितेभ्यः, चेलाकूले-तटप्रान्ते, यानि नगराणि तेभ्यः, आनीतानि आगमितानि, यात्राक्षमाणि प्रयाणसहानि, यानपात्राणि जलयानानि, आलोकयन् पश्यन् ; द्वित्राणि द्वे वा त्रीणि वा दिनानि, अतिष्ठम् स्थितवान् [अ] 1 .
च पुनः, अनुष्ठितसकलतत्कालकृत्यः कृताशेषतात्कालिकक्रियः, पुरः अग्रे, प्रतिष्ठासुः प्रयातुकामः, अन्यतरेयुः अन्यतरस्मिन् दिने, अपराह्नसमये मध्याहसमये, समाहूतसकलनिजपरिषद्विजातिः समाहूताःसम्यगाहूताः, सकला:-सर्वे, परिषद्विजातयः-सभासदो विप्रा यस्तादृशः सन् , अनल्पया प्रचुरया, भक्त्या प्रीत्या, भगवतः ऐश्वर्यशालिनः, रत्नाकरस्य समुद्रस्य, पूजां प्रातिष्ठिपं प्रतिष्ठापितवान् कृतवान् अस्मि, कीदृशीम् ? उल्लसत्तारतूर्यघोषाम् उल्लसन्-उच्चरन् , तारः-तीव्रः, तूर्यस्य--वाद्यविशेषस्य, घोषः-ध्वनिर्यस्यां तादृशीम् , पुनः उदारवेषयोषिद्वृन्दगीयमानगाम्भीर्यमहिममर्यादादिजलनिधिगुणाम् उदारः-उज्ज्वलः, वेषः-कृत्रिममण्डनं यासां तादृशीनाम् , योषितां-वधूनां, वृन्देन-गणेन, गीयमाना-गानद्वारा वर्ण्यमाना, गाम्भीर्यम्-अगाधता, महिमा-महत्त्वम् , अतिसुदूरविस्तृतत्वम्, मर्यादा-स्थित्यनतिक्रमः, तदादयः-तत्प्रभृतयो, जलनिधिगुणाः-समुद्रसम्बन्धिगुणा यस्यां तादृशीम् , पुनः आचमनपूतपुरोहितगृहीतकनकार्घपात्रनिक्षिप्तदधिदूर्वाक्षताम् आचमनेन-जलस्य किश्चित्पानेन, पूतः-शुद्धहृदयो यः पुरोहितः-पुरोधाः, तेन गृहीतानि-धृतानि, कनकापात्रनिक्षिप्लानि-सुवर्णमयाघपात्रनिहितानि, दधि, दूर्वा-तृणविशेषः, अक्षतम्-आर्द्रतण्डुलाश्च यस्यां तादृशीम् , पुनः स्वयमेव खेनैव, उक्षितैः पवित्रतापादनार्थ जलेन सितैः, स्वयमवेक्षितैरिति पाठे च-मात्मनैव साध्वसाधुनिर्णयार्थमवलोकितैरित्यर्थः, भक्ष्यबलिभिः भक्षणीयैः पूजोपहारैः, नैवेद्यद्रव्यरित्यर्थः, विलेपनैः चन्दनकेसरादिसुगन्धिद्रवैः, पुष्पदामभिः पुष्पमाल्यः, अंशुकैः वस्त्रैः, च पुनः, बहुविकल्पैः बहुप्रकारैः, रत्नालङ्कारः रत्नमयाभरणैः, उपकल्पिताम उयपादितामाकच पुनः, अतीतभूयिष्ठायाम अतिक्रान्तबहुतरभागायां, शर्वर्या रात्रौ, तल्पं शय्या, विमुच्य विस्ज्य, अल्पपदातिपरिवृतः कतिपयपादगामिभटपरिवेष्टितः सन् , बाह्यास्थानमण्डपं बाह्यसभामण्डपम् , अगच्छं गतवानहम् ; कस्मिन् कीदृशे ? प्रयाणपटहे प्रस्थानसूचकवाद्यविशेथे, आहते ताडिते सति; पुनः राजद्वारि राजद्वारे, तारध्वनिषु तीवनादेषु, मङ्गलतूर्येषु मालार्थवाद्यविशेषेषु, रटत्सु ध्वनत्सुः पुनः कर्मकरेषु भृत्येषु, तृणकुटीरकोटरात् तृणरचितहखकुटीररन्ध्रात् , निःसरत्सु निर्गच्छत्सु, कीदृशेषु
Page #127
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२६९ करेषु, पुरोनिविष्टरन्धनदक्षदासीसंधुक्षितानलासु ज्वलन्तीषु सर्वतः कथनवाचालस्थालीपरम्परापरिकरितचूलासु प्राङ्गणचुल्लीषु [ख], समकालशिथिलितरोमन्थलीलं सहेलमुत्थाय चरति सति पुञ्जितमग्रतः प्रयत्नसंगृहीतं यवसमन्योऽन्यतुण्डताडनरगद्विषाणे विषाणिवृन्दे, प्रयतमनुष्यनिश्चलधृतोर्ध्वदण्डिकासु क्रमसमुत्पाट्यमानकीलपरिपाटिविषमसंकुच द्विस्तारासु चरममुक्तत निकाचतुष्टयच्युतावष्टम्भासु तिर्यक् पर्यस्यमानासु पटकुटीषु [ग], मुकुलितपटमण्डपे पिण्डीकृतकाण्डपटकप्रकटसामन्तान्तःपुरे दुष्टवाहनारोप्यमाणभयचटुलचेटीलोकविब्बोकाकृष्टविटचेतसि सहेलचलितसेनापतिसैन्यकोलाहलजनितजनकुतूहले संहृतपण्यविपणिवीथीवृथाभ्रमद्गृहीतमूल्य
टिप्पनकम्-पर्यस्यमानासु पात्यमानासु [ग]। मुकुलित-संकोचितम् , काण्डपटकः-जवनिका, बिब्बोकःविलासः, कीकट:-दरिद्रः, निघसः-नीरणम्, [घ]।
तेषु? सत्वरोत्थितगृहस्थनिर्दयाक्रोशकर्शितनिद्रेषु सत्वरं-शीघ्रम् , उत्थितानां--जागृतानां, गृहस्थानां-गृहवर्तिजनानां निर्दयाकोशेन-निष्ठुरकोलाहलेन तीबाहानेन वा, कर्शिता-क्षपिता, निद्रा येषां तादृशेषु, पुनः अतिकष्टमुक्तसंस्तरेषु अतिकष्टेन अत्यन्तक्लेशेन, मुक्तः-त्यक्तः, संस्तरः-शय्या यैस्तादृशेषु; पुनः प्राङ्गणचुल्लीषु प्राङ्गणस्थिताधिश्रयणीषु, ज्वलन्तीषु दीप्यमानासु, कीदृशीषु ! पुरोनिविष्टरन्धनदक्षदासीसन्धुक्षितानलासु पुरः-अग्रे, निविष्टया-उपविष्टया, रन्धनदक्षया-पाककुशलया, दास्या-कर्मकर्या, सन्धुक्षित:-प्रज्वलितः, अनल:-अग्निासु तारशीषु, पुनः सर्वतः सर्वभागेषु, क्वथनवाचालस्थालीपरम्परापरिकरितचूलासु कथनेन-अतिपाकेन, वाचालाभिः-शब्दायमानाभिः, स्थालीपरम्पराभिः-पाकभाण्डपतिभिः, परिकरिता-व्याप्ता, चूला-ऊर्श्वभागो यासां तादृशीषु [ख] पुनः विषाणिवृन्दे पशुसमूहे, अग्नतः अग्रे, पुजितं राशीकृतं, प्रयत्नसंगृहीतं प्रयाससश्चितं, यवसं घासं, सहेलं सकौतुकं यथा स्यात् तथा, उत्थाय, चरति खादति सति, कीदृशे ? समकालशिथिलितरोमन्थलीले समकालम्-एककालं, शिथिलिता-शिथिलीकृता, रोमन्थस्य-चर्वितस्याकृष्य पुनश्चर्वणस्य, लीला-क्रीडा येन तादृशे, पुनः अन्योऽन्यतुण्डताडनरणद्विषाणे अन्योऽन्यतुण्डताडनेन-परस्परमुखकृताभिघातेन, रणन्ति-शब्दायमानानि, विषाणानि यस्य तादृशे; पुनः पटकुटीषु वस्त्रमयगृहेषु, तिर्यक् कुटिलं यथा स्यात् तथा, पर्यस्यमानासु पात्यमानासु, उपसंहियमाणाखित्यर्थः, सतीषु, कीदृशीषु ? प्रयतमनुष्यनिश्चलधृतोर्वदण्डिकासु प्रयतेन-प्रयत्नवता, समाहितमनस्केनेत्यर्थः, मनुष्येण, निश्चल-दृढं यथा स्यात् तथा, धृता-गृहीता, ऊर्वदण्डिका-ऊर्ध्वयष्टिर्यासां तादृशीषु, पुनः क्रमसमुत्पाट्यमानकीलपरिपाटिविषमसंकुचद्विस्तारासु क्रमेण-पर्यायेग, समुत्पाव्यमानाभिः-समुद्धियमाणाभिः, कीलपरिपाटिभिः-शमुश्रेणिभिः, विषसम्-असमं यथा स्यात् तथा, संकुचन्-संकोचमासादयन् , विस्तारो-दैध्य यासां तादृशीषु, पुनः चरममुक्ततनिकाचतुष्टयच्युतावष्टम्भासु चरममुक्केन-सर्वतः पश्चाद्विश्लेषितेन, तन्यते-विस्तार्यते पटमण्डपो यया सा तनिका-कोणचतुष्टयावलम्बिनी रजुः, तचतुष्टयेन च्युतः-स्खलितः, निवृत्त इत्यर्थः, अवष्टम्भः-अवलम्बनं यासां तादृशीषु [ग], पुनः उर्वीगन्धर्वनगरे शून्याधिष्ठान-पुराकार-नीलपीतादिमेघरचनाविशेषो गन्धर्वनगरम् , उा-पृथिव्यां, न तु गगने, यद् गन्धर्वनगरं तद् उर्वी. गन्धर्वनगरं तस्मिंस्तथा, पृथिवीगतगन्धर्वनगरसदृशे इत्यर्थः, स्कन्धावारे सैन्यसन्निवेशे, सैन्यनगरे इत्यर्थः, अनुवेलं प्रतिक्षणम् , विरलतां अल्पताम् , ब्रजति प्राप्नुवति सति, कीदृशे स्कन्धावारे ? मुकुलितपटमण्डपे मुकुलिताःसंकुचिताः, पटमण्डपाः-वननिर्मितानि जनविश्रामस्थानानि यस्मिंस्तादृशे, पुनः पिण्डीकृतकाण्डपटकप्रकटसामन्तान्तःपुरे पिण्डीकृता:-सर्वतो वेष्टनेन पिण्डाकार प्रापिता ये काण्डपटका:-येषां संकोचनेन काण्डाकारो भवति तादृशाः पटविशेषाः, जवनिका इत्यर्थः, तैः प्रकट-प्रकटतां गतम् , सामन्तानाम्-आज्ञावर्तिक्षुद्रनृपाणाम् , अन्तःपुरं-वनितान्दं यसिस्वादशे, पुनः दुष्टवाहनारोप्यमाणभयचटलचेटीलोकबिब्बोकाकृष्टविटयेतसि दुष्टवाहने-अश्वतरादौ दुष्टावादी वा आरोप्यमाणानाम्-आरोह्यमाणानां, भयचटुलानां-भयसम्भ्रान्तानां, चेटीलोकानां-भृत्याजनानां, बिब्बोकेन-विलासेन, आकृष्टवशीकृतं, विटानां-जारपुरुषाणां, चेतः-हृदयं यस्मिंस्तादृशे, पुनः सहेलचलितसेनापतिसैन्यकोलाहलजनितजनकुतूहले सहेलं-सलीलं यथा स्यात् तथा, चलिताना-प्रस्थितानो, सेनापतिसैन्याना, कोलाहलेन-कल कलेन, जनितम्-उत्पा
Page #128
--------------------------------------------------------------------------
________________
२७०
टिप्पनक-परागविवृतिसंवलिता ऋयिकलोके निकटग्रामवासिकीकटकुटुम्बसंगृह्यमाणनिघसयवसेन्धने प्रयत्ननिर्णीयमानपरिकरशून्यसैनिकावासे सर्वतो विचरदनिवारितचमूचरे व्रजति विरलतामनुवेलमुगिन्धर्वनगरे स्कन्धाबारे [1], क्रमेण चोद्गते दिवसकृति कृताभिमतदेवतार्चन विधिषु भोजितभुजिष्यकर्मकरलोकेषु संवृतप्रकीर्णसर्वोपस्करेषु विनीतयुग्याधिरोपितकृतसमायोगपुरन्ध्रिवर्गेष्वागन्तुकपिपासाप्रतिक्रियोयुक्तभुक्तपरिजनपुनरुक्तोपपादितरेच्यमानचटसोदकेषु चलितवृषयूथमार्गानुलग्ननिरजरन्महिषपृष्ठकण्ठालावलम्बितकुतुपकाष्ठपात्रीशूलोहकर्परेषु समन्ततो निपुण . निरूपितावासभूमिषु सदुःखमुक्तोपभुक्तसदनासन्नसान्द्रद्रुमलतागुल्मेषु सागरावतारदेशमुद्दिश्य चलितेषु सर्वतः सैनिकेषु विमुच्य तल्पमल्पपदातिपरिवृतो बाह्यास्थानमण्डपमगच्छम् []।
टिप्पनकम्-भुजिष्यः-दासः, युग्यं-वाहनम् , रेच्यमान-रिक्तीक्रियमाणम् , कुतुपः-लघुकुतुकः [3] ।
दितं, जनानां कुतूहलं-कौतुकं यस्मिस्तादृशे, पुनः संहृतपण्यविपणिवीथीवृथाभ्रमद्गृहीतमूल्यऋयिकलोके सहतानि-आकुञ्चितानि, पण्यानि-तिव्यवस्तूनि यस्यां तादृश्यां विपणिवीच्याम्-आपणपतयाम् , वृथा-निष्प्रयोजन, भ्रमन्तःपर्यटन्तः, गृहीतमूल्या:-धृतमूल्याः, ऋयिकलोका:-क्रेतारो जना यस्मिंस्तादृशे, पुनः निकटग्रामवासिकीकटकुटुम्बसंगृह्यमाणनिघसयवसेन्धने निकटग्रामवासिना, कीकटकुटुम्बन-अनार्यजातीयेन दरिद्रेण वा परिजनेन, संगृह्यमाणानिसञ्चीयमानानि, निघस:-भोजन, त्यक्तभोजनीयवसजातमित्यर्थः, यवसं-घासः, इन्धन-काष्ठं यस्मिंस्तादृशे, पुनः प्रयत्न निर्णीयमानपरिकरशून्यसैनिकावासे प्रयत्नेन-प्रकृष्टयनेन, निर्णीयमानः-निश्चयेन ज्ञायमानः, परिकरः-सैनिकशरीरोपकरणवस्तुभिः, शून्यः-रिक्तः, सैनिकावासः-सैनिकस्थानं यस्मिंस्तादृशे, पुनः सर्वतः सर्वत्र, विचरदनिवारितचमूचरे विचरन्तः-भ्रमन्तः, अनिवारिताः-अनियन्त्रिताः, चमूचराः-सेनाचरा यस्मिंस्तादृशे; [घ] | च पुनः, दिवसकृति दिनकरे, सूर्य इत्यर्थः, क्रमेण शनैः, उद्गते उदिते सति, सागरावतारदेशं समुद्रप्रवेशस्थलम् , उदिश्य लक्ष्यीकृत्य, सैनिकेषु सैन्येषु, सर्वतः सर्वदिक्षु, चलितेष प्रस्थितेषु सत्सु कीदृशेषु कृताभिमतदेवतार्चनविधिष
धिषु सम्पादितेष्टदेवतापूजनकार्येषु, पुनः भोजितभुजिष्यकर्मकरलोकेषु भोजिताः-भोजनं कारिताः, भुजिज्या:-दासाः, कर्मकराःभृतकाच, वेतनोपजीविनश्चेत्यर्थः, लोकाः-जना यस्तादृशेषु, पुनः संवृतप्रकीर्णसर्वोपस्करेषु संवृताः-उपसंहृताः, प्रकीर्णाः-प्रसारिताः, सर्वे उपस्कराः-व्यञ्जनादिसंस्कारकद्रव्याणि यैस्तादृशेषु, पुनः विनीतयुग्याधिरोपितकृतसमायोगपुरन्ध्रिवर्गेषु विनीतयुग्ये--अनुद्धतवाहने, अधिरोपितः--आरोहितः, कृतसमायोगः-विहितपरस्परसंयोगः, पुरन्ध्रीणांपुत्रवतीनां पतिवनीनां, वर्ग:-समूहो यैस्तादृशेषु, पुनः आगन्तुकपिपासाप्रतिक्रियोयुक्तभुक्तपरिजनपुनरुक्तोपपादितरेच्यमानचटसोदकेषु आगन्तुकायाः-आगमनशीलायाः. पिपासायाः प्रतिक्रियाय-निवर्तनाथै, उद्यतेभ्यः, भुक्तपरिजनेभ्यः-कृतभोजनेभ्यः स्वजनेभ्यः, पुनरुक्तोपपादितेन-अनेकशः सम्यक्प्रतिपादनेन, रेच्यमानं-रिक्तीक्रियमाणम् , चटसोदक-चर्मपुटजलं यस्तादृशेषु, पुनः चलितवृषयूथमार्गानुलग्ननिष्ठुरजरन्महिषपृष्ठकण्ठालावलम्बितकुतुप-काष्ठपात्री-शूर्प-लोहकर्परेषु चलितस्य-प्रस्थितस्य, वृषयूथस्य-बलीवर्दगणस्य, मार्गे, अनुलग्नाः-पश्चालमा ये, निष्ठुराः-कठोरा दृढाबा इति यावत् , जरन्तो-वृद्धाः, महिषाः, तेषां पृष्ठे पृष्ठोपरिभागे ये कण्ठाला:-गोणीभेदा जालभेदा वा, तत्र अवलम्बिताः-आलम्बिताः, कुतुपाः-हस्वघूततेलादिपात्राणि, काष्ठपात्र्यः--काष्ठमयभाजनानि, शूर्पाः-प्रस्फोटनानि, लोहकर्पराः-लोहमयकटाहा यस्तादृशेषु, पुनः समन्ततः सर्वतः, निपुणनिरूपितावासभूमिषु निपुणं सम्यक्, निरूपिता-गवेषिता, आवासभूमिः-आवासस्थली यैस्तादृशेषु, पुनः सदुःखमुक्तोपभुक्तसदनासन्नसान्द्रद्रुमलतागुलमेषु सदुःख-दुःखसहितं यथा स्यात् तथा, मुक्ताः-त्यक्ताः, उपभुक्तसदनासन्नाः-अध्युषितगृहसन्निहिताः, सान्द्राः-निबिडाः, वृमा:-मृक्षाः, लतागुल्माः-लतावेष्टितस्कन्धरहितवृक्षाश्च यैस्तादृशेषु
Page #129
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२७१
तत्र चापनीतपर्यन्तपरिकरे संवृतोत्कृष्टविष्टरतया यथाकथचिदासीनराजलोके ढौकितेऽध्वयोग्यगजवशावाजिनि निविश्य कृतसमुद्रावतारमार्गावलोकन: प्रत्यूषस्येव पौतिकानां कृताकृतज्ञानाय प्रेषितेन वेत्रिणा सार्थमापतन्तम् [ च ], असितोत्पलदलश्यामावदातवर्णमर्णवेनेव पूजाप्रीतेन प्रहितमवगाहनार्थमभिनवं वेलावनप्रियङ्गुपादपम्, अचिरमज्जनविशेषस्निग्धसुकुमारवपुषम्, अल्पमालती पुष्परचितशेखरम्, उल्लिखितशङ्खादातिनी तनीयसी नवे दुकूलवाससी वसानम्, अनवसानताम्बूलोपयोगपोषितस्वभावपाटलाधरपुटच्छविम् [ छ ], इन्दुलाच्छनच्छायापहारपटुना शरीरप्रभापटलेन नलनिधिजलेनेव सातिरेकलावण्यलाभतृष्णया संनिधावनुज्झितावस्थानं, प्रस्थान कालकल्पितामनल्पविस्तारे वदनलावण्यपयसि निपततां कटकलोकलोचनानामबलम्बनाय नावभिव संगृहीतां चन्दनपङ्कलेखिकामधिललाट तटमादर्शयन्तम् [ज], अभ्यर्णा पतत्कर्णधारव्यापारणेषु सविलासमुत्सर्पतो लोचनयुगलस्य क्षौमपाण्डुभिः प्रभानिर्गमैरधिकशोभा
च पुनः, अपनीतपर्यन्तपरिकरे अपनीतः त्यक्तः, पर्यन्तः - पार्श्ववर्ती, परिकरः - परिवारो यस्मिंस्तादृशे, तत्र बाह्य सभामण्डपे, यद्वा 'अपनीतपर्यन्तपरिकरे' इत्यनुपदवक्ष्यमाणसप्तम्यन्तप देनान्वेति । संवृतोत्कृष्ट विष्टरतया संवृतःकृतगोपनः, उत्कृष्टः-सुन्दरः, विष्टरः- आसनं यस्य तादृशतया यथाकथञ्चिदासीनराजलोके यथाकथञ्चिदुपविशनृपजने, ढोकिते प्राप्ते, अध्वयोग्यगजवशावाजिनि अध्वयोग्यः - मार्गयोग्यः, यो गजः, वशा- हस्तिनी, वाजी - अश्वः तत्समाहारे, निविश्य उपविश्य, कृतसमुद्रावतारमार्गावलोकनः कृतं समुद्रावतारमार्गस्य - समुद्र प्रवेश मार्गस्य, अवलोकनंदर्शनं निरूपणमित्यर्थः, येन तादृशः सन् पञ्चविंशतिवर्षदेशीयं पञ्चविंशतिवर्षवयस्ककल्पम्, नाविकयुवानं नावा चर तीति नाविकः–कर्णधारः, तादृशं युवानं यौवनावस्थं जनम्, अद्राक्षीत् दृष्टवान् कीदृशम् ! प्रत्यूषस्येव प्रभात एव, पौतिकानां जलयानवाहकानाम्, कृताकृतज्ञानाय कृतमकृतं च यत् कार्यं तत्रिरूपणाय, प्रेषितेन प्रहितेन वेत्रिणा दण्डधारिणा, सार्धं साकम्, आपतन्तम् आगच्छन्तम् [च] पुनः असितोत्पलदलश्यामावदातवर्णम् असितं - कृष्णवर्ण, यदुत्पलं कमलं तदीयदलस्येत्र - तदीयपत्रस्येव, श्यामः, अवदातः - विशुद्धश्व, वर्णो- रूपं यस्य तादृशम्, अत एव पूजाप्रीतेन अर्चना प्रसन्नेन, अर्णवेन समुद्रेण, अवगाहनार्थ प्रवेशार्थ, प्रहितं प्रेषितम्, अभिनवं नवीनं, वेलावनप्रियपादपमिव तटवर्तिचनसम्बन्धिप्रियसंज्ञकश्यामवर्ण वृक्षविशेषमिवेत्युत्प्रेक्षा, पुनः अचिरमजन विशेष स्निग्धसुकुमारवपुषम् अचिरमज्जनेन - किञ्चित्पूर्व कालकृतनानेन, विशेषस्निग्धम् अत्यन्तश्चक्ष्णं, सुकुमारं - कोमलं च वपुः शरीरं यस्य तादृशम्; पुनः अल्पमालती पुष्परचितशेखरम् अपैः कतिपयैः, मालतीपुष्पैः मालयाख्यपुष्पैः, रचितं शेखरं - शिरोमाल्यं येन तादृशम्; पुनः दुकूलवाससी उत्तराधरपट्टवस्त्रे, वसानम् परिदधानम् कीदृशे ? उल्लिखितशङ्खादातिनी उल्लिखितः - उद्धृष्टः, यः शङ्खः, तस्येव अवदाता - शुभ्रा, युतिः - कान्तिर्ययोस्तादृशे, पुनः तनीयसी अतिसूक्ष्मे, पुनः नवे नवीने; पुनः कीदृशम् ? अनवसानताम्बूलोपयोगपोषितस्वभावपाटलाधरपुटच्छविम् अनवसानेन-अविरतेन, ताम्बूलोपयोगेन - ताम्बूलभक्षणेन, पोषिता - पुष्टिमापादिता, स्वभावपाटला-स्वभावतः वे तरका अधरपुटच्छविः - ओष्ठपुटयोः कान्तिर्यस्य तादृशम् [ छ ]; पुनः इन्दुलाञ्छनच्छायापहारपटुता इन्दोः - चन्द्रस्य, यत् लाञ्छनं - कलङ्कः, तस्य या छाया कान्तिः, तदपहारपटुना - तदपहरणनिपुणेन, शरीरप्रभा पटलेन - शरीरकान्तिकला पेन, सन्निधौ निकटे, अनुज्झितावस्थानम् अनुज्झितम् - अत्यक्तम्, अवस्थानम् - अवस्थितिर्यस्मिंस्तादृशम्, कया केनेव ? सातिरेकलावण्यलाभ तृष्णया अधिक सौन्दर्य लिप्सया, जलनिधिजलेनेव समुद्रजलेनेवेत्युत्प्रेक्षा पुनः अधिललाटतटं भालतलप्रान्ते, चन्दनपङ्कलेखिकां चन्दनद्रवलेखाम्, आदर्शयन्तं प्रदर्शयन्तम् कीदृशीम् ? प्रस्थानकालकल्पितां प्रयाणसमयरचिताम्, कामिव ! अनल्पविस्तारे अत्यन्तविस्तृते, वदनलावण्यपयसि मुखसौन्दर्यसलिले, निपततां निमज्जतां, कटकलोकलोचनानां सैनिक जननेत्राणाम्, अवलम्वनाथ आश्रयणाय, संगृहीतां - सङ्घटितां, नावमिव नौकामिवेत्युत्प्रेक्षा [ अ ]; पुनः अभ्यर्णा पतत्कर्णधारव्यापारणेषु अभ्यर्णे-निकटे, आपततः आगच्छतः, कर्णधारस्य-नाविकस्य, व्यापारणेषु-प्रेरणेषु, सविलासं विलासपूर्वकम् उपसर्पतः उद्वेलतः, लोचनयुगलस्य नेत्र
Page #130
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता धानाय यानपात्राणां सितपटानिव नवानासूत्रयन्तम् , आसक्तकर्णाभरणपद्मरागरागाममुक्तोद्भदकालकपिलिमानमिव कोमलाविरलनीलकेशकुण्डलिकालङ्कृतां श्मश्रुराजिमुद्वहन्तम् [झ], आमलकीफलस्थूलमुक्ताफलभृता सर्वतः प्रसृतकिरणविसरेण मुक्तासरेण तीरजलगाधतावलोकनसमयलग्नेन जलधिफेनस्तबकवलयेनेव कृतकण्ठपरिवेषम् [भ], आसक्तमुक्तासरस्फारमहसा हसन्तमिव वेलानदीपुलिनपरिणाहमतिपृथुलेन वक्षःस्थलेन, प्रस्तसागरागस्त्यजठरस्य ख्यातिदुःखेनेव क्षीणकुक्षिम् [2], आजानुलम्बमांसलबाहुम् , अतिनिष्ठुरकरप्रकोष्ठनिहितैकैकहाटककटकम् , उभयतः प्रसर्पता सलीलदोलायमानकरतलोपनीतेन प्रकोष्टकटकेन्द्रनीलकिरणरागेण नीलीरसेनेव भाविसंततप्रयाणसुलभमालिन्यलोपनाय लिपन्तमघनमधिजघनं श्वेतचीनांशुकम् [], अच्छ. लावण्यलिप्तदिग्मुखेन प्रेखता सललितं पदक्षेपेषु स्थूलपरिमण्डलेनोरुदण्डयुगलेन चण्डपवनप्रेरणादुभयतः प्रच
द्वयस्य, क्षौमपाण्डुभिः पट्टवस्त्रवत्पीतसम्बलित शुक्लवर्णैः, प्रभानिर्गमैः कान्तिनिस्सरणैः, निस्सृतकान्तिभिरित्यर्थः, यानपात्राणां पोतानाम् , अधिकशोभाधानाय अत्यन्तशोभोत्पादनाय, नवान् नवीनान् , सितपटान् श्वेतवस्त्राणि, आसूत्रयन्तमिव समन्ततः सीव्यन्तमिवेत्युत्प्रेक्षा; पुनः श्मश्रुरार्जि चिबुकरोमावलीम्, उद्वहन्तं धारयन्तम्, कीहशीम् ? आसक्तकर्णाभरणपद्मरागरागाम् आसक्तः-संलग्नः, प्रतिविम्बित इत्यर्थः, कर्णाभरणपद्मरागस्य-कर्णालङ्करणभूतरक्तमणेः, रागः-रक्तवर्णो यस्यां तादृशीम् , अत एव अमुक्तोद्भेदकालकपिलिमानमिव अमुक्तः--अत्यक्तः, उद्भेदकाले-मश्रूद्गमकालिकः, कपिलिमा-पिशङ्गिमा यया ताहशीमिवेत्युत्प्रेक्षा, चुनः कोमलाविरलनीरकेशकुण्डलिकालङ्कता कोमला अविरलाः-सान्द्राश्च ये केशाः, तद्रूपाभिः कुण्डलिकाभिः-कुण्डलैः, कुण्डलाकारलम्बितकुटिलकेशरित्यर्थः, अलङ्कृतां शोभिताम् [झ]; पुनः मुक्तासरेण मौक्तिकहारेण, कृतकण्ठपरिवेषं कृतः कण्ठस्य परिवेषः-परिवेष्टनं यस्य तादृशम् , कीदृशेन ? आमलकीफलस्थलमक्ताफलभता आमलकीफलवत्-धात्रीफलवत्, स्थूलानि यानि मुक्ताफलानि-मुक्तामणयः, तेषां धारयित्रा, पुनः सर्वतः सर्वदिक्षु, प्रसृतकिरणविसरेण प्रसृतकान्तिकलापेन, कीरशेन केनेव ? तीरजलगातावलोकनसमयलग्न तीरस्थानां जलानां गाधताया:-अनतिगम्भीरतायाः, अवलोकनसमयेदर्शनवेलायाम् , लग्नेन-सम्पृक्तेन, जलधिफेनस्तबकवलयेनेव समुद्रफेनगुच्छमण्डलेनेवेत्युत्प्रेक्षा [अ] पुनः वक्षःस्थलेन उरःप्रदेशेन, वेलानदीपुलिनपरिणाहं तटवर्तिनदीसैकतदीर्घताम् , आहसन्तमिव तिरस्कुर्वन्तमिवेत्युत्प्रेक्षा, कीदृशेन ? आसक्तमुक्तासरस्फारमहसा आसक्त-संलग्नं, मुक्तासरस्य-मुक्ताहारस्य, स्फार-विस्तृतं, महः-तेजो यत्र तादृशेन, पुनः अतिपृथुलेन अत्यन्तस्थूलेन; पुनः प्रस्तसागरागस्त्यजठरख्यातिदुःखेनेव ग्रस्त:-पीतः, सागरःसमुद्रो येन तादृशस्य, अगस्त्यस्य-अगस्त्यमुनेः, जठरस्य-उदरस्य, ख्यात्या-प्रसिद्ध्या यद् दुःखं तेनेव, क्षीणकुक्षिं कृशोदरम् [2] पुनः आजानुलम्बमांसलबाहुम् आजानु-ऊरुपूर्वपर्यन्तम् , लम्बौ-आयती, मांसलौ-स्थूलौ, बाहू यस्य तादृशम् ; पुनः अति निष्ठुरकरप्रकोष्ठनिहितैकैकहाटककटकम् अतिनिष्टुरे-अत्यन्तकठोरे, करप्रकोष्ठे-मणिबन्धे, निहित-निवेशितम् , एकैकं हाटककटक-सुवर्णवलयं येन तादृशम : पुनः प्रकोष्टकटकेन्द्रनीलकिरणरागेण प्रकोष्ठेमणिबन्धे, यत् कटक-वलय, तत्खचितस्य, इन्द्रनीलस्य-तदाख्यनीलमणेः, किरणरागेण-किरणरूपविलेपनेन, किरणसम्बन्धिनीलवर्णेनेत्यर्थः, अधिजधनं जघनप्रदेशस्थम्, अघनम असान्दै. सक्षम मित्यर्थः. श्वेतचीनांशक श्वेतवर्ण चीनदेशरी वस्त्रम् , भाविसन्ततप्रयाणसुलभमालिन्यलोपनाय भाविना-भविष्यसा, सन्ततप्रयाणेन-अनवरतभ्रमणेन, सुलभ यन्मालिन्यं तस्य लोपनाय-अपनयनाय, लिम्पन्तं व्याप्नुवन्तम् , कीदृशेन तेन ? उभयतः पार्श्वद्वये, प्रसर्पता प्रसरता, पुनः सलीलदोलायमानकरतलोपनीतेन सलील-लीलापूर्वकम् , दोलायमानम्- इतस्ततश्चलनं कुर्वत् यत् करतलं तत् , उपनीतेन-प्रापितेन, केनेव ? नीलीरसेनेव नीली नाम नीलवर्णा ओषधिः, तत्सम्बन्धिरसेनेवेत्युत्प्रेक्षा [3]; पुनः अच्छलावण्यलिप्तदिङ्मुखेन वच्छकान्तिव्याप्तदिगन्तेन, पुनः पदक्षेपेषु पादविक्षेपेषु सत्सु, सललितं सविलासम्, प्रेता प्रचलता, स्थलपरिमण्डलेन स्थूलेन परिमण्डलेन-वतलाकारेण. ऊरुदण्डयगलेन जानूपरिभाग रूपदण्डद्वयेन, चण्डपवनप्रेरणात् उद्धतवाताभिधातात् , उभयतः पार्श्वद्वये, प्रचलितेन्द्रनीलशिलानाङ्गरं प्रच
Page #131
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। लितेन्द्रनीलशिलानाङ्गरमिव प्रियमुकल्पद्रुमपादपदारुपोतम् , अशोकपादपप्रवालमृदुना संततभ्रमणमृदितवेलाविद्रुमाङ्कुररसद्रवानुरञ्जितेनेव स्वभावपाटलेन चरणद्वयेनोद्भासमानम् [ड ], इन्दुकान्ततटलावण्यं ललाटेन शुक्तिसौन्दर्य श्रवणयुगलेन मौक्तिकाकार दन्तकुड्मलैर्विद्रुमरागमोष्ठेन कम्युसौभाग्यं कण्ठेन पुलिनाभोगमुरसा तरङ्गायाम भुजाभ्यामावर्तगाम्भीर्य नाभिमण्डलेन सततयात्रोपमर्दपीडितादर्णवादिवोपचारेण प्राप्तमुपदर्शयन्तम् [6], अनुमार्गलग्गैरनतिदूरवर्तिभिः काककोकिलकलविङ्गकण्ठकालकायैर्मकरैरिवातपं सेवितुमकूपारमध्यादेकहेलया निर्गतैर्मद्गुभिरिव प्रभूतमत्स्याभ्यवहारतृष्णया परित्यक्तपक्षिशरीरैरुरगविषवह्निधूमदण्डैरिव धरामवदार्य रसातलान्निर्यातैश्छायापुरुषैरिव कठोरशरदातपत्रासादेकत्रकृतावासैराशैशवाल्लवणजलराशिसलिलक्षारदग्धतनु
टिप्पन कम्-मद्गुः~-जलवायसः। लवणजलराशिसलिलक्षारदिग्धतनुभिरपि निर्लावण्यैः ये लवणसमुद्रजलक्षारदिग्धदेहास्ते कथं निर्गतलवणभावाः ? अन्यत्र अपगतानचारुत्वाः । नलस्तम्बैरिव जलाशयोपान्तेषु वृद्धि गतैः एकत्र तढागादिपर्यन्तेषु, अन्यत्र जडचित्तसमीपेषु । कैवतैः धीवरैः [ण]।
लितम् , इन्द्रनीलशिलाना इरम्-इन्द्रनीलमणिखचितं 'नांगर' इति प्रसिद्धं प्रवहणोपकरणं यस्य तादृशम् , प्रियङ्कल्पद्रुमपादपदारुपोतमिव प्रियझो:-तत्संज्ञकस्य, कल्पद्रुमस्य-कल्पाख्यदिव्यवृक्षरूपस्य च, पादपस्य-वृक्षस्य, यद् दारु-काष्ठ, तन्मयं पोतं-यानपात्रमिवेत्युत्प्रेक्षा; पुनः कीदृशम् ? चरणद्वयेन पादयुगलेन, उद्भासमानम् उद्दीप्यमानम् , कीहशेन ! अशोकपादपप्रवालमृदुना अशोकाख्यपादपनूतनदलकोमलेन, पुनः कीदृशेन ? स्वभावपाटलेन स्वभावतः श्वेतरावर्णेन, केनेव ? सन्ततभ्रमणमृदितवेलाविद्रुमाररसद्वानुरञ्जितेनेव सन्ततभ्रमणेन-अनवरतविहरणेन, मृदितानापादतलाभिहतानाम्, विट्ठमाराणां-प्रवालाख्यरत्नहेतुवृक्षाकराणाम् , रसदवैः-रसनिष्यन्दैः, अनुरजितेनेव-कृतरजनेनेवेत्यु. स्प्रेक्षा [3], पुनः सततयात्रोपमर्दपीडितात् अनवरतयात्राकृतालोडनेन पीडितात्-सम्मर्दितात् , कृताङ्गमर्दनादित्यर्थः, अर्णवात् समुद्रात् , उपचारेण प्रामृतकरूपेण, प्राप्तं लब्धम् , विशेषणमिदमग्रेऽपि सर्वत्रान्वेति, इन्दुकान्ततटलावण्यं चन्द्रकान्तमणितीरसौन्दर्यम् , चन्द्रकान्तमणीनां प्रभावाही यः समीपप्रदेशः, तत्सौन्दर्यमित्यर्थः, ललाटेनभालस्थलेन, उपदर्शयन्तं प्रकटयन्तम्, पुनः श्रवणयुगलेन कर्णपुटद्वयेन, शुक्तिसौन्दर्य शुक्तिसौष्ठवम् , पुनः दन्तकुड़मलैः दन्तारैः, मौक्तिकाकार मुकामणिस्वरूपम् , पुनः ओष्ठेन विद्रमरागं प्रवालरक्तताम्, युनः कण्ठेन कम्बु. सौभाग्यं शङ्खसौन्दर्यम् , उरसा वक्षसा, पुलिनाभोगं तटस्थलविशालताम् , पुनः भुजाभ्यां बाहुभ्याम् , तरङ्गायाम तरङ्गदीर्घताम् , पुनः नाभिमण्डलेन बर्तलाकारनाभिप्रदेशेन, आवर्तगाम्भीर्य जलभ्रमिगम्भीरताम् , भ्रमजलगम्भीरतामित्यर्थः, उपदर्शयन्तं प्रकाशयन्तम् , विशेषणमिदमनुपदोकनिखिलद्वितीयान्तपदैरन्वेति [8], पुनः कैवतैः धीवरैः, परिवृतं परिवेष्टितम् , कीदृशैः ? अनुमार्गलग्नैः प्रतिमार्गमिलितैः, पुनः अनतिदूरवर्तिभिः किञ्चिन्निकटवर्तिभिः, काक कोकिल कलविङ्क-कण्ठकालकायैः काकः कोकिलश्च प्रसिद्धपक्षिविशेषः, कलावेङ्कः-चटकः, कण्ठकालः-मयूरः, तेषामिव कायः-शरीर येषां तादृशैः, पुनः आतपं सूर्यप्रकाश, सेवितुम् अनुभवितुम् , एकहेलया एकचेष्टाविशेषेण, एकदेत्यर्थः, न तु पर्यायेणेत्यर्थः, अकूपारमध्यात् समुद्रमध्यात्, निर्गतैः निःसृतैः, मकरैरिव नरिवेत्युत्प्रेक्षा, पुनः प्रभूतमत्स्याभ्यवहारतृष्णया प्रचुरमत्स्यबुभुक्षया, परित्यक्तपक्षिशरीरैः पक्षिशरीरं परित्यज्य धृतकैवर्ताकारैः, महुभिरिघ जलवायसैरिवेति चोत्प्रेक्षा, पुनः धरां भूतलम् , अवदार्य उद्भिद्य, रसातलात् पातालमध्यात्, निर्यात निर्गतैः, उरगविषवधूिमदण्डैरिव सर्पविषरूपस्य वडू:-अग्नेः, धूमलेखाभिरिवेति चोत्प्रेक्षा, पुनः कठोरशरदातपत्रासात् तीनशरत्कालिकातपभयात् , एकत्र एकस्मिन् स्थाने, कृतावासैः कृतनिवासैः, छायापुरुषैरिव छायात्मकनरैरिवेति चोत्प्रेक्षा, पुनः आशैशवात् बाल्यादारभ्य, लवणजलराशिसलिलक्षारदग्धतनुभिरपि लवणजलराशेःलवणसमुद्रस्य, सलिलानां-जलानाम्, क्षारेण-क्षाररसेन, दग्धा-गलिता, दिग्धेति पाठे दिग्धा-व्याप्ता, तनुः-शरीर येषा
३५ तिलक.
Page #132
--------------------------------------------------------------------------
________________
२७४
टिप्पनक-परागविवृतिसंवलिता भिरपि निलावण्यैर्नलस्तम्बैरिव जलाशयोपान्तेषु वृद्धि गतैनौभिरप्यन्तेवासिनीभिस्तरणविद्यामियोपशिक्षितुं सर्वदा पादतले लुठन्तीभिरुद्भावितमाहात्म्यैर्नक्रादिजलचरवसाञ्जितलोचनैः कैश्चिदंसावसक्तबडिशवेणुयष्टिभिः कैश्चित् करावलम्बमानबालशफरलुम्बिभिरसंनिहितजालैरपि सर्वतः प्रसृतकालकान्तिपरिगताङ्गतया प्रावृतजालैरिवोपलक्ष्यमाणैः साक्षादसुकृतस्येव विवतः कैवर्तेस्तमालविटपमिव कण्टकद्रुमैः परिवृतं, पञ्चविंशतिवर्षदेशीयं नाविकयुवानमद्राक्षम् []
तस्य च तथाविधं धृतविदग्धोज्जवलवेषमाकारं तादृशं च प्रेतप्रायमालोक्य परिवारमुपजातविस्मयस्तत्क्षणमेव पार्वतो निविष्टमखिलनौसाधनाध्यक्षं यक्षपालिताभिधानममात्यमुद्दिश्य 'कोऽयम्' इत्यपृच्छम् । 'कुमार ! नाविकोऽयं सकलस्यापि कैवर्ततत्रस्यास्य नायकः' इति निवेदिते तेनाश्रद्दधान इव पुनरवदम्-'अत्यन्तविसदृशः कैवतानामाकारेण दृश्यते।' स जगाद-'युवराज ! नाकारेणैव सर्वेणापि प्रकारेण विसदृशोऽयमेषाम् , न वैषामन्येषामपि प्रायेण पुरुषाणां बुद्धिधैर्यवचनवैदग्ध्यादिभिः पुरुषगुणैः । शृणु विना विस्तरेण वर्ण्यमानमस्य पूर्ववृत्तान्तम् [त] । अस्ति सुवर्णद्वीपे मणिपुराभिधाननगरनिवासी बहुमतो राज्ञः पौरवर्गस्य च
www
wwe
तादृशैरपि, निलावण्यैः क्षाररसरहितैरिति विरोधः, तदुद्धारे तु निर्लावण्यैः-शरीरसौन्दर्यरहितैरिति व्याख्येयम् , पुनः जलाशयोपान्तेषु तडागादिपर्यन्तेशु, अन्यत्र डलयोरैक्यात् जडचित्तसमीपेषु च, वृद्धि गतैः प्राप्तैः, नलस्तम्बैरिव नलाख्यतृणकाण्डैरिवेत्युत्प्रेक्षा, पुनः तरणविद्यां तरणकलाम् , उपशिक्षितुम् उपादातुं, सर्वदा सर्वकाले, पादतले चरणतले, लुठन्तीभिः श्लिष्यन्तीभिः, अन्तेवासिनीभिरिव विद्यार्थिनीभिरिव, नौभिरपि नौकाभिरपि, उद्भावितमाहात्म्यैः प्रकटितमाहात्म्यैः, पुनः नक्रादिजलचरवसाजितलोचनैः नकादीनां-मकरादीनाम् , जलचराणां-जलजन्तूनां, वसाभिःभेदोभिः, तद्रूपाञ्जनैरित्यर्थः, अजिते-आकृते, लोचने-नयने येषां तादृशैः, पुनः कैश्चित् कैरपि, अंसावसक्तबडिशवेणयष्टिभिः अंगावसका-स्कन्धलगा, बडिशवेगुयष्टिः-मत्स्य वेधकानविशेषसम्बन्धिवंशदण्डो येषां तादृशैः, पुनः कैश्चित कैरपि, करावलम्बमानबालशफरलुम्बिभिः कर-हस्तम् , अवलम्बमाना-आश्रयमाणा, बालशफराणां-बालमत्स्य विशेषाणां, लुम्बिः-स्तबको येषां तैः, पुनः असंनिहितजालैरपि न विद्यते सन्निहित:-निकटस्थः, जाल:-मत्स्यधारणार्थ बन्धनविशेषो येषां तादृशैरपि, सर्वतः सर्वदिक्षु, प्रसृतकालकान्तिपरिगताङ्गतया विस्तृतकृष्णकान्तिव्याप्ताङ्गतया, प्रावृतजालैरिव परिहितजालैरिव, उपलक्ष्यमाणैः प्रतीयमानः, पुनः असुकृतस्य दुरितस्य, साक्षात् विवतेरिव परिणामभूतैरिवेत्युत्प्रेक्षा, कैः परिवृतं कमिव : कण्टकद्रुमैः कण्टकवृक्षैः, परिवृतं, तमालविटपमिव तमालवृक्षमिवेत्युत्प्रेक्षा [ण] ।
च पुनः, धृतविदग्धोवलवेषं धृतः-गृहीतः, विदग्धः-मनोहरः, उजवलश्च वेषो येन तादृशम् , तथाविधम् उक्तप्रकारम, तस्य नाविकयूनः, आकारं शरीरम्, च पुनः तादृशं तथाविधम, प्रेतप्राय प्रेतमयम्, तस्य, परिवारं परिजनम् , अवलोक्य दृष्ट्वा, उपजातविस्मयः उत्पन्नाश्चर्यः, तत्क्षणमेव तत्कालमेव, पार्श्वतो निविष्टं पार्थोपविष्टम् , अखिलनौसाधनाध्यक्षम् अखिलान-सर्वेषाम् , नौसाधनस्य-नौकासैन्यस्य, अध्यक्ष-नायकम् , अमात्यं मन्त्रिणम् , उद्दिश्य कोऽयम् ! इति अपृच्छत् पृष्टवान् । कुमार! नृपात्मज !, अयं पुरोवर्ती, सकलस्यापि समस्त स्यापि, अस्य कैवर्ततन्त्रस्य धीवरवर्गस्य, नायकः, नाविकः कर्णधारः, इति इत्थं, तेन आमात्येन, निवेदिते बोधिते सति, अश्रधान इव अविश्वसन्निव, पुनः अवदम् उक्तवान् अस्मि, किमित्याह-आकारेण शरीरेण, कैवर्तानां धीवरजातीयानाम् , अत्यन्तविसहशः अत्यन्तविरूपः, रश्यते प्रतीयते, सः अमात्यः, जगाद उवाच, आकारेणेव आकारमात्रेण, न, किन्तु सर्वेणापि सकलेनापि, प्रकारेण, अयं पुरोवर्तिजनः, एषां कैवर्तानां, विसरशः विलक्षणःः, न च एषाम् एषामेव कैवर्तानामेवेत्यर्थः, किन्तु प्रायेण बाहुल्येन, अन्येषामपि एतद्व्यतिरिक्तानामपि पुरुषाणाम् , बुद्धिधैर्य वच दग्ध्यादिभिः बुद्धिः-तारकालिकमतिः, धर्य-धीरता, वचनवैदरभ्य-वचनचातुर्य, तत्प्रभृतिभिः, पुरुषगुणैः, विसदृश इति शेषः, विना विस्तरेण संक्षेपेण, वर्ण्यमानं मयोपाख्यायमानम् , अस्य पूर्ववृत्तान्तं पुरातनवृतम् , शृणु श्रवणगोचरीकुरु [त] । किमित्याह-सुवर्णद्वीपे तदाख्यद्वीपविशेषे, मणिपुराभिधाननगरनिवासी तदाख्यनगरवास्तव्यः,
Page #133
--------------------------------------------------------------------------
________________
२७५
तिलकमञ्जरी। प्रवीणः किमपि लोकयात्रायां सांयात्रिकवणिग् वैश्रवणो नाम । तस्य सर्वदा देवद्विजातिश्रमणगुरुशुश्रूषापरस्य निजभुजार्जितं पूर्वपुरुषोपार्जितं च प्राज्यमर्थमर्थिजनैः सुहृद्भिर्वान्धवैर्विद्वद्भिश्च भुक्तशेषमुपभुञ्जानस्य पश्चिमे वयसि वसुदत्ताभिधानायां गृहिण्यामपश्चिमः सर्वापत्यानां तारको नाम दारकः समुदपादि [थ ] । स रूपसंपदा तुलितसुरकुमारः कौमार एव यथाविधिश्रुतशास्त्रः कलासु कृतश्रमः क्रमागतमशेषपुरुषार्थसंपत्तिपात्रमभिनवमधिरुह्य यौवनं यानपात्रं च गृहीतप्रचुरसारभाण्डैर्भूरिशः कृतद्वीपान्तरयात्रैः सहकारिभिरनेकैः सांयात्रिकैरनुगम्यमान इमामेव नगरी रङ्गशालामागच्छत् [द] । आयातमात्रस्य च तस्य विविधानिबद्धनगरलोकसंपातपरिहाराय विघुलावकाशे जलराशिपरिसरे समावासितस्य समीपवासिना सकलकैवर्तकुलनायकेन जलकेतुनाम्ना कर्णधारेण साधं कथश्चित् सख्यमजनि । परस्परोपचारकर्मणा च प्रौढिमुपगते तत्र कदाचिदारूढनवयौवना त्रिदशवनितेव शापदोषानिपतिता मनुष्यलोके निकामकमनीयदर्शना प्रियदर्शना नाम
टिप्पनकम्-अशेषपुरुषार्थसंप्राप्तिपात्रं यौवनं पात्रं च-एकत्र सर्वधर्मार्थकामप्राप्तिभाजनम् , अन्यन्त्र सर्वपुरुषद्रव्यसंस्थापनम् [द ] ।
राक्षः नृपस्य, च पुनः, पौरवर्गस्य पुरवासिवृन्दस्य, बहुमतः परमाभिमतः, पुनः लोकयात्रायां लोकव्यवहारे, किमपि अवर्णनीयः, प्रवीणः दक्षः, वैश्रवणः तदाख्यः, सांयात्रिकवणिक पोतवणिक, अस्ति विद्यते, मामेति वाक्यालङ्कारे, तस्य वैश्रवणस्य, पश्चिमे वयसि वार्धक्यावस्थायाम् , वसुदत्ताभिधानायां वसुदत्तानान्यां, गृहिण्यां भार्यायाम् , सर्वापत्यानां सर्वसन्तानानाम्, अपश्चिमः उत्कृष्टः, चरमो वा, तारकः तत्संज्ञकः, दारकः सुतः, समद नामेति वाक्यालङ्कारे, कीदृशस्य तस्य ? देव-द्विजाति-श्रमण-गुरुशुश्रूषापरस्य देवाः-प्रसिद्धाः, द्विजातयः-द्विजाः, श्रमणाः-साधवः, गुरुः-धर्मोपदेशकः, तेषां शुश्रूषा-परिचर्या, तत्परस्य-तल्लमहृदयस्य, पुनः निजभुजार्जितं खबाइपार्जितं, च पुनः, पूर्वपुरुषोपार्जितं खपूर्वजजनोपार्जितम् , प्राज्य-प्रचुरम् , अर्थ धनम् , अर्थिजनैः याचकजनैः, सुहृद्भिः मित्रजनैः, बान्धवैः बन्धुजनैः, विद्वद्भिश्च विद्वजनैश्च, भुकशेषम् उपभुक्तावशिष्टम् , उपभुज्ञानस्य [थ]। रूपसम्पदा खरूपसम्पत्त्या, तुलितसुरकुमारः उपमितदेवकुमारः, स तारकः, कौमार एव बाल्यकाल एव, यथावि. धिश्रुतशास्त्रः यथाविधि-विध्यनुसार, श्रुतं-श्रवणगोचरीकृतम् , अधीतमिति यावत् , शास्त्रम्-आगमो येन तादृशः, पुनः कलासु शिल्पविद्यासु, कृतश्रमः कृतव्यवसायः, क्रमागतं शैशवादिक्रमेण पक्षे पितृपितामहादिक्रमेणोपनतम् , अशेषपुरुपार्थसंप्राप्तिपात्रम् अशेषाणां-समस्ताना, पुरुषार्थानां-धर्मार्थकाममोक्षरूपाणां, पक्षे अशेषाणां पुरुषाणां-खपूर्वजपुरुषाणां, या अर्थसंप्राप्तिः-धनप्राप्तिः, तस्याः पात्र-संस्थानम, अभिनवं नवीनं, यौवनं युवावस्थां च पुनः, यानपानं पोतं च, अधिरुह्य आरुह्य, गृहीतप्रचुरसारभाण्डैः गृहीतानि, प्रचुराणि-विपुलानि, सारभाण्डानि-श्रेष्ठभाजनानि दृढभाजनानि धनपात्राणि वा यस्तैः, भूरिशः बहुशः, कृतद्वीपान्तरयात्रैः विहितान्यद्वीपप्रयागः, सहकारिभिः सहकारिभूतैः, अनेकैः बहुभिः, सांयात्रिकैः पोतवाणिग्भिः, अनुगम्यमानः अनुत्रियमाणः, इमामेव प्रत्यक्षभूतामेव, रङ्गशालां तदाख्यां नगरीम्, आगच्छत आगतवान् [द च पुनः, आयातमात्रस्य आगतमात्रस्य, विविधानिबद्ध सम्पातपरिहाराय विविधाः-बहुविधाः, अनिबद्धाः-अनियन्त्रिताश्च, ये नगरलोकाः-नगरवास्तव्यजनाः, तेषां सम्पातस्यसमागमस्य, परिहाराय-परिवर्जनाय, विपुलावकाशे प्रचुरावकाशान्विते, जलराशिपरिसरे समुद्रकच्छप्रदेशे, समावासितस्य सम्यनिवासितस्य, तस्य तारकाख्यकुमारस्य, समीपवासिना निकटवास्तव्येन, सकलकैवर्तकुलनायकेन समस्तधीवरकुलश्रेष्ठेन, जलकेतुनाना, कर्णधारेण नाविकेन, साध साकम् , कथञ्चित् कथमपि, सख्यं मैत्री, समजनि सम्यगभूत् । तत्र तस्मिन् , सख्य इत्यर्थः, परस्परोपचारकर्मणा पारस्परिकसत्कारात्मककार्यद्वारा, प्रौढिं पूर्णरूपताम् , उपगते प्राप्ते सति, कदाचित् कस्मिंश्चित् समये, आरूढनवयौवना प्राप्ताभिनवतारुण्या, शापदोषात् कस्यापि शापरूपात्-अशुभाशंसनरूपात् , दोषात्, मनुष्यलोके मर्त्यभुवने, निपतिता अवतीर्णा, त्रिदशवनितेव देवाहनेव,
Page #134
--------------------------------------------------------------------------
________________
२७६
टिप्पनक-परागविकृतिसंवलिता तस्य जलकेतोः सुता सुतारवृत्तमौक्तिकप्रकल्पितं हारमादाय पितुराज्ञया गता तद्गृहम् [५] । दृष्टश्च स तथा प्रथमदर्शन एव रूपातिशयदर्शनारूढदृढतरानुरागया, सस्पृहमुपनीतोपायना च स्थित्वा कश्चित् कालं कृतप्रत्युपपारा तेन पुनर्गता स्वसदनम् , अनुरागप्रेरिता च तद्दर्शनाशया तैस्तैर्व्यपदेशैरागन्तुमारब्धा प्रतिदिनम् [न] ।
एकदा तु तदीयसौधशिखरशालायां सख्या सह क्रीडन्त्याः कथञ्चित् सविधमागतोऽसौ, तद्दर्शनोपारूढसाध्वसा च सत्वरं ब्रजन्ती वेपथुविशृङ्खलैः पदैः परिस्खलिता कुट्टिमतले, पतन्त्याश्च तस्याः सोपानपथसंनिधौ सत्वरमुपेत्य तेनावलम्बितः प्रवाल इव बालवनलतायाः करिकलभकेन स्निग्धसुकुमारसरलारुणाङ्गुलिदक्षिणः पाणिः, प्रयुक्तपाणिना च मधुरमभिहिता स्मितमुखेन- 'सुमुखि! किमिदं समेऽपि स्खलनम् , अलममुना संभ्रमेण, संवृणु क्षोभविगलितस्तनांशुकमस्थान एव विसंस्थुलीभूतमात्मानं, गच्छ गेहम्' इति [प]। सा तु तत्करप्रणसमकालमेवोत्थितेन सरभसाकृष्टधनुषा कुसुमसायकेन कृतसाहायकेनेव दूरमपसारितसाध्वसा
निकामकमनीयदर्शना अत्यन्तप्रियदर्शना, प्रियदर्शना तदन्वर्थसंज्ञिका, तस्य जलकेतोः तदाख्यकर्णधारस्य, सुता कन्यका, सुतारवृत्तमौक्तिककल्पितं सुतारैः-विशुद्धः, वृत्तैः-वर्तुलाकारैश्च, मौक्तिकैः-मुक्तामणिभिः कल्पितं-निर्मितं, हारं माल्यम्, आदाय गृहीत्वा, पितुः जलकेतोः, आक्षया आदेशेन, तद्गृहं तस्य-तारकाख्यकुमारस्य, गृह, गता गतवती [ध] । च पुनः, प्रथमदर्शन एव प्रथमावलोकनकाले एव, रूपातिशयदर्शनारूढदृढतरानुरागया रूपातिशयस्य - रूपोत्कर्षस्य, दर्शनेन आरूढः-उत्पन्नः, दृढतरः-अतिदृढः, अनुरागः-प्रीतिर्यस्यास्तादृश्या, तया प्रियदर्शनया, स . तारकः, दृष्टः दृष्टगोचरीकृतः । च पुनः, सस्पृहं सानुरागम् , उपनीतोपायना उपाहतोपहारा, कश्चित् कियन्तं कालं स्थित्वा, तेन कुमारेण, कृतप्रत्युपचारा विहितप्रतिसत्कारा सती, पुनः स्वसदनं खगृहं गता; च पुनः, अनुरागप्रेरिता तत्प्रीतिप्रवर्तिता सती, तदर्शनाशया तदवलोकनाकाझ्या, तैस्तैः व्यपदेशैः व्यवहारैः छलैनिमित्ता, प्रतिदिनम् , आगन्तुं तद्गृहमुपस्थातुम् , आरब्धा प्रवृत्ता [न]
एकदा तु एकस्मिन् काले तु, तदीयसौधशिखरशालायां तारकीयप्रासादशिखरवर्तिभवने, सख्या खवयस्यया सह, क्रीडन्त्याः खेलन्त्याः , प्रियदर्शनाया इति शेषः, सविधं समीपम् , असौ तारकः, कथञ्चित् केनापि प्रकारेण, आगतः उपस्थितः। तहर्शनोपारूढसाध्वसा तद्दर्शनेन-तारकावलोकनेन, आरूढम्-उत्पन्नं, साध्वसं-भयं यस्यास्तादृशी सती, सत्वरं शीघ्रं, ब्रजन्ती अपसरन्ती, वेपथुविशृङ्खलैः कम्पनविघटितैः, पदैः चरणैः, तद्विक्षेपैरित्यर्थः, कुट्टिमतले मणिबद्धभूतले, परिस्खलिता निपतितुं प्रवृत्ता । पतन्त्याः स्खलन्त्याः, तस्याः प्रियदर्शनायाः, दक्षिणः वामेतरः, पाणिः हस्तः, तेन तारकेण, अवलम्बित: गृहीतः। कीदृशः स्निग्धसुकुमारसरलारुणालिः निग्धाःसरसाः, न तु रूक्षा इत्यर्थः, सुकुमारा:-कोमलाः, सरलाः-ऋजवः, अरुणाः-रक्तवर्णाश्च, अञ्जलयो यस्मिंस्तादृशः, किं कृत्वा ? सोपानपथसन्निधौ सोपानमार्गसमीपे, सत्वरं शीघ्रम् , उपेत्य आगत्य, केन क इव ? करिकलभकेन हस्तिशिशुना, बालवनलतायाः बनस्थवाललतायाः, प्रवाल इव पल्लव इव 1 च पुनः, प्रयुक्तपाणिना प्रयुक्तःअवलम्बनाय प्रहितः, पाणिः-करो येन तादृशेन, तारकेणेति शेषः, स्मितमुखेन मन्दहासान्वितमुखेन, मधुरं यथा स्यात् तथा, अभिहिता उक्ता, प्रियदर्शनेति शेषः, किमित्याह-सुमुखि! सुन्दरवदने !, समेऽपि अविषमस्थलेऽपि, इदं प्रत्यक्षभूतं, स्खलनं पतनम् , किं? किंहेतुकम् , अमना तरकारणभूतेन, सम्भ्रमेण भयजन्यसंक्षोभेण, अलं व्यर्थम्, क्षोभविगलितस्तनांशुकं क्षोभेण-सम्भ्रमेण, विगलितं-स्खलितं, स्तनांशुकं-स्तनावरणभूतवस्त्रं यस्य तादृशम् , पुनः अस्थान एव अनवसर एव, विसंस्थूलीभूतं—विक्षिप्तं, विह्वलीभूतमित्यर्थः, आत्मानं खम् , संवृणु उपसंहर, प्रकृतिस्थं कुरु इत्यर्थः, गेहं खगृह, गच्छ याहि, ई
ह, हात [प]। सा तु प्रियदर्शना तु, तत्करग्रहणसमकालमेव तारककरग्रहणसमकालमेव, उस्थितेन उद्गतेन, सरभसाकृष्टधनुषा सरभसं-सत्वरम् , आकृष्टम्-आततं, धनुर्येन तादृशेन, पुनः कृतसाहाय्यकेन कृतसहायताकेन, कुसुमसायकेनेव कामदेवेनेव, यद्वा कुसुमसायकेन कृतं यत् साहाय्यक-साहाय्यं तेनेव, दूरं दूरदेशम् ,
Page #135
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२७७
सविभ्रमोल्लासितैकवा गुरुणेव नवानुरागेण कारितप्रगल्भकलालापपरिचया चिरकाललब्धावसरया विदग्धसख्येव तत्समागमतृष्णया स्थापिता स्वयं दूतीव्रतविधौ निसर्गमुग्धापि प्रौढयनितैव किश्चिद् विहस्य वचनमिदमुदीरितवती फि]। 'कुमार! त्वया गृहीतपाणिः कथमहं विसंस्थूलीभूतमात्मानं संवृणोमि, कथं च गेहादितो गृहान्तरं गच्छामि, सांप्रतमिदमेव मे त्वदीयं सदनमाश्रयः संवृत्तः' इत्युक्त्वा पावनतवदना पुरःप्रसृतधवलनखमयूखोयोतया तदीयवक्रालापनवणजातहासयेव बामचरणामुष्ठलेखया मन्दमन्दमलिखत् कुट्टिमम् [व] । असावपि युवा तेन तस्याः स्मरविकारदर्शनेन, तेन तत्कालमतिशयस्पृहणीयतां गतेन रूपलावण्यादिगुणकलापेन, तेनामृतस्यन्दशीतलेन करतलस्पर्शेन, तेन च प्रकटितानुरागेण, निपुणया वचनभङ्गया कृतेनात्मसमर्पणेन परमरस्त [भ]।
सहासवदनश्च मन्दमाश्लिष्य तामानन्दमुकुलायमानलोचनोत्पला परिघट्य च कपोलोदरे कपोलेन 'सुन्दरि! यदि न यातव्यं गृहान्तरमिति निश्चयस्ते, ततः किम् ? एकेन गृहेण, द्रविणसंग्रहो रत्नानि
अपसारितसाध्वसा निष्कासितभया, पुनः गुरुणेव शिक्षकेणेव, सविभ्रमोल्लासितैकभ्रुवा सविभ्रम-सविलास यथा स्यात् तथा, उल्लासिता-उन्नमिता, एका भ्रूः-नेत्रोर्ध्वरोमर जिर्येन तादृशेन, नवानुरागेण नूतनप्रणयेन, कारितप्रगल्भकलालापपरिचया कारितः-जनितः, प्रगल्भकलालापाना-प्रतिभान्वितमधुरालापानाम् , परिचयो यस्यास्तादृशी सती, पुनः विदग्धसख्येव निपुणवयस्ययेव, चिरकाललब्धावसरया दीर्घकालप्राप्तावसरया, तत्समागमतृष्णया तारकसमागमनेच्छया, स्वयम् आत्मनैव, दूतीव्रतविधौ दूतीनियमानुष्ठाने, स्थापिता नियुक्ता, निसर्गमुग्धाऽपि प्रकृत्याऽप्रगल्भापि, प्रौढवनितेव प्रगल्भनायिकेव, किञ्चित् ईषत् , विहस्य हासं कृत्वा, इदम् अनुपदमन्द्यमान वचनम् , उदीरितवती उक्तवती [फ], किमित्याह-कुमार! तारक ! त्वया भवता, गृहीतपाणिः कृतपाणिग्रहणा, अहम् , विसंस्थूलीभूतं विक्षिप्तम् , आत्मानं खं, कथं केन प्रकारेण, संवृणोमि उपसंहरामि, च पुनः, इतः
मात . भावत्कादित्यर्थः गेहात गृहात, रोहान्तरं गृहान्तरे, कथं केन प्रकारेण, गच्छामि उपसरामि, त्वदीयं भवदीयम् , इदमेव प्रत्यक्षभूतमेव, सदनं गृहम् , साम्प्रतम् अधुना, आश्रयः मम शरणं, संवृत्तः सम्पनः, इत्युक्त्वा इति कथयित्वा, पावनतवदना लजाऽधोमुखी सती, तदीयवकालापश्रवणजातहासयेव प्रियदर्शनावक्रोक्तिश्रवणोत्पन्नहासयेव, पुराप्रसृतधवलनखम तया पुर:-अने, प्रसृतः-प्रकीर्णः, धवलनखानाशुभ्रनखानां, मयूखरूपः-किरणरूपः, उद्द्योतः-प्रकाशो यस्यास्तादृश्या, वामचरणानुष्ठलेखया वामपादाहुष्ठलेखया, कुट्टिमं मणिबद्धभूमिम् , अलिखत् लिखितवती [4]। असावपि सोऽपि, तारकोऽपीत्यर्थः, युवा तरुणपुरुषः, सेन तदानीन्तनेन, तस्याः प्रियदर्शनायाः, सरविकारदर्शनेन कामविकारानुभवेन, पुनः तत्कालं तत्क्षणम् , अतिशय स्पृहणीयताम् अत्यन्तकमनीयताम् , गतेन प्राप्तेन, तेन अनुभूतेन, रूपलावण्यादिगुणकलापेन रूपसौन्दर्यादिगुणगणेन, पुनः अमृतस्यन्दशीतलेन स्पन्दमानामृतसदृशशीतलेन, तेन अनुभूतेन, करतलस्पर्शेन हस्ततलाश्लेषेण, च पुनः, प्रकटितानुरागेण प्रकटितः-अभिव्यक्तः, अनुरागः-प्रीतियन तादृशेन, निपुणया प्रागल्भ्यपूर्णया, वचन भल्या वचनरचनाविशेषेण, कृतेन, तेन अनुभूतेन, आत्मसमर्पणेन आत्मनः-खस्य, अधीनीकरणेन, परम् अत्यन्तम्, अरस्त अप्रीयत [भ]।
च पुनः, सहासवदनः हसितमुखः सन् , आनन्दमुकुलायमानलोचनोत्पलाम् आनन्देन मुकुलायमानेसंकुचन्ती, लोचनोत्पले-नयनकमले यस्यास्तादृशीम् , तां प्रियलोचनाम् , मन्दं किञ्चित् , आश्लिष्य आलिङ्गय, च पुनः, कपोलोदरे गण्डस्थलमध्यभागी, कपोलेन गण्डस्थलेन, परिचय संश्लिष्य.सन्दरि! मनोहारिणि । यदि न्तरम् अन्यगृहम् , न यातव्यं गन्तव्यम् , इति निश्चयः संकल्पः, अस्तीति शेषः, ततः तर्हि, एकेन एकमात्रेण, गृहेण गृहमात्रवस्तुना, किं न किमपि स्यादित्यर्थः, किन्तु द्रविणसंग्रहः धान्यादिराशिः, रत्नानि मौक्तिकहीरकादीनि, वाहनानि
Page #136
--------------------------------------------------------------------------
________________
३७८
टिप्पनक- परागविवृतिसंवलिता
"
वाहनानि परिजनः शरीरं हृदयमिन्द्रियाणि प्राणाः सर्वमेव त्वदीयम् एतदारोपय स्वेनाङ्गीकारेण गौरवम्' इत्युदीर्य " दुष्कुलादपि प्राह्यमङ्गनारत्नम्" इत्याचार्यवचनं मनसि कृत्वा स्वजातिनिरपेक्षस्तत्रैव क्षणे ज्वलन्तमन्तर्मदनानलं साक्षीकृत्य भूयो गृहीतपाणिस्तां चकितमृगशावलोचनामत्यन्तमनुरागान्धां योजनगन्धामिव पाराशरः प्रणयिनीमकृत [म] । तस्माच्च पाणिग्रहणदिवसादारभ्य निर्भरानुरागस्तया सर्वाङ्गसुन्दर्या सह विवमानविविधविदग्धपरिहासमश्रान्त चित्रचाटुक्रममप्रकटितस्वस्वामिभावमल्पक्षणोपजायमानाने ककोपप्रसादस्थानसंपाद्यमानस्पृहणीय निग्रहानुग्रह मनु दिवसमा सेवमानो नवयौवनोपभोगमुपभोगसुखमपर कामिनीसुरतसंभोगानां गृहव्यापारयोगानां च प्रायच्छदुदकाञ्जलिम् [य] । जलकेतुना कस्यापि सांयात्रिकस्य तनया वनभङ्गे सागरादुद्धृत्य परिपालितेयमिति तत्त्ववेदिभिरावेदिततदीयवृत्तान्तोऽपि सहागतैर्वणिग्भिः स्वदेशगमनाय पुनः पुनरभ्यर्थ्यमानोऽपि दर्शनोत्कण्ठितेन ज्ञातिवर्गेण सोपालम्भवचनैः संदेशदानैरुन्मनीक्रियमाणोऽपि त्रपया स्थितोऽत्रैव न गतो निजस्थानम्, आस्थानभूमौ उपगतश्च द्रष्टुमाकृतिगुणाकृष्टचेतसा देवेन
www.www
गजाश्वादीनि, परिजनः परिवारः, शरीरं मदीयगात्रम्, हृदयम् अन्तःकरणम्, इन्द्रियाणि ज्ञान- कर्मसाधनानि नयनइस्तादीनि, प्राणाः - जीवितम् एतत् सर्वं त्वदीयं भवदीयम्, खेन खकीयेन, अङ्गीकारेण स्वीकारेण, गौरवं महत्त्वम्, आरोपय आपादय, इति इत्थम्, उक्त्वा, अङ्गनारत्नं, दुष्कुलादपि - नीचकुलादपि, ग्राह्यं गृहीतव्यम्, इति आचार्यवचनं नीतिमार्गोपदेशवाक्यम्, मनसि हृदये, कृत्वा प्रमाणीकृत्य, स्वजातिनिरपेक्षः पाणिग्रहणे खसाजात्यनपेक्षः, तत्रैव तस्मि नेष, क्षणे, अन्तः अन्तःकरणे, ज्वलन्तं दीप्यमानं, मदनानलं कामदेवाभिम्, साक्षीकृत्य पाणिग्रहणसाक्षिभावेनाश्रित्य भूयः पुनरपि गृहीतपाणिः गृहीतप्रियदर्शनाहस्तः सन्, चकितमृगशावलोचनां चकितः - सम्भ्रान्तो यो मृगशावःहरिण शिशुः, तस्येव, लोचने - नयने यस्यास्तादृशीम्, पुनः अनुरागान्धां प्रणयान्धाम्, तां प्रियदर्शनाम्, पाराशरः पराशरासमजो व्यासः, योजनगन्धामिव अन्वर्थ तदाख्य कैवर्त कन्यकामिव प्रणयिनीं प्रियाम्, स्ववधूमित्यर्थः, अकृत कृतवान् [म] 1 च पुनः तस्मात् पाणिग्रहण दिवसात् विवाहृदिनात् आरभ्य निर्भरानुरागः सान्द्रत्नेहः सन् सर्वाङ्गसुन्दर्या सर्वाङ्गमनोज्ञया, तया सह उपभोगसुखं सुरतसम्भोगप्रधानकम्, नवयौवनोपभोगं नवयौवन सुखम् अनुदिनं प्रतिदिनम्, आसेवमानः सम्यगनुभवन्, अपर कामिनीसुरतसम्भोगानां तदन्यवनितारतिसुखानाम्, च पुनः, गृहव्यापारयोगानां गृहकार्यसम्बन्धानां च उदकाञ्जलिं तिलाञ्जलिं प्रायच्छत् प्रदत्तवान् त्यागं कृतवानित्यर्थः कीदृशं नवयौवनोपभोगम् ? विवर्धमान विविधविदग्धपरिहासं विवर्धमानाः- विशेषेण वर्धमानाः, विविधाः -- अनेकविधाः, विदग्धाः - चमत्कृतिपूर्णाः, परिहासा यस्मिंस्तादृशम्, पुनः अश्रान्त चित्रचाटुक्रमम् अश्रान्तः - अनवरतः, चित्रचाटूनविचित्र मधुरवचनानाम्, क्रमः- धारा यस्मिंस्तादृशम् पुनः अप्रकटितस्वस्वामिभावम् अप्रकटितः - अप्रकाशितः, स्वस्वामिभावः - ईशितव्येशितृभावो यस्मिंस्तादृशम् पुनः अल्पक्षणोपजायमानानेककोपप्रसादम् अल्पक्षणं- कतिपयक्षणाभ्यन्तरे, उपजायमानाः - उत्पद्यमानाः, अनेके - विविधाः, कोपाः- प्रणयक्रोधाः प्रसादाः - प्रसन्नताश्च यस्मिंस्तादृशम् पुनः अस्थानसम्पाद्यमानस्पृहणीयनिग्रहानुग्रहम् अस्थाने - अनवसरे, सम्पाद्यमानौ - क्रियमाण, स्पृहणीयौ - किञ्चित् कालिकत्वेन रमणीयौ, निग्रहानुग्रह-बन्धमोक्षौ यस्मिंस्तादृशम् [य] | कस्यापि सांयात्रिकस्य पोतवणिजः, इयं तनया कन्या, वहनभङ्गे तदीयपोतभमतायां सत्याम्, सागरात् समुद्रात् उद्धृत्य निष्कास्य, जलकेतुना तदाख्य कैवर्तेन, परिपालिता रक्षिता इति, तत्त्ववेदिभिः यथार्थज्ञातृभिः, आवेदिततदीयवृत्तान्तोऽपि विज्ञापितप्रियदर्शनासम्बन्धि वार्ताकोऽपि पुनः सहागतैः आत्मना साकमागतैः, वणिग्भिः वाणिज्यवृत्तिकैः स्वदेशगमनाय खदेशप्रत्यावर्तनाय, पुनः पुनः वारंवारम् अभ्यर्थ्यमानोऽपि प्रार्थ्यमानोऽपि पुनः दर्शनोत्कण्डितेन तदवलोकनोत्सुकेन, ज्ञातिवर्गेण बन्धुवर्गेण, सोपालम्भवचनैः साक्षेपवाक्यैः, सन्देशदानैः स्वविज्ञप्तिप्रेषणैः, उन्मनीक्रियमाणोऽपि गन्तुमुत्सुकीक्रियमाणोऽपि, त्रपया लज्जया, अत्रैव अस्मिन्नेव स्थाने, स्थितः, निजस्थानं स्वस्थानम्, न गतः च पुनः, आस्थानभूमौ राजसभाभूमौ द्रष्टुम् अवलोकितुम्, उपगतः उपस्थितः, आकृतिगुणाकृष्टचेतसा आकृतिगुणेन - आकार
Page #137
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२७९
चन्द्रकेतुना निर्वर्ण्य सुचिरं परिजनादाकर्णिततदीयपूर्वापरवृत्तान्तेन चापलं प्रति पुनः पुनः सपरिहासमा - भाषितो मधुरमारोपित बहुमानश्च जामातृप्रतिपत्त्या दत्त्वा जीवनमतिप्रभूतं कृतः प्रभुरखिलस्यापि नाविकतन्त्रस्य [र] । तत्र च कुर्वताधिपत्यमचिरेणैव शिक्षितानेन सकलापि नौ प्रचारविद्या, विदितमखिलमपि कर्णधाराणां कर्म, कृतानि बहुकृत्वः सलिलराशौ गमनागमनानि दृष्टा दूरविप्रकृष्टा अपि द्वीपान्तरभूमयः, प्रत्यक्षीकृताः क्षुद्रा अपि जलपथाः, लक्षितानि तेषु सम्यक्समविषमस्थानानि, किंबहुना, स्वल्पेनापि कालेन जातः स सकलस्यापि कर्णधारचक्रस्य धौरेयः स चायमेवाधार्यां धीरेण [ल ] |
अस्य हि किमपि लोकोत्तरं धैर्यम्, असाधारणः सत्त्वावष्टम्भः, दृष्टान्तभूतं पौरुषम् ; ईषदपि न स्पृष्ट एष कैवर्तकुल संपर्क दोषाशङ्किनेव वणिग्जातिसहभुवा भीरुत्वेन; वीर्यमपि शारीरमविचार्यमस्य; जलधिमध्यमनन समुद्धरणेष्वनेकशः कवलितोऽपि हर्म्यतलप्रणालसलिलनूर इव हेलया निष्क्रामति मकरमुखतः; कोलालितशीर इव करटभित्तिमाहत्य हरति मदमुदकायानामपि करियादसाम्, मुखान्तरक्षिप्तदुन्दुभ
टिप्पनकम् - मकरमुखतः जलचर विशेषवक्त्राद्, अन्यत्र मकरमुखप्रणालात् । हरति मदम् एकत्र मदंमत्तताम्, अन्यत्र दर्पम् । दुन्दुभः - जलसर्पः । प्रकृष्टजाङ्गुलिक इव न मुह्यति विषमोदकविपत्सु एकत्र रौद्रजलापत्सु, अन्यत्र विषमिश्रणजलालुकापरसु, जाङ्गुलिकः - विषवैद्यो गाडिको वा [ व ] ।
सौष्ठवेन, आकृष्टं चेतो-हृदयं यस्य तादृशेन, देवेन राज्ञा चन्द्रकेतुना, सुचिरं सुदीर्घकालम्, निर्वर्ण्य दृष्ट्वा, परिजनात् परिवार सकाशात्, आकर्णिततदीय पूर्वापर वृत्तान्तेन श्रुततदीयसमप्रवार्ताकेन, चापलं प्रति परिणयनविषयकचाञ्चल्यविषये, सपरिहासं परिहासपूर्वकम् मधुरं प्रियं यथा स्यात् तथा, आभाषितः उक्तः च पुनः, जामातृप्रतिपत्त्या जामातृवुद्ध्या, आरोपित बहुमानः कृतप्रचुर सम्मानः, अतिप्रभूतम् अत्यधिकम् जीवनं जीविकाम्, दत्त्वा, अखिलस्यापि समग्रस्यापि नाविकतन्त्रस्य कर्णधारगणस्य, प्रभुः नायकः, कृतः [र]। च पुनः तत्र कर्णधारगणे, आधिपत्यं प्रभुत्वम् कुर्वता स्थापयता, अनेन तारकेण, सकलापि समप्रापि, नौप्रचारविद्या नौवहनकला, शिक्षिता अधिगता, पुनः अखिलमपि समप्रमपि, कर्णधाराणां नाविकानां कर्म कार्यम्, विदितं परिचितम् पुनः सलिलराशौ समुद्रे, बहुकृत्वः बहुवारम्, गमनागमनानि कृतानि पुनः दूरविप्रकृष्टा अपि अतिदूरस्थिता अपि द्वीपान्तरभूमयः अन्यद्वीपभूमयः, दृष्टाः दृष्टिगोचरीकृताः, पुनः क्षुद्रा अपि लघवोऽपि, जलपथाः जलमार्गाः, प्रत्यक्षीकृताः दृष्टिगोचरीकृताः, पुनः तेषु जलपथेषु, समविषमस्थानानि समानि - अनिम्रोन्नतानि विषमाणि निम्नोन्नतानि च, स्थानानिस्थलानि, सम्यक् अत्यन्तम्, लक्षितानि परिचितानि किं बहुना किमधिकेन । स तारकः स्वल्पेनापि अल्पेनापि, कालेन सकलस्यापि समप्रस्यापि, कर्णधारचक्रस्य नाविकगणस्य, धौरेयः अग्रणीः, जातः सम्पन्नः, स च तारकथ, अयमेव प्रत्यक्षं दृश्यमान एव, धीरेण प्राज्ञेन, अवधार्यतां निश्चीयताम् [ल ] | हि निश्चयेन, अस्य तारकस्य, लोकोत्तरं लोकोत्कृष्टम्, धैर्य धीरत्वम्, पुनः असाधारणः उत्कृष्टः सत्त्वावष्टम्भः बलावलम्बः बलाभिमान इत्यर्थः, यद्वा सवानां जन्तूनामाक्रमणम्, पुनः दृष्टान्तभूतम् आदर्शभूतम्, पौरुषं पराक्रमः । पुनः एषः अयम् भीरुत्वेन भयशीलत्वेन, ईषदपि किञ्चिदपि न स्पृष्टः कृतस्पर्शः कीदृशेन ? वणिग्जाति सहभुवा वैश्यजातिसहजेन, कीदृशेनेव ? कैवर्त कुल सम्पर्कदोषाशङ्किनेव कर्णधारकुलसम्पर्कजन्यकलङ्कशङ्कावतेव । अस्य शारीरं शरीरसम्बन्धि, वीर्य सामर्थ्यमपि, अविचार्यम् अनाकलनीयम् । जलधिमध्यमन्ननौसमुद्धरणेषु जलधिमध्ये समुद्रमध्ये ममानां नाव, समुद्धरणेषु ततो निष्कासनकार्येषु, कवलितोऽपि मकरभक्षितोऽपि, हर्म्यतलप्रणालसलिलपूर इव प्रासादतलस्थितप्रणालिकास्थजलप्रवाह इव, मकरमुखतः जलचरविशेषमुखमार्गतः, अन्यत्र तदाकृति प्रणालमुखाभ्यन्तरात्, हेलया खेलया, अनायासेनेत्यर्थः, निष्क्रामति निःसरति । पुनः कराम्रोलालितशीकर हव करामेण - शुण्डाप्रभागेन, उल्ला लितः - उत्क्षिप्तः, शीकर इव जलकण इव, करढभित्तिं गण्डभित्तिम्, आहत्य ताडयित्वा उदग्रकायानाम् उन्नतशरीराणाम्, करियादसां हस्तिरूपाणां जलचराणां जलहस्तिनामित्यर्थः, मदं गर्व मत्ततां च हरति नाशयति, समय
Page #138
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृतिसंवलिता
affaraाविक इव निराकुलो वसति दिवसमपि रसातलगम्भीरेऽम्भसि प्रकृष्टजाङ्गुलिक इव दुरुत्तरास्वपि न मुह्यति विषमोदकविपत्सु तैस्तैरञ्जनैरञ्जितेक्षणः क्षणदास्वपि समस्त वस्तुजातमुपजातयोगिज्ञान इव विज्ञातनिरवशेषविशेष मावेदयति [व] । सर्वथा योग्योऽयं युज्यतेऽस्मिन्नवसरे स्वनावः कर्णधारतां नेतुमात्मनश्च प्रणयीकर्तुम्, अनेन हि प्रगल्भवचसा परेङ्गिताकारज्ञेन भक्तिमता प्रक्रमागतव्याहारिणा च सर्वदा प्रतिपन्नसख्यः सुखेन लङ्घयिष्ययलघुविस्तारमपि भगवन्तमवारपारं पारावारं कुमारः साधयिष्यति च यत्नमन्तरेणापराण्यपि कृच्छ्रसाध्यानि प्रयोजनानि प्रायेग' [श ] इति जल्पत्येव तस्मिन् स कैवर्तनायकः सविधमुपससर्प, क्षितितलोपसर्पिणा च शिरसा प्रदर्शितादरः कृत्वा प्रणाममतिचिरप्रणयीव स्पष्टवर्णोच्चारया गिरा सप्रगल्भ - मुवाच – 'युवराज ! त्वदीय विजयप्रयाणघोषणानुपदमेव सागरोपकण्ठमनुप्राप्तोऽहम् आगत्य च मया कृतानि सर्वाण्यपि सुसूत्राणि यानपात्राणि, प्रगुणिताः समाहृतसमग्रोपकरणाः पोताः, पुञ्जितं तेष्वतिप्राज्यमशनम्, आपूरितानि स्वादुना सलिलेन कृत्स्नान्युदकपात्राणि, समारोपितमप्रमाणमिन्धनम् ; [ष] | अपरोऽपि
-
२८०
3
तीत्यर्थः । पुनः मुखान्तरक्षिप्तदुन्दुभमणिः मुखान्तरे - मुखमध्ये, क्षिप्तः - निहितः, दुन्दुभमणिः - दुन्दुभस्य - जलसर्पस्य, मणिर्येन तादृशः, इतरनाविक इव अन्यकर्णधार इव दिवसमपि सम्पूर्णदिनं व्याप्यापि, निराकुलः स्वस्थः सन्, वसति तिष्ठति, क्वेत्याह-रसातलगम्भीरे पातालावधिनिम्ने, अम्भसि जले, प्रकृष्टजाङ्गुलिक इव प्रकृष्टः- उत्कृष्टो यो जाङ्गुलिकः - जाङ्गुली- विषविद्यामधीते वेद वा यः सः, विषवैद्यो गाडिको तेत्यर्थः, स इव, दुरुत्तराखपि दुष्परि णामाखपि, मृत्युजनिकाखपीत्यर्थः, विषमोदकविपत्सु विषमभूतासु - अनन्यसमासु दारुणासु वा उदकविपत्सु - जलजय विपत्तिषु पक्षे विषमिश्रिता ये मोदकाः - मिष्टान्न विशेषाः, तजन्य विपत्सु - तज्जन्यन्यादिषु न मुह्यति मोहमनुभवति, किन्तु धौरहृदय एव तिष्ठतीत्यर्थः । पुनः तैस्तैः अनेकविधैः, अञ्जनैः नयनसंस्कारकजलजन्तुव सादिद्रव्यैः, अञ्जितेक्षणः लिप्तलोचनः, क्षणदास्वपि रात्रिष्वपि उपजातयोगिज्ञान इच उत्पन्नयोगजदृष्टिरिव, समस्तवस्तुजातं निखिलवस्तुगणम्, विज्ञातनिरवशेषविशेषं खविज्ञातसमप्रभेदं यथा स्यात् तथा, आवेदयति बोधयति [व] । सर्वथा सर्वप्रकारेण योग्यः निपुणः अयम्, अस्मिन्नवसरे समुद्रयात्रावसरे, स्वनावः खकीयनौकायाः, कर्णधारतां वाहकताम्, नेतुं प्रापयितुम्, च पुनः आत्मनः स्वस्थ, प्रणयीकर्तुं सख्यमापादयितुं, युज्यते उचितः । हि यतः, प्रगल्भवचसा निर्भीकवादिना, परेङ्गिताकारज्ञेन परेषाम्, इङ्गितः - चेष्टाविशेषान्वितः, य आकारस्तज्ज्ञेन, तत्परिचयचतुरेण, भक्तिमता पूज्यजनप्रीतिमता, च पुनः प्रक्रमागतव्याहारिणा प्रासङ्गिकार्थवादिना, अनेन तारकेण, सर्वदा प्रतिपन्नसख्यः अधिगतमैत्रीकः सन् कुमारः समरकेतुः भवानित्यर्थः, अलघुविस्तारमपि अत्यन्तविस्तृतमपि, भगवन्तम् ऐश्वर्यवन्तम्, अवारपारम् उभयकुलान्वितम्, पारावारं समुद्रम्, सुखेन अनायासेन, लङ्घयिष्यति तरिध्यति च पुनः, यत्तम् आयासम् अन्तरेणापि विनापि, अपराण्यपि अन्यान्यपि, कृच्छ्रसाध्यानि आयाससाध्यानि, प्रयोजनानि फलानि, प्रायेण बाहुल्येन साधयिष्यति सम्पादयिष्यति [ रा ] । इति इत्थं तस्मिन् यक्षपालिते, जल्पत्येव कथयति सत्येव, स तारकाख्यः, कैवर्तनायकः कर्णधाराध्यक्षः, सविधं निकटम्, उपससर्प उपाजगाम । च पुनः प्रदर्शितादरः प्रकटितादरः सन् क्षितितलोपसर्पिणा भूतलावनम्रेण शिरसा मस्तकेन, प्रणामम् अभिवादनम् कृत्वा, अतिचिरप्रणयीव अतिप्राचीन स्नेहीत्र, स्पष्टवर्णोच्चारया स्फुटवर्णोच्चारणिकया, गिरा वाचा, सप्रगल्भ्रं सप्रौढिकम्, उवाच उक्तवान् किमित्याह-युवराज ! भो नृपकुमार !, अहं त्वदीयविजयप्रयाण घोषणानुपदमेव त्वदीयं भवदीयं, यद् विजयोद्देश्यकं, प्रयाणं - प्रस्थानं, तस्य या घोषणा - सूचना, तदनुपदमेव तदनन्तरमेव, सागरोपकण्ठं समुद्रनिकटम्, अनुप्राप्तः आगतः आगत्य च उपस्थाय च मया सर्वाण्यपि समस्तान्यपि, यानपात्राणि प्रवहणानि, सुसूत्राणि सुष्ठु सूत्रबद्ध नि, कृतानि सम्पादितानि, पुनः समाहृतसर्वोपकरणाः संगृहीतसमप्रोपकरणाः, पोताः लघुप्रवहणानि, प्रगुणिताः सज्जिताः, पुनः तेषु पोतेषु, अतिप्राज्यम् अतिप्रचुरम्, भोजनं भोजनीयं वस्तु, पुञ्जितं राशीकृतम्, पुनः कृत्स्नानि सकलानि, उदकपात्राणि जलपात्राणि, स्वादुना मधुरेण, सलिलेन जलेन, आपूरितानि पूर्णीकृतानि पुनः अप्रमाणम् अपरिच्छिन्नं, प्रचुरतरमित्यर्थः, इन्धनं काष्ठम्, समा
Page #139
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२८१ देहस्थितिसाधनमधिकृतैर्यः कश्चिदर्पितः सोऽपि सर्पिस्तैलकम्बलौषधप्रायः प्रायशो विन्यस्तः समस्तोऽपि द्वीपान्तरदुरापो द्रव्याणां कलापः, स्थापिताश्च सर्वतः समारोपितसमर्थनाविकास्तीर्थेषु दृढकाष्टाम्फनिष्टुरा नावः, प्रतिष्ठते अनवरतमारुह्यारुह्य तासु गृहीतननाविधास्त्रः शिबिरवीरलोकः, निवर्तते नगरसंमुखमखिलोऽपि तत्तत्कार्यमङ्गीकृत्य प्रवर्तितः प्रस्थानकाले स्थाश्ववारणादिनौतन्त्रयात्रायामनुपयुक्तः सेनापरिच्छदः, कुमारस्यापि शत्रुविजयाय सजीकृता विजययात्राभिधाना नौः, यदि न कश्चित् कार्यविलम्बस्ततः प्रस्थीयतामभ्युदयाय' इति [स] । अहं तु तद्वचनानन्तरमेव सत्वरमुपसृत्य मौहूर्तिकेन शंसितप्रस्थानक्षणस्तरक्षणमेव राजलोकपरिवृतो गत्वा समासन्निनीरमर्णवतीरदेश, तथैवोर्ध्वस्थितः पुरस्थितानुत्तमाङ्गार्जनेन विनयाञ्जलिकर्मणा नर्मालापेन स्मितेन स्निग्धावलोकितेन च यथोचितं प्रयुक्तेन कृतानुव्रजनान् स्वाभिजनवृद्धवान्धवान सुहृदो राजसेवकान् नगरलोकांश्च प्रत्येकं व्यसर्जयम् [ह] । अथ ससंभ्रमेण नौौरिति समकालमुच्चैाहरतः प्रतीहारवृन्दस्य शब्दमाकर्ण्य तूर्णमानीयत तटाभ्यर्णमर्णवस्य नाविकगणेन नौः, तां
टिप्पनकम्-स्वाभिजनः-स्वकुलम् [ह ] ।
रोपितं निहितम् [प] ! पुनः अपरोऽपि तदन्योऽपि, देहस्थितिसाधनं शरीरोपकरणभूतः, सर्पिस्तैलकम्बलौषधप्रायः घृततैलादिप्रचुरः, द्वीपान्तरदुरापः अन्यद्वीपदुर्लभः, यः कश्चित् कोऽपि, द्रव्याणां वस्तूनाम् , कलापः समूहः, अधिकृतैः नियुक्तजनैः, अर्पितः दत्तः, सोऽपि असावपि, प्रायशः प्रायेण, समस्तोऽपि, विन्यस्तः निवेशितः। च पुनः, समारोपितसमर्थनाविकाः समारोपिताः-सम्यगारोहिताः, समर्थाः-नौवाहनक्षमाः, नाविकाः-कर्णधारा यासु ताः, पुनः तीर्थेषु तत्तजलावतारस्थलेषु, दृढकाष्ठगुम्फनिष्ठुराः प्रबलकाष्ठनिवेशनदृढाः, नावः नौकाः, सर्वतः समन्ततः, स्थापिताः निवेशिताः । गृहीतनानाविधास्त्रः धृतविविधास्त्रः सन् , शिबिरवीरलोकः सेनाशूरजनः, तासु नौषु, अनवरतं सततम् , आरुह्य आरुह्य प्रत्येकम् आरुह्य, प्रतिष्ठते प्रस्थानं करोति । नौतन्त्रयात्रायां नौसाध्ययात्रायाम्, अनुपयुक्त: अनपेक्षितः, अखिलोऽपि सर्वोऽपि, रथाश्ववारणादिः रथ-तुरग-गजप्रभृतिः, सेनापरिच्छदः सेनापरिवारः, तत्तत्कार्यम् , अङ्गीकृत्य स्वीकृत्य, प्रवर्तितः प्रेरितः सन् , प्रस्थानकाले प्रयाणवेलायाम् , नगरसम्मुखं निवर्तते प्रत्यावर्तते । कुमारस्यापि भवतोऽपीत्यर्थः, शत्रुविजयाय शत्रुविजयनिमित्तम् , विजययात्राभिधाना अन्वर्थतदाख्या, नौः, सजीकृता सजिता । यदि कश्चित् कोऽपि, कार्यविलम्बः प्रस्थानविलम्बो न, अस्तीति शेषः, तर्हि अभ्युदयाय शत्रुविजयाय, प्रस्थीयता प्रस्थान विधीयताम् [स] । अहं तु अहं समरकेतुस्तु, तद्वचनानन्तरमेव तत्कथनानन्तरमेव, सत्वरं शीघ्रम्, उपसृत्य उपगत्य, मौहूर्तिकेन मुहूर्ताभिलेन, शंसितप्रस्थानक्षणः सूचितप्रस्थानमुहूर्तः सन् , तत्क्षणमेव तत्कालमेव, राजलोकपरिवृतः तृपजनपरिवेष्टितः, समासन्ननीरम् अतिसन्निहितजलम् , अर्णवतीरदेश समुद्रतटप्रदेशम् , गत्वा, तत्रैव तत्तौरदेश एव, तथैवेति पाठे तेनैव प्रकारेण, राजलोकपरिवृताकारेणैवेत्यर्थः, ऊर्ध्वस्थितः तीरदेशोपरि अनुपविष्टः सन् , पुरः स्थितान् अग्रे स्थितान् , स्वाभिजनवृद्धवान्धवान् स्ववंश्यान् वयोवृद्धवन्धुजनान् , सुहृदः मित्राणि, च पुनः, राजसेवकान् राजशुभचिन्तकान , नगरलोकान् नगरवास्तव्यजनान् , प्रत्येकम् एकैकम् , व्यसर्जयं प्रत्यावर्तयम् , कीदृशान् ? यथोचितं यथायोग्यम् , प्रयुक्तेन कृतेन, उत्तमाङ्गापर्जनेन उत्तमाङ्गस्य-मस्तकस्य, आवर्जनेन-किञ्चिन्नमनेन, पुनः विनयाञ्जलिकर्मणा विनयपूर्वकाञ्जलिबन्धरूपकार्येण, पुनः नालापेन प्रेमपूर्वकाभाषणेन, स्मितेन मन्दहासेन, च पुनः, खिग्धावलोकितेन स्नेहपूर्णावलोकनेन, कृतानुवजनान् कृतानुगमनान् , कतिपयपदान्यनुगम्येत्यर्थः [ह]
अथ अनन्तरम् , नौनौः आनीयतामिति शेषः, इति उचैः उच्चस्तरेण, समकालं युगपत् , ब्याहरतः उद्घोषयतः, प्रतीहारवृन्दस्य द्वारपालवर्गस्य, शब्दम् उद्घोषम्, आकर्ण्य श्रुत्वा, ससम्भ्रमेण संभ्रान्तेन, नाविकगणेन कर्ण
३६ तिलक.
Page #140
--------------------------------------------------------------------------
________________
टिप्पनक-परागविकृतिसंवलिता चाहमुपसृत्य प्रथमकृतसागरप्रणामो भक्तिप्रवणेन चेतसा शिरसा च बद्धाञ्जलिः प्राणसिषम् , अध्यरोहं च पूर्वाधिरूढेन दूरमवनम्य दत्तहस्तावलम्बस्तारकेण [क्ष] । सपरिग्रहे च पुरोभागवर्तिनं मत्तवारणकमध्यमध्यास्य बद्धासने मयि कृतोत्तरीयसंवरणाश्चरणाभ्यामेव सत्वरमुपसृत्य सर्वे राजपुत्राः सपरिजनाः स्वानि खानि यानपात्राण्यधिरुरुहुः, प्रतस्थिरे च परिवार्य माम् [ज्ञ]।
अथ श्रुतिपथप्रमाथी हसन्निव समन्ततः प्रस्तनौनिवहसंक्षोभितस्य वारिधेधैर्यम् , कुर्वन्निव द्वीपान्तरवासिनां सर्वसामन्तानामाह्वानम् , ग्राहयन्निव सैन्यावकाशदानाय दश दिशोऽवधानम् , दध्वान ध्वजिन्या मुखे मुखरः प्रयाणमङ्गलशङ्खः [अ]। तस्य चानुप्रहतझल्लरीपटपणवादिवाद्यनादानुसृतेन बन्दिवृन्दजयशब्दकोलाहलशालिना शकुनपाठकश्लोककलकलबहलेन गृहीततारस्वानगायनीगीतरवतरङ्गितेन विधृतकुसुमाक्षतद्विजातिमण्डलीमश्रोच्चारस्फारितेन तिरयता दिगन्तराणि तारगम्भीरेण रणितेन द्विगुणीकृतगमनरभसः, [आ], स्थगितनिःशेषसंधिरन्ध्रया दासपुरन्ध्रिदत्तपिष्टपञ्चाङ्गुलया ध्वजाग्रबद्धाभिनववर्णाशुकपताकया
धारवर्गेण, अर्णवस्य समुद्रस्य, तटाभ्यणे तटनिकटम् , तूर्णं सत्वरम् , नौः, आनीयत आनीता ! च पुनः, अहम् , उपसृत्य, प्रथमकृतसागरप्रणामः पूर्व कृतसमुद्राभिवादनः, बद्धाञ्जलि: रचिताञ्जलिः सन् , भक्तिप्रवणेन प्रीत्युन्मुखेन, चेतसा हृदयेन, शिरसा च मस्तकेन च, तां नावम्, प्राणंसिषं प्रणतवान् । च पुनः, पूर्वाधिरूढेन पूर्व . तत्रारूढेन, तारकेश, दूरं दूरपर्यन्तम् , अवनम्य आनम्रीभूय, दत्तहस्तावलम्बः दत्त:-कारितः, हस्तावलम्बः-खकरावल. म्बन यस्मै तादृशः सन्, अध्यारोहम अध्यारूढवानहम् क्षि]। च पुनः, पुरोभागवर्तिनं अग्रभागवर्तिनम् , मत्तवारणकमध्यम् मत्तान् वारयतीति व्युत्पत्त्या प्रमादजातपतनादिनिवारकस्थानविशेषमध्यभागमित्यर्थः, मत्तवारणं च सामान्यतो लोके वरण्डा इति नाना ख्यातम् , अध्यास्य उपविश्य, सपरिग्रहे परिजनसहिते, मयि, बद्धासने अधिष्ठितासने सति, कृतोत्तरीयसंवरणाः विहितोत्तरीयफ्टोपसंहाराः, सपरिजनाः सपरिवाराः, सर्वे राजपुत्राः राजकुमाराः, चर• णाभ्यामेव स्वखपादाभ्यामेव, सत्वरं शीघ्रम् , उपसृत्य उपगल्य, स्वानि खानि स्वकीयानि स्वकीयानि, यानपात्राणि पोतान, अधिरुरुहः अधिरूढवन्तः । च पुनः, माम् , परिवार्य परिवेच्य, प्रतस्थिरे प्रस्थिताः
अथ अनन्तरम् , श्रुतिपथप्रमाथी श्रवणपथाभिघाती, मुखरः शब्दायमानः, प्रयाणमङ्गलशङ्क: प्रस्थान कालिकमङ्गलार्थशङ्खः, ध्वजिन्याः सेनायाः, मुखे अग्रभागे, दध्वान ध्वनितवान् , किं कुर्वनिव? समन्ततः सर्वतः, प्रसृतनौनिवहसंक्षोभितस्य प्रसृतेन नौनिवहेन-नौगणेन, संक्षोभितस्य-उद्वेलितस्य, वारिधेः समुद्रस्य, धैर्य धीरताम् , हसन्निव हासेन निन्दन्निव, पुनः द्वीपान्तरवासिनाम् अन्यद्वीपवास्तव्यानाम् , सर्वसामन्तानां निखिलक्षुद्रनृपाणाम् , आह्वानं स्वसमीपानयनं कुर्वन्निव, पुनः सैन्यावकाशदानाय सैनिकसमावेशनाय, दश दिशः दशसंख्यिका दिशः, अवधानं तत्परताम् , ग्राहयन्निव प्रापयन्निव [अ] 1 अनुप्रहतझल्लरी-पटह-पणवादिवाद्यनादानुसृतेन अनुपश्चात् , प्रहतानां-ताडितानाम् , झलरी-पटह-पणवादीनां तत्संज्ञकानां, वाद्यानां-वाद्यविशेषाणां, नादेन-ध्वनिना, अनुसतेन अनुगतेन, पुनः बन्दिवृन्दजयशब्दकोलाहलशालिना वन्दिवृन्दस्य-स्तुतिपाठकगणस्य, ये जयशब्दाः-जयकाराः, तरकोलाहलशोभिना, पुनः शकुनपाठकश्लोककलकलबहलेन शकुनपाठकानां-प्रस्थानकालिकमङ्गलपाठकानाम, ये श्लोकाः तत्कलकलबहलेन-तत्कोलाहलप्रचुरेण, पुनः गृहीततारस्वनगायनीगीतरवतरङ्गितेन गृहीतः-आश्रितः, तारखनः-उच्चवनिर्याभिस्तादृशीना, गायनीना-गायिकाना, गीतरवैः-गानशब्दैः, तरङ्गितेन-प्रचितेन, पुनः विधृतकुसुमाक्षतद्विजातिमण्डलीमन्त्रोचारस्फारितेन विधृतं-विशेषेण धृतं, कुसुमं-पुष्पम् , अक्षतम्-आर्द्रतण्डुलाथ यया तादृश्या, द्विजातिमण्डल्या-द्विजसमूहेन यो मन्त्रोच्चार:-आशीर्वादगर्भितमन्त्रोच्चारणं, तेन स्फारितेन-विस्तारितेन, पुनः दिगन्तराणि दिङ्मध्यानि, तिरयता स्थगयतः, पुनः तारगम्भीरेण उच्चगम्भीरेण, तस्य शङ्खस्य, रणितेन ध्वनिना, द्विगुणी. कृतगमनरभसः द्विगुणीकृतगमनवेगः [आ]। एवंविधोऽहं समरकेतुः, पुनः कीदृशः ? नावा नौकया, उह्यमानः तार्यमाणः, कीदृश्या ? स्थगितनिःशेषसन्धिरन्ध्रया स्थगितानि-पूरितानि, निःशेषाणि-समस्तानि, सन्धिरन्ध्राणि-सन्धिच्छिद्राणि यस्पास्तादृश्या, पुनः दासपुरन्ध्रिदत्तपिष्टपञ्चाङ्गुलया दासस्य-भृत्यस्य, पुरन्ध्या-कुटुम्बिन्या, दत्तं-निवेशितम् ,
Page #141
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२८३ समाहृतसमस्तनिजोपकरणेन सत्यपि स्वकर्मसावधाने संनिधानवर्तिनि नाविकनाते विनीतताप्रतिपादनाय कर्णधारतां प्रतिपद्य सद्यो धृतारित्रेण तारकेणाधिष्ठितया पृष्ठतोऽनुकूलपवनास्फालनतरङ्गितेन फेनपाण्डुना सलिलसंघातेन पुरस्ताच्च सितपटेन प्रवर्यमानया व्रजन्याप्यतिजवेन दुर्विभावत्वाद् गतेरनुज्झितस्थानयेवोह्यमानया नावोह्यमानः [इ], प्रतिवेलमपसरत्सातुविस्तारान् निरन्तरोपलक्ष्यमाणसान्तरालतरुगणान् सुवेलगिरिदर्शनाय सेनया सह प्रचलितानिवावलोकयन् वेलावनाचलान् [ई], अलघुविस्तारपिहितदिक्चक्रेण चकितनक्रचक्रोन्मुच्यमानपुरोवर्मना पवनासूत्रितविचित्रभङ्गाभिर्गाढसंमर्दभयादूर्मिमालाभिरिव वारिधेरन्तरिक्षमुत्पतिताभिः फेनमुक्ताफलशङ्खधवलाभिर्ध्वजपताकाभिरुपपादितवनावनीविलासेन संसर्पता विविधकवचशस्त्रशिरपूरितेन पोतसंतानेन पर्वतसेतुनेवापरेण सीमन्तयन् दक्षिणां दिशं क्षणेनैवादृश्यतीरभागमविभाव्यमान
टिप्पनकम् ऊह्यमानया वितर्यमाणया [ ] ।
पिष्टपञ्चाङ्गुलं-पिष्टातकाभिधवर्णचूर्णद्रवातिं, पञ्चाङ्गुलं-पञ्चाङ्गुलि समाहारो यस्यां तादृश्या, पुनः ध्वजानबद्धाभिनववर्णाशुकपताकया ध्वजा-पताकास्तम्भाग्रे, बद्धा-लम्बिता, अभिनववर्णांशुकपताका-नवीनवर्णविशिष्टश्लक्ष्णवस्त्ररूपपताका यस्या तादृश्या, पुनः समाहृतसमस्तनिजोपकरणेन समाहृतानि-संग्रहीतानि, समस्तानि-अशेषाणि, निजोपकरणानिनिजानि नौवहनोपकरणवस्तूनि येन तादृशेन, तथा स्वकर्मसावधाने खकार्यावहितहृदये, नाविकगणे कर्णधारगणे, सन्निधानवर्तिनि निकटवर्तिनि, सत्यपि, विनीतताप्रतिपादनाय विनीतताप्रकटनाय, कर्णधारता नाविकता, प्राप्य, सद्यः तत्क्षणम् , धृतारित्रेण धृतं-गृहीतम् , अरित्रं-जलोरक्षेपकं येन तादृशेन, तारकेण, अधिष्ठितया अध्यासितया, पुनः पृष्ठतः पश्चात् , अनुकूलपवनास्फालनतरङ्गितेन अनुकूलवाय्वाघाततरङ्गितेन, फेनपाण्डुना फेनप्रयुक्तपाण्डुवर्णेन, सलिलसंघातेन जलसमूहेन, पुरस्ताच्च अग्रतश्च, सितपटेन श्वेतवस्त्रेण, तदात्मकपताकयेत्यर्थः, प्रवर्त्यमानया प्रेर्यमाणया, पुनः अतिजवेन अतिवेगेन, वजन्त्यापि गच्छन्त्यापि, गतेःगमनस्य, दुर्विभावत्वात् दुर्लक्षत्वात् , अनुज्झितस्थानयेव अत्यक्तस्थानयेव, ऊह्यमानया तळमाणया [इ ]। पुनः कीदृशोऽहम् ? प्रतिवेलं प्रतितटम् , अपसरत्सानुविस्तारान अपसरन्तः-अपगच्छन्तः, सानु विस्तारा:-पर्वतसम्बन्धिसमप्रदेशविस्तारा येषु तादृशान् , निरन्तरोपलक्ष्य माणसान्तरालतरुगणान् निरन्तरम्-अव्यवहितं यथा स्यात् तथा, उपलक्ष्यमाणः-दृश्यमानः, सान्तरालानां-व्यवहितानां, तरूणां गमः-समूहो येषु तादृशान् , वेलावनाचलान तटस्थितवनव्याप्तपर्वतान् , अवलोकयन् निरीक्षमाणः, कीदृशानिव ? सुवेलगिरिदर्शनाय सुवेलाख्यपर्वतदर्शनाय, सेनया सह प्रचलितानिव प्रस्थितानिव, मत्र तरुगणस्य सेनास्थानीयस्वं पर्वतस्य च नृपस्थानीयत्वं बोध्यम् [ई ] । पुनः कीदृशोऽहम् ? पोतसंतानेन जलयानगणेन, दक्षिणा दिशं सीमन्तयन् केशवेशयुततामिवापादयन् , व्यामुवन्नित्यर्थः । कीदृशेन पोतसन्तानेन ? अलघुविस्तारपिहितदिक्चक्रेण अलघुविस्तारणअतिविस्तारेण, पिहितम्-आवृतम् , दिक्चक्र-दिमण्डलं येन तादृशेन, पुनः चकितनचक्रोन्मुच्यमानपुरोवर्मना चकितेन-सम्भ्रान्तेन, नकचक्रेण-जलजन्तुगणेन, उन्मुच्यमानं-परित्यज्यमानं, पुरोवर्म-अप्रभागो यस्य तादृशेन, पुनः ध्वजपताकाभिः ध्वजदण्डलम्बितपताकाभिः, उपपादितवनावनीविलासेन उपपादितः-निष्पादितः, वनावन्याः-लिखासाम्यात् वनभूमिरूपवनितायाः, विलासः-शनारचेष्टा येन तादृशेन, कीदृशीभिः? पवनासूत्रितविचित्रभङ्गाभिः पवनेनखोद्गमितवायुना, आ-समन्तात् , सूत्रिता:-रचिताः, विचित्रा:-विलक्षणाः, भताः-वक्रभावा विच्छित्तयो वा यास ताहशीभिः. पुनः गाढसंमर्दभयात् अत्यन्तपोतसंघर्षभयात् , अन्तरिक्षं गमनम् , उत्पतिताभिः उच्छलिताभिः, वारिधेः समुद्रस्य, ऊर्मिमालाभिरिव तरजमालाभिरिवेत्युत्प्रेक्षा, पुनः फेन मुक्ताफल-शङ्खधवलाभिः फेन-मुक्ताफल-शवसदृशश्वेताभिः, यद्वा फेन-मुक्ताफल-शङ्खर्धवलाभिरिति ऊर्मिमालाभिरित्यस्यापि विशेषणम् , पुनः संसर्पता सञ्चरता, पुनः विविधकवचशस्त्रशिरस्त्रपूरितेन विविधैः, कवचैः-वर्मभिः, शस्त्रैः-खहादिभिः, शिरः-शिरस्त्राणकरणविशेषैः, पूरितेन-पूर्णन, केनेव ! अपरेण अन्येन पूर्व रामसेनासंतरणसमयाद भिनेनेवेति भावः, पर्वतसेतुनेव पर्वतरूपसेतुनेव, क्षणेनैव निमेषमात्रेणेव,
Page #142
--------------------------------------------------------------------------
________________
२८४
टिप्पनक-परागविवृतिसंवलिता पर्यन्तप्रामनगरसंनिवेशं प्रदेशमासादयम् [3] 1. ततः प्रभृति सैकतेषु क्षितिमर्कोपलेषु ज्वलनोद्गति जलमानुषेषु जनपदप्रचारमशनिभीतागतक्षितिधरेषु पक्षिव्यवहारं जलचरेषु तिर्यग्जाति विद्रुमवनेषु काननस्फातिमीक्षमाणः [ ऊ], पृष्ठतो वहद्भिरप्रतीक्षितसमप्रसंगलत्पदातितत्रैः श्रुत्वा श्रुत्वानुचरपुरुषेभ्यः प्रयाणवार्तामतिजवेन निजमण्डलेभ्यः प्रधावितैरनीकपतिभिः सामन्तैश्च भयसंभ्रान्तैरनवरतमनुसृतगतिः [], गत्वा स्थानस्थानेषु लब्धोदयानहितोपचारैः परमुपचयं प्राप्तान् सर्वतः समासादितप्रसरानाविष्कृतानेकविकाराननवरतकृतरुजो जनस्य दुष्टवणानिव नृपान् कांश्चित् तत्रशक्त्या कांश्चिन्मत्रशक्त्या कांश्चिन्निशितशस्त्रव्यापारेण कांश्चित् क्षारैर्दूतवचनैः कांश्चिद् रक्तापकर्षणेन कांश्चित् तीक्ष्णक्षुरप्रभेदेन कांश्चिदेकदेशदहनेन कांश्चित् सर्वमण्डलोपमर्दनेन दर्पज्वरमत्याजयम् [ऋ], उज्झितोष्मणश्च प्रकटितप्रसन्नमुखरागान् विगलितोन्नतीनविद्य
टिप्पनकम्-मण्डलं-धृत्तता देशश्च [*] । अदृश्यतीरभागम् अदृश्यः-अनुपलक्ष्यः, तीरभागो यस्मिंस्तादृशम् , अविभाव्यमानपर्यन्तग्रामनगरसन्निवेशम् अविभाव्यमान:-अप्रतीयमानः, पर्यन्तप्रामनगराणां-प्रान्तस्थग्रामनगराणां, सनिवेशो यस्मिंस्तादृशम् , अतिदूरमित्यर्थः, प्रदेश समुद्रमध्यदेशम् , आसादयं प्राप्तवान् अस्मि [उ] । ततः तस्मात् , प्रदेशादित्यर्थः, प्रभृति आरभ्य, न तु ततः प्राक्, सैकतेषु सिकतामयस्थलेषु, क्षिति भूमिम् , पुनः अर्कोपलेषु सूर्यकान्तशिलासु, न त्वन्यत्र, ज्वलनोद्गतिं पावकोद्गमम् , पुनः जलमानुषेषु जलीयमनुष्येषु न त्वन्यमानुषेषु, जनपदप्रचारं मनुजचरणव्यवहारम्, पुनः अशनिभीतागतक्षितिधरेषु अशनेः-चजात, भीताः, अत एव आगता ये क्षितिधरा:-पर्वताः, तेष्वेव, पक्षिव्यवहार-पक्षिणः-पक्षवन्त इमे इत्यादिव्यवहारम् , जलचरेषु जलीयहस्त्यादिषु, तिर्यगजातिं पशुजातिम् , पुनः विद्रुमवनेषु प्रवालवनेषु, काननस्फाति वनविस्तारम् , ईक्षमाणः पश्यन् [ ऊ] पुनः भयसम्भ्रान्तैः भयसंक्षुब्धैः, अनीकपतिभिः सेनानायकैः, च पुनः, सामन्तैः क्षुद्रनृपः, अनवरतं निरन्तरम् , अनुसृतगतिः अनुगतगतिकः, कीदृशैः ? पृष्ठतः पश्चाद्, वहद्भिः गच्छद्भिः, अप्रतीक्षितसमग्रसंगलत्पदातितन्त्रैः अप्रतीक्षितः अनपेक्षितः, समग्राणां-समस्तानां, संगलतां-सार्थभ्रष्टानां, पदातीनां-पादगामिसैन्यानां, तन्त्रः-समूहो यैस्तादृशैः, पुनः अनुचरपुरुषेभ्यः अनुचरजनेभ्यः, प्रयाणवार्ता मदीयप्रस्थानप्रवृत्तिम्, श्रुत्वा श्रुत्वा असकृत् श्रवणगोचरीकृत्य, अतिजवेन अतिवेगेन, निजमण्डलेभ्यः खखराष्ट्रेभ्यः, प्रधावितैः कृतप्रधावनैः [क]
गत्वा तत्र तत्रोपसृत्य, जनस्य लोकसम्बन्धिनः, दृष्टवणानिव दुष्टानि-क्षरद्रक्तपूयादीनि क्षतानीव, स्थानस्थानेष तत्तत्स्थानेषु, लब्धोद्यान प्राप्ताधिपत्यान् , पक्षे प्राप्तोगमान् , पुनः अहितोपचारैः लोकाहितकरणैः, पक्षे अपथ्याचरणैः, परम् उत्कृष्टम् , उपचयम् अभ्युदयं, पक्षे वृद्धिं, प्राप्तान् , पुनः सर्वतः सर्वत्र, समासादितप्रसरान प्राप्तप्रसारान् , पुनः आविष्कृतानेकविकारान् आविष्कृताः-प्रकटिताः,अनेके विकारा:-काम-क्रोध-लोभ-मोह-मदरूपाः, पक्षे व्यथा यस्ता. दृशान् , पुनः अनवरतकृतरुजः निरन्तरविहितलोकपीडान्, पक्षे निरन्तरविहितज्वरान् , कांश्चित् कतिपयान् , नृपान् प्रतिकूलनृपतीन्, तन्त्रशत्या प्रधानशक्त्या, पक्षे औषधशक्त्या, पुनः कांश्चित् कतिपयान् , मन्त्रशत्या मत्रणबलेन, पक्षे मन्त्रमाहात्म्येन, पुनः कांश्चित् कतिपयान् , निशितशस्त्रव्यापारेण तीक्ष्णशस्त्र प्रहारेण, पक्षे तीक्ष्णच्छुरिकयोद्भेदनेन, पुनः कांश्चित् कतिषयान् , क्षारीः रूक्षः, पक्षे क्षारद्रवनिक्षेपैः, दूतवचनैः दूतोक्तिभिः, पुनः कांश्चित् कतिपयान् , रक्तापकर्षणेन रुधिराकर्षणेन, पक्षे अनुरक्तजनापरञ्जनेन, पुनः कांश्चित् कतिपयान् , तीक्ष्णक्षुरप्रभेदेन तीक्ष्णेन, क्षुरेण-बाणेन, यद्वा क्षुरप्रेण-बाणविशेषेण, यः प्रभेदः-मार्मिकभेदन. भेदः-सामान्यतो भेदनं तेन, पक्षे तीक्ष्णो यः धरःनापितास्त्रं तेन यः प्रभेदः-प्रकृष्टभेदनम् , यद्वा क्षुरप्रः-घासच्छेदनास्त्रं तेन यो भेदस्तेन, पुनः कश्चित् कतिचित् , एकदेशदहनेन एकदेशस्य-शरीरावयवस्य, एकजनपदस्य च, पक्षे व्रणैकदेशस्य, दहनेन-दाहेन, पुनः कांश्चित् कतिचित् , सर्वमण्डलोपमर्दनेन सर्वस्य-समग्रस्य, मण्डलस्य-देशस्य अमात्यादिवर्गस्य वा, पक्षे वर्तुलवणभागस्य, उपमर्दनेनविघटनेन, पक्षे समीपतो मर्दनेन, दर्पज्वरं गर्वोष्माणम् , अत्याजयम् व्यमोचयम् [] | च पुनः, उज्झितोष्मण
Page #143
--------------------------------------------------------------------------
________________
२८५
तिलकमञ्जरी। मानगतीनभिषेकविधिना पट्टवन्धनान्यैश्च निवृतिकरै राज्यदानादिभिर्मधुरोपचारैः पुनस्तामेव प्राक्तनी प्रकृतिमानयम् [ल] । आत्मीकृतासन्नसामन्तचक्रश्च क्रमेण निरन्तरक्रमुकवनानि, प्रतिनगरमुपलक्ष्यमाणानेकभूमिकप्रभूतप्रासादानि, स्थानस्थानदृश्यमाननानामणिसुवर्णरजताकराणि, तत इतः पुञ्जितमहाप्रमाणशुक्तिकूटप्रकटितमौक्तिकप्राचुर्याणि, चन्दनविटपवृतिपरिक्षेपरक्षितक्षेत्रवलयानि, संपतत्समुद्रचरमहापक्षिरक्षणाक्षणिकवनपालपालितारामबालवृक्षाणि, बन्धकीजनावन्ध्यग्रामतरङ्गिणीतीरतमालतरुनिकुञानि, देशान्तरापतदनेकसांयात्रिकप्रवेशनिरवकाशपर्यन्तानि, दुर्गतगृहेष्वपि प्राप्यनरपतिभूषणोचितानन्तरत्नानि रेणुगगनयोत्सृज्य
टिप्पनकम्- उष्मा-दर्प उष्णत्वं च । प्रसन्नमुखरागान् एकत्र गताग्रभागरक्तवान् , अन्यत्र प्रसादवद्वक्त्र विकारान् । विगलितोन्नतीन गतोदयांश्च [गतोदयान् विगलितवृद्धींश्च ] । अविद्यमानगतीन् एकत्र अविद्यमानपूयप्रवाहान् , अन्यत्र भविद्यमानप्रचारान् । अल्पैश्च निवृतिकरै राज्यदानादिभिर्मधुरोपायैः एकत्र घृतादिवितरणैः, अन्यत्र राज्यादिप्रदानः [ल] । क्रमुक-पूगीफलम् । बन्धकी-स्वैरिणी [ल.] ।
मुक्तदर्पज्वरान् , पक्षे त्यक्तसापान , पुनः प्रकटितप्रसन्नमुखरागान् प्रसन्नतावन्मुखविकारान् पक्षे प्रकर्षण गताप्रभागरक्तत्वान्, पुनः विगलितोन्नतीन निवृत्ताभ्युदयान , पक्षे निवृत्तवृद्धीन् , पुनः अविद्यमानगतीन् अविद्यमानजीवनोपायान् अविद्यमानप्रचारान् वा, पक्षेऽविद्यमानपूयप्रवाहान् , तानिति शेषः, अभिषेकविधिना सपनविधिना, पक्षे प्रक्षालनविधिना, पट्टबन्धेन पट्टे-राजसिंहासने, बन्धेन-निवेशनेन, पक्षे व्रणोपरि वस्त्रवेष्टनेन, च पुनः, अन्यैः तदतिरिक्तः, राज्यदानादिभिः राज्यार्पणप्रभृतिभिः, पक्षे आज्यदानादिभिः घृतदानादिभिः, निर्वृतिकरैः सुखजनकैः, मधुरोपचारैः प्रियचिकित्साभिः, पक्षे मनोजव्यवहारैः, तामेव, प्राक्तनी पुरातनीम् , प्रकृति राष्ट्र पक्षे स्वभावं स्वस्थतामित्यर्थः, आनयं प्रापयम् लि] | च पुनः, आत्मीकृतासन्नसामन्तचक्रः आत्मीकृतम्-आत्मतामापादितम् , स्वायत्तीकृतमित्यर्थः, आसन्नानांसन्निहितानां, सामन्तानां-लघुनृपाणां, चक्र-मण्डलं येन तादृशः सन् , द्वीपान्तराणि अन्यद्वीपान्, प्रसाधयन् परिभ्रमणेन अलकुर्वन् , यद्वा वशीकुर्वन्नित्यर्थः, सुवेलनामानं तत्संज्ञकम्, अचलराज पर्वतराजम् , अवजम् अगच्छम् , इत्यनेणान्वेति । कीदृशानि द्वीपान्तराणि ? निरन्तरक्रमकवनानि निरन्तराणि-निबिडानि, कमुकवनानिपूगीफलकाननानि येषु तादृशानि, पुनः प्रतिनगरं नगरे नगरे, उपलक्ष्यमाणानेकभूमिकप्रासादानि उपलक्ष्यमाणाःदृश्यमानाः, अनेकभूमिका:-अनेकखण्डकाः, प्रभूताः-प्रचुराः, प्रासादाः-हाणि येषु तादृशानि, पुनः स्थानस्थानहश्यमाननानामणिसुवर्णरजताकराणि स्थानस्थानेषु-तत्तत्स्थानेषु, दृश्यमानाः नानामणीनां-हीरकमौक्तिकादिमणीनां, सुव.
च. आकराः-खनयो येषु तादृशानि. पुनः इतस्ततः अत्र तत्र, पञ्जितमहाप्रमाणशक्तिकटप्रकटितमौक्तिकप्राचुर्याणि पुजिताना-संहतानां, महाप्रमाणानाम्-अधिकप्रमाणकानां, शुक्तीनां, कूटेन-राशिना, प्रकटितम्आविष्कृतं, मौक्तिकानां-मुक्तामणीना, प्राचुर्य-बाहुल्यं येषु तादृशानि, पुनः चन्दनविटपवृतिपरिक्षेपरक्षितक्षेत्रवलयानि चन्दनविटपवृत्या-चन्दनशाखानिर्मितया, वृत्या-प्राकारेण, यः परिक्षेपः-परिवेष्टनं, तेन रक्षित क्षेत्रवलयं-केदारमण्डलं येषु तादृशानि, पुनः संपतत्समुद्रचरमहापक्षिरक्षणाक्षणिकवनपालरक्षितारामबालवृक्षाणि संपतद्भध: आपत-द्वयः, समुद्रचरेभ्यः-समुद्रसञ्चारिभ्यः, महापक्षिभ्यः-पक्षिराजेभ्यः, रक्षणे-पुष्पफलादिसंरक्षणे, अक्षणिकाः-स्थायिनः. व्यग्रा वा, ये वनपालाः-उद्यानपालाः.तैः रक्षिताः-पालिताः, आरामस्य-उद्यानस्य, बालवृक्षा:-नववृक्षा येषु तादृशानि, पुन: बन्धकीजनापन्ध्यग्रामतरङ्गिणीतीरतमालतरुनिकखानि बन्धकीजनैः-कुलटाजनैः, अवन्ध्या:-सहिताः, प्रामतरशिणीनां-ग्रामनदीनाम् , तीरेषु तीरवर्तिनः, तमालतरूणां-तमालवृक्षाणां, निकुजाः-लतामण्डपा येषु तादृशानि, पुनः देशान्तरापतदनेकसांयात्रिकप्रवेशनिरवकाशपर्यन्तानि देशान्तरेभ्यः-अन्यदेशेभ्यः, आपतताम्-आगच्छताम् , अनेकेषां, सांयात्रिकाना-पोतवणिजा, प्रवेशेन, निरवकाशा:-अवकाशशून्याः, परिपूरिता इत्यर्थः, पर्यन्ताः-प्रान्तभूमयो येषु तादृशानि, पुनः दुर्गतगृहेष्वपि दरिद्रगृहेष्वपि, प्राप्यनरपतिभूषणोचितानन्तरत्नानि प्राप्याणि-लभ्यानि, नरपतिभूषणोचितानि-राजाभरणयोग्यानि, महार्हाणीत्यर्थः, अनन्तानि-असंख्ययानि रमानि येषु तादृशानि, पुनः रेणुगणनया
Page #144
--------------------------------------------------------------------------
________________
२८६
टिप्पनक-परागविवृतिसंवलिता मानजात्यजातरूपाणि [ल], प्रत्यहं च स्वीकृतसलिलमध्यसंचारणोचिताञ्जनैरमितैलादिद्रव्यसंग्रहपरैः कूपस्तम्भकानुत्तम्भयद्भिः सितपटानासूत्रयद्भिर्नाङ्गरानाहरद्भिः स्वादुजलकूपिकासु फलकसंधिरन्ध्राणि सर्वतः स्थगयद्भिः पौतिकैरशून्यवेलाकूलनगर।णि [ए], उभयतो वेणुकर्परावरणकृतरक्षेष्वसंकीर्णखरताडपर्णकोत्कीर्णकर्णाटादिलिपिषु पुस्तकेषु विरलमवलोक्यमानसंस्कृतानुविद्धस्वदेशभाषानिबद्धकाव्यप्रबन्धानि [ऐ], स्तोकार्यलोकानि, स्वल्पधर्माधर्मविवेकानि, विरलवर्णाश्रमाचाराणि, परिमितपाखण्डिव्यवहाराणि, रुचिरोद्भटस्त्रीवेषरचनानि, दुरवबोधभाषावचनानि [ओ], स्वभावभीषणाकारैर्विकृतवेषाडम्बरधारिभिः संनिधानवर्तितया यमादिवागतक्रौर्यैत्रिशङ्कोरिव प्रनष्टास्पृश्यसंनिधिपरिहारवासनै रावणादिवोत्पन्नपरदारप्रहणाभिलाषैर्लङ्कानिशाचरलोकादिव संक्रान्तकायकालकान्तिभिः शब्दशास्त्रकारैरिच विहितहखदीर्घव्यञ्जन
धूलिबुद्ध्या, उत्सृज्यमानजात्यजातरूपाणि उत्सृज्यमानानि-उत्क्षिप्यमाणानि, अपसार्यमाणानीत्यर्थः, जात्यानि-प्रश. स्तानि, जातरूपाणि-सुवर्णानि येषु तादृशानि [ल.] च पुनः, प्रत्यहं प्रतिदिनम्, स्वीकृतसलिलमध्यसंचारणो. चिताजनैः स्वीकृत-गृहीतं, सलिलमध्यसञ्चारणाय-जलमध्यप्रचारणाय, उन्धित-योग्यम् , अञ्जन-नेत्रसंस्कारककजलविशेषो यस्तादृशैः, पुनः अग्नितैलादिद्व्यसंग्रहपरैः अग्नितैलादिकस्य-शीताभिभावकद्रव्यस्य, संग्रहे-सच्चये, परैः संलग्नैः, पुनः कूपस्तम्भान् कूपो नाम नावादी रज्ज्वाधारः काष्ठमयो वृक्षः, तद्दण्डान्, उत्तम्भयद्भि उन्नमयद्भिः, पुनः सितपटान् श्वेतवस्त्राणि, आसूत्रयद्भिः आरचयद्भिः, पुनः नाङ्गरान् पोतगतिरोधकान् 'नांगर' इति प्रसिद्धान् नौकोपकरणविशेषान् , आहरद्भिः तत्रानयद्भिः, पुनः स्वादुजलकूपिकासु मधुरजलशालिकाष्ठादिनिर्मितकृत्रिमक्षुद्रकूपेषु, फलकसन्धिरन्ध्राणि फलकसन्धिषु-तदीयकाष्ठपट्टसंश्लेषणस्थानेषु, यानि रन्ध्राणि-छिद्राणि तानि, स्थगयद्धिः आच्छादयद्भिः काष्ठखण्डादिनिवेशेन पूरयद्भिः, पौतिकैः पोतवाहकैः, अशून्यवेलाकूलनगराणि अशून्यानि-अरहितानि, अधिष्ठितानीति यावत् , वेलायां-कच्छे, कूले-तीरे च, यद्वा वेलाकूले-तटप्रान्ते नगराणि येषु तादृशानि [ए], पुनः पुस्तकेषु, विरलम् अल्पं यथा स्यात् तथा, अवलोक्यमानसंस्कृतानुविद्धखदेशभाषानिबद्धकाव्यप्रबन्धानि अवलोक्यमानाः-उपलभ्यमानाः, संस्कृतानुविद्धाभिः-संस्कृतभाषामिश्रिताभिः, खदेशभाषाभिः-स्वाभिजनभाषाभिः, निबद्धाः-प्रणीताः, काव्य. प्रबन्धाः-काव्यग्रन्था येषु तादृशानि, कीदृशेषु पुस्तकेषु ? उभयतः भागद्वये, वेणुकर्परावणकृतरक्षेषु वेणुकर्पररूपाभ्यांपाटितवंशखण्डरूपाभ्याम् , आवरणाभ्याम्-आवेष्टनाभ्यां, कृता रक्षा येषां तादृशेषु, पुनः असंकीर्णखरताडपर्णकोत्कीर्णकर्णाटादिलिपिषु असंकीर्णेषु-विस्तृतेषु, खरेषु-तीक्ष्णेषु कठिनेषु वा, ताडपर्णकेषु-तालपत्रेषु, उत्कीर्णाः-उत्कीर्य लिखिताः, कर्णाटादिलिपयः-कटादिदेशाक्षराणि येषु तादृशेषु [ऐ], पुनः स्तोकार्यलोकानि स्तोकाः-अल्पाः, आर्यलोकाः-“कर्तव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे यः स आर्य इति स्मृतः ॥” इत्यन्यत्रोका आचारवन्तो जना येषु तादृशानि, पुनः खल्पधर्माधर्मविवेकानि अत्यल्पधर्माधर्मविभागानि, पुनः विरलवर्णाश्रमाचराणि स्वल्पब्राह्मणादिवर्णगार्हस्थ्याद्याश्रमोचिताचाराणि, पुनः परिमितपाखण्डिव्यवहाराणि परिमिता:-परिगणिताः, प्रचुरिताः, अल्पा इति यावत्, पाखण्डिनां-पापखण्डनकृतां, व्यवहाराः-आचारा येषु तादृशानि, पुनः परिमितरुचिरोटस्त्रीवेषरचनानि परिमिता-परिगणिता, रुचिरा-मनोहरा, उद्धटा-आडम्बरपूर्णा च, स्त्रीणां चेषरचना-वेषविन्यासो येषु तादृशानि, पुनः दुरवबोधभाषावचनानि दुरवबोधा-दुर्वेद्यार्था, भाषाः-वचनानि तद्रचितपदवाक्यानि च येषु तादृशानि [ ओ], पुनः पन्नगैः सः, महारत्ननिधानानीव उत्तमरननिधीनिव, निषादाधिपैः चाण्डालजातिविशेषाधिपः, संरक्षितानि सम्यक्पालितानि, कीदृशैः ? स्वभावभीषणाकारैः स्वभावतो भयानकाकारैः, पुनः विकृतवेषाडम्बरधारिभिः विकृतःबीभत्सो यो वेषाडम्बरः-वेषविस्तारः, तद्धारणशीलैः, पुनः सन्निधानवर्तितया दक्षिणदिगवस्थितयमनिकटवर्तितया, यमादिव यमसकाशादिव, आगतक्रौर्यैः प्राप्तघातुकत्तिकैः, पुनः त्रिशङ्कोरिव त्रिशङ्खः-नृपविशेषः, तद्रूपहेतोरिव, प्रनष्टास्पृश्यसन्निधिपरिहारवासनैः प्रनष्टा-विध्वस्ता, अस्पृश्यसन्निधिपरिहारस्य-स्पर्शायोग्यवस्तुसामीप्यपरित्यागस्य, वासना-संस्कारो येषां तादृशैः, पुनः रावणादिव रावणरूपहेतोरिव, उत्पन्नपरदारग्रहणाभिलाषैः उत्पन्नः परदारग्रहगस्य-पराङ्गनाऽऽकर्षणस्य, अभिलाषः-वाञ्छा येषां तादृशैः, पुनः लवानिशाचरलोकादिव लङ्कावास्तव्यराक्षसजनादिव,
Page #145
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। .
२८७
कल्पनैरनल्पताडपत्रताडपूरितैकैककर्णच्छिद्रैरन्यायप्रियतया च शस्त्रिका अध्यङ्गीकृतातिविकटकलहाः कटीभागेनाकलयद्भिः [औ] काललोहकटकान्यपि नितान्तमुखरनिष्टुराणि प्रकोष्ठगतानि धारयद्भिर्दग्धस्थाणुभिरिवोपलब्धचैतन्यैरञ्जनगिरिशिलास्तम्मैरिवोपजातहस्तपादैः पन्नगैरिव महारत्ननिधानानि निषादाधिपैः संरक्षितानि, प्रसाधयन् द्वीपान्तरराणि[ अं] दूरादेव दृश्यमानश्यामवनलेखमम्बरोल्लेखिना शिखरसंघातेन लचिताखिलाशामुखमुदया स्तशैलमेखलामूलमिलितपूर्वपाश्चात्यभागमसकृदर्शितमुग्धमौक्तिकोल्लासह्रासया प्रारब्धपरिहासयेव लवणजलनिधिवेलया वीचिहस्तापवर्जितैः पयोभिरनवरतमाहन्यमानं सुवेलनामानमचलराजमव्रजम् [अ]।
तस्य च शिखरिणः स्वभावरमणीयेषु, सर्वतः स्तबकिततिलकचम्पकाशोकबकुलेषु, कलहायमान
टिप्पनकम्-शब्दशास्त्रकारिव विहितहखदीर्घव्यञ्जनकल्पनैः एकत्र कृतहस्वदीर्घव्यञ्जनसंज्ञाविधानः, अन्यत्र कृतलघुदीर्घकूर्चकर्तनैः । शस्त्रिका अप्यङ्गीकृतविकटकलहा एकत्र कलहः-युद्धम् , [अन्यत्र ] फलकम् [औ] 1 निषादाधिपाः-शबरपतयः [ अं] ।
संक्रान्तकायकालकान्तिभिः संक्रान्ताः-समापतिताः, कायकालकान्तयः-देहकृष्णद्युतयो येषु तादृशैः, पुनः शब्दशास्त्रकारैरिव व्याकरणकारैरिव, विहितहखदीर्घव्यञ्जनकल्पनैः विहिता-कृता, ह्रखदीर्घाणां-लघुबृहद्रूपाणां, व्यअनानाविशिष्टाञ्जनलेखानां श्मश्रूणां वा, कल्पना-रचना कर्त्तनं वा यैस्तादृशैः, पक्षे हखाना-हस्वसंज्ञकानां, दीर्घाणां-दीर्घसंज्ञकानां खराणां, व्यञ्जनानां-हलां च कल्पना संकेतो यैस्तादृशैः, पुनः अनल्पताडपत्रताडपूरितैकैककर्णच्छिद्रैः अनपंदीर्थ, यत् ताडपत्र-तालपर्ण, तद्रूपैः, ताड?:-तदाख्यकर्णाभरणैः, पूरितम्:- एकैकस्य कर्णस्य , छिद्रं-विवरं यस्तादृशैः, पुनः अन्यायप्रियतया अन्यायरसिकतया, शस्त्रिका अपि छुरिका अपि, अङ्गीकृतातिविकटकलहाः अङ्गीकृताःखीकृताः, अति विकटा:-अतिविकरालाः, पक्षे अतिविस्तृताः, कलहाः-युद्धानि, पक्षे फलका याभिस्ताः, कटीभागेन कटीप्रदेशेन, आकलयद्भिः धारयद्भिः, [औ ], पुनः प्रकोष्ठकगतानि मणिबन्धस्थितानि, काललोहकटकान्यपि कृष्णलोहमयानि वलयान्यपि, नितान्तमुखरनिष्ठुराणि अत्यन्तवाचालकठोराणि, धारयद्भिः, पुनः उपलब्धचैतन्यैः प्राप्तचैतन्यैः, दग्धस्थाणुभिरिव दग्धनिष्फलशाखौरिवेत्युत्प्रेक्षा, पुनः उपजातहस्तपादैः उत्पञ्चकरचरणैः, अञ्जनगिरिशिलास्तम्भैरिव श्यामलाचलशिलारूपैः स्तम्भैरिवेति चोत्प्रेक्षा [ अं], कीदृशमचलराजम् ? दूरादेव दूरदेशादेव, दृश्यमानश्यामवनलेखं दृश्यमाना-उपलक्ष्यमाणा, श्यामवनलेखा-श्यामवनराजियस्मिस्तादृशम् , पुनः अम्बरोल्लेखिना गगनचुम्बिना, शिखरसंघातेन शिखरसमूहेन, लचिन्ताखिलाशामुखं लहिताखिलदिङ्मुखम् , पुनः उदयास्तशैलमेखलामूलमिलितपूर्वपाश्चात्यभागम् उदया-ऽस्त शैलयोः-उदयाचला-ऽस्ताचलयोः, मेखलामूलेन-नितम्बमूलेन, मिलितौ--संसृष्टौ, पूर्व-पाश्चात्यभागौ यस्य तादृशम्, पुनः असकद्दर्शितमुग्धमौक्तिकोल्लासहासया असकृत्-पुनः पुनः, दर्शिती-प्रकटितौ , मुग्धमौक्तिकानां-मनोज्ञमुक्तामणीनाम् , उल्लासह्रासौ-वृद्धिहानी, यया तया, अत एव प्रारब्धपरिहासयेष प्रवर्तितपरिहासयेवेत्युत्प्रेक्षा, लवणजलनिधिवेलया लवणसमुद्र नीरविकाररूपया, वीचिहस्तापवर्जितैः तरङ्गरूपहस्तः गृहीतैः, पयोभिः जलैः, अनवरतं निरन्तरम् , आहन्यमानं ताज्यमानम् [अ]।
च पुनः, तस्य सुवेलसंज्ञकस्य, शिखरिणः पर्वतस्य, तटवनेषु पर्यन्तवनेषु, कण्टकितानेकसंगरव्यतिकरखिन्नवाहिनीकः कण्ट किता:-रोमाञ्चान्विताः क्षुद्रारिसहिता वा, अनेके ये संगराः-संप्रामाः, तेषां व्यतिकरण-सम्पर्केण, खिन्ना-श्रान्ता, वाहिनी-सेना यस्य तादृशः, कुतूहलात् कौतुकवशात् , इतस्ततः तत्रात्र, विचरन् परिभ्रमन् ; कीदृशेषु तेषु ! स्वभावरमणीयेषु खभावतः सुन्दरेषु, सर्वतः समन्ततः, स्तबकिततिलकचम्पकाशोकबकुलेषु स्तबकिता:-गुच्छान्विताः, तिलक-चम्पका-ऽशोक-बकुला:-तत्तत्संज्ञककुसुमविशेषा येषु, यद्वा पुष्पगुच्छान्विता कलिकाकलापान्विता । तत्तत्पुष्पवृक्षा येषु तादृशेषु, पुनः कलहायमानमत्तपिककुलालापवाचालविकचचूतमालेषु कलहायमानानां
Page #146
--------------------------------------------------------------------------
________________
२८८
टिप्पनक-परागविवृतिसंवलिता मत्तपिककुलालापवाचालविकचचूतमालेषु, परिमलमिलितमधुकरीनिकरान्धकारितकोरकितसरससहकारेषु, रत्नाविलसमुद्रशैवलप्रवालजटिलितराजतालीमूलजटाजालकेषु, घटितसेतुबानरविकीर्णगिरिकूटकुटिलितान्तरालमार्गेषु, [क] इतस्ततः सखीस्नेहदूराकृष्टमनसा त्रिजटया विनोदितदयितविरहक्षाममैथिलीकेषु, अनेकशः क्रीडानिमित्तमागतया प्रधाननक्तंचरीभिः सह पादचारेण विचरन्त्या लतामन्दिरेषु मन्दोदर्या सविभ्रमापचितविकचमन्दारेषु, सेतुशिखरोत्सङ्गलवङ्गतरुतलासीनकिन्नरमिथुनगीयमानरामचन्द्रचरिताद्भुतेषु [ख], प्रशान्तनक्तंचरोपद्रवतया संचरद्भिरचकितैः समीपाश्रमनिवासिभिस्तापसकुमारकैः प्रकटितविभीषणसौराज्येषु, जनकानुकारिभिर्मारीचमृगसमागतानामरण्यमृगीणामुदरसंभवैभ्रमद्भिरेणकैः स्वदेहकाञ्चनप्रभया पिशङ्गितोहेशेषु, निद्रानिषण्णकुम्भकर्णाभिनन्दितशिशिरहरिचन्दनवीथीकेषु, जानकीवैमुख्यदुःखक्षामदशकण्ठातिवाहितोकण्ठेषु, तटवनेषु, कण्टकितानेकसंगरव्यतिकरखिन्नवाहिनीकः कुतूहलादितस्ततो विचरन् [ग];
टिप्पनकम्-त्रिजटा-रावणभगिनी [ख] । कण्डकिताः-रोमाञ्चिताः [ग] ।
कलहं कुर्वतां, मत्तपिककुलानाम्-उन्मत्तकोकिलकुलानाम् , आलापैः-गुञ्जनः, वाचालाः-शब्दायमानाः, विकचचूतमालाविकसितरसालपङ्कियेषु तादृशेषु, पुनः परिमलमिलितमधुकरीनिकरान्धकारितकोरकितसरससहकारेषु परिमलमिलितानां-सौरभसङ्गताना, मधुकरीणां-भ्रमरीणां, निकरेण-गणेन, अन्धकारिताः-अन्धकारान्विताः, सरसाः-मकरन्दाकाः, सहकाराः-अतिदूरगामिसौरभान्विता आम्रा येषु तादृशेषु, पुनः रत्नाविलसमुद्रशैवलप्रवालजटितराजतालीमूलजटाजालकेषु रत्नाविलस्य-रत्नकलुषितस्य, समुद्रस्य, शैवलैः-जलतृणैः, प्रवालैः-विद्रुमैः, जटिलितानि-व्याप्तानि, राजतालीनां-पूगढमाणां, मूलजटाजालानि-शिफासंघाता येषु तादृशेषु, पुनः घटितसेतुवानरविकीर्णगिरिकूटकुटिलितान्तरालमार्गेषु घटितः-रचितः, सेतुः-समुद्रबन्धो यस्तादृशैः, वानरैः, विकीर्णैः-विक्षिप्तैः, विघटितैरिति यावत्, गिरिकूटैः-पर्वतराझैः, कुटिलिताः-वक्रीकृताः, अन्तरालमार्गाः- मध्यमार्गा येषु तादृशेषु [क], पुनः इतस्ततः अत्र तत्र, सखीनेहदराकृष्टमानसा सखीनेहेन-सखीभूतसीताप्रेम्णा, आकृष्टं मनो यस्यास्तादृश्या, त्रिजटया तत्संज्ञकराक्षस्या, विनोदितदयितविरहक्षाममैथिलीकेषु विनोदिता-आश्वासिता, दयितविरहेण-दयितस्य -भर्तुः, रामचन्द्रस्येत्यर्थः, विरहेण-वियोगेन, क्षामा-कृशा, मैथिली-सीता येषु तादृशेषु, पुनः प्रधाननक्तञ्चरीभिः प्रधानराक्षसीभिः, सह, पादचारेण पद्धयां गमनेन, लतामन्दिरेषु लतामण्डपेषु, विचरन्त्या भ्रमन्त्या, मन्दोदर्या तत्संज्ञकरावणभार्यया, सविभ्रमावचितविकचमन्दारेषु सविभ्रमं-सविलासं यथा स्यात् तथा, अवचिताः-त्रोटिताः, मन्दाराः-तदाख्यदिव्यतरुकुसुमानि येषु तादृशेषु, पुनः सेतुशिखरोत्सङ्गलवङ्गतरुलतासीनकिन्नरमिथुनगीयमानरामचन्द्रचरिताद्भुतेषु सेतुशिखरोत्सङ्गे-सेतु शिखरमध्ये, या लवङ्गतरुलताः-लवङ्गवृक्षारूढलताः, तासु-तासां मध्ये, आसीनैः-उपविशद्भिः, किन्नरमिथुनैः-किन्नरदम्पतिभिः, गीयमानः, रामचन्द्रचरितैः, अद्भुतेषु-विस्मयावहेषु ख], पुनः प्रशान्तनक्तञ्चरोपद्रवतया प्रशान्तः-निवृत्तः, नक्तञ्चरैः-राक्षसैः, उपद्रवो येषु तत्तया, अचकितैः असम्भ्रान्तैः, संचरद्भिः विचरद्भिः, समीपाश्रमनिवासिभिः, निकटस्थिताश्रमवास्तव्यैः, तापसकुमारैः तपखिबालकैः, प्रकटितबिभीषणसौराज्येषु प्रकटितम्-अभिव्यक्तं, विभीषणस्य-रावणानुजस्य, सौराज्य-सात्त्विकमाधिपत्यं येषु तादृशेषु, पुनः एणकैः अनुकम्पितैः एणैः-मृगैः, स्वदेहकाञ्चनप्रभया खशरीरसम्बन्धिसुवर्णकान्या, पिशङ्गितोद्देशेषु पिशङ्गितः-पीतवर्णतामापादितः, उद्देशः-ऊर्ध्वप्रदेशो येषु तादृशेषु, कीदृशैः ? जनकानुकारिभिः जनकस्य-जनयितुर्मारीचस्य, अनुकारिभिः-अनुकरणं कुर्वद्भिः, तद्वर्णयुक्तरित्यर्थः, पुनःमारीचमृगसमागतानां मारीचात्मकमृगपार्श्वमायातानाम् , तेन सहाभिरतानामित्याशयः, अरण्यमृगीणां वन्यमृगीणाम् , उदरसम्भवैः उदरोत्पन्नः, पुनः भ्रमद्भिः विचरद्भिः। पुनः निद्रानिषण्णकुम्भकर्णाभिनन्दितशिशिरहरिचन्दनवीथीकेषु निद्रानिषण्णेन-निद्रया स्थितेन, कुम्भकर्णेन-तत्संज्ञकदीर्घनिद्ररावणमात्रा, अभिनन्दिता-समर्धिता, अलङ्गतेति यावत् , शिशिरहरिचन्दनानां-शीतलचन्दनविशेषाणां, वीथी-पतिर्येषु तादृशेषु, पुनः जानकीवैमुख्यदुःख
Page #147
--------------------------------------------------------------------------
________________
२८९
तिलकमञ्जरी। 'इह निर्झरेषु दृष्टलङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिर्वृतेन दशरथात्मजेन स्नात्वा जटायुषे निर्वर्तितः प्रथमो निवापाञ्जलिः [घ], इह प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपङ्कपश्चाङ्गुलैईश्यमानमूर्तिमत्प्रतापानलशिखैरिव भुजशिखरैः खर्वयन्तस्त्रिकूटगिरिकूटानि घटितसमग्रसेतुबन्धा बन्धुरं ववल्गुरङ्गदपुरोगाः प्लवगपतयः [3], इयमसमञ्जसक्षिप्तलङ्काप्राकारकाञ्चनशिलाशबला शिविरसन्निवेशभूः सुग्रीवस्य, एषा परस्परविलक्षणलक्ष्यमाणराक्षसकपिकरङ्कावयवा रामरावणयोराजिभूमिः [च ], इह सकलदिग्मुखान्तरालव्यापिघोषस्य विष्वपि भुवनेषु सर्पतः पौलस्त्ययशसो रथस्येव प्रवर्तकः प्रयत्नवद्भिः क्षपाचरैरनेकधाकृतरक्षोऽपि प्रसह्य मारुतिना भुजबलेन भनोऽक्षः [छ], इह कन्दरायामरातिदारितप्रधानवीरविद्राणविजयाध्यवसायेन सायंचरचक्रवर्तिना तैस्तैरसुकुमारैरुपक्रमैरकाल एव त्याजितो निद्रां महानिद्रायै सहोदरः [ज ], इह
टिप्पनकम् - अङ्गदः-वालिपुत्रः [3] । सकल दिङ्मुखान्तरालव्यापिघोषस्य पौलस्त्ययशसो रथस्येव भग्नोऽक्षः एकत्र घोषः-घोषणं प्रसरणम् , अन्यत्र चीत्कारः, अक्षः-रावणसुतो धूश्च, मारुतिः-हनुमान् [छ । महानिद्रा-मरणम् [ज]।
क्षामदशकण्ठातिवाहितोत्कण्ठेषु जानक्या:-सीतायाः, वैमुख्येन-प्रतिकूलतया, यदुःखं तेन क्षामेण-कृशेन, दशकण्ठेन
हिता-व्यतिक्रान्ता, उत्कण्ठा-तदानुकूल्योत्सुकता येषु तादृशेषु [ग]। इह अस्मिन् स्थाने, निर्झरेष प्रवाहेषु, दृष्टलङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिवृतेन दृष्टायां लङ्कायां निर्णीतेन, दशकण्ठकण्ठच्छेदेन-दशकण्ठस्य - रावणस्य, कण्ठच्छेदेन-कण्ठकर्तनेन, निर्वृतेन-सुखितेन, दशरथात्मजेन रामेण, स्नात्वा स्नानं कृत्वा, जटायुषे तत्संज्ञकाय गृध्रप्रवराय, प्रथमः निवापाञ्जलिः श्रद्धाञ्जलिः, निर्वर्तितः निष्पादितः [घ] । इह अस्मिन् स्थाने, अङ्गदपुरोगा अदनामकवालिपुत्रादयः, प्लवगपतयः कपिश्रेष्ठाः, घटितसमग्रसेतुबन्धाः घटितः- सम्पादितः, समप्रः, सेतोःपुलिनस्य, बन्धः-प्रबन्धो यस्तादृशाः, बन्धुरम् अत्युचतानतं यथा स्यात् तथा, ववल्गुः धारागल्या जग्मुः, कीदृशाः? भुजशिखरैः उन्नतभुजाप्रैः, त्रिकूटगिरिकूटानि त्रिकूटगिरेः-त्रीणि कूटानि शृङ्गाणि यस्य इत्यन्वर्थसंज्ञकपर्वतविशेषस्य, कूटानि-शिखराणि, खर्वयन्तः हवयन्तः, कीदृशैः ? प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपङ्कपञ्चाङ्गुलैः प्रहर्षेणअतिहर्षेण, यत् आस्फोटनम्-आस्फालनं, तेन संक्रान्तः, सरसस्य-आर्द्रस्य, मैरिकस्य-रक्तधातुविशेषस्य, पकरे यस्मिन् तादृशं, पञ्चाङल-पञ्चानामङ्गुलीनां समाहारो येषु तादृशैः, अत एव दृश्यमानमर्तिमत्प्रतापानलशिखैरिव दृश्यमाना-प्रतीयमाना, प्रतिभासमानेत्यर्थः, मूर्तिमतः-आकृतिमतः, प्रतापानलस्य-प्रतापानेः, शिखा-ज्वाला येषु तादशैरिवेत्युत्प्रेक्षा [ 0]। असमञ्जसक्षिप्तलाप्राकारकाञ्चनशिलाशबला असमन्जस-क्रोधावेशवशेन असङ्गतं यथा स्यात् तथा, क्षिप्ताभिः, लङ्काप्राकारभूताभिः, काञ्चनशिलाभिः-सुवर्णशिलाभिः, शबला-चित्रिता, सुग्रीवस्य तदाख्यकपिराजस्य, इयं शिबिरसन्निवेशभूः सैन्यावाससन्निवेशस्थानम् । परस्परविलक्षणलक्ष्यमाणराक्षसकपिकरङ्कावयवा परस्परविलक्षणं-परस्परविरूपं यथा स्यात् तथा, लक्ष्यमाणा:-प्रतीयमानाः, राक्षसानां कपीनां वानराणां च, करङ्काः-अस्थिमात्रावशिष्टशवाः, तन्मस्तकानि वा, एवाक्यवा यस्यास्तादशी, एषा रामरावणयोः, आजिभूमिः रणक्षेत्रम् [च] । सकलदिङ्मुखान्तरालव्यापिघोषस्य सकलदिङ्मुखान्तरालव्यापी-समस्तदिगन्तमध्यव्यापकः, घोषः-संशब्दनं प्रसरणं च यस्य ताशस्य, पुनः त्रिष्वपि स्वर्ग-मर्त्य-पातालरूपेष्वपि, भुवनेषु लोकेषु, सर्पतः प्रसिध्यतः, पौलस्त्ययशसः पौलस्त्यः-रावणः, तत्कीर्तेः, रथस्येव, प्रवर्तकः प्रचारकः, अक्षः तदाख्यो रावणकुमारः, पक्षे रथाङ्गधू क्षपाचरैः निशाचरः, अनेकधाकृतरक्षोऽपि अनेकवार रक्षितोऽपि, मारुतिना हनुमता, भुजबलेन बाहुविक्रमेण, प्रसह्य बलात्कारेण, इह अस्मिन् स्थाने, भग्नः नाशितः[छ1। इह अस्या, कन्दरायां गुहायाम् , अरातिदारितप्रधानवीरविद्राणविजयाध्यवसायेन अरातिभिः-शत्रुभिः, दारितैः-खण्डितैः, मारितैरिति यावत् , प्रधानवीरैः-प्रधानभटैः, विद्राणः-भग्नः, विजयाध्यवसायः-विजयोद्योगो यस्य तादृशेन, सायश्चरचक्रवर्तिना राक्षससम्राजा, सहोदरः खानुजः, कुम्भकर्ण इति यावत् , असुकुमारैः कठोरैः, तैस्तैः अनेकविधैः, उपक्रमैः उपद्रवैः, अकाल एव असमय एव,
३७ तिलक.
Page #148
--------------------------------------------------------------------------
________________
२९०
टिप्पनक-परागविवृतिसंवलिता क्रमाक्रान्तसकलाम्बरेण साडम्बरमुदञ्चता ज्वलनजन्मना नीलेन धूमोत्पीलेनेव नयननलिनेषु विस्तारितः प्रहस्तप्रणयिनीनामश्रुधारासारः [झ ], इदमुपान्तनिर्झरासन्नप्ररूढविरलविशल्यौषधिलवमवदारितोरःस्थलस्य शक्त्या समिति सुमित्रासुतस्य मूर्छानिपतनस्थानम् [अ], अमी नेमिनिष्पिष्टकपिशिरःकपालकपरशुक्तिकाशकलशारिताः शरविसरवर्षिणि रामभद्रे पुनरुक्तमुपसृतापसृतरावणरथस्य क्षयसमयशोषितमहानदीप्रवाहानुकारिणः चक्रमार्गाः [ट ], इयं स्वामिभक्तेरमजशक्तेश्च जगति ज्ञापनाय विभीषणेन प्रतिष्ठापिता द्रुतापतच्छिन्नकुम्भकर्णोत्तमाङ्गत्रासितस्य दाशरथेर्यथाप्रथममायतपदान्तराप्रतीपापसर्पणसरणिः [ 7 ], इह लतावेश्मन्यपनीतरक्षोगृहनिवासनिर्वादकलङ्काया जनकदुहितुर्वेपमानस्वेदाकरकिसलयेन दाशरथिना कथश्चिदुन्मोचितो हुताशनप्रवेशलनो धूमदण्ड इव धूम्रकुटिलायतशिखो वेणीबन्धः [ ड],
टिप्पनकम्-नीला-रामप्रधानः, प्रहस्तः-रावणप्रधानः, भासारः-वेगवदृष्टिः [झ] । नेमिः-चक्रधारा [८]1 अग्रजशक्तेः कुम्भकर्णसामर्थ्यस्य, सरणिः-मार्गः [8]।
महानिद्रायै मृत्यवे, निद्रां त्याजितः मोचितः, जागारित इत्यर्थः [ज] क्रमाक्रान्तसकलाम्बरेण क्रमेण आक्रान्तव्याप्त, सकलं-समग्रम्, अम्बरं-गगनमण्डलं वस्त्रं च येन तादृशेन, पुनः साडम्बरं सविस्तारम् , उदश्चता उद्च्छता, धूमोत्पीलेनेव धूमावरोधेनेव, ज्वलनजन्मना अग्निजातेन, नीलेन-श्यामवर्णेन रामप्रधानेन च, कज्जलेन वा, प्रहस्तप्रणयिनीनां प्रहस्तस्य-रावणप्रधानस्य याः प्रणयिन्य:-प्रियाः, तासां, नयननलिनेषु नयनारविन्देषु, अश्रुधाराऽऽसारः अश्रुधारासम्पातः, इह अस्मिन् स्थाने, विस्तारितः विस्तारमापादितः [२] । इदं सुमित्रासुतस्य लक्ष्मणस्य, मूर्छानिपतनस्थानं मूर्च्छया यन्निपतन-निपातः, तद्भूमिः, कीदृशम् ? उपान्तनिर्झरासन्नप्ररूढविरल विशल्यौषधिलवम् उपान्ते-समीपे, ये निर्झरा:-स्रोतांसि, तदासजे-तन्निकटप्रदेशे, प्ररूढाः-उत्पन्नाः, विरलानाम्-अनिबिडाना, विशल्यौषधीनाविशल्यासंज्ञकौषधीना, लवाः-लेश यस्मिंस्तादृशम् , कीदृशस्य तस्य ? समिति युद्धे, शक्त्या शस्त्रविशेषेण, अवदारितोर:स्थलस्य खण्डितवक्षःस्थलस्य [अ]। नेमिनिष्पिष्टकपिशिरसकपालकपरशुक्तिकाशकलशारिताः नेमिभिःचक्रान्तभागः, निष्पिष्टानां-सञ्चर्णिताना, कपिशिरःकपालकपराणां-बानरमस्तकानां ये कपालकर्परा:-कपालाख्यघटाव शिरोऽस्थिमण्डलरूपकपालास्तेषां, शुक्तिकाशकलैः-कपालखण्डात्मकखण्डैः शारिताः-चित्रिताः,रामभद्रे रामचन्द्र शरविसर:वर्षिणि बाणगणवृष्टिकारिणि सति, पुनरुक्तम् असकृत् सूचितं यथा स्यात् तथा, उपस्तापसृतरावणरथस्य उपसृतःसमीपगतः,अपसृतः-दूरगतश्च यो रावणस्य रथस्तत्सम्बन्धिनः,क्षयसमयशोषितमहानदीप्रवाहानुकारिणःक्षयसमयेप्रलयकाले, शोषिता-शुष्कता नीता, या महानदी, तत्प्रवाहानुकारिणः, अमी इमे, चक्रमार्गाः रथाङ्गप्रचारमार्गाः [2] स्वामिभक्तेः खामिनि-रामचन्द्रे या भक्तिः-प्रीतिस्तस्याः,च पुनः, अनजशक्तः अग्रजस्य-खज्येष्ठनातुः, रावणस्येत्यर्थः,या शक्तिः-पराक्रमस्तस्याः, प्रख्यापनाय विख्यापनाथ, बिभीषणेन तदाख्यरावणानुजेन, प्रतिष्ठापिता प्रकल्पिता, इयम् , द्रुतापतच्छिन्नकुम्भकर्णोत्तमाङ्गवित्रासितस्य द्रुतं-सत्वरम् , आपतता, छिन्नेन-खण्डितेन, कुम्भकर्णस्य-तदाख्यरावणानुजस्य, उत्तमाङ्गेन-मस्तकेन, वित्रासितस्य-विभीषितस्य, दाशरथेः रामचन्द्रस्य, यथाप्रथमं यथापूर्वम् , आयतपदान्तराप्रतीपापसर्पणसरणिः आयतेन-दीर्घेण, पदान्तरेण-पादविक्षेपान्तरेण, यत् अप्रतीपम्-अप्रतिकूलम् , स्खलनशङ्काशून्यमित्यर्थः, अपसर्पणम्-अपसरणं, तस्य सरणि:-मार्गः[3]। इह अस्मिन् , लतावेश्मनि लतागृहे, अपनीतरक्षोगृहनिवासनिर्वादकलङ्कायाः अपनीतः-अग्निप्रवेशेन विरोधितः, रक्षागृहनिवासनिर्वादकलङ्कः-राक्षसगृहाधिकरणकनिवासापवादरूपः कलको यया तादृश्याः, जनकदुहितुः जानक्याः, धूम्रकुटिलायितशिखः धूम्रा-कृष्णलोहितवर्णा, कुटिला-वका, आयता च शिखा-अग्रभागो यस्य तादृशः, वेणीबन्धः प्रोषितभर्तृकोचितकेशरचनाविशेषरूपाया वेण्या बन्धः, वेपमानस्वेदाकरकिसलयेन वेपमानः-कम्पमानः, खदाः-स्रवद्घर्मोदकाः, कर किसलयः-करपल्लवो यस्य तादृशेन, दाशरथिना रामेण, उन्मोचितः विश्लेषितः, क इव ? हुताशनप्रवेशलग्नः अग्निप्रवेशसम्पृक्तः, धूमदण्ड
Page #149
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
२९१
इतो निवर्तितानुव्रजत्सुरव्रजेन निजगोत्रराजधानीमयोध्या प्रति यियासुना दशास्यदमनेन सविलासमध्यासितमहार्हमणिवातायनः कौतुकोत्ताननयनजानकी विलोकितगतिरनुकूलपवनप्रसारितैः पताकाबाहुभिः परिरब्धुमिव चिरोत्सृष्टदृष्टां कुबेरपुरमम्बरपथेन प्रधावितः पुष्पकनामा विमानराजः [ 8 ]; इत्यादिपिशुनितानेकरामायणमहापुरुषवृत्तान्तरन्तिकस्थितैस्तत्रत्यनरपतिभिरुत्खातरोपितैरनुपदं प्रदर्शितान् लङ्कापुरीपरिसरो. देशान् सहर्षमीक्षमाणः कतिचिदिनान्यतिष्ठम् [ण] |
एकदा तु तत्रस्थशिबिर एव प्रेषितागतैः प्रणिधिपुरुषैः प्रवर्तितः सज्जीकृत्य प्राज्यवस्त्राभरणदानावर्जितसकलनाविका नाव आत्तकतिपयदिवसपाथेयैः प्रधानपार्थिवसूनुभिरन्यैश्च जन्यशतनियूंढपौरुषैः पदातिपुरुषैरनुगम्यमानस्तक्षणमेवाविक्षेपेणोदचलम् [त] । अविलम्बितगतिश्च पश्चिमेन सेतोगत्वातिदूरमूरीकृतचौर्यवृत्तेरतिविषमदुर्गबलगर्वितस्य पर्वतकनाम्नः किरातराजस्य राजधान्यामवस्कन्दमप्रतर्कितमपातयम् , अदय
टिप्पनकम्-कुबेरपुरम् अलकाम् [6] । जन्य-संग्रामः । विक्षेपः-धाटकः [त] । अवस्कन्दं धाटकम् [थ] |
इव धूमरेखेवेत्युत्प्रेक्षा [ड] । इतः अस्मात् स्थानात , निवर्तितांनुव्रजत्सुरव्रजेन निवर्तितः-परावर्तितः, अनुव्रजन्अनुगच्छन् , सुरव्रजः-देवगणो येन तादृशेन, निजगोत्रराजधानी खवंशराजधानीरूपाम्, अयोध्या, प्रतियियासुना प्रत्यावर्तितुकामेन, यद्वा अयोध्यां प्रति अयोध्याभिमुखं, यियासुना जिगमिषुणा, दशास्यदमनेन रावणगर्वहारिणा रामचन्द्रेण, सविलासं विलाससहितम, अध्यासितमहाहमणिवातायनं अध्यासितम् -अधिष्ठितं, महार्हमणीनाम्अत्युत्तममणिमय, वातायन-पवाक्षी यस्य तादृशः, पुष्पकनामा तन्नामकः, विमानराज: उत्तममाकाशयानम्, अम्बरपथेन गगनमार्गेण, प्रधावितः शीघ्रं यातः, कीदृशः ? कौतुकोत्ताननयनजानकीविलोकितगतिः कौतुकेन-दिदृक्षारसेन, उत्तानम्-उन्नतं, नयनं यस्यास्तादृश्या जानक्या विलोकिता-दृष्टा, गतिः-गमनं यस्य तादृशः, किं कर्तुमिव ? दृष्टां चिरात्-दीर्घकालात् , उत्सृष्ट-त्यक्तं, दृष्ट-दर्शनं यस्यास्ताहशीं, यद्वा चिरात् त्यक्तां विलोकितांच खामिकाम् अलकापुरीम् , अनुकूलपवनप्रसारितैः अभिमुखवाहिवायुविस्तारितैः, पताकाबाहुभिः पताकात्मकभुजैः, परिरन्धमिव आलिङ्गितुमिव [811 इत्यादिपिशनितानेकरामायणमहापुरुषवृत्तान्तैः इत्यादयः-एवंप्रभृतयः, पिशुनिताः-सूचिताः, अनेके रामायणसम्बन्धिनः, महापुरुषस्य-मर्यादापुरुषस्य भगवतो रामचन्द्रस्य, वृत्तान्ताः-वार्ता यैस्तादृशैः, उत्खातरोपितैः पूर्वम् उत्खातैः--उत्पाटितैः, खपदात् प्रच्यावितैरित्यर्थः,पश्चात् पुनः रोपितैः-खपदे प्रतिष्ठापितैः, अन्तिकस्थितैः समीपस्थितैः, नरपतिभिः, अनुपदं प्रतिस्थान, प्रदर्शितान् , लङ्कापरिसरोद्देशान् लङ्कापर्यन्तस्थोर्ध्वदेशान् , सहर्ष सानन्दम् , ईक्षमाणः पश्यन् , कतिचित् कतिपयानि, दिनानि, अतिष्ठं स्थितवानहम् [ण] 1 एकदा तु एकस्मिन् दिने तु, तत्रस्थशिविर एव तत्स्थानस्थसैनिकावास एव, प्रेषितागतैः पूर्व प्रेषितैः पश्चादागतैः, प्रणिधिपुरुषैः गूढचरजनैः, प्रवर्तितः कारितप्रवृत्तिकः, अहमिति शेषः, प्राज्यवस्त्राभरणदानावर्जितसकलनाविकाः प्राज्यवस्त्राभरणानां-प्रत्रुरवस्त्रालङ्करणानां, दानेन-वितरणेन, आवर्जिताः-आनमिताः, परितोषिता इति यावत्, सकलाः-समस्त!ः, नाविका:-कर्णधारा यासां तादृशीः, नावः, सज्जीकृत्य संनद्धाः संभृता निमृता वा कृत्वा, आत्तकतिपयदिवसपाथेयैः आत्त-गृहीत, कतिपयदिवसपाथेयं-कतिपयदिनमार्गभोज्यवस्तु यस्तादृशः, प्रधानपार्थिवसूनुभिः प्रधानराजकुमारैः, च पुनः, अन्यैः, जन्य
शतनियूंढपौरुषैः जन्यशते-संग्रामशते नियूंढम्-अपरिसमाप्त, पौरुष-पराक्रमो येषां तादृशैः, पदातिपुरुषैः पादगामिजनैः, अनुगम्यमानः अनुत्रियमाणः, तत्क्षणमेव तत्कालमेव, अविक्षेपेण सङ्घीभावेन, घाटीरूपेणेत्यर्थः, उदचलम् उच्चलितवान्, उत्थाय चलितवानित्यर्थः [त]। च पुनः, अविलम्बितगतिः अविलम्बिता-सत्वरा, गतिः-गमनं यस्य तादृशः सन् , सेतोः पश्चिमेन पश्चाद्भागेन, दरं बहुदूर, गत्वा, ऊरीकृतचौर्यवृत्तेः ऊरीकृता-स्वीकृता, चौर्यरूपा बृत्तिः-जीविका येन तादृशस्य, अतिविष गर्वितस्य अतिविषम-परमदुधेष, यद् दुर्ग-पर्वतादिकं रिपुप्रवेशप्रतिरोधकं दुर्गमं स्थानं, तदात्मकं यद् बलं-सामर्थ्यम् ,यदा बलं-सैन्यं च, ताभ्यां गर्वितस्य-मदान्वितस्य, पर्वतकनाम्नः तत्संज्ञ
Page #150
--------------------------------------------------------------------------
________________
टिप्पन क - परागविवृतिसंवलिता
शस्त्रपातविद्राविताखिलदस्युलोकञ्च शोकलम्बालकं सबालकमादाय तदीयमन्तःपुरपुरन्ध्रिसार्थमर्थसंभारं च भूयः स्वशिबिराभिमुखोऽभवम् [ थ ] । प्रस्थितस्य च प्रथम एव प्रयाणके मम त्रिभागशेषायां निशी - थिन्यामत्रिनामा भट्टपुत्रः 'क्व युवराजः, क्क युवराज:' इति पृच्छञ्जवनिरायतपातया नौकया निकटमाजगाम [द], जगाद च - " कृतप्रणामः कुमारसेनापतिर्विज्ञापयति योऽयमनतिदूरे दर्शित परिमण्डलाभोगदर्शनीयाकृतिरुन्नत्य पर्याप्ताम्बरो गौरीस्तन इव त्र्यम्बकोरःस्थलस्य स्थपुटयन् विस्तारमर्णवजलस्य वामतोऽत्रलोक्यते [ध ], एष चूडालंकारः पञ्च शैलकद्वीपस्य लीलावतंसकः सागरस्य क्रीड स्थाननगर ममरमिथुनानां सिद्धिक्षेत्रं विद्याधरगणानामप्रिमो रामणीयकेन सर्वपर्वतानां रत्नकूटो नाम सानुमान [ न ], एष किल हृदयस्खलन्मैथिलीविरहशोकशङ्कोर्लङ्कापुरीमभि प्रस्थितस्य दाशरथेराज्ञया पर्वतानाहरद्भिः प्लवगयूथाधिपैरुत्पाट्य हागिरेः सानुरानीतः [ प ], उपनीतश्च भुजबलावलेपादनादर प्रसारितैककरतलस्य सेनापतेर्नलस्य तेनापि
२९२
टिप्पनकम्— नौकया लघुनावा [द] स्थपुटयन् निम्नोन्नतं कुर्वन् [घ] t
कस्य, किरातराजस्य भिल्लाधिपतेः अप्रतर्कितम् आकस्मिकम् अवस्कन्दम् आक्रमणम्, अपातयं कृतवानहम् । व पुनः, अदयशस्त्रपातविद्राविताखिलदस्युलोकः अदयशस्त्रपातैः निर्दयशस्त्राघातैः-- विद्राविताः कारितपलायनाः, अखिला:- समस्ताः, दस्युलोका:- चौरशत्रुजना येन तादृशः, शोकलम्बालकं शोकेर लम्बमानकेशम्, सबालकं बालसहितं, तदीयं रिपुसम्बन्धिनम्, अन्तःपुरपुरन्धिसार्थम् अन्तःपुराङ्गनासमूहम् च पुनः, अर्थसंभारं धनराशिम्; आदाय गृहीत्वा भूयः पुनः स्वशिबिराभिमुखः स्वसैन्यावासाभिमुखः, तद्गमनोयत इत्यर्थः, अभवं जातः [थ ] | प्रस्थितस्य कृतप्रयाणकस्य प्रथम एव मम प्रयाणके प्रस्थाने, त्रिभागशेषायां अवशिष्टतृतीयभागायां, निशीथिन्यां रात्रौ, अत्रिनामा तत्संज्ञकः, भट्टपुत्रः भट्टकुमारः, 'क्व युवराजः क युवराज : ' अस्तीति शेषः, इति पृच्छन् प्रश्नं कुर्वन्, जव निरायतपातया जवेन वेगेन, निरायतः - अतिदीर्घः, पातः - सञ्चारो यस्यास्तादृश्या, जवनिरायत पताकया इति पाठे तु जवेन वेगेन, नितराम्, आयताः- दीर्घीभूताः, पताका यस्यास्तादृश्या, नौकया लघुनावा, निकटं समीपम्, आजगाम आगतवान् [द] । च पुनः, जगाद उक्तवान् । किमित्याह - कृतप्रणामः विहिताभिवादनः, कुमारसेनापतिः कुमारस्य - भवतः, सेनाध्यक्षः, विज्ञापयति सूचयति, यद्वा हे कुमार ! कृतप्रणामः सेनापतिर्विज्ञपायतीत्यर्थः किमित्याह- अनतिदूरे किचिद्दूरे, दर्शितपरिमण्डलाभोगदर्शनीयाकृतिः दर्शिता-दृष्टिगोचरतां गमिता, परिमण्डलेन-वर्तुलेन, आभोगेनविस्तारेण, दर्शनीया, आकृति : - आकारो येन तादृशः, पुनः उन्नत्य उन्नतो भूत्वा उद्गत्येत्यर्थः, पर्याप्ताम्बरः व्याप्तगगनमण्डलः, त्र्यम्बकोरःस्थलस्य शिववक्षःस्थलस्य, गौरीस्तन इव, अर्णवजलस्य समुद्रजलस्य, विस्तारं स्थपुटयन् आच्छादयन्, निम्नोन्नतं कुर्वन् वा, योऽयं, वामतः वामभागे, अवलोक्यते दृश्यते, एष सोऽयं रत्नकूटः अन्वर्थतत्संज्ञः, सानुमान् पर्वतः अस्तीति शेषः, नामेति वाक्यालङ्कारे, कीदृशः ! पञ्चशैलकद्वीपस्य पञ्चशैलाः पर्वताः सन्ति यस्मि नित्यन्वर्थ तत्संज्ञकद्वीपस्य, चूडालङ्कारः मस्तकालङ्कारः, पुनः सागरस्य समुद्रस्य, लीलावतंसकः क्रीडालङ्कारः, पुनः अमरमिथुनानां देवदम्पतीनां, क्रीडास्थानं क्रीडाक्षेत्रम्, विद्याधरगणानां विद्याधरः- प्राप्तातिशयमानुषविशेषः, तत्समूहानां सिद्धिक्षेत्रम् अणिमाद्यष्टसिद्धिपीठम्, पुनः रामणीयकेन सौन्दर्येण, सर्वपर्वतानां निखिलपर्वतानाम्, अग्रिमः अग्रेसरः [ न ] | हृदयस्खलन्मैथिली विरहशोकशङ्कोः हृदये स्खलन्-आपतन्, मैथिली विरइजन्यशोकरूपः शङ्कः--कीलको बागः शूलं वा यस्य तादृशस्य, पुनः लङ्कापुरीमभि लङ्काऽभिमुखं, प्रस्थितस्य कृतप्रस्थानस्य, दाशरथेः रामचन्द्रस्य, आज्ञया पर्वतान्, आहरद्भिः सेतुबन्धार्थमानयद्भिः प्लवगयूथाधिपैः मर्कटगगणाधिपैः, उत्पाट्य त्रोटयत्वा, हाटकगिरेः सुवर्णपर्वतस्य, सुमेरोरित्यर्थः, एषः सोऽयं, सानुः समस्थलरूप एकदेशः, किल निश्वयेन, आनीतः [ प ] । च पुनः, भुजबलावलेपात् बाहुबलाभिमानात्, अनादरप्रसः रितैककरतलस्य अनादरेण प्रसारितम् एकं
Page #151
--------------------------------------------------------------------------
________________
२९३
तिलकमञ्जरी। रमणीयतातिशयदर्शनप्रीतमनसा सुचिरमवलोक्य नायमुद्रागतुङ्गातिपिशङ्गिताशामुखो वज्रमणिरिव कृत्रिमैमणिभिः पाषाणमृन्मयैरमीभिरचलैः सहैकत्र समवायमर्हतीति विमृश्य सेतोः पृथक् पाथोनिधौ निहितः, पयोधिनापि पुत्रबहुमानादात्मनः क्रीडागिरित्वेनोपकल्पितः [ फ], तदत्र विपुलावकाशपरिसरे सुप्रापशीतलस्वादुनिर्झराम्भसि स्वच्छन्दलभ्यचन्दनादिपादपैसि निरन्तरफलितनालिकेलकदलीपनसपिण्डखर्जूरप्रायतरुपण्डे तरङ्गिणीतीरसुलभदेवतार्चनोचितविशालमणिशिले युक्तमावासयितुम् [ ब]; यतो दूरमायाता वरूथिनी, व्यथितो निशीथिनीजनितजाड्योद्रेकेण समुद्रमरुता सर्व एव सुखोचितो जनः, श्रम विकलबाह्वो न वाहयन्ति सत्वरमरित्राणि यानपात्रेषु पौतिकाः, न शक्नुवन्ति निद्रावशीकृताः कर्तुमवष्टम्भं कूपस्तम्भकेषु कर्णधाराः, समीरोऽपि संप्रति प्रतीपगतिः प्रवाति, नाभिधावन्ति शिबिरगामिनं मार्गमर्गलितानीव प्रेर्यमाणान्यपि पुरो निर्यामकैः प्रवहणानि, नास्ति कश्चिन्नेदीयानितश्चलितानामाश्रयो
टिप्पनकम्-उपनीतश्च ढौकितश्च, वानरैरिति शेषः [फ]। एधः-काष्ठम् [ब] । भरित्र-यानपात्रवहित्रम् । नेदीयान् प्रत्यासनतरः [भ]|
करतलं येन तादृशस्य, सेनापतेः, नलस्य तत्संज्ञकमर्कटस्य, उपनीतः उप-समीपं, नीतः-उपस्थापितः । रमणीयतातिशयदर्शनप्रीतमनसा रमणीयतातिशयस्य-तदीयसौन्दर्योत्कर्षस्य, दर्शनेन प्रीत-प्रसन्नं मनो यस्य तादृशेन, तेनापि नलेनापि, सुचिरम् अतिदीर्धकालम् , अवलोक्य दृष्ट्वा, नायमुद्रागतुङ्गद्युतिपिशङ्गिताशामुखः उद्रागाभिःउत्कटवर्णाभिः, तुङ्गद्युतिभिः-उच्चैःप्रसृतकान्तिभिः, पिशङ्गितानि-पीतिमानमापादितानि, आशामुखानि-दिङ्मुखानि येन तादृशः, अयं सुमेरुसानुः, वज्रमणिः हीरकमणिः, कृत्रिमैः कल्पितैः, मणिभिः, पाषाणमृन्मयैः प्रस्तरमृत्तिकामयैः, अमीभिः एभिः, अचलैः पर्वतैः सह, एकत्र एकस्मिन् स्थाने, समवायं सम्मेलनं, न, अर्हति तद्योग्यो भवति, इति इत्थं, विमृश्य विचार्य, सेतोः, पृथक् बहिः, पाथोनिधौ समुद्रे, निहितः स्थापितः। पयोधिनापि समुद्रेणापि, पुत्रबहुमानात् पुत्रसहशस्नेहातिशयात् , आत्मनः स्वस्य, क्रीडागिरित्वेन क्रीडोपयोगिपर्वतत्वेन, उपकल्पितः खीकृतः [क]। तत् तस्माद्धेतोः, अत्र अस्मिन् , विपुलावकाशपरिसरे विपुलः-विस्तृतः, अवकाशः-स्थितियोग्यतासम्पादकप्रदेशो यत्र तादृशे, परिसरे-पर्वतसमीपप्रदेशे, आवासयितुं सैन्यं निवासयितुं, युक्तम् उचितम्, कीदृशे ? सुप्रापशीतलस्वादुनिझराम्भसि सुप्रापम्-अनायासलभ्यं, शीतलं स्वादु-मधुरं च, निर्झरस्य-वतानिःसृत जलप्रवाहस्य, अम्भः-जलं यस्मितादृशे, पुनः स्वच्छन्दलभ्यचन्दनादिपादपैधसि स्वच्छन्द-खाधीनं यथा स्यात् तथा, लभ्यानिप्राप्याणि, चन्दनादिपादपानां-चन्दनादिवृक्षसम्बन्धीनि, एधांसि-काष्ठानि यस्मिंस्तादृशे, पुनः निरन्तरफलितनालिकेलकदली पनस-पिण्ड खजूरप्रायतरुषण्डे निरन्तर फलितैः-अनवरतफलितैः, नालिकेलादिभिः, प्रायाः-प्रचुराः, तरुषण्डाः-तरुवनानि यस्मिन् तादृशे, पुनः तरङ्गिणीतीरसुलभदेवतार्चनोचितविशालमणिशिले तरङ्गिण्या:-नद्याः, तीरे सुलभा-सुकरा, देवतार्चनोचिता-देवपूजनयोग्या, विशाला, मणिशिला-मणिमयफलकं यस्मिंस्तादृशे [ब यतः यस्माद्धेतोः, दूरम् , आयाता आगता, वरूथिनी सेना, सर्व एव सकलोऽपि, सुखोचितः सुखकराहारविहाराभ्यस्तः, जनः लोकः, निशीथिनीजनितजाड्योद्रेकेण निशीथिन्या-रात्र्या, जनितः-उ:पादितः, जाडयोदेकः-शेत्यातिशयो यस्मिस्तादृशेन, समुद्रमारुता समुद्रवायुना, व्यथितः पीडितः, अस्तीति शेषः । श्रमविकलबाहवः श्रमेश विकला:विह्वलाः, बाहवो-भुजा येषां तादृशाः, पौतिकाः पोतवाहकाः, यानपात्रेषु पोतेषु, अरित्राणि जलविक्षेपककाष्ठानि, सत्वरं शीघ्रं, न वायन्ति सञ्चारयन्ति । निद्रावशीकृताः निद्रया अधीनीकृताः, कर्णधाराः नाविकाः, कूपस्तम्भकेषु गुणवृक्षदण्डेषु, अवष्टम्भम् अवरोधं, कर्तुं न, शक्नुवन्ति पारयन्ति । सम्प्रति इदानीं, समीरोऽपि वायुरपि, प्रतीपगतिः प्रतिकूलगतिः, प्रवाति वहति । निर्यामकैः वाहकैः, पुरः अग्रे, प्रेर्यमाणान्यपि प्रचार्यमाणान्यपि, प्रवहणानि
Page #152
--------------------------------------------------------------------------
________________
२९४
टिप्पनक-परागविवृतिसंवलिता चितोऽन्यः प्रदेशो द्वीपसंनिवेशः पर्वतो वा, सर्वतो वेत्रलतावनाकीर्णमपारीयमर्ण एव केवलम् [भ], अतो विलम्ब्य त्रिचतुराण्यहानि प्रतिपाल्य पृष्ठानुपातिनं सैनिकलोकं विधाय रिपुयोधमार्गणव्यथितमर्मणो वीरवर्गस्य व्रणकर्म कृत्वा विचित्रतरुफलोपपादनेन क्षीणपाथेयसंग्रहदुःस्थस्य दुर्गतपदातिसार्थस्य क्षुधः प्रतीकार प्रगुणीकृत्य पटुपवनपाटितसितपटानि गिरितटाघातविघटितफलकसंधिबन्धानि यानपात्राणि पूरयित्वा स्वादुसलिलेन रिक्तजलभाण्डानि गृहीत्वा कियन्मात्रमपि सारमिन्धनदारु गम्यते प्रतिदिनमविच्छिन्नैः प्रयाणैः, इति [म ] श्रुत्वा प्रभुः प्रमाणम्" अहं तु क्षणमात्रकृतविमर्शः प्रतिगृह्य चेतसा तस्य वचनमेवं क्रियते इत्युदीर्य तं व्यसर्जयम् [य] | गते च तत्र यथागतमतीते च कियत्यपि कालक्षणे संक्षोभितसकलजलचरः स्ववासतरुखण्डोड्डीनभारुण्डपक्षिपक्षाक्षेपरवविस्तारितस्तटशायिमहाकायकरिमकरपतनवेगदूरोच्छलितपयसा संभ्रममुत्थाय निरूप्यमाण इव पुनरमृतमन्थनारम्भभीतेनाम्भोधिना सत्वरोत्थानविस्तरद्गुहामुखोत्पतत्केसरिकुलैश्च
पोताः, अर्गलितानीव केनापि निरुद्धानीव, शिबिरगामिन सैनिकाऽऽवासगामिनं, मार्ग पन्थानं, न, अभिधावन्ति शीघ्रं गच्छन्ति । इतः अस्मात् प्रदेशात्, चलितानां प्रस्थितानाम् , आश्रयोचितः विश्रामयोग्यः, नेदीयान् अतिनिकटः, द्वीपसन्निवेशः द्वीपसंस्थानरूपः, पर्वतः तद्रूपो वा, अन्यः कश्चित् , प्रदेशः, नास्ति न वर्तते; किन्तु सर्वतः सर्वत्र, वेत्रलतावनाकीर्ण वेत्राख्यलतावनव्याप्तम् , केवलम् , अपारीयं पाररहितम् , अर्ण पव जलमेव, अस्तीति शेषः [भ] । अतः अस्मात् कारणात् , त्रिचतुराणि त्रीणि वा चत्वारि वा, अहानि दिनानि, विलम्ब्य विलम्ब कृत्वा, पुनः पृष्ठानुपातिनं पृष्ठानुगामिनं, सैनिकलोकं सैन्यजनं, प्रतिपाल्य प्रतीक्ष्य, पुनः रिपुयोधमार्गणव्यथितमर्मणः रिपुयोधानां-शत्रुभटाना, मार्गणैः-बाणैः, व्यथितानि-दुःखितानि, मर्माणि-मर्मस्थानानि यस्य तादृशस्य, वीरवर्गस्य खवीरगणस्य, व्रणकर्म चिकित्सा, विधाय कृत्वा, पुनः क्षीणपाथेयसंग्रहदुःस्थस्य क्षीणेन-व्ययं गतेन, पाथेयसंग्रहेग-पथि भोजनीयवस्तुजातेन, दुःस्थस्य-दुरवस्थितस्य, दुर्गतपदातिसार्थस्य दरिद्रपादगामिगणस्य, विचित्रतरुफलोपपादनेन विविधवृक्षफलसंग्रहेण, क्षुधः बुभुक्षायाः, प्रतीकारं प्रशमनं कृत्वा, पुनः पटुपवनपाटितसितपटानि पटुपवनैः-तीबवायुभिः, पाटिताः-छिन्नाः, सितपटाः-बद्धवस्त्राणि येषु तादृशानि, पुनः गिरितटाघातविघटितफलकसन्धिबन्धानि गिरितटाघातैः पर्वतप्रान्ताघातः, विघटितः-विश्लेषितः, फलकसन्धीनां-काष्ठपटिकासम्मेलनप्रदेशाना, बन्धो येषु तादृशानि, यानपात्राणि पोतान् , प्रगुणीकृत्य प्रकृष्टगुणानि विधाय, सज्जीकृत्येत्यर्थः, पुनः रिक्तजलभाण्डानि शून्यजलपात्राणि, स्वादुसलिलेन मधुरजलेन, पूरयित्वा पूर्णीकृत्य, पुनः कियन्मात्रं कियत्प्रमाणक, सारं दृढम् , इन्धनदारु पावकोद्दीपनकाठ, गृहीत्वा, अविच्छिन्नैः विच्छेदरहितः, प्रयाणैः प्रस्थानः, प्रतिदिनं गम्यते गंस्यते ।म: इति इत्थं, सन्देशं श्रुत्वा श्रवणगोचरीकृत्य, प्रभुः त्वं, प्रमाणं तदनुसारकर्तव्याकर्तव्यावधारणसमर्थः, इति, अहं तु क्षणमात्रकृतविमर्शः क्षणमात्रविहितभावनः, चेतसा हृदयेन, तस्य सेनापतेः, वचनं वाक्य, प्रतिगृह्य आदाय, एवं क्रियते अनुष्ठीयते, इत्युदीर्य इत्युक्त्वा, तं भट्टपुत्रं, व्यसर्जयं त्यक्तवान् अस्मि [य] । तत्र तस्मिन्, भट्टपुत्रे, यथाऽऽगतं येन प्रकारेण आगमनं कृतं तथा, गते सति, च पुनः, कियत्यपि कतिपये, कालक्षणे कालसम्बन्धिनि क्षणे, अतीते व्यतीते सति, तारगम्भीरः उच्चगम्भीरः, सैन्यावासभेरीध्वनिः शिबिरसंनिवेशसूचकभेरीनादः, समन्तात् सर्वतः, दिगन्तराणि दिङ्मध्यानि, तस्तार आच्छादितवान् , व्याप्तवान् इत्यर्थः, कीदृशः? संक्षोभितसकलजलचर: संक्षोभिताः-सम्भ्रमिताः, सकलाः-समस्ताः, जलचरा:-जलजन्तवो येन तादृशः, पुनः खवासतरुखण्डोड्डीनभारुण्डपक्षिपश्नाक्षेपरवविस्तारितः खवासभूतात्-खनिवासाधिकरणभूतात्, तरुखण्डात्-वृक्षवनात्, उडीनानाम्-उत्पतिताना, भारण्डपक्षिणां-तदाख्यपक्षिजातिविशेषाणां, पक्षाक्षेपरवैः-पक्षोत्क्षेपणध्वनिभिः, विस्तारितः-विस्तारमापादितः, पुनः तटशायिमहाकायकरिमकरपतनवेगदरोच्छलितपयसा तटशायिनां-तटसुप्तानां, महाकायाना-विशालशरीराणां, करिणाजलहस्तिनां, मकराणां-नक्राणां च, पतनवेगेन-समुद्रनिपातवेगेन, दूरमुच्छलितं, पयः-जलं यस्य तादृशेन, अत एव पुनरमृतमन्थनारम्भभीतेन पुनः-द्वितीयवारं, य अमृतमन्यनस्य-सुरासुरकर्त कामृतोद्धरणार्थविलोडनस्य, आरम्भः-उपक्रमः, तभीतेन, अम्भोधिना समुद्रेण, ससम्भ्रमं सम्भ्रमपूर्वकम् , उत्थाय, निरूप्यमाण इव निश्चीयमान इवेत्युत्प्रेक्षा, च पुनः; सत्वरोत्थानविस्तरहहामुखोत्पतत्केसरिकुलैः सत्वरोत्थानेन-ससम्भ्रमोत्थानेन, विस्तरन्ति-विस्तारमापद्य
Page #153
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
२९५
कुलिशपातशङ्काविदीर्णहृदयनिर्गलत्प्राणैरिव निशम्यमानो मैनाकवग्र्यैर्गिरिभिः समन्तात् तस्तार दिगन्तराणि तारगम्भीरः सैन्यावासमेरीध्वनिः [र], येन श्रुतिविषय मायातेन स्तम्भितेवाऽऽहूतेव दत्ताज्ञेव सावरूथिनी क्षणमेकमखापि निश्चला बभूव, उच्चचाल च गतिरभसचलितध्वजावचूलचामरा प्रत्यचलम, अन्योऽन्यसंघट्टविघटितानेकयानपात्रा च प्राप कष्टेन घट्टोद्देशम् [ ल ] । अथ दशाशामुखविसर्पी सर्पितस्तास्तुमुलेन प्रतिवेलमास्फालितवेलातटानामुदधिवीचीनामुदचता दूरमश्रान्तसंतानेन कलकलेन विघटितजलदेवतावृन्द
निद्रः [ व ]
'भद्र ! सर पुरः किञ्चित्; आर्य ! देहि गमनमार्गम्; अङ्ग ! मा पीडय ममाङ्गमङ्गेन; मङ्गलक ↓ कोऽयं बलदर्पः ? कूर्पराघातैः परानाहंसि; हंस ! हस्य से दूरमुत्क्षिप्तनिष सनाग्र पल्लवोऽनया, लावण्यवति ! पृष्ठतो निबिडलग्ना पीडयसि मामन्तर्बहिश्चातिनिष्ठुरेण वल्गता पुरस्तनपीठेन; तरङ्गिके ! दूरमपसर, विनिता गतिस्तव
टिप्पनकम् - तालतुमुलेन उच्चाव्यक्तशब्देन [व] |
मानानि दीर्घीभवन्तीत्यर्थः पुनः गुहामुखात् कन्दराग्रात् उत्पतन्ति - उच्छलन्ति, केसरिकुलानि - सिंहगणा येषु तादृशैः, मैनाकवयैः मैनाकजातीयैः, गिरिभिः पर्वतैः कुलिशपातशङ्काविदीर्णहृदय निर्गलप्राणैरिव कुलिशपातशङ्कयावज्रपातशङ्कया, विदीर्णात् पाटितात्, हृदयात, निर्गलन्तः- निर्गच्छन्तः प्राणा येषां तादृशैरिवेत्युत्प्रेक्षा, निशम्यमानः श्रूयमाणः [र] | श्रुतिविषयं श्रवणगोचरताम्, आयातेन आगतेन प्राप्तेनेत्यर्थः, येन मेरीध्वनिना, स्तम्भितेव निरुद्धेव आहूतेव कृताहानेव, दत्ताज्ञेव कृतादेशेव, अखिलापि समस्तापि, वरूथिनी सेना, एकं क्षणं निश्चला स्थिरा, बभूव अभूत् । च पुनः, गतिरभसचलितध्वजावचूल वामरा गतिरभसेन-गमन वेगेन, चलितानि - उद्धूतानि, ध्वजावचूलचामराणि - ध्वजाधोमुखशिख चामराणि यस्यां तादृशी सती, च पुनः प्रत्यचलं पर्वतं प्रति, उच्चचाल उत्कर्षेण चलितवती । अन्योऽन्यसङ्घट्ट विघटितानेकयानपात्रा अन्योऽन्यसङ्घट्टेन- परस्पर सङ्घर्षेण, विघटितानि - विश्लेषितानि, विदारितानीति यावत्, अनेकानि यानपात्राणि - पोता यस्यास्तादृशी सती, कष्टेन क्लेशेन, घट्टोद्देशं तीरोर्ध्वदेश, प्राप प्राप्तवती [ल ] | अथ अनन्तरं शिबिरलोकस्य सैनिकजनस्य, कलकलः कोलाहलः, 'उल्ललास उदभूत्' इत्यत्रेणान्वेति कीदृश: ? दशाशामुखविसर्पी दशदिगन्त प्रसरणशीलः, पुनः प्रतिवेलं तस्यां तस्यां जलधिनीरविकाररूपायां वेलायाम्, आस्फालितवेलातटानाम् आइतनिरुक्तवेलाविषयतीराणाम् उदधिवीचीनां समुद्रतरङ्गाणां, दूरम्, उदञ्चता उद्गच्छता, पुनः अधान्तसन्तानेन अविच्छिन्नपरम्परेण, पुनः तारतुमुलेन उच्चगम्भीरेण, कलकलेन - कोलाहलेन, विसर्पितः प्रसारितः, वर्धित इति यावत् । पुनः कीदृशः कलकलः ? विघटितजलदेवता वृन्दनिद्रः विघटिता- विध्वंसिता, जलदेवतावृन्दस्य जलवासिदेवगणस्य, निद्रा येन तादृशः पुनः इत्यादिश्श्रूयमाणानेक सैनिकशतालापः इत्यादयःएवंविधाः श्रूयमाणा अनेके सैनिकशतस्य - शतसंख्यक सैनिकानाम्, आलापाः - आभाषणानि यस्मिंस्तादृश इति दूरवर्तिविशेषणान्तरम् [ व ], तत्र किमादयस्तदालापा इत्याह
·
भद्र कल्याणिन् ! पुर: अग्रे, किञ्चित् ईषत् सर गच्छ; आर्य! श्रेष्ठ !, गमनमार्ग गमनावकाशं, देहि; अङ्ग ! भो ! मम अङ्गं शरीरावयवम्, अङ्गेन शरीरावयवेन, तत्संघट्टनेनेत्यर्थः, मान, पीडय व्यथय; मङ्गलक ! कल्याणिन् ! यद्वा तत्संज्ञक1 अयम् अनुभूयमानः, बलदर्पः बलगर्वः कः ? येनेति शेषः, कूर्पराघातैः भुजमध्यप्रन्थिकृताभिघातैः, परान् अन्यान्, आहंसि ताडयसि; हंस ! तत्संज्ञक !, दूरमुत्क्षिप्त निवसनाग्रपल्लवः दूरमुत्क्षिप्तः - आर्द्रताभयादत्यन्तमुपरिगात्रे समानीतः, निवसनापत्रः - वस्त्रप्रान्तभागरूपः पलवो येन तादृशः, अनया स्त्रिया, हस्यसे विडम्ब्य से; लावण्य वति ! सौन्दर्यवति !, पृष्ठतः पृष्ठभागे, निबिडलग्ना अतिसंसृष्टा, त्वमिति शेषः, अतिनिष्ठुरेण अतिकठिनेन, पुनः पुरः अमे, चलता गच्छता, स्तनपीठेन स्तनतलेन, अन्तः मनसि बहिश्च बाह्यप्रदेशे च पीडयसि क्लेशयसि तरङ्गिके ! तन्नाम्नि ! दूरम्, अपसर अपगच्छ, तव जघनभित्त्या कटिपुरोभागरूपभित्त्या, सर्वतः सर्वभागेषु, निरुद्धमार्गस्य
Page #154
--------------------------------------------------------------------------
________________
२९६
टिप्पनक - परागविवृतिसंवलिता
जघनभित्त्या सर्वतो निरुद्धमार्गस्यास्य सैनिकवर्गस्य; लवङ्गिके ! परिकरबन्धदर्शनेऽपि परिचारकः खिन्नसकलगात्रयष्टिर्यथैष कम्पते तथावश्यमवतरन्त्यास्तरीतस्तव घनस्तनजघनभारेण पीडितो ब्रीडयिष्यति प्रेक्षकजनम् ; व्याघ्रदत्त ! धाव, शीघ्रमेषा विपद्यते निपतिता पोतात् पितामही मकरिकायास्तव श्वश्रूः अश्रूणि किं सृजसि ? विसृज वार्तामपि तस्य तथाविधस्थानपतितस्य दस्युनगरनारी कर्णभूषणसुवर्णस्य; स्तेनलूनप्रन्थिः पथि प्राप्स्यति विनाशं विना शम्बलेन बलभद्रकः; भद्रकं भवति यद्यासाद्यते समग्रमुग्रजनसंमर्द पीडितेन मया परेषामर्पितं सर्पिः; चयस्य ! वसुदत्त ! किमुत्तरं दास्यामि भर्तुराविष्टस्य ? विनष्टाः क्षारोदकेन मोदका:; . [श ] मन्थरक ! सा स्थवीयसी कन्था गलितमात्रैव करतलाद् गिलिता तिमिङ्गिलेन, गललग्ग्रहस्तेन मर्तव्यमधुना हिमर्ती शीतेन; भ्रातर् ! उत्प्लुत्य नौफलकाद् दत्तफालेन निष्फलमेव भग्नस्त्वया जानुः, अनुचराधीनेन धीधनेनाधुना व्यवहर्तव्यम्; अमिमित्र ! परिहृत्य तीर्थमुत्पथेन व्रजन्नतिथिर्भविष्यसि प्राहाणाम् ; अरे ग्रहिक ! मा वृथा कुट्टय पृष्ठकर्परे कूर्मम्, उदरमर्म पीडयाऽस्य निचिडमङ्गुलीयुगलेन;
टिप्पनकम् - स्थवीयसी स्थूलतरा । ग्रहः - जलचरः । प्रसेवकः -कोत्थलकः । निरनुक्रोशो निर्दयः, क्रोश रुन्दं गव्यूतिविस्तीर्णम् । प्लवकः मण्डूकः [ ष ] ।
अवरुद्धमार्गस्य, अस्य वर्तमानस्य, सैनिकवर्गस्य सैन्यसमूहस्य, गतिः गमनं, विनिता प्रतिबद्धा; लवङ्गिके ! तत्संज्ञिके !, परिकरबन्धदर्शनेऽपि उत्तरीयाधरीयवस्त्राभ्यां दृढगात्रबन्धावलोकनेऽपि स्विन्नसकलगात्रयष्टिः खिन्ना - खेदार्दा, सकला - संपूर्णा, गात्रयष्टि:- शरीररूपा यष्टिर्यस्य तादृशः, एषः, परिचारकः सेवकः, यथा कम्पते कम्पं प्राप्नोति तथा, तरीतः नौकातः, अवतरन्त्याः अधो गच्छन्त्याः, तव, घनस्तनजघनभारेण घनयोः - सान्द्रयोः, स्तनयोः, जघनयो:कटिपुरोभागयोश्च भारेण, पीडितः क्लेशितः सन् प्रेक्षकजनं दर्शकजनं, व्रीडयिष्यति लज्जयिष्यति; व्याघ्रदत्त ! व्याघ्रदत्तनामक!, धाव सत्वरमागच्छ, पोतात् जलयानपात्रातू, निपतिता स्खलिता, मकरिकायाः तत्संज्ञकस्त्रियाः, पितामही पितृमाता, तब श्वश्रूः श्वशुरभार्या, एषा, शीघ्रं झटिति, विपद्यते म्रियते; अश्रूणि नेत्रजलानि, किं किमर्थ, सृजसि मुसि, तथाविधस्थानपतितस्य तादृशस्थाने भ्रष्टस्य, दुरवगाहप्रदेशे स्खलितस्येति यावत् तस्य अनुभूतपूर्वस्य, दस्युनगरनारीकर्णभूषणसुवर्णस्य शत्रुनगरस्थकामिनी कर्णालङ्करणभूतस्य, सुवर्णस्य वार्तामपि कथामपि, विसृज त्यजः बलभद्रकः तन्नामा कश्चित् पश्चाद्रष्टः सैनिकः, स्तेनलूनग्रन्थिः स्तेनेन चौरेण, लूना- उन्मुक्ता, ग्रन्थिःपाथेयबन्धो यस्मिंस्तादृशं यथा स्यात् तथा, पथि मार्गे, शम्बलेन-पाथेयेन, विना, विनाशं प्राप्स्यतिः भद्रकं कल्याणं, भवति भविष्यति, यदि उग्र जनसम्मर्द पीडितेन उग्रेण-भयानकेन, जनसम्मर्देन-जनसङ्घर्षेण, पीडितेन व्यथितेन, मया परेषाम् अन्येषाम्, अर्पित, समग्रं समस्तं सर्पिः घृतम्, आसाद्यते प्राप्यते; वयस्य ! सखे!, वसुदत्त तन्नामक !, आविष्टस्य कोपादेशमापन्नस्य, भर्तुः खामिनः, किम् ? उत्तरं प्रतिवचनं दास्यामि वक्ष्यामि, क्षारोदकेन क्षाररमवता जलेन, मोदकाः खाद्यविशेषाः, विनष्टाः विध्वस्ताः मन्थरक ! तन्नामक | स्थवीयसी अतिस्थूला, सा कन्था प्रावरणविशेषः करतलात् हस्ततलात्, गलितमात्रैव स्खलितमात्रैव, तिमिङ्गलेन मत्स्यविशेषेण, गिलिता भक्षिता, हिमत हेमन्तऋतौ अधुना सम्प्रति, गललग्नहस्तेन गले लग्नो हस्तो यस्मिंस्तादृशेन, शीतेन तुषारपातेन, मर्तव्यं मरणावसर उपस्थितः; भ्रातः ! बन्धो !, नौफलकात् नौपट्टिकातः, उत्प्लुत्य उत्पत्य, दत्तफालेन कृतकूर्दनेन त्वया, निष्फलमेव वृथैव, जानुः ऊधपर्व, भग्नः व्रणितः, अधुना सम्प्रति, धीधनेन धीमता, अनुचराधीनेन भृत्याधीनेन तद्वारकेणैवेत्यर्थः, व्यवहर्तव्यं व्यवहर्तुं शक्यं, न तु खयमेव; अग्निमित्र ! तत्संज्ञक !, तीर्थम् अवतरणमार्ग, परिहृत्य त्यक्त्वा, उत्पथेन प्रतिकूलमार्गेण, व्रजन् गच्छन्, ग्राहाणां जलजन्तुविशेषाणाम्, अतिथिः प्राघुर्णिकः, भविष्यसि सम्पत्स्यते; अरे ग्रहिक! ग्रहणशील ! तक्षामक ! वा, पृष्ठकर्परे तस्य पृष्ठकटाहे, कूर्म कच्छपं वृथा व्यर्थं, मा कुट्टय ताडय, किन्तु अस्य कूर्मस्य, निबिडं सान्द्रम्, उदरमर्स उदरग्रन्थिम् अङ्गुलीद्वयेन - अङ्गुलीयुगलेन, पीडय व्यथय;
Page #155
--------------------------------------------------------------------------
________________
तिलकमलरी।
२९७ नोदिलिष्यत्यन्यथा चिरेणापि चरणम् ; आसन्नमरणः कृष्यतामितो वेत्रगहनादेष मुण्डनिहिततण्डुलप्रसेवको वृद्धसेवकः, प्रविष्टः सङ्कटे; निरनुक्रोशं जनमाक्रोशसि, न तु क्रोशसि रुद्धमिदमप्रतो निजतुन्दम् ; तीरमासाद्य श्रमविसंस्थुलः स्थूलपाषाणशङ्कया पृष्ठदेशे निषण्णत्रासदूरोप्लुतेन स्थलशायिना महाप्लवकेन पश्यत कथं पातितः पुनरगाधे पयोधिवारिणि वराको वरुणक:' [प]
इत्यादिश्रूयमाणानेकसैनिकशतालापः, कचित् पलायमानपुलिनशायिजलमानुषमिथुनचरणचालितवालुकारणितरमणीयः, कचित् प्रधावितोवृत्तजननिर्दयाक्रान्तशुक्तिसंपुटस्फुटनरवविस्फारितः, कचिद् दलितसरसविट्ठमाडरटसत्कारदन्तुरः, कचित् पिच्छिलशिलातलस्खलित निपतत्पदातिदत्तहास्यसहयासिलोकतालध्वनितरङ्गितो विस्तारवत्यपि नितान्तमवतारमार्गे कृच्छूलब्धान्तरस्य सत्वरं तीरमवतरतः शिबिरलोकस्योल्ललास कलकलः [स]
टिप्पनकम्-दन्तुरः-करालः [स]।
अन्यथा तत्पीडनाभावे, चरणं पादं, चिरेणापि दीर्घकालेनापि, न उद्विलिष्यति मुखादुन्मोक्ष्यति; पुनः मुण्डनिहिततण्डुलप्रसेवकः मस्तकधूततण्डुलपोलिकः, पुनः सङ्कटे विपदि, प्रविष्टः ममः, अत एव आसन्नमरणः निकटमृत्युः, एषः अयं, वृद्धसेवकः जराजीर्णसेवकः, इतः अस्मात् , वेत्रगहनात् वेत्रवनात् , कृष्यताम् अपसार्यताम् ; निरनुक्रोशं निर्दयं यथा स्यात् तथा, निरनुक्रोश इति पाठे निर्दय इत्यर्थः । जनं लोकम् , आक्रोशसि तर्जयसि, तु किन्तु, अग्रतः अग्रे, रुद्धं कृतावरोध, निजतुन्दं खकीयमांसलोदर, न क्रोशसि शोचसि, क्रोशनिरुद्धम् इति पाठे तु क्रोशविस्तीर्णमित्यर्थः; तीरं तटम् , आसाद्य प्राप्य, श्रमविसंस्थुलः श्रमविह्वलः, पुनः स्थूलपाषाणशङ्कया स्थूलप्रस्तरसन्देहेन, पृष्ठदेशे पथाद्भागे, निषण्णः उपविष्टः, वराकः शोचनीयः, वरुणकः तदाख्यसैनिकः, त्रासदूरोत्लुतेन भयदूरोत्पतितेन, स्थलशायिना स्थलशयनशीलेन, महाप्लवकेन महामण्डूकेन, पश्यत अवलोकयत, अगाधे गम्भीरे, पयोधिवारिणि समुद्रजले, कथं केन प्रकारेण, पुनरिति वाक्यालकारे निश्चये वा, पातितः मज्जितः [प]।
पुनः कीदृशः कलकल: ? कचित् कस्मिंश्चित् प्रदेशे, पलायमानपुलिनशायिजलमानुषमिथुनचरणचालितवालुकारणितरमणीयः पलायमानस्य-सेनाभयाद् विद्रुतस्य, पुलिनशायिनः-सैकततटखापशीलस्य, जलमानुषमिथुनस्यजलीयमनुष्यदम्पत्योः, चरणाभ्या-पादाभ्यांचालितानाम-उत्क्षिप्तानाम.वालुकानो-सिकतानां. रणितैः शब्दविशेषेः. रमणीयः मनोहरः; पुनः कचित् कस्मिंश्चित् प्रदेशे, प्रधावितोत्तजननिर्दयाक्रान्तशुक्तिसम्पुटस्फुटनरवविस्फारितः प्रधावितैः-प्रकर्षेण कृतधावनैः, उदृत्तजनैः-उद्धतलोकैः, निर्दयं-नितान्तम् , आक्रान्तस्य-आमर्दितस्य, शुक्तिसम्पुटस्य-सम्पुटितशुक्तः, स्फुटनेन-विश्लेषेण, यो रवः-शब्दः, तेन विस्फारितः-विस्तारितः; पुनः क्वचित् कुत्रचित् प्रदेशे, दलितसरसविद्रुमारटसत्कारदन्तुरः दलिताना-खण्डिताना, सरसानाम्-आर्द्राणां, विट्ठमाङ्कराणां-प्रवालाहराणा, टसत्कारेणध्वनिविशेषेण, दन्तुरः-समृद्धः; पुनः क्वचित् वापि स्थले, पिच्छिलशिलातलस्खलितनिपतत्पदातिदत्तहास्यसहवासिलोकतालध्वनितरङ्गितः पिच्छिलात्-चिक्कणात्, शिलातलातू-प्रस्तरतलात, स्खलितैः-विचलितः, अत एव निपतद्भिः, पदातिभिः-पादगामिभिः, दत्तैः कृतः, हास्यसहवासिभिः--हास्यसहभाविभिः, लोकानां तालध्वनिभिःकरतलशब्दध्वनिभिः, तरङ्गितः-वर्धितः। कीदृशस्य शिबिरलोकस्य ? नितान्तम् अत्यन्तम्, विस्तारवत्यपि विस्तृतेऽपि,
समुद्रावतारस्थले, कृच्छलब्धान्तरस्य कृच्छ्रेण-क्लेशेन, लब्धं-प्राप्त , अन्तरम्-अवकाशो येन तादृशस्य, पुनः सत्वरं शीघ्रं, तीरं तटम् , अवतरतः आगच्छतः [स]।
३८ तिलक.
Page #156
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृतिसंग लिता
क्रमेण चोत्तीर्णे कियत्यपि राजलोके, रिक्तीकृतोदरलघुषु तटनिकटमानीयमानेषु यानपात्रेषु, प्रस्थितेष्वावासाय पर्वतस्य पूर्वदक्षिणं भूभागमुत्सुकेषु सैनिकवृन्देषु, मुकुलितसितपटेषु दृढ निखात निष्ठुरकाष्ठकीलनियमितनौकेषु सर्वतोऽवलम्बितस्थूलनाङ्गरशिला निगडितपोतेषु गृहीतसर्वात्मोपकरणेष्वपसरत्सु नाविकेषु, नायकोपलालनारूढगर्येषु खर्वौभूय युगपगृहीतबहुजनोत्क्षिप्त भरकेष्वावासभूमिं व्रजत्सु भारभुज्यमानभुजसंधिमर्मसु कर्मकरेषु, सरभसप्रधावितेन पुरोयायिना क्लिष्टसेवकजनेन परिगृह्यमाणेषु मणिगुहागृहेषु, हठनिराकृतलुण्टाककीकटप्रायलोके स्वीकुर्वति सगर्वमुपतट प्ररूढप्रौढलवली लवङ्गकर्पूरपादपानि स्वादुसलिलनिर्झरणानि राजवल्लभविटवण्ठवर्गे [ह], भुजङ्गभयपरिहृतश्रीखण्डशाखिखण्डेषु शिखण्डिरुतमुखरितांलतामण्डपानाश्रयत्सु विद्वत्सु पर्यन्तरोपितशङ्कु संयम्यमानतनिनणी केष्वितस्ततो विस्तार्यमाणेष्यमात्यपट सासु,
२९८
टिप्पनकम् — लवली - चन्दनलता [६] |
च पुनः क्रमेण पर्यायेण, कियत्यपि कतिपयेऽपि, राजलोके नृपजने, उत्तीर्णे समुद्रादूर्ध्वमागते सति पुनः रिक्तीकृतोदरलघुषु रिक्तीकृतेन-रिकतामापादितेन, उदरेण-मध्यभागेन, लघुषु - लघुतामापन्नेषु यानपात्रेषु पोतेषु, तटनिकटं तटसमीपम्, आनीयमानेषु आगम्यमानेषु सत्सुः पुनः उत्सुकेषु भवासोयतेषु, सैनिकवृन्देषु सैनिकगणेषु, आवासाय निवासाय पूर्वदक्षिणं पूर्वदक्षिणदिगन्तरालस्थितं, पर्वतस्य भूभागं भूम्येकदेशं प्रस्थितेषु प्रयातेषु सत्सुः पुनः नाविकेषु कर्णधारेषु, अपसरत्सु अपगच्छत्सु सत्सु, कीदृशेषु ? मुकुलित सितपदेषु मुकुलितः - उपसंहृतः, सितपट:नौकोर्ध्वव्याधूयमानश्वेतवस्त्रं यैस्तादृशेषु, पुनः दृढ निखातनिष्ठुर काष्ठकी लनियमितनौकेषु दृढनिखातेन - दृढम् - अत्यन्तं यथा स्यात् तथा, निखातेन- भूगर्भनिवेशितेन, निठुर काष्ठकीलेन दृढ काष्ठमय कीलेन, नियमिता- नियन्त्रिता नौका यैवादृशेषु, पुनः सर्वतः सर्वभागेषु, अवलम्बितस्थूलनाङ्गर शिलानिगडितपोतेषु अवलम्बिताभिः - नमिताभिः स्थूलाभिःनागरशिलाभिः - यानपात्रावष्टम्भकलङ्करेतिख्यात शिलाविशेषैः, निगडितः - नियन्त्रितः, पोतः यानपात्रं यैस्तादृशेषु पुनः गृहीतसर्वात्मोपकरणेषु गृहीतानि सर्वाणि, आत्मनः - स्वस्य, उपकरणानि - नौवहनोपकरणवस्तूनि येस्तादृशेषु पुनः कर्मकरेषु किङ्करेषु, आवासभूमिं निवासस्थानं, व्रजत्सु गच्छत्सु सत्सु, कीदृशेषु ? नायकोपलाल नारूढ गर्वेषु नायकस्यस्वामिनः, तत्कर्तृकयेत्यर्थः, उपलालनया- वात्सल्योचितक्रियया, रूढः - उत्पन्नः, गर्वः - अभिमानो येषु तादृशेषु, पुनः खर्चीभूय हखतामापद्य, युगपत् एककालं गृहीतबहुजनोत्क्षिप्तभरकेषु गृहीतः, बहुजनोत्क्षिप्तः - अधिकजनैः, एकस्योपरि निक्षिप्तः, भरः-भारो यैस्तादृशेषु पुनः भारभुज्यमानभुजसन्धिमर्मसु भारेण भुज्यमानं कुटिलायमानं, भुजसन्धिमर्मबाहुसन्धिस्थानरूपं मर्म येषां तादृशेषु मणिगुहागृहेषु मणिमयकन्दरात्मकगृहेषु, क्लिष्टसेवकजनेन श्रान्तभृत्यजनेन, परिगृह्यमाणेषु समाश्रीयमाणेषु कीदृशेन ? सरभसप्रधावितेन सत्वरं कृतप्रधावनेन, पुनः पुरोयायिना अग्रगामिनाः पुनः राजवल्लभविटवण्ठवर्गे राजप्रियजारमूर्खगणे, स्वादुसलिलनिर्झरणानि मधुरजलस्रोतांसि, सगर्वे साभिमानं, स्वीकुर्वति पानावगाहनार्थमङ्गीकुर्वति सति, कीदृशे ! हठनिराकृत लुण्ठाककी कटप्रायलोके हठेन- बलात् निराकृताःअपसारिताः, लुण्टाकाः- लुण्टनशीला ये कीकटाः- कृपणा दरिद्रा वा, तत्त्रायाः - तत्प्रचुराः, लोकाः -जना येन तादृशे, कीदृशानि ? उपतटप्ररूढप्रौढलवलीलवङ्गकर्पूरपादपानि उपतटं - तटनिकटे, प्ररूढाः- उत्पन्नाः, लवलीनां क्षुदामलकानां चन्दनलतानां वा, लवङ्गानां कर्पूराणां च पादपाः-वृक्षा येषां तादृशानि [ ह ]; पुनः विद्वत्सु विज्ञजनेषु, लतामण्डपान् लतागृहान्, आश्रयत्सु निषेवमाणेषु सत्सु, कीदृशेषु ? भुजङ्गभय परिहृत श्रीखण्डशाखिखण्डेषु भुजङ्गभयेन - सर्पभयेन, परिहृतः-परित्यक्तः, श्रीखण्डशाखिनां - चन्दनवृक्षाणां खण्डः - श्रेणी यैस्तादृशेषु कीदृशान् ? शिखण्डिरुतमुख रितान् मयूरशब्दवाचालितान् पुनः इतस्ततः अत्र तत्र, आमात्यपटसनसु सचिवसम्बन्धिवस्त्रमयगृहेषु, विस्तार्यभाणेषु प्रसार्यमाणेषु सत्सु कीदृशेषु ? पर्यन्तरोपिताङ्कुसंयम्यमानत निनणीकेषु पर्यन्तरोपितेन - प्रान्तनिखातेन, शङ्कुना-कीलेन, संयम्यमानं-नियन्त्रयमाणं, तनीनां - पटविस्तारकरजूनां, नणीकं समूहो येषु तादृशेषु; पुनः सामन्तेषु क्षुदन्नृपेषु,
Page #157
--------------------------------------------------------------------------
________________
तिलकमारी।
२९९ दूरविक्षिप्तकण्टकद्रुमविटपवलयितावासेष्वावासयत्सु सत्वरान्तर्वं शिकनिवेश्यमानशुद्धान्तवनितानिशान्तेषु सामन्तेषु, अप्रतीक्षितवितन्यमानदूष्ये निषीदति मणिस्थलीषु स्थूलवसनाच्छादितवपुषि निद्राभरालसदृशि विलासिनीजने [क्ष]
___पुष्कलशुष्कचन्दनकाष्ठसंदीपितानलेषु मुहुर्मुहुर्जठरपृष्ठपरिवर्तनेन व्यपनयत्सु परुषरजनीपवनसंपर्कजनितमङ्गजाड्यमूर्ध्वस्थितेषु दुःस्थितपदातिषु, प्रकाशितनभसि तिरस्कृततरुलतालीनतमसि विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विलुप्तशैलौषधिज्वलनतेजसि भग्नवनचरमिथुनरहसि संक्षोभितक्षपाचरसदसिसर्पति दिक्षु सर्वतः संधुक्षितानामाशुशुक्षणीनां महीयसि महसि, मुखरितदरीमुखे प्रवृत्ते वातुमन्तःशिबिरमुद्वृत्तसैनिकोपद्रवप्रकुपिताद्रिनिःश्वास इव सोमणि सधूमे क्षपाचरमयामानिले [अ], सहसैव तस्य शिखरिणः पश्चिमोत्तराद् दिगन्तरादुद्धिमारुतप्रेरितो विरुतसंघात इव संनिकृष्टप्रभातसमयनष्टनिद्राणां वरुण
टिप्पनकम्-तूष्यं-पटगृहम् [२] । वयः-पक्षी, आशुशुक्षणिः-अग्निः [अ]।
दूरविक्षिप्तकण्टकद्रुमविटपवलयितावासेषु दूरविक्षिप्तैः-दूरदूरविकीर्णैः, कण्टकद्रुमविटपैः-कण्टकवृक्षशाखाभिः, वलयिताः-वेष्टिता ये आवासाः-निवासस्थानानि, तेषु आवासयत्सु निवासयत्सु सत्सु, कीदृशेषु? सत्वरान्तर्वशिकनिवेश्यमानशुद्धान्तवनितानिशान्तेषु सत्वरं-शीघ्रम् , अन्तर्वशिकैः-अन्तःपुराधिकृतजनैः, निवेश्यमान-समावेश्यमानं, शुद्धान्तपनितानाम्-मन्तःपुराङ्गनाना, निशान्तं-गृहं यस्तादृशेषुः पुनः विलासिनीजने विलासशीलनारीजने, मणिस्थलेषु मणिमयभूमिषु, निषीदति उपविशति सति, कीदृशे ? अप्रतीक्षितवितन्यमानदृष्ये अप्रतीक्षितम्-अनपेक्षित, वितन्यभान-विस्तार्यमाणं, दुष्यं-पटगृहं येन तादृशे, पुनः स्थूलवसनाच्छादितवपुषि स्थूलवसनेन-स्थूलवस्त्रेण, आच्छादितं, वपुः-शरीरं येन तादृशे, पुनः निद्राभरालसहशि निद्राभरेण-निद्राधिक्येन, अलसा-खिन्ना, इक्-दृष्टिर्यस्य तादृशि [क्ष]; पुनः ऊर्ध्वस्थितेषु दण्डायमानतयावस्थितेषु, दुःस्थितपदातिषु दुःखेनावस्थितपादगामिषु, परुषरजनीपवनसम्पर्कजनितं कठोररात्रिवायुसंसर्गजनितम् , अङ्गजाड्यम् अनिश्चेष्टता, व्यपनयत्सु दूरीकुर्वत्सु सत्सु, केन ! पुष्कलशुष्कचन्दनकाष्ठसन्दीपितानलेषु पुष्कलेन-प्रचुरेण, शुष्केन-नीरसेन, चन्दनात्मकेन काष्ठेन, सन्दीपिताः-प्रज्वालिता ये, अनलाः-अमयः, तेषु, जठरपृष्ठपरिवर्तनेन उदरपश्चाद्भागपरावर्तनेनः पुनः सन्धुक्षितानाम् उद्दीपितानाम् , आशुशुक्षणीनाम् अग्नीनां, महीयसि अतिमहति, महसि तेजसि, दिक्षु दिशा मध्ये, सर्वतः समन्ततः, सर्पति प्रसरति सति, कीदृशे ? प्रकाशितनभसि उद्भासितगगनमण्डले, पुनः तिरस्कृततरुलतालीनतमसि तिरस्कृतं-निराकृतं, तर लतालीनं-तरुषु-वृक्षेषु लतासु च, लीनं-लमं, तमः-अन्धकारो येन तादृशे, पुनः विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विप्रलब्धम्-अरुणोदयप्रत्यायनया वञ्चितं, प्रभातसमयोत्सुकं-प्रातःकालागमनोत्कण्ठितं, चक्रवाकजातीयं, वयःपक्षी येन तादृशे, पुनः वि षधिज्वलनतेजसि विलुप्तं-तिरोहित, शैलौषधीनां-पर्वतस्थौषधीनां सम्बन्धिनः, ज्वलनस्य-अनलस्य स्वाभाविकस्य, तेजो येन तादृशि, पुनः भग्नवनचरमिथुनरहसि मग्न-निराकृतं, वनचरमिथुनानाधनेचरदम्पतीना, रहः-एकान्तो येन तादृशे, पुनःसंक्षोभितक्षपाचरसदसि संक्षोभितं-विघटितं, क्षपाचराणां-रात्रिचराणां, सदः-गोष्ठी येन तादृशे पुनः क्षपाचरमयामानिले क्षपायाः-रात्रः, यश्चरमः-अन्तिमो, यामः-प्रहरः, तत्सम्ब. न्धिनि, अनिले-वायौअन्तःशिबिरं शिविरमध्ये, वातुं प्रसर्पित, प्रवृत्ते सति, कीडशे ? मुखरितदरीमुखे शब्दायितकन्दराने, पुनः उदृत्तसैनिकोपद्रवप्रकुपिताद्रिनिःश्वास इव उद्वतानाम्--उद्धतानां, सैनिकानाम् , उपद्रवेण, प्रकुपितस्यअतिकुद्धस्य, अद्रे:-पर्वतस्य, निःश्वास इव-नासिकामारुत इव, सोमणि ऊष्मणा-उष्णतया सहिते, पुनः सधूमे धूमसहिते [म]। सहसैव शीघ्रमेव, तस्य प्रकृतस्य, शिखरिणः पर्वतस्य, पश्चिमोत्तरात् , दिगन्तरात् दिमेध्यात्, दिव्यमङ्गलगीतनिनदः मनोजमङ्गलगानध्वनिः, तं प्रदेशं तीरप्रदेशम् , आजगाम आगतः, क इव ? उद्धिमारुतप्रेरितः समुद्रपवनोद्वेलितः, सन्निकृष्टप्रभातसमयनष्टनिद्राणां सन्निकृष्टेन-प्रत्यासनेन, प्रभातसमयेन प्रातःकालेन,
Page #158
--------------------------------------------------------------------------
________________
टिप्पनक - परागविषृतिसंबलिता
यानवहंसयुथानाम्, आभरणनिस्वन इव स्वनिवासवीथिप्रस्थितानामसुरनगराभिसारिकाश्रातानाम्, अनारंतप्रसृतमुरजमृदङ्गझल्लरीकांस्यतालझाकृतिः, अन्तरान्तरा विसर्पदुच्छृङ्खल शङ्खकाहलाकोलाहलः, स्फुटप्रसृतटङ्कारेण वारंवार मास्फालित द्विगुणबाहुफलकानामुल्ला सितो मल्लाना मास्फोटरवेण, सविस्तरस्तुतिवृत्तपाठपुर : सरीभिरितस्ततो विस्तारितस्तारमुश्चरन्तीभिश्चतुरचारणवृन्द जयशब्दपरम्पराभिः, अनेकवेणुवीणारव सहस्रसंवर्धितः, प्लावयन्निवामृतस्रोतसा गगनमार्गमाजगाम तं प्रदेशम तिशयश्रव्य दिव्यमङ्गलगीतनिनदः [ आ ] | श्रुत्वा च तमहमश्रुतपूर्वमवधान निश्चलेन चेतसा परमयोगीव क्षणमात्रमुपजाततत्प्रभवदर्शनाभिलाषः प्रेष्य निकटवर्तिनं नरेन्द्रलोकमात्मपरिजनं च पार्श्वविधृतचामरच्छत्रधारादिद्वित्रपरिचारकः, तत्कालमन्तिकस्थमुदधिकूलासन्नसलिलस्थिरावस्थापितनावमच्छिन्नसंतानमागच्छतस्तस्य गीतध्वनेर्दत्तावधानं ध्याननिश्चलनयनतारकं तारकमवोचम् [इ] - 'सखे ! किमपि सुन्दरो गीतनिःष्यन्दः श्रुतिविषयमवतरन्नेष वारंवारमभिनवाम्भोदगर्जीद्वार
www.www.
३००
टिप्पनकम् – कांस्यताळा:- कंसालकानि [ आ ] ।
नष्टा- क्षीणा, निद्रा येषां तादृशानां वरुणयानहंसयूथानां वरुणः - पश्चिमाशापतिः, तस्य यानभूताः - वाहनभूत ये हंसातेषां यूथानां - राशीनाम्, विरुतसंघात इव निनादसमूह इव, पुनः स्वनिवासवीथिप्रस्थितानां निजवासपङ्क्तिप्रयात्तानाम्, असुरनगराभिसारिकावातानां राक्षसपुरवास्तव्यव्यभिचारिणीगणानाम्, आभरणनिखन इव अलङ्करणझणत्कार इवः पुनः अनारतप्रसृतमुरज- मृदङ्ग - झल्लरी कांस्यतालझात्कृतिः अनारतप्रसृता - अविरत प्रवृद्धा, मुरज- मृदङ्ग -झलरी- कांस्यतालानां तत्तदाख्य वाद्यविशेषाणां ज्ञात्कृतिः- ध्वनिविशेषो यस्मिंस्तादृशः; पुनः अन्तरान्तरा मध्ये मध्ये, विसर्पदुच्छृङ्खल शङ्ख- काहलाकोलाहलः विसर्पन्- प्रसरन्, उच्छृङ्खल : - उचः, शङ्खस्य, काहलायाःमहाढक्कायाः, कोलाहलः--ध्वनियस्मिंस्तादृशः पुनः स्फुटप्रसृतटङ्कारेण स्फुटं स्पष्टं यथा स्यात् तथा प्रसृतः प्रवृद्धः, टङ्कारः- ध्वनिविशेषो येन तादृशेन, वारं वारम् अनेकवारम्, आस्फालित द्विगुणबाहुफलकानाम् आस्फालितेन - आहननेन यद्वा आस्फालिते- आहते, द्विगुणे--द्विगुणस्थूले, बाहुफलके--भुजपरिघी येषां यैर्वा तेषां मल्लानां मल्लपुरुषाणाम्, भास्फोटरवेण भुजास्फालनध्वनिना, उल्लासितः उन्नमितः; पुनः चतुरचारणवृन्दजयशब्दपरम्पराभिः चतुरस्यनिपुणस्य, चारणवृन्दस्य - बन्दिगणस्य, जयशब्दपरम्पराभिः --जयकार श्रेणीभिः इतस्ततः अत्र तत्र, विस्तारितः वर्धितः, कीदृशीभिः ? सविस्तरस्तुतिवृत्तपाठपुरस्सरीभिः सविस्तरः- विस्तारसहितो यः स्तुतिपाठ - वृत्तयोः - प्रशंसाचारित्रयोः, पाठ: - कीर्तनं, तत्पुरस्सरीभिः- तत्प्रमुखाभिः पुनः सारम् उच्चैः, उच्चरन्तीभि उद्गच्छन्तीभिः पुनः अनेकवेणु-वीणारवसहस्रसंवर्धितः अनेकेषां वेणूनां वंशमयवाद्यानां, वीणानां च रवसहस्रैः सहस्र संख्याकध्वनिभिः, संवर्धितः विस्तारितः; किं कुर्वन्निव ? अमृतस्त्रोतसा अमृतप्रवाहेण, गगनमार्गम् आकाशमार्गम्, प्लावयन्निव प्रवाहयन्निवः पुनः कीदृशः ? अतिशयश्रव्यः अत्यन्तश्रवणार्हः [आ] | अहं परमयोगीव उत्कृष्टयोगीव, अवधाननिश्चलेन ऐकाम्यस्थिरेण चेतसा, अश्रुतपूर्व पूर्वमतं तं निनदं श्रुत्वा, क्षणमात्रं किञ्चित्कालम्, उपजाततत्प्रभवदर्शनाभिलाषः उपजातः- उत्पन्नः, तत्प्रभवस्य - तदुत्पत्तिस्थानस्य, दर्शनाभिलाषः - साक्षात्काराभिलाषो यस्य तादृशः, निकटवर्तिनं पार्श्ववर्तिनं, नरेन्द्रलोकं नृपजनम्, आत्मपरिजनं स्वपरिवारं च, प्रेष्य प्रस्थाप्य, पार्श्वविधृतचामरच्छत्रधारादिद्वित्रपरिचारकः पार्श्वेनिकटे, विधृताः - अवस्थापिताः, चामरच्छत्र धारादयः, द्वित्राः द्वौ वा त्रयो वा परिचारकाः - सेवका येन तादृशः, तारकं तदाख्यकर्णधारकम् अवोचम् उक्तवान् कीदृशम् ? तत्कालं तत्क्षणम् अन्तिकस्थं निकटस्थम्, पुनः उदधिकूलासन्नसलिलस्थिरावस्थापितनावम् उदधिकूलस्य - समुद्रतटस्य, आसने-निकटे, सलिले- जले, स्थिरं यथा स्यात् तथा, अवस्थापिता- धृता नौर्येन तादृशम्, पुनः अच्छिन्नसन्तानम् अविरतसन्ततिकं यथा स्यात् तथा, आगच्छतः आपततः, तस्य प्रकृतस्य, गीतध्वनेः गानशब्दस्य, तच्छ्रवण इत्यर्थः, दत्तावधानं समाहितहृदयं, ध्याननिश्चलनयनतारकं ध्यानेन - मनःसमाधानेन, निश्चला-स्थिरा, नयनतारका - नेत्र कनीनिका यस्य तादृशम् [इ] । किमवोचमित्याह - सखे ! मित्र !, किमपि सुन्दरः अनिर्वचनीयमनोहरः, एषः गीतनिःष्यन्दः गीतप्रवाहः, गीतनिनाद इति पाठे तु गानध्वनिः, वारं
Page #159
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
३०१
इव मयूरं सारसकुलकाण इव निर्जलारण्यपथिकमधिकोद्भूतहर्षमाकर्षति ममान्तःकरणम् । आयासितश्च त्वमधुना न युज्यसे नियोजयितुम् , तथापि ब्रवीमि यदि नातिमात्रमध्वश्रमो बाधाकरः शरीरस्य, मन्दोद्यम वा न यात्रा प्रति मनः, ततः प्रगुणीकुरु गमनाय नावं [ई ], यावदद्यापि पृष्ठतो वहति शिबिरं, यावदवतारयन्ति तीरभुवि सेनावरा यथास्वं कस्वराणि, यावन्निरन्तराणि संचरन्ति सामन्तानामितस्ततो यानपात्राणि, यावच्च मुक्तास्मत्संनिधिर्निवेशयति पटमन्दिराणि परितो राजकुलमाकुलाऽऽकुलोऽङ्गरक्षवर्गः, तावदनुपलक्षिता एव यामः [उ ], पश्यामश्च दिव्यगीतध्वनेरस्य प्रारम्भकं लोकं, यत्र च क्वापि नगरे वा नगे वा सागरोदरसैकते वा ध्वनन्त्यमूनि वादित्राणि तत्र नियतमत्यद्भुतेन कस्यचिन्महाराजस्य राज्याभिषेकेण वा लोकत्रयख्यातचरितस्य खेचरेन्द्रस्य विद्यासिद्धिलाभेन वा प्रकृष्टरूपाकृष्टसकलराजकस्य कन्यारत्नस्य स्वयंवरप्रक्रमेण वा शक्रादिसुरवृन्दारकप्रतिष्ठितस्य देवताविशेषस्य यात्राव्यतिकरेण वा भवितव्यं, न ह्यल्पीयसि प्रयोजने यत्र तत्र चोत्सवे कदाचिदेवंविधो भवति सकलत्रिभुवनचमत्कारकारी समारम्भः, समासन्नदेशप्रभवश्व वाद्यध्वनिरसाविति व्यक्ततयैव ताललयविशेषाणामवगतम्' [ ऊ]
टिप्पनकम्-कस्वराणि उपस्करम् [] ।
पारं, श्रुतिविषयं श्रवणपथम् , अवतरस्नेव आगच्छन्नेव, एष इति स्थाने एव इति पाठः, अधिकोद्भुतहर्ष प्रचुरोत्पन्नानन्दं यथा स्यात् तथा, मम अन्तःकरणम् , आकर्षति आकृष्य वशीकरोति, के क इव ? मयूरम् , अभिनवाम्भोदगोंद्वार इव नवीनमेघगर्जनातिशय इव, पुनः निर्जलारण्यपथिकं निर्जलवनमार्गगामिनं, सारसकुलक्काण इव सारसकुलस्य-समीपस्थजलाशयसूचकसारसजातीयपक्षिसमूहस्य, वाणः-शब्द इव । अयासितः श्रमितः, त्वम् , अधुना सम्प्रति, नियोजयितुं प्रकृतगायकान्वेषणाय व्यापारयितुं, न युज्यसे योग्यो वर्तसे, तथाऽपि तदयोग्यत्वेऽपि, ब्रवीमि वच्मि, यदि अध्वश्रमः मार्गगमनपरिश्रमः, शरीरस्य, अतिमात्रम् अत्यन्तं, बाधाकरः दुःखाकरः, न स्यादिति शेषः, वा अथवा, यात्रां प्रति यात्राविषये, मनः, मन्दोद्यम शिथिलोद्यमं, न अस्तीति शेषः, ततः तर्हि, नावं, गमनाय प्रयाणाय, प्रगुणीकुरु सज्जय [ई ] । अद्यापि यावत्, पृष्ठतः पृष्ठभागे, शिविरं सैन्यसमूहः, वहति आयाति; यावत् तीरभुवि तीरभूमौ, सेनावराः सेनाश्रेष्ठाः, यथाखं यथायथं, कखराणि उपस्करनिकरम् , अवतारयन्ति अधो नयन्ति; यावत् निरन्तराणि निरवकाशानि, निरवच्छिन्नानीत्यर्थः, सामन्तानां क्षुद्रनृपाणां, यानपात्राणि पोताः, इतस्ततः अत्र तत्र, सञ्चरन्ति प्रचलन्ति; च पुनः, यावत् मुक्तास्मत्सन्निधिः त्यचास्मरसामीप्यः,आकुलाकुलोऽङ्गरक्षघर्गः अतिव्यप्रान्तःकरणोऽरक्षाधिकृतगणः, राजकुलं राजमन्दिर, परितः सर्वतः, पटमन्दिराणि वस्त्रगृहाणि, निवेशयति स्थापयति; तावत् अनुपलक्षिता एव केनाप्यलक्षिता एव सन्तः, यामः गच्छामः [1] । च पुनः, अस्य प्रत्यक्ष श्रूयमाणस्य, दिव्यगीतध्वनेः मनोहरगायनशब्दस्य, प्रारम्भकं प्रवर्तक, लोकं जनं, पश्यामः; यत्र यस्मिन् , कापि कुत्रापि, नगरे वा, नगे वा पर्वते वा, सागरोदरसैकते वा समुद्रमध्यवर्तिसिकतामयस्थले वा, अमूनि तानि, पादिवाणि वाद्यानि, ध्वनन्ति नन्दन्ति, तत्र नियतं निश्चितं, कस्यचित् अविज्ञातनान्नः, महाराजस्य महानृपस्य, अत्यद्भुतेन अत्याश्चर्यावहेन, वा अथवा, लोकत्रयख्यातचरितस्य भुवनत्रयप्रसिद्धचरित्रस्य, खेचरेन्द्रस्य विद्याधरेन्द्रस्य, विद्यासिद्धिलाभेन विद्यापीढिप्राप्त्या, वा अथवा, प्रकृष्टरूपाकृष्टसकलराजकस्य प्रकृष्टरूपेण-उत्कृष्टखरूपेण, आकृष्ट-वशीकृतं, सकलं-समग्रं, राजक-राजसमूहो येन तादृशस्य, कन्यारतस्य कुमारिकारत्नस्य, स्वयंवरप्रक्रमेण स्वयंवरसमारम्मेण, वा अथवा, शक्रादिसुरवृन्दारकप्रतिष्ठितस्य शक्रादिभिः-इन्द्रादिभिः, सुरवृन्दारकैः-सुरश्रेष्ठैः, प्रतिष्ठितस्य-प्रतिष्ठामापनस्य, देवताविशेषस्य, यात्राव्यतिकरण यात्रासम्मर्दैन, भवितव्यं भवितुं योग्य, हि यतः, अल्पीयसि अत्यल्पे, प्रयोजने उद्देश्ये, यत्र तत्र चोत्सवे साधारणोत्सवे च, एवंविधः एतादृशः, सकलत्रिभुवनचमत्कारकारी समप्रखर्ग-मल पाताललोककौतुकावहः, समारम्भः समारोहः, कदाचिद्, न भवति न जायते। असौ वाद्यभ्वनिः वाद्यशब्दः,
Page #160
--------------------------------------------------------------------------
________________
३०२
टिप्पनक-परागविवृतिसंवलिता इति ब्रुवाणे मयि क्षणमथोमुखः स तूष्णी स्थित्वा जगाद--'युवराज! गम्यते न कश्चिदपि दोषः, दृश्यते च कौतुकमिदम् , किं तु सर्वत एव दुर्गः पर्वतस्यास्य पर्यन्तेषु तोयराशिर्न शक्यते महान्तं यत्नमन्तरेण यानपात्रिकैरवगाहयितुम् ; अत्र हि महाप्रमाणाः संचरन्ति जलचराः, पदे पदे प्रकृतिदुस्तराः प्रवहणानां निवर्तयन्ति गतिमावर्ता:, स्थाने स्थाने शिथिलयन्ति यात्रोत्साहमतिशयोदनास्तटग्रावाणः [] । ईदृशे च निसर्गदुरवतारे नीरधावनवधारित कर्णधारेषु केनापि निरपाये पथि यथावदविभाव्यमानसमानसमविषम् . भागायां विभावर्यामनुक्षणमपेक्षणीयसाहायकेष्वनासन्नवर्तिध्वपरयानपात्रेषु यानमत्यन्तसक्लेशमिति मन्यमानस्य मे मनाङ्मन्दायते चित्तम् , अभिलाषस्तु न केवलं कुमारस्य ममाप्यस्ति गन्तुम् , यतः-पूर्वमप्येकदाऽस्माभिरिहावासितैः श्रुतोऽयमासीदन्यैरपि कर्णधारैरनेकशः कथितमत्र ध्वनेरस्य सामान्येन समुत्थानं न तु विशेषत: यतोऽयं प्रवर्तते यो वास्य प्रवर्तक इति कुतोऽपि विशेषोपलब्धिरुपजाता [ ऋ], इत्यभिहिते तेन समधिकोत्पन्नकौतुकः पुनरवोचम्-'सखे ! यदि तवाप्यभिलाषस्तदलं विलम्बितुम् , उत्तिष्ठ गमननिष्ठो भव,
टिप्पनकम्-यानं गमनम् [ऋ]।
समासन्नदेशप्रभवः अतिनिकटदेशोत्पन्नः, इति ताल-लयविशेषाणां तालशन्दः करतले करास्फोटे कांस्यमयवाद्यभेदे गीतादौ द्वित्रमात्रादिकालक्रियामानादौ च वर्तते, मृत्यगीतवाद्यानामेकतानता लयः, तद्विशेषाणां-तत्प्रकाराणाम् , व्यक्ततयैव स्फुटतयैव, अवगतं निश्चितम् [ ऊ] । मयि, इति अनुपदोक्तप्रकार, अवाणे कथयति सति, सः तारकः, अधोमुखः भवनतवदनः सन् , क्षणं तूष्णीं निःशब्द, स्थित्वा, जगाद् उक्तवान्, किमित्याह-युवराज! गम्यते तदनुसन्धानाय प्रस्थीयते, कश्चिदपि कोऽपि, दोषः आलस्यादिः, न विद्यत इति शेषः, च पुनः, इदं वर्तमानं, कौतुकं उत्सवः, तावक तदन्वेषणोत्सुक्य वा, दृश्यते अनुभूयते, किन्तु परन्तु, सर्वत एव सर्वेष्वेव मार्गेषु, दुर्गः दुरवगाहः, अस्य सुवेलाख्यस्य पर्वतस्य, पर्यन्तेषु प्रान्तेषु, विद्यमान इति शेषः, तोयराशिः समुद्रः, यानपात्रिकैः पौतिकैरपि, महान्तं प्रचुरं, यत्रम् मायासम् , अन्तरेण विना, अवगाहयितुं प्रवेष्टुं, न शक्यते पार्यते; हि यतः, अत्र अस्मिन् समुद्रे, महाप्रमाणाः अतिविस्तृताः, जलचराः जलजन्तवः, सञ्चरन्ति उच्छलन्ति, पुनः पदे पदे स्थाने स्थाने, प्रकृतिदुस्तराः स्वभावतो दुरतिक्रमाः; आवर्ताः अलभ्रमयः, प्रवहणानां पोतानां, गतिं गमनं, निवर्तयन्ति निरुन्धन्ति; पुनः स्थाने स्थाने . प्रत्येकस्थाने, अतिशयोदग्राः अत्यन्तोनताः, तटग्रावाणः तटस्थप्रस्तराः, यात्रोत्साहं प्रयाणोद्यम, शिथिलयन्ति मन्दीकुर्वन्ति [क]। ईदृशे एवंविधे, निसर्गदुरवतारे खभावतो दुरवगाहे, नीरधी समुद्रे, कर्णधारेषु कैवर्तानां मध्ये, केनापि, अनषधारिते अनिर्णीते, निरपाये मिरापरके, पथि मार्गे, यथावत् यथायथम् , अविभाव्यमानसमानसमविषमभागायाम् अविभाव्यमानौ- अनवधार्यमाण, अत एव समानौ-तुल्यौ, समविषमभागौ-समतल-विषमोन्नतभागी यस्यो तारश्या, विभावर्या रात्री, अनुक्षणं प्रतिक्षणम् , अपेक्षणीयसहायकेषु अपेक्षणीयम्-आश्रयणीम् , सहायकसाहाय्यं येषां तादृशेषु, अपरयानपात्रेषु अन्यपोतेषु, अनासन्नवर्तिषु अनिकटवर्तिषु सत्सु, यानं प्र सक्लेशम् अतिक्लेशसाध्यम् , इति मन्यमानस्य बुध्यमानस्य, मे मम, चित्तं हृदयं, मनाक् किञ्चित् , मन्दायते शिथिलायते; गन्तुं प्रस्थातुम् , अभिलाषस्तु वाञ्छा तु, केवलं कुमारस्य भवतः, न न, अपितु ममापि अस्ति वर्तते । यतः यस्माद्धेतोः, एकदा एकस्मिन् काले, पूर्वमपि, इह अस्मिन् स्थाने, आवासितैः निवासितैः, अस्माभिः, अयं ध्वनिः, श्रतः श्रवणगोचरीकृतः आसीत, अन्यैरपि वर्तमानकर्णधारव्यतिरिक्तैरपि. कर्णधारः कैवतैः. अत्र अस्मिन् स्थाने.अस्य प्रकृतस्य, ध्वनेः, सामान्येन अविशेषेण, समुत्थान समुद्रमः, कथितम् उक्तम् , आसीत् , न तु विशेषतः विशेषेण, यतः यस्मात् स्थानात् , अयं ध्वनिः, प्रवर्तते प्रादुर्भवति, वा अथवा, अस्य ध्वनेः, यःप्रवर्तकः प्रादुर्भावक इति, कुतोऽपि कस्मादपि, विशेषोपलब्धिः विशेषपरिचयः, उपजाता अभूत् [ ]। इति इत्थं, तेन तारकेण, अभिहिते उक्ते सति, समधिकोत्पन्नकौतुकः उत्पन्नप्रभुरतरौत्सुक्यः सन्, पुनः अवोचम् उक्तवानहम् , किमित्याह-सखे! भो मित्र ! यदि
Page #161
--------------------------------------------------------------------------
________________
तिलकमलरी।
३०३ मैकान्ततो विनिपातभीरुर्मश्रीव यात्राभियोगभङ्गार्थमर्थशास्त्रप्रदर्शितेन वर्मना देशकालसहायवैकल्यादीनि कारणान्यकारणमेव दर्शय, सक्लेशमस्तु यदि वा क्लेशरहितम् , अवश्यमेव तावद् गन्तव्यमवगन्तव्यं च गीतध्वनेरस्य तत्त्वम् , अकृतगमनो न तावदधुना प्रयत्नेनापि शक्नोमि चेतसः कुतूहलतरलितस्य त्वराभङ्ग कर्तु, कृत्वापि कृच्छ्रेणावासमुपगतः प्रत्यप्रेण पश्चात्तापहुतभुजा दन्दह्यमानदेहो दिवसमपि न स्वस्थचित्तः स्थास्यामि, प्राप्तनिजभूमेरपि समुद्रवार्तावसरेषु स्मरणमस्योपजायमानं न मे कारणमनणीयसो रणरणकस्य न भविष्यति [ल] । एवं च स्थिते क्लेशोऽपि वरमल्पकालमनुभूतः शरीरेण स्तोको न जीवितावधिर्मनसा महान् शोकः, यदि च निमित्तशास्खं प्रमाणं ततः सोऽपि गच्छतामस्माकमिह नास्ति, सर्वत्र निरपाया प्रमोदहेतुश्च यात्रेयमिति भावय स्वयं तत्त्वदृष्टया, नहि सग्निकृष्टायामापदि दुरुपपादायां च कल्याणसंपदि कदाचिदीदृशी निरातङ्कता त्वरा च चित्तवृत्तेर्भवति, तदलमपायशङ्कया, कुरु स्थिरमस्थान एव भड्डरीभूतं चेतः, चिन्तय प्रस्थानकालोचितं सकलमात्मीयकल्पम् , अर्पय तमस्तिरोहितवस्तुसाक्षात्करणाय रजनीसमयक्षेपणीयमीक्षणयोरञ्जनम् , नियोजयाऽन्ययानपात्रिकासत्तिनिरपेक्षः सहायपक्षे युगायतं निजमेव भुजयुगलम् , अध्य
तवापि, अभिलाषः तदन्वेषणैषणा, वर्तत इति शेषः, तत् तर्हि, विलम्बितुं तदन्वेषणे विलम्ब कर्तुम् , भलं व्यर्थम् , उत्तिष्ठ, गमननिष्ठः प्रयाणपरः, भव । मन्त्रीव विनिपातभीरुः अनर्थागमभयान्वितः सन् , यात्राभियोगभङ्गार्थ प्रयाणोद्यमविलोपार्थम् , अर्थशास्त्रप्रदर्शितेन नीतिशास्त्र प्रदर्शितेन, वर्त्मना मार्गेण, देशकालसहायवैकल्यादीनि कारणानि समुचितदेशकालाभावादिप्रयाणप्रतिबन्धहेतून, अकारणमेव अहेतुकमेव, एकान्ततः नियमेन, न दर्शय ब्रूहि । यदि सक्लेशं क्लेशपूर्वकम् , वा अथवा, क्लेशरहितं विनैव क्लेशम् , अस्तु गमनं भवतु, अवश्यं तावत् प्रथम, गन्तव्यं तत्र प्रस्थातव्यम् , च पुनः अस्य भूयमाणस्य, गीतध्वने गानशब्दस्य, तत्त्वं याथातथ्यम् , अवगन्तव्यं निश्चेतव्यम् । अकृतगमनः अविहिततदन्वेषणार्थप्रयाणः, प्रयत्नेनापि महता यत्नेनापि, कुतूहलतरलितस्य तदौत्सुक्याकुलितस्य, चेतसः हृदयस्य, त्वराभङ्गम् औत्सुक्यशान्तिम् , तावदिति वाक्यालङ्कारे, अधुना इदानीं, कर्तुं न, शक्नोमि पारयामिः कृच्छ्रेण क्लेशेन, कृत्वापि कथञ्चन तद्भङ्गं विधायापि, आवासं निजनिवासस्थानम् , उपगतः उपस्थितः सन् , प्रत्यग्रेण अभिनवेन, पश्चात्तापरतभुजा यथावत् तदकरणजन्यानुतापवदिना, दन्दद्यमानदेहः जाज्वल्यमानशरीरः.दिवसमपि दिनमेकमपि. खस्थचित्तः प्रकृतिस्थमनाः, न स्थास्यामि बतिष्ये । प्राप्तनिजभूमेरपि उपगतखराजधानीकस्यापि, मे मम, समुद्रवार्तावसरेषु समुद्रयात्रावृत्तान्तकीर्तनावसरेषु, अस्य गामध्वनेः, स्मरणम् , उपजायमानं प्रवर्तमानं सत्, अमणीयसः अत्यधिकस्य, रणरणकस्य उद्वेगस्य, कारणं, न भविष्यति भविष्यत्येवेत्यर्थः [ल.] । एवं स्थिते च ईदृशस्थितौ तु, शरीरेण अल्पकालं किञ्चित् कालम्, अनुभूतः उपभुक्तः, स्तोका अल्पः, क्लेशोऽपि दुःखमपि, वरम् ईषत्रियम्, किन्तु मनसा अन्तःकरणेन, अनुभूत इति शेषः, जीवितावधि: जीवनपर्यन्तः. शोकः पश्चात्तापः, न वर इति शेषः । यदि च निमित्तशालं शकुनशास्त्र प्रमाणम्, ततः तर्हि, सोऽपि क्लेशोऽपि, इह अस्मिन् मार्गे, गच्छतां प्रतिष्ठमानानाम्, अस्माकं, नास्ति न सम्भवति, सर्वत्र सर्वस्मिन् मा, निरपाया क्लेशरहिता, प्रत्युत प्रमोदहेतुश्च शुभजनिका च, इयं यात्रा, भवेदिति शेषः, इति स्वयं तत्त्वदृष्टया यथार्थधिया, भावय आलोचय, हि यतः, आपदि विपत्ती, सन्निकृष्टायां प्रत्यासन्नायां च पुनः, कल्याणसम्पदि शुभसम्पत्ती, दुरुपपादायां दुरवापायां विप्रकृष्टायामिति यावत् , कदाचित् कदापि, चित्तवृत्तेः मनोवृत्तेः, ईदशी एवं विधा, निरातङ्कता अपायशङ्काशून्यता, च पुनः, स्वरा तदनुसन्धानार्थप्रयाणातुरता, न भवति सम्भवति, तत् तस्मादेतोः, अपायशङ्कया आपत्तिसंशयेन, अलं व्यर्थम् ; अस्थान एव अनवसर एव, भारीभूतम् अपायशङ्कया सम्भ्रान्तं, चेतः अन्तःकरणं, स्थिरीकुरु खास्थ्यमापादय । प्रस्थानकालोचित प्रयाणावसरोचितं यथा स्यात् तथा, सकलं सर्वमपि, आत्मीयकल्पम् आत्मनः कर्त्तव्यविधिः, चिन्तय अवधेहि, पुनः तमस्तिरोहितवस्तुसाक्षात्करणाय निशान्धकारावृतवस्तुविलोकनार्थ, रजनीसमयक्षेपणीयं रात्रिकालेऽपणीयम् , ईक्षणयोः-नेत्रयोः, अजन-संस्कारकद्रव्यम् , अर्पय लगय; अन्ययानपात्रिकासत्तिनिरपेक्षा अन्यपोतप्रत्यासत्यपेक्षारहितः सन् , सहायपक्षे सहकारि
Page #162
--------------------------------------------------------------------------
________________
३०४
टिप्पनक- परागविवृतिसंवलिता
वसितस्य ते गोष्पदमदृश्यमानपारः सकलोऽप्यकूपारः, किं पुनश्चक्षुः परिच्छेद्यमहिमा तदेकदेश: ? [ ] इति ब्रुवाणे मयि क्षणं स दोलायमानचित्तः स्थित्वा पुनरवादीत् - 'कुमार! भ्रूक्षेपमात्र व्यापारणीये मयि किमियता वचनविस्तरेण ?, यद्यवश्यमेव गन्तव्यमिति निश्चयस्तन्न कश्चिदपि ते कौतुकप्रतिपन्थी, प्रस्थीयता - मभ्युदयाय, सज्जोऽयमाजन्मनः परिपोषितः सर्वेष्वन्यराजकार्येष्वनुपयुक्त एतावन्मात्रप्रयोजनः प्रेष्यजनः ' इत्यभिधाय प्रणतेन मूर्ध्ना बद्धा नमस्काराञ्जलिमुदन्वते तत्क्षणोपनताभिप्रेतशकुनप्रगुणितमनोवृत्तिः प्रवर्तयामास गमनायासदोलायमानध्वजध्वनितकिङ्किणीनिबद्धोद्धु रविरावां नात्रम्, प्रावर्तयच्च प्राचेतसेन मसृणमसृणमनुसृततूर्य निस्वनो दिक्पथेन [ ए ] | प्रस्थितायां च तस्यां सहसैव स्पन्दिताधरपुटमचिरभाविनमा नन्दमिव मे निवेदयामास दक्षिणं चक्षुः, आश्चर्यदर्शनत्यरयेव सर्वतो विभाव्यमानरम्यरोमोद्भेदमश्वभिव जात्यमनिमित्तमेवारुरोह हर्षप्रकर्षमन्तरात्मा, हृदयप्रसर्पदुद्दामहर्षोत्थापितश्च किञ्चित् सशेषनिद्र इव प्रारभत जृम्भितु - • मायताध्वपरिश्रमप्रसुप्तो गमनोत्साहः [ ऐ ] |
टिप्पनकम् - प्राचेतसेन वारुणेन । मसृणमसृणं मन्दं मन्दम् [ ए ] । सशेषनिद्र इव जृम्भितुं जृम्भां मोक्तुम्, अन्यत्र विकसितुम् [ ऐ] 1
पदे, युगायतं वृषस्कन्धारोप्यशकटाम्यदण्डवद्दीर्घ, निर्जं स्वकीयं, भुजयुगलमेव बाहुद्वयमेव, नियोजय जलचरावर्ततटप्रावादिगमनप्रतिबन्धकापनयनाय स्थापय, अध्यवसितस्य गमनोद्युक्तस्य, ते तव, अदृश्यमानपारः अलक्ष्यमाणचरमाधः, सकलोऽपि समोऽपि, अकूपारः सागरः, गोष्पदं गोपदप्रमाणः, तर्हि चक्षुः परिच्छेद्यमहिमा चक्षुषैव प्रमेयमहत्ताकः, तदेकदेशः सागरैकावयवः, किं पुनः तस्य गोष्पदत्वं किमुतेत्यर्थः [ ] । मयि, इति इत्थं, ब्रुवाणे कथयति सति, सः तारकः, क्षणं क्षणपर्यन्तं, दोलायमानचित्तः गमनागमनानवधारणक्षुब्धहृदयः सन् स्थित्वा मौनमास्थाय पुनः, अवादीत् उक्तवान् किमित्याह- कुमार 1, खूक्षेपमात्रव्यापारणीये भूत्क्षेपात्मक संकेतमात्रप्रवर्तनीये, मय, इयता एतावता, वचनविस्तरेण वागाडम्बरेण किं प्रयोजनमिति शेषः, न किमपीत्यर्थः, यदि अवश्यमेव, किं गन्तव्यं प्रस्थातव्यमिति निश्चयः, अस्तीति शेषः, तत् तर्हि, ते तव, कश्चिदपि कोऽपि कौतुकप्रतिपन्थी गमनाभिलाषप्रतिबन्धी, न वर्तत इति शेषः, अभ्युदयाय मङ्गलाय, प्रस्थीयतां गन्तुमारभ्यताम्, आ जन्मनः जन्मारभ्य, परिपोषितः प्रतिपालितः, सर्वेषु समस्तेषु, अन्यराजकार्येषु राजोचितकार्यान्तरेषु, अनुपयुक्तः अकृतोपयोगः, किन्तु एतावन्मात्रप्रयोजनः एतत्कार्यमात्रोपयोगी, अयं प्रेष्यजनः मृत्यजनः, सज्जः प्रस्थानाय सन्नद्धः, अस्तीति शेषः । इत्यभिधाय इत्युक्त्वा, प्रणतेन अवनतेन, मूर्ध्ना मस्तकेन, उदन्वते समुद्राय नमस्काराञ्जलिं नमस्कारात्मककर सम्पुटं, बद्धा विरचय्य, तत्क्षणोपनताभिप्रेतशकुनगुणितमनोवृत्तिः तत्क्षणोपनतैः- तत्कालोपस्थितैः, अभिप्रेतशकुनैः - अभिमतशुभसूचकवस्तुभिः, प्रगुणितमनोवृत्तिः प्रवर्तितचित्तवृत्तिः सन् गमनाया सदोलायमानध्वजध्वनितकिङ्किणीनिबद्धो दुरविरावां गमनायासेन - गमनवेगेन, दोलायमाने - व्याधूयमाने, ध्वजे - पताकायां, ध्वनिताभिः -- ध्वनिं कुर्वन्तीभिः किडि - णीभिः - क्षुद्रघण्टिकाभिः, निबद्धाः - कृताः, उद्धुराः - उच्चाः, विरावाः- ध्वनयो यस्यां तादृशीं, नावं प्रवर्तयामास प्रेरयामासः च पुनः प्राचेतसेन वरुणस्वामिकेन, पश्चिमेनेत्यर्थः, दिक्पथेन दिङ्मार्गेण, अनुसृततूर्यनिस्वनः अनुसृतः सूर्यस्य - वाद्य विशेषस्य, निखनः- निनादो येन तादृशः, मसृणमसृणं मन्दं मन्दं यथा स्यात् तथा प्रावर्त्तयत् प्रेरितवान्, नावमिति शेषः [ ए ] । च पुनः, तस्यां नावि, प्रस्थितायां गन्तुं प्रवृत्तायां सत्याम्, सहसैव अकस्मादेव, मे मम, स्पन्दिताधरपुरं किञ्चिञ्चलिपुटा कराधराघोभागं, दक्षिणं चक्षुः, अचिरभाविनं शीघ्रभाविनम्, आनन्दं शुभं, निवेदयामास इव सूचयामास इवेत्युत्प्रेक्षा । पुनः आश्चर्यदर्शनस्वरयेव आश्चर्यावलोकनौत्सुक्येनेव, सर्वतः परितः, विभा व्यमानरस्यरामोद्भेदं विभाव्यमानः- लक्ष्यमाणः, रम्यः - मनोहरः, रोमोद्भेदः -- रोमाञ्चो यस्मिंस्तादृशं जात्यं प्रशस्तम्, अश्वमिवेत्युत्प्रेक्षा, अन्तरात्मा अन्तःकरणं, हर्षप्रकर्षे हषोत्कर्षम्, अनिमित्तमेव अकस्मादेव, आरुरोह आरुक्षत् । च पुनः आयताध्वपरिश्रमप्रसुप्तः आयतेन-दीर्घेण, अध्वना-मार्गेण, मार्गगमनेनेति यावत् यः परिश्रमः खेदः, तेन प्रसुप्तः-प्रशयितः, गमनोत्साहः गानध्वनिगवेषणार्थ प्रयाणोत्साहः, हृदयप्रसर्पदुद्दामहर्षोत्थापितः हृदये-अन्तःकरणे,
Page #163
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
३०५
अथ तेन सा स्वभावधरेण सम्यगभ्यस्तयानपात्रप्रचारकर्मणा, यथाविभागमवस्थितैः स्थैर्यवद्भिरन्तिकस्थ सकलस्वोपकरणैरमूढबुद्धिभिर्विधुरेषु पचषैः कर्णधारैरात्मनः सहायीकृतैरनुगम्यमानेन, सर्वतो दत्तसप्रयत्नदृष्टिना रक्षता निपुणमद्रितट संघट्टम्, अनुवेलमीक्षमाणेन सुलिष्टबन्धानपि फलकसन्धीन्, निरुन्धता तूर्णमूर्णासिक्थकेन सूक्ष्ममपि विवरेभ्यः क्षरत्तोयमनुक्षणम्, अनिलसंक्षोभेषु नूतनाः संयोजयता रज्जूः; अजर्जरस्यापि वारं वारमापादयता सितपटस्य पाटवम् [ ओ ];
"
'इतश्चङ्क्रम्यते मकरचक्रम् इतः परिक्रामति नक्रनिकरः, इतः सरति शिशुमारश्रेणिः, इतः प्रसर्पति सर्पपङ्किः, उत्सर्पयत दीपिकाः, प्रकाशयत सर्वतो मार्गम्, अपसारयत निकटचारिणो दूरं दुष्टजलचरान् ; अयमनुप्रस्थमचलस्य चटुलबेलितलाङ्गूलवल्लिरार्द्रवल्लूरराङ्कया रक्तांशुकपताकासु पातितदृष्टिरुत्पित्सुरिव चेष्टते सिंहमकरः, किरत रहंसाभिमुखमस्य पयसि ज्वलन्तीरमितैलच्छटा:; इदमकस्मादस्मदवलोकनक्षुभितमुत्रस्त
टिप्पनकम् - पञ्चषैः पञ्चषप्रमाणैः । सिक्थकं - दमनम् । क्षरत् प्रविशत् [ अ ] ।
प्रसर्पता - प्रसरता, उदाम्ना - उद्धतेन, हर्षेण, उत्थापितः - जागरितः सन् किञ्चित् ईषत् सशेषनिद्र इव अवशिष्टनिद्र इव, जृम्भितुं जृम्भां मुखविकासरूपां मोक्तम्, अन्यत्र विकसितुं प्रारभत प्रावर्तत [ऐ] ।
अथ अनन्तरं सा नौः, तेन तारकेण, नीयमाना उद्यमाना सती, स्वल्पेनैव अत्यल्पेनैव, समयेन, दूरं जगाम गतवतीत्यप्रेणान्वेति कीदृशेन तेन ? स्वभावधीरेण प्राकृतिक धैर्यशालिना; पुनः सम्यगभ्यस्तथानपात्र प्रचारकर्मणा सम्यक्–सुष्ठु यथा स्यात् तथा, अभ्यस्तम्- अनुशीलितं यानपात्रस्य - पोतस्य, प्रचाररूपं संचालनरूपं, कर्म - कार्य येन तादृशेन; पुनः यथाविभागं यथास्थानम्, अवस्थितैः उपविष्टैः पुनः स्थैर्यवद्भिः स्थिरैः, पुनः अन्तिकस्थसकलसोपकरणैः अन्तिकस्थं - पार्श्ववर्ति, सकलं - समयं खस्य उपकरणं येषां तादृशैः पुनः विधुरेषु आपत्सु अमूढबुद्धिभिः अविवेकशून्यहृदयैः, पुनः आत्मनः खस्य, सहायीकृतैः सहकारितां नीतैः, पञ्चषैः पञ्चभिः षचिर्वा, कर्णधारैः नाविकैः, अनुगम्यमानेन अनुस्रियमाणेनः पुनः सर्वतः परितः, दत्तसप्रयत्नदृष्टिना व्यापारितसावधानदृष्टिकेन; पुनः अनुवेलं प्रतितम् अद्रितटसंघ पर्वतैकदेशसंघर्षम्, निपुणं सम्यक् रक्षता तादृशसंघट्टनं परिहारयताः पुनः सुश्लिष्टबन्धानपि दृढबन्धानपि, फलकसन्धीन नौका घटककाष्ठपट्टिकासन्धिस्थानानि, ईक्षमाणेन अवलोकमानेन; पुनः विवरेभ्यः नौकाछिद्रेभ्यः क्षरत् प्रविशत, सूक्ष्ममपि खल्पमपि, तोयं जलम् ऊर्णासिक्थकेन ऊर्णातन्तुमिश्रितमधूत्स्न, तूर्ण सत्वरं, निरुन्धता वारयता; पुनः अनिलसंक्षोभेषु पवनोद्वेलनेषु सत्सु, अनुक्षणं प्रतिक्षणं, नूतनाः नवीनाः, रज्जूः, संयोजयता संघटयता; पुनः अजर्जरस्यापि अशीर्णस्यापि, सितपटस्य नौको परिसंघटित श्वेतवनस्य, वारं वारम् अनेकवारम्, पाटवम् उत्सर्पणसौष्ठवम्, आपादयता सम्पादयता [ओ ] ।
पुनः अवसरेषु यथावसरम्, इत्यादि एवमादिकं यथाक्रमं साध्वसकरं भयजनकं च पुनः, कर्तव्योपदेशपरं कर्तव्यावेदनपरं च पुनः सप्रार्थनं प्रार्थनापरं च पुनः सपरिहासं परिहाससहितं जल्पता कथयता, इत्यप्रिमं विशेषणम् । किमादीत्याह-- इतः अस्मिन् स्थाने, मकरचक्रं मकरजातीय जलजन्तुगणः, चङ्क्रम्यते पुनः पुनरतिशयेन वोच्छलति, पुनः इतः अस्मिन् स्थाने, नकनिकरः नकजातीय जलजन्तुगणः परिक्रामति सञ्चरति पुनः इतः अस्मिन् प्रदेशे, शिशुमारश्रेणिः शिशुमारजातीयजलजन्तुसन्ततिः, सरति गच्छति, पुनः इतः अत्र स्थाने, सर्पपङ्किः जलीयसर्पसमूहः, प्रसर्पति प्रचरति, दीपिकाः दीपान् उत्सर्पयत उत्थापयत, पुनः मार्ग सर्वतः परितः, प्रकाशयत उद्भासयत, पुनः निकटचारिणः निकटगामिनः, दुष्टजलचरान् हिंसकजलजन्तून्, दूरम्, अपसारयत अपनयत । पुनः अन्चलस्य पर्वतस्य, अनुप्रस्थं प्रस्थः- पर्वतस्य वासयोग्यभूमिः, प्रस्थं प्रस्थं प्रतीति अनुप्रस्थम्, चटुलवेल्लितलाङ्गूलवलिः चटुलं - सजवं यथा स्यात् तथा, वेहिता उच्छलिता, लाङ्गूलरूपा - पुच्छरूपा, वल्लिः-लता येन तादृशः, अयं सिंहमकरः सिंहरूपो मकरः, आईवल्लूरशङ्कया भाईमांसशङ्कया, रक्तांशुक पताकासु रक्तवर्णवस्त्रनिर्मितपताकासु, दत्तदृष्टिः उत्क्षिप्तचक्षुः सन् उत्पित्सुरिव उत्पतितुमिच्छुरिव चेष्टते चेष्टां करोति, रंहसा वेगेन, अस्य सिंहस्य, अभिमुखं सम्मुखे, पयसि
३९ तिलक०
Page #164
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता कलभसंवरणविहस्तयूथपं तीरशायि जलहस्तियूथमग्रपथेन पायोनिधिमवतिनीर्षति, त्वरितमुत्सारयत युगपदाहितेन हस्ततालशब्देन दूरम् ; असौ रसातलात् सद्य एवोन्मनो वनाग्निधूम्रिकामधीकल्माषपक्षसंपुटैः शिखरिभिरधिष्ठितपृष्ठभागो मठ इव सपारापतः संचरति कमठो, मा प्रतिष्ठध्वमभिमुखमेव निकषा प्रस्थितो नेष्यत्यपथेन नावम् औ] असावपि विदारितगिरिकन्दराकारतुण्डो मानदण्ड इव सागरस्य ग्रासीकृताकन्दजलकरिजटालवदनैर्बालमत्स्यैरनुसृताभिर्मत्सीभिरनुगम्यमानो मृगयते निजप्रासोचितं सत्त्वं सत्वरमितस्ततः स्तिमितया गत्या तिमिङ्गिलो, मा विधत्त कलकलं, यातु निभृतमेव, विकृत एष महतेऽनर्थाय; वश्यतामयमतिचटुलवीचिवेगाकृष्टैर्ऋमद्भिरन्तःकुलालचक्रमेण रिक्तोदरलघुभिररित्रैरावेदितो द्वारमिव रसातलस्य वामतः समीपवर्ती शीघ्रमावर्तो; लङ्घयतामयमपि क्षेपीयः क्षयसमयसन्ध्यानुरञ्जिताम्बरैकदेशविडम्बी दक्षिणतः प्रतिक्षणमुदश्चता फणचक्रवालरत्नरागपटलेन क्रमनिपीतकल्लोलकालिमा पातुमनिलमुद्यतस्य कस्यचिन्महाहे
टिप्पनकम्-वल्लूरं-मांसम् । विहस्त:-व्याकुलः । कल्माषः-कर्पुरः । निकषा समीपम् [ औ] ।
जले, ज्वलन्तीः उद्दीप्यमानाः, अग्नितैलच्छटाः साग्मितैलधाराः, किरत क्षिपत । पुनः अकस्मात् अतर्कितम् अस्सदवलोकनक्षुभितम् अस्मदवलोकनेन-अस्मद्दर्शनेन, क्षुभितं-सम्भ्रान्तम् , पुनः उन्नस्तकलभसंवरणविहस्तयूथपम् उनस्तानां विभीतानां भयाद् भ्रान्तानामिति यावत्, कलभानां-हस्तिशावकानां, संवरणेन-संघटनेन, विहस्तः-व्यप्रहस्तः, यूथप:यूथाधिपहस्ती यस्मिंस्तादृशं, तीरशायि तटसुप्तम् , इदं जलहस्तियूथं, पाथोनिधि समुद्रम् , अवतितीर्षति अवतरीतुम्
अवगाहितुम् इच्छति, युगपदाहितेन एककालावच्छेदेनोत्पादितेन, हस्ततालशब्देन प्रस्तहस्ततलध्वनिना, त्वरितं भीघ्रं, - दूरम् , उत्सारयत अपनयत, हस्तियूथमिति शेषः। पुनः रसातलात् पातालात् , सद्य एव तत्क्षणमेव, उन्मग्नः ऊर्च मागतः, पुनः वज्राग्निधूम्रिकामषीकल्माषपक्षसम्पुटैः वज्राग्निना-इन्द्रोत्क्षिप्तवज्रेण, धूम्रिकाणां-शिंशपावृक्षाणां, या मषी-ऋजलं, तेन कल्माष-चित्रं श्यामलं वा, पक्षसम्पुटं येषां तैः, शिखरिभिः पर्वतैः, अधिष्ठितपृष्ठभागः आक्रान्तपृष्ठप्रदेशः, असौ कमठः कच्छपः, सञ्चरति उद्गच्छति, क इव ? सपारापतः पारापतैः-कपोतैः, अधिष्ठितः, मठ इव देवालय इव, मा प्रतिष्ठध्वं प्रयात, अभिमुखमेव सम्मुखमेव, निकषा समीपं, प्रस्थितः कृतप्रयाणः, अपथेन कुमार्गण, नावं, नेष्यति समयिष्यति, असाविति शेषः [ख] । पुनः विदारितगिरिकन्दराकारतुण्डः विदारितविकासितं, गिरिकन्दराकार-पर्वतगुहाकार, तुण्डं-मुखं येन तादृशः, पुनः मानदण्ड इव परिच्छेदकदण्ड इव, सागरस्य समुद्रस्य, पुनः मत्सीभिः मत्स्यत्रीभिः, अनुगम्यमानः अनुत्रियमाणः, कीडशीभिः? ग्रासीकृताक्रन्दज्जलकरिजटालघदनैः प्रासीकृतैः-कवलितः, आक्रन्दद्भिः-सशब्दं रुदद्धिः, जलकरिभिः-जलहस्तिभिः, जटालं-व्याप्तं, वदनं येषां तादृशैः, बालमत्स्यैः शैशवावस्थमत्स्यैः, अनुसृताभिः अनुगताभिः, असावपि, तिमिङ्गिलः शतयोजनविस्तृतमत्स्यविशेषः, स्तिमितया स्थिरया, गल्या, इतस्ततः अत्र तत्र, सत्वरं शीघ्रं, निजप्रासोचितं खभक्षणयोग्य, सत्त्वं जीवं मृगयते अन्विष्यति, कलकलं कोलाहलं, मा विधत्त कुरुत, महते अधिकाय, अनर्थाय अहिताय, स्याद् इति शेषः, विकृतः दुरुद्यतः, एषः अयं, निभृतं स्थिरमेव यथा स्यात् तथा, यातु गच्छतु । पुनः अतिचटुलवीचिवेगाकृष्टैः अतिचटुला:अतिचञ्चलाः, ये वीचयः-तरजाः, तेषां वेगैः-आकृष्टः-कृताकर्षणैः, कुलालचक्रक्रमेण कुम्भकारचक्रभ्रमिप्रकारेण, अन्तः समुद्रस्य मध्ये, भ्रमद्भिः, रिक्तोदरलघुभिः रिक्त-जलरहितं, यद् उदरं मध्यभागः, तेन लघुभिः-लघुत्वमापन्नैः, संचालने गतगुरुत्वैरित्यर्थः, अरित्रैः नैकाचालनकाहः, आवेदितः ज्ञापितः, पुनः रसातलस्य पातालस्य, द्वारं प्रवेशस्थानमिव, वामतः वामभागे, समीपवती, अयम् , आवर्तः जलनमिः, शीघ्र वश्यतां प्रतार्यतां वज्यतामिति यावत् । पुनः क्षयसमयसन्ध्यानुरञ्जिताम्बरैकदेशविडम्बी क्षयसमये-प्रलयकाले, या सन्ध्या तया अनुरञ्जितं-रक्तीकृतं यदम्बरम्-आकाशः, तदेकदेशविडम्बी-तदेकदेशानुकारी, पुनः दक्षिणतः दक्षिणभागतः, प्रतिक्षणं प्रतिपलम्, उदश्चता उद्गच्छता, फणचक्रवालरत्नरागपटलेन फणमण्डलस्थरत्नसम्बन्धिरक्तिमसमूहेन, कमनिपीतकल्लोलकालिमा क्रमेण
Page #165
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
रुगमनशंसी. सागरोद्देशः, तटमिव पुरस्तरङ्गैरुल्ललद्भिरुद्भाव्यते कुरुत वंशक्षेपमन्तर्वारि, दुर्वात इव दृश्यते मुकुलयत सितपटरज्जुजालम् , अग्रतो विसारिमत्स्य इव वहति लम्बयत नांगरानविलम्बितं [] मित्राणि! मन्दोऽतिमात्रं मरुत्, प्रलम्वैर्वाहुभिर्वाहयत सत्वरमरित्राणि; मकरक! मनागुदञ्चय मार्गतटरुहश्चन्दनतरोरस्य तिरश्चीमुपरिशाखाम , मूर्ख ! किमधोमुखं स्थितोऽसि मुधा, बधान हस्त एनं मण्डूकमस्तकमणिम् , अवश्यं न दश्यसे दन्दशूकैः; सकुलक! विधेहि वेदोद्धारिणः शकुलस्य केलिम् , उद्धर रक्ततैलपङ्कमग्नमूलामिमां नावम् , अधीर! माऽवधीरय मद्वचः, विचर निराकुलो, नक्रवसयाऽञ्जितलोचनस्य स्थलं ते सकलमम्बुधिजलं; शम्बूक ! बाद प्रचलायसे, न चेतयसि ग्राहेणापि गृह्यमाणचरणः, चेतसि कृतं बैलक्ष्येण, क्षालय क्षारेण सामुद्रेण वारिणा वारं वारमास्य, यास्यति द्रागेव निद्रा सहेक्षणाभ्यां क्षयं राजिलक ! सर्जितोऽपि नोपरमसि, प्रगुणयायिनीमपि नावमागस्ती गतिं प्राहयसि, अस्ति कञ्चिन्न ते दिङ्मोहः ? यधुदाहृतामप्यहृदय ! न जानास्युत्तराशावर्तनीम् , प्रवर्तस्व दृष्ट्वा दृष्ला सप्तर्षिमण्डलम्' [अ]
टिप्पनकम्-क्षेपीयः क्षिप्रतरम् [अं] । अवं च ऊर्ध्व भुत्पाटयन् (? उदञ्चय ऊर्ध्वमुत्पाटय) [अ]।
निपीतः-तिरोभावितः, कल्लोलस्य-महातरजस्य, कालिमा-कृष्णता यस्मिंस्तादृशः, अत एव अनिलं पवनं, पातुम् , उद्यतस्य कृतोद्योगस्य, कस्यचित् अविज्ञातनामकस्य, महाहेः महासर्पस्य, उद्गमनशंसी उत्सर्पणावेदकः, अयं सागरोदेशः सागरान्तर्गतोन्नतदेशः, क्षेपीयः अतिशीघ्रम् , लवयताम् अतिक्रम्यताम् , यः सागरोद्देशः, पुरः अग्रे, उल्ललद्भिः उच्छलद्भिः, तरः, तटमिव तीरमिव, उद्भाव्यते प्रत्याय्यते, अत एव अन्तर्वारि जलमध्ये, वंशक्षेपं मानकृते गतिरोधनादिकृते वा वंशप्रक्षेपणं, कुरुत; पुनः दुर्वात इव उद्धतपवन इव, दृश्यते, अत एव सितपटरजुजालं सितपटाना-श्वेतवस्त्राणां, रजना च, जालं-समूह, मुकुलयत संकोचयत, पुनः अग्रे विसारिमत्स्य इव विसारिजातीयमत्स्यविशेष इव, वहति स्पन्दते, अत एव नांगरान् लाङ्गराणि, अविलम्बितं सत्वर, लम्बयत नमयत [अं]। पुनः मित्राणि! भो सखायः।, मरुतू पवनः, अतिमात्रम् अत्यन्तं, मन्दः अनुद्धतः, अस्तीति शेषः, अतः प्रलम्बै: दीर्धेः, बाहुभिः भुजैः, अरित्राणि नौसञ्चारणकाष्ठानि, वाहयत चालयत । पुनः मकरक! तत्संज्ञक1, मार्गतटरुहः
भूततटप्ररूढस्य, अस्य पुरोवर्तिनः, चन्दनतरोः चन्दनवृक्षस्य, तिरश्चीं कुटिलाम् , उपरिशाखाम् अव॑शाखां, मनाक किश्चित् , उदञ्चय उन्नय, मूर्ख ! भो निष्प्रज्ञ!, मुधा व्यर्थम् , अधोमुखम् अवनतमुखं यथा स्यात् तथा, किम् ? किमर्थम् , स्थितः उपविष्टः, असि वर्तसे, एनम् इम, मण्डूकमस्तकमणि मण्डूकस्य-भेकस्य, मस्तके यो मणिः-रत्नं, तं हस्ते बधान गृहाण, दन्दशूकैः सर्वैः, अवश्यं निश्चितं, न दश्यसे तन्महिन्ना न दक्ष्यसे । सकुलक! तत्संज्ञक!, रक्ततैलपङ्कमग्नमूलां रक्त-रक्तवर्ण रुधिरस्वरूपं वा, यत् तैलं तन्मये, पङ्के-कर्दमे, मन्नं मूलं यस्यास्तादृशी, नावम् , उद्धर तत्पङ्कादुन्नय, वेदोद्धारिणः प्रलयपयोधेः वेदान् उद्धृतवतः, शकुलस्य मत्स्यविशेषस्य, केलिं लीला, विधेहि कुरु, अधीर धैर्यशून्य!, मद्वचः मद्वाक्यं, मा अवधीरय तिरस्कुरु, निराकुलः स्वस्थः सन् , विचर समुद्मार्गे विहर, नवसया नकाख्यजलचरमजया, अञ्जितलोचनस्य आतिनयनस्य, ते तव, सकलं समग्रम् , जलं समुद्रजलं, स्थलं स्थलतुल्यम् , अस्तीति शेषः । पुनः शम्बूक! तसंज्ञक!, बाढम् अत्यन्तं, प्रचलायसे घूर्णसे, ग्राहेणापि तदाख्यहिंस्रजलचरेणापि, गृहामाणचरणः आक्रम्यमाणपादोऽपि, न चेतयसे न अवधत्से, चेतसि मनसि, वैलक्ष्येण, विषादेन, कृतं व्यर्थ, क्षारेण क्षाररसान्वितेन, सामद्रण समुद्रसम्बन्धिना, वारिणा जलेन, वारंवारम् अनेकवारम् , आस्यं मुखं, मुखमण्डलमिति यावत् , क्षालय सिञ्च, द्रागेव शीघ्रमेव, ईक्षणाभ्यां नेत्राभ्यां, सह, निद्रा, क्षयं विनाशं, यास्यति प्राप्स्यति । पुनः राजिलक! तत्संज्ञक!, तर्जितोऽपि भर्तिसतोऽपि, न उपरमसि निवर्तसे, प्रगुणयायिनीमपि ऋजुगामिनीमपि,नावम् , आगस्तीम् अगस्त्यसम्बन्धिनी, दक्षिणामिति यावत् ,गर्ति मार्ग, ग्राहयसि गमयसि, ते तव, कच्चित् कोऽपि, दिङ्मोहः दिगभ्रमः, न ! खाभिलषितज्ञापनाय कृते प्रश्ने 'कच्चित्' इत्यस्य वर्तमानत्वाद्
अधि
Page #166
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता इत्यादि साध्वसकरं च कर्तव्योपदेशपरं प्रार्थनं च सपरिहासं च जल्पताऽवसरेषु, नीयमाना, क्वचिञ्चिरकालसंगलनसान्द्राणि कदाचिदप्यदलितानि यानपात्रैः पाटयन्ती शुकहरितशैवलपटलानि, कचित सांयात्रिकप्रचारविरहादतिस्फीततां गतैरहरहः स्फुटतां शुक्तिसंपुटानां मुक्ताफलैर्निरन्तरनिचितेषु सैकतेषु सुखप्रसुप्तानि प्रबोधयन्ती जलमानुषमिथुनानि, क्वचिद् दूरत एव श्रूयमाणमुखरपक्षिरवाणि संभ्रमोत्पतनसविशेषविततदेहायामानि जलनिधिमध्यशायीनि शैलतरुखण्डेषु पिण्डयन्ती भारुण्डाण्डजकुलानि, स्वल्पेनैव समयेन दूरं जगाम । प्रगुणवातप्रेरिता च व्रजन्ती तत्रातिदीर्धेऽपि वारिधेरध्वनि गगन इव मेघलेखा प्रायशो न कविश्वरखाल, प्रदक्षिणीकृत्य च क्रमेण तं क्षितिध्रमभिमुखीबभूव तस्य तूर्यशब्दप्रभवस्य पर्वतोद्देशस्थ [क]।
सोऽपि प्रदेशस्तां दूरादेव दर्शितोर्ध्वध्वजभुजामात्मानमिव संज्ञया दर्शयन्तीमन्तिकागतां विज्ञाय सद्य एव तं वाद्यशब्दं कदाचित् तारं कदाचिन्मन्दमुञ्चरन्तमच्छिन्नसंतानमाह्वानशब्दमिव संजहार । विरते च वादित्रनिःस्वने सततगमनोद्यमोऽपि पुनराकर्णनाशया तथैव तारकः स्तोकं गत्या सत्वरमाचकर्ष नावम् [ख]।
--
---
दिङ्मोह एवेति तात्पर्यम् , अहृदय ! हे हृदयशून्य !, उदाहृतामपि उक्तामपि, उत्तराशावर्तनीम् उत्तरदिङ्मार्गम् , न जानासि न परिचिनोषि, सप्तर्षिमण्डलं मरीच्यादिसप्तर्षितारागणं, दृष्ट्वा दृष्ट्वा असकृदवलोक्य, प्रवर्तख प्रवृत्तिं कुरु [अ]।
पुनः कीदृशी सा नौः ? शुकहरितशैवलपटलानि शुकसदृशहरितवर्ण जलतृणपुञ्जान्, पाटयन्ती उन्मूलयन्ती, कीदृशानि? क्वचित् कुत्रचित् , चिरकालसंगलनसान्द्राणि दीर्घकालजलसम्पातनिबिडानि, पुनः यानपात्रैः पोतैः, कदाचिदपि, अदलितानि अखण्डितानि । पुनः कचित् कुत्रचित् प्रदेशे, जलमानुष मिथुनानि जलीयमनुष्यदम्पतीन्, प्रबोधयन्ती जागरयन्ती, कीदृशानि सैकतेषु सिकतामयस्थलेषु, सुखप्रसुप्तानि सुखेन शयितानि, कीदृशेषु ? अहरहः प्रत्यहं, स्फुटतां दलतां, शुक्तिसम्पुटानां सम्पुटानां सम्पुटितशुक्तीनां, मुक्ताफलैः मुक्तामणिभिः, निरन्तरनिचितेषु निरवकाशव्याप्तेषु, कीदृशैः? सांयात्रिकप्रचारविरहात् पोतवणिकप्रचाराभावात् , अतिस्फीतताम् अत्युजवलता, गतैः प्राप्तैः । पुनः क्वचित् कुत्रचित् स्थाने, भारुण्डाण्डजकुलानि भारुण्डाख्यपक्षिविशेषगणान् , शैलतरुखण्डेषु पार्वतीयवृक्षपतिषु, पिण्डयन्ती समूहयन्ती, कीदृशानि? दूरत एव दूरादेव, श्रूयमाणमुखरपक्षिरवाणि श्रूयमाणः
यमानाः, मुखरपक्षिणां-वाचालपक्षिणा, रवाः-शब्दा यैस्तादशानि, पक्षिस्थाने 'पक्ष' इति पाठे श्रयमाणा मुखराः पक्षा येषामित्यर्थः, पुनः संभ्रमोत्पतनसविशेषविततदेहायामानि सम्भ्रमेण-अन्तःक्षोमेण, यत् उत्पतनम्उड्यनं, तेन सविशेषम् -अत्यन्तं, विततः-विस्तृतः, देहायामः-शरीरदैय येषां तादृशानि, पुनः जलनिधिमध्यशायीनि समुद्रमध्यशयनशीलानि । च पुनः, प्रगुणवासप्रेरिता अनुकूलपवनप्रेरिता, वजन्ती गच्छन्ती, सा नौरिति शेषः, तत्र तस्मिन् , वारिधेः समुद्रस्य, अध्वनि मार्गे, गगने आकाशमार्ग, मेघलेखा इव मेघपङ्गिरिव, प्रायशः प्रायेण, क्वचित कुत्रापि स्थाने, न चस्खाल स्खलितवती, क्रमेण दक्षिणादिमार्गक्रमेण, तं क्षितिभ्रं सुवेलपर्वत, प्रदक्षिणीकृत्य परिभ्रम्य, तूर्यशब्दप्रभवस्य तूर्याख्यवाद्यविशेषध्वनिप्रादुर्भावास्पदस्य, तस्य प्रकृतस्य, पर्वतोदेशस्य पर्वतरूपोर्ध्वदेशस्य, अभिमुखीबभूव सम्मुखीबभूव, नौरिति शेषः [क]।
सोऽपि प्रकृतवायशब्दोद्गमस्थानभूतोऽपि, प्रदेशः एकदेशः, दूरादेव, दर्शितोवंध्वजभुजां दर्शितः- स्वागमनसंकेतनाय दृष्टिगोचरतां गमितः, ऊर्ध्वध्वजरूयः-नौकोपरितनपताकात्मकः, भुजः-बाहुर्थया तादृशीम् , अतः संशया तादृशसङ्के. तेन, आत्मानमिव खमिव, दर्शयन्तीं साक्षात्कारयन्ती, तां नावम् , अन्तिकागतां समीपमागतां, विज्ञाय निश्चिल, सद्य एव तत्क्षणमेव, तं वाद्यशब्दं तूर्याख्यवाद्यध्वनिम् , आह्वानशब्दमिव आह्वानात्मकधनिमिव, संजहार उपसंहृतवान्, निवारितवानिति यावत् , कीदृशम् ? कदाचित् कस्मिंश्चित् क्षणे, तारं तीवं, कदाचित् मन्दं यथा स्यात् तथा, उच्चरन्तम् उद्गच्छन्तम् , पुनः अच्छिन्नसन्तानम् अविरतधारम् । वादित्रनिःस्व ने वायध्वनौ, विरते निवृत्ते सति, पुनराकर्णनाशया पुनः श्रवणाशया, सततगमनोधमोऽपि अविरतगमनप्रयत्नोऽपि, तारकः तदाख्यकर्णधारः,
Page #167
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। उवाच च विगतहर्षः-'कुमार! विश्रान्त एष तावदत्रैव प्रदेशे मार्गदेशकोऽस्माकमातोद्यध्वनिः । आज्ञापय किमधुना कर्तव्यम्, किमेवमेव बद्धवेगा पुरस्तादबद्धलक्ष(क्ष्य)मेव प्रवलंत इयं नौः, उत पश्चान्निवत्येते, यद्यवश्यमेव पुरः प्रयातव्यं द्रष्टव्यं च कौतुकमिति निश्चयः कुमारस्य, तन्न किञ्चिद् विलम्बन विचारेण का कृतेन प्रयोजनम् , अनेनैव पर्वतनितम्बावलम्बिना मार्गेण गम्यते यावत् किमपि दृष्टमथ न किञ्चिद् गतेन दृष्टेन वा कौतुकेन साध्यसिद्धिरिति बुद्धिस्तदलमात्मना वृथैव क्लेशितेन, प्रस्थीयते स्थानादित एव प्रतीपं, गम्यते शिविरम् , आश्वास्यते सर्वतस्त्वददर्शनेन विक्लवीभूतो भृत्यवान्धवमित्रलोकः, क्रियन्ते प्रस्तुतानि राज्यकार्याणि, कौतुकानि त्वपर्यवसानायामत्र दण्डयात्रायामदृश्यपारे भगवत्यकूपारे विचरतो यहच्छया कुमारस्य पदे पदे सुलभदर्शनानि, किं च तैः, अयमेव हि तावदवधिरद्भुतानां निदर्शनं दर्शनीयानां संकेतशाला कुतूहलकारिणां युज्यते रत्नकूटशैलः कथमपि प्रसङ्गदृष्टो द्रष्टुमनुग्रहीतुं च सपरिग्रहस्य विविधक्रीडाभिः [ग] । अत्र हि पदे पदे सुन्दरतया सुरलोकस्यापि जनितव्रीडानि क्रीडास्थानानि, स्थाने स्थाने सर्वतकानि वनानि, वने वने विकचरत्नकुसुमस्तबकतारकितानि कल्पतरूखण्डानि, खण्डे खण्डे बहुप्रपञ्चाः काञ्चनलता
तथैव पूर्ववदेव, स्तोकम् अल्पं, गत्वा, नावं, सत्वरं शीघ्रम् , आचकर्ष निवर्तयामास [ख] 1च पुनः, विगतहर्षः नष्टहर्षः सन्, उवाच उक्तवान् , किमित्याह-कुमार! युवराज!, अस्माकं, मागेदेशक: मार्गावेदकः, एषः अयम् , आतोद्यध्वनिः वाद्यविशेषध्वनिः, अत्रैव अस्मिन्नेव, प्रदेशे स्थाने, विश्रान्तः निवृत्तः, अधुना सम्प्रति, किं कर्तव्यं कर्तुमुचितम् , इति आझापय आदिश । एवमेव इत्थमेव, बद्धवेगा जनितवेगा, इयं नौ किम् , अबद्धलक्ष्यमेव अनिश्चितगन्तव्यप्रदेशमेव यथा स्यात् तथा, पुरस्तात् अग्रे, प्रवर्त्यते प्रेरिष्यते, उत अथवा, पश्चात् निवर्त्यते निवर्तयिष्यते, मयेति शेषः । यदि कुमारस्य भवतः, अवश्यमेव नूनमेव, पुरः अग्रे, प्रस्थातव्यं प्रस्थातुमुचितम् , च पुनः, कौतुकम् उत्सवः, द्रष्टव्यं द्रष्टुमुचितम् इति , निश्चयः संकल्पः, वर्तत इति शेषः, तत् तर्हि, कृतेन, विलम्ब्रेन कालात्ययेन, वा अथवा, विचारेण विवेचनेन, न किश्चिद अल्पमपि, प्रयोजनं फलम् , किं नु पर्वतनितम्बावलम्बिना पर्वतकटिभागावलम्बिना, मार्गेण, यावत् यावन्तं कालं, किमपि कौतुकमिति शेषः, दृष्टं दृष्टिगोचरं, स्यादिति शेषः, तावत् गम्यते प्रस्थीयते, अथ यदि, गतेन गमनेन, वा अथवा, दृष्टेन दृग्गोचरीकृतेन, कौतुकेन उत्सवेन, न साध्यसिद्धिः प्रयोजन-- निष्पत्तिः, इति बुद्धिः निश्चयः, स्यादिति शेषः, तत् तर्हि, वृथैव व्यर्थमेव, क्लेशितेन आयासितेन, आत्मना खेन, अलं व्यर्थम् , इत एव अस्मादेव स्थानात् , प्रतीपं पश्चात् , प्रस्थीयते प्रयाणं क्रियते, शिबिरं सैन्यावासः, गम्यते प्राप्यते, त्वदर्शनेन त्वद्दर्शनाभावेन, विक्लवीभूतः व्याकुलीभूतः, भृत्य-बान्धव-मित्रलोकः सेवकबन्धुसुहृजनः, सर्वतः समन्ततः, आश्वास्यते सान्त्व्यते, पुनः प्रस्तुतानि प्रकृतानि, राज्यकार्याणि क्रियन्ते। अपर्यवसानायां निरवधिकायाम् , अत्र अस्थां, दण्डयात्रायां दीर्घयात्रायाम् , अदृश्यपारे अलक्ष्योत्तरावधिके, भगवति ऐश्वर्यवति, अकूपारे सागरे, यदृच्छया खेच्छया, विचरतः विहरतः, कुमारस्य भवतः, पदे पदे स्थाने स्थाने, कौतुकानि तु उत्सवास्तु, सुलभदर्शनानि अनायासदशेनानि, स्युरिति शेषः च पुनः,तैः अनन्तरोपवर्णितकोतुकैः, किम् न किमपि प्रयोजनमित्यर्थः। अद्भुतानाम् आश्चर्याणाम् , अवधिः चरमसीमा, प्रधानकेन्द्रमिति यावत् , पुनः दर्शनीयानां द्रष्टुं योग्यानां, वस्तूनां, निदर्शनम् आदर्शभूतः, पुनः कुतूहलकारिणाम् उत्सवकारिणां, संकेतशाला संकेतगृहम् , कथमपि कथञ्चित् , प्रसङ्गदृष्टः प्रसवशादवलोकितपूर्वः, अयमेव रत्नकूटशैलः रत्नकूटपर्वतः, हि निश्चयेन, तावदिति वाक्यालङ्कारे, द्रष्टुं दृष्टिगोचरीकतु, सपरिग्रहस्य सपरिवारस्य, विविधक्रीडाभिः अनेकक्रीडाभिः,अनुग्रहीतुम् अनुकम्पयितुं च,युज्यते योग्यो वर्तते [ग] ! हि यतः, अत्र अस्मिन् पर्वते, पदे पदे स्थाने स्थाने, सुन्दरतया मनोहारितया, सुरलोकस्यापि स्वर्गलोकस्यापि, जनितबीडानि उत्पादितलजानि, क्रीडास्थानानि क्रीडाक्षेत्राणि; पुनः स्थाने स्थाने प्रतिस्थानम् , सर्व - कानि युगपत्सर्वऋतुसुखावहानि, वनानि, इदं 'दृश्यन्ते' इति वक्ष्यमाणक्रिययाऽन्वेति, पुनः वने वने प्रतिवनम् , विकचरत्नकुसुमस्तबकतारकितानि विकचानां-किकसितानां, रत्नाना-स्वजातिश्रेष्ठानां रखरूपाणां वा, कुसुमानां-पुष्पाणां, यः स्तबकः-गुच्छः, तेन तारकितानि-संजाततारकाणीव, कल्पतरूखण्डानि कल्पवृक्षपतयः, पुनः खण्डे खण्डे प्रतिखण्डम् ,
Page #168
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता दोलाः, प्रतिदोलमान्दोलनक्रीडानन्दितानि दृश्यन्ते सततमनवद्यवेषाणि विद्याधरद्वन्द्वानि, अपि च सानौ सानो निशम्यते कर्णामृतं किन्नरगीतम् , भृगौ भृगावाकयेते निर्झरणझात्कृतमतिस्फीतम् , सरिति सरिति विलसन्ति रत्नवालुकापुलिनेषु चित्राः पक्षिणः, काले काले वाति विस्तारितरतिकेलिरमराणां समीरणो दक्षिणः, प्रदेशे प्रदेशे चिन्तिते चित्तस्य जायते परा प्रीतिः, वस्तुनि वस्तुनि विभावित भवति लोचनद्वयस्य द्रष्टव्यदर्श. नेच्छानिवृत्तिः [घ]। तथा च छाययापि पत्रपादपच्छायानामपसरति देहिनामङ्गग्लानिः, गन्धेनापि पुष्पद्रुमगन्धानामन्धीभवन्ति घ्राणानि, वातेनापि चैत्रवातस्य विकटमुद्वहन्ति वनलताः कुसुमाट्टहासम् , वार्तयापि दयितवार्ताया मनसि मानिनीनां करोति मन्मथः स्थाना धिपत्येनावासम् । किं चापरोक्षवर्णनेन, निर्णेष्यति यथावस्थितं स्वरूपमस्य स्वयमेवानुभूय स्वामी' इति जल्पित्या जोषमभजत् [3]
अहं त्वकाण्ड एव खण्डितगमनरभसेन तस्यानेन वचसानवसानेन पथापि जनितव्यथः 'कष्ट, न लेशोऽप्यभिलषितसंपत्त्या सुखस्य संजातः, क्लेश एव केवलमनुभूतः' इति भावयन्नुद्भूतगाढोद्वेगतस्तत्क्षणमधो
टिप्पनकम्-छायया लेशेन । जोष मौनम् [ङ] ।
बहुप्रपञ्चाः बहुविस्ताराः, काञ्चनलतादोलाः काञ्चनाख्यनागकेसरलतारूपा दोलाः, पुनः प्रतिदोलं दोलायो दोलायाम् , आन्दोलनक्रीडानन्दितानि आन्दोलनात्मकक्रीडासंजातानन्दानि, सततम् अविरतम् , अनवद्यवेषाणि अनिन्द्यवेषविशिष्टानि, विद्याधरद्वन्द्वानि विद्याधरदम्पतयः, दृश्यन्ते दृष्टिगोचरीभवन्ति । सानो सानौ प्रतिसमस्थल, कर्णामृतं कर्णयोरमृततुल्यं, किन्नरगीतं किन्नराणां-देवयोनिविशेषाणां, गीतं, निशम्यते श्रूयते। भृगौ भृगौ प्रतिप्रपातस्थान, अतिस्फीतं अतिस्फुटम् . निझरणझात्कृतं स्रोतःस्यन्दनध्वनिविशेषः, आकर्ण्यते श्रूयते । पुनः सरिसि सरिति प्रतिनदि, रत्नवालुकापुलिनेषु श्रेष्ठसिकतामयस्थलेषु, यद्वा रत्नरूपसिकतामयप्रदेशेषु, चित्राः चित्रवर्णाः, पक्षिणः, विलसन्ति विराजन्ते । पुनः काले काले समये समये, अमराणां देवानां, विस्तारितरतिकेलिः प्रवर्धितरतिक्रीडः, दक्षिणः दक्षिणदिग्वाही, समीरणः पवनः, वाति वहति । पुनः प्रदेशे प्रदेशे प्रत्येकप्रदेशे, चिन्तिते समालोचिते सति, चित्तस्य हृदयस्य, परा उत्कृष्टा, प्रीतिः तृप्तिः, जायते उत्पद्यते । पुनः वस्तुनि वस्तुनि प्रत्येकवस्तुनि, विभाविते विचारिते सति, लोचनद्वयस्य नेत्रदयस्य, द्रव्यदर्शनेच्छानिवृत्तिः दर्शनीयवस्त्वन्तरदर्शनौत्सुक्यनिवृत्तिः, जायते इति शेषः [घ]|च पुनः, तथा पत्रपादपच्छायानां पत्रावृतवृक्षकृतानातपानाम् , छाययाऽपि लेशेनापि, देहिनां शरीरिणाम् , अङ्गाग्लानिः शरीरतापः, अपसरति नश्यति । पुनः पुरुपद्रमगन्धानां पुष्पवृक्षाऽऽमोदानां, गन्धेनापि लेशेनापि, प्राणानि घाणेन्द्रियाणि, अन्धीभवन्ति ब्यामुह्यन्ति । पुनः चैत्रवातस्य चैत्रमासात्मकवसन्तकालिकपवनस्य, वातेनापि वहनेनापि संचरणेनापीति यावत् , वनलताः वनस्थलतिकाः, विकटं सुन्दरं, कुसुमाहासम् पुष्परूपं महाहासम्, उद्वहन्ति उत्सृजन्ति, पुनः दयितवार्तायाः पतिवृत्तान्तस्य, वार्तयापि चर्चयापि, मानिनीनां मानवतीना, मनसि हृदि, मन्मथः कामदेवः, स्थानाधिपत्येन स्थानस्वामिभावेन, आवासं निवास, करोति । अप रोक्षवर्णनेन प्रत्यक्षीभूतवस्तुवर्णनेन, किम् ? किमपि न प्रयोजनमिति भावः, स्वामी अधिपतिः, भवानिति यावत्, यथावस्थितं वस्तु सत् , अस्य प्रकृतशैलस्य, स्वरूपं, स्वयम् आत्मनैव, अनुभूय साक्षात्कृत्य, निर्णेष्यति अवधारयिष्यति । इति इत्थं, जल्पित्वा उक्त्वा, जोषं मौनम् , अभजत अशिश्रयत् [3]। अहं तु, अकाण्ड एव अनवसर एव, खण्डितगमनरभसेन खण्डितः-निवारितः, गमनरभसः-गमनवेगो येन तादृशेन, अनेन अनुपदमुक्तेन, तस्य तारकस्य, घचसा वाक्येन, पुनः अनवसानेन निरवधिकेन, पथापि मार्गेण च, जनितव्यथः उत्पादितदुःखः सन् , 'वचसानबसानेन पथापि' इति स्थाने वचसा पथ्येनापि इति पाठे हितकारिणापि वाक्येनेत्यर्थः, कष्टं दुःखम् , अभिलषितसम्पत्त्या अभिलाषितस्य-अभीष्टस्य, सम्पत्त्या प्राप्ता, सुखस्य-आनन्दस्य, लेशोऽपि अल्पमात्रापि, न सातः समुत्पन्नः, केवलं श एव, अनुभूतः उपभुक्तः, इति भावयन् विचारयन् , उन द्वेगतः उत्पन्न नितान्तसम्भ्रमवशात् , तत्क्षणं
Page #169
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
३११
मुखोऽभवम् । अदत्तोत्तरश्च तस्मै तदाकस्मिकमालोच्यालोच्य चापलमात्मनो मनसि जातहासो विस्मयपाविषादानां युगपदास्पदतामगच्छम् । अकरवं च जातपरमानुतापश्चेतसि - ' हन्त, कस्मान्मया मिथ्या - कुतूहलतरलितेन सहसैव तूर्यरवमुपश्रुत्य धावता शिशुनेव लघुतां परमात्माऽऽनीतः, किमित्यचिन्तितात्मविनिपातदुःखेन शिखरिणेव कुलिशपातभीरुणा संचरदनेकदुष्टप्राह दुरवगाहो महासमुद्रकुक्षिरवगाढः, किमनिवारितेन्द्रियवृत्तिना बालतपस्विनेव निष्फलोऽनुभूतः शीतवातादिजनितः कायक्लेशः, कुतो ममेदमनुपदिष्टमशिक्षितमनभ्यस्तमचिन्तितमेवाद्य चापलमाविर्भूतम् [च], अहो चञ्चलस्वभावता चित्तपरिणते:, अहो विकार बहुलता तारुण्यगतेः, अहो दुःखदायकत्वं सुखाभिलाषाणाम्, अहो व्यसनदानवैदग्ध्यमनधीनतायाः, अहो कार्यपरिणतिविचारविद्वेषो दर्पोद्रेक विलसितानाम्, अहो मतिविपर्ययप्रदानतात्पर्यं दैवप्रातिकूल्यस्य, तस्य तादृशस्य araप्रयत्नस्य तस्य विद्याभ्यासस्य, तस्य नीतिशास्त्रश्रवणस्य तस्य हेयोपादेयतत्त्वपरिज्ञानस्य, तेषां वृद्धोपदेशानाम्, तस्या विदग्धजन संगतेः, तस्य च निसर्गसिद्धस्येन्द्रियवर्गसंयमस्य कीदृशो विपाकः संवृत्तः [ छ ],
टिप्पनकम् - बालतपखिना अज्ञानतपोधनेन [च] |
तस्मिन् क्षणे, अधोमुखः अवनतवदनः अभवं जातः । च पुनः, तस्मै तारकाय, अदत्तोत्तरः अदत्तप्रतिवचनः सन् तदा तस्मिन् काले, आत्मनः स्वस्य, आकस्मिकम् अकारणकं, चापलं चाञ्चल्यम्, आलोच्य आलोच्य विचार्य विचार्य, मनसि चेतसि, जातहासः उत्पन्नखावज्ञोचित परिहासः सन् युगपत् एककालं, विस्मय त्रपा विषादानां आश्चर्यलजादुःखानाम्, आस्पदतां स्थानताम् अगच्छं प्रापम् । च पुनः, जातपरमानुतापः उत्पन्नात्यन्तपश्चात्तापः सन् चेतसि चित्ते, अकरवम् अचिन्तयम्, किमित्याह - हन्त खेदः, शिशुनेव बांलेनेव, मिथ्याकुतूहलतरलितेन मिथ्याभूतोत्सवचञ्चलितेन, पुनः सूर्यरवं वाद्यविशेषध्वनिमू, उपसृत्य अनुसृत्य, सहसैव शीघ्रमेव धावता वेगेन गच्छता, मया, अकस्मात् अकारणमेव, आत्मा खः, पराम् अत्यन्तां, लघुतां क्षुद्रताम्, आनीतः । पुनः किमिति कस्मात्, कुलिशपातभीरुणा वज्राघातभीतेन, शिखरिणा पर्वतेन, इव, अचिन्तितात्मविनिपातदुःखेन अचिन्तितः - अनालोचितः, आत्मनः-स्वस्य, विनिपातेन - अनर्थापातेन, पक्षे समुद्रान्तःपतनेन, दुःखं येन तादृशेन, मयेति शेषः, सञ्चरदनेकदुष्टग्राहदुरवगाहः सञ्चरद्भिः-उच्छलद्भिः, अनेकैः - बहुभिः, दुष्टप्रा है: - हिंसक जलचरविशेषैः, दुरवगाह :- दुष्प्रवेशः, महासमुद्र - कुक्षिः अतिविस्तृतसमुद्रोदरम्, अवगाढः प्रवेशकर्म तामापादितः । पुनः किं किमर्थं, बालतपखिने व अज्ञान तपोधनेन, अनिवारितेन्द्रियवृत्तिमा अनियन्त्रितेन्द्रियव्यापारेण, मयेति शेषः, निष्फलः व्यर्थः, शीतवातादिजनितः शीतवाध्वातपाद्युप. द्रवोत्पादितः, कायक्लेशः शरीरदुःखम्, अनुभूतः भुक्तः । पुनः अनुपदिष्टं न केनापि धर्माचार्येणोपदिष्टम्, अशिक्षितं नापि कस्माचिद् विद्यागुरोरधीतम्, अनभ्यस्तम् नापि स्वयमनुशीलितं मम इदं प्रकृतं चापलम् अचिन्तितमेव -- अतर्कितमेव कुतः कस्माद्धेतोः, आविर्भूतं प्रकटितम् [च] । अहो विषादविषयोऽयं, यदुत - चित्तपरिणतेः चित्तवृत्तेः, चञ्चलखभावता प्राकृतिकचञ्चलता, पुनः अहो प्राग्वदर्थः, एवमुत्तरत्र, तारुण्यगतेः यौवनावस्थायाः, विकार बहुलता विकृतिविपुलता, पुनः, अद्दो सुखाभिलाषाणां सुखेच्छाना, दुःखदायकत्वं दुःखजनकत्वम्, पुनः अहो अनधीनतायाः स्वतन्त्रतायाः, व्यसनदानवैदग्ध्यं संकटोत्पादनपाटवम् पुनः, अहो दर्पोद्रेकविलसितानां गर्वातिशयविलासानां, कार्यपरिणतिविचारविद्वेषः क्रियाफलविवेकवैरम्, पुनः, अहो दैवप्रातिकूल्यस्य भाग्यप्रतिकूलतायाः, मतिविपर्यय प्रदान तात्पर्य बुद्धिवैपरीत्यापादनतत्परत्वम् । तादृशस्य मत्कल्याण परिणामिनः, तस्य अनुभूतस्य, तातप्रयत्नस्य मत्पितुः प्रयासस्य पुनः तस्य स्वकृतस्य, विद्याभ्यासस्य शास्त्रानुशीलनस्य, पुनः तस्य स्वकृतस्य, नीतिशास्त्रश्श्रवणस्य नीतिशास्त्राध्ययनस्य पुनः तस्य खकृतस्य, हेयोपादेयतत्व परिज्ञानस्य हेयं-- त्याज्यम्, अनिष्टसाधनमिति यावत्, उपादेयंप्रायमिष्टसाधनमिति यावत् तयोर्यत् तत्त्वं याथार्थ्य तत्परिज्ञानस्य तन्निर्णयस्य पुनः तेषां गृहीतानां वृद्धोपदेशानां गुरुजनानुशासनानाम्, पुनः तस्याः उपासितायाः विदग्धजनसंगतेः विद्वज्जनसंगस्य, पुनः तस्य स्वसाक्षिकस्य, निसर्ग
Page #170
--------------------------------------------------------------------------
________________
३१२
टिप्पनक-परागविवृतिसंवलिता किमिदानीमस्य पृच्छतः प्रतिवचनं प्रयच्छामि, किं कर्तव्यमुपदिशामि, स्वयं च किं करोमि, कथमयमवश्यमारब्धं मया निर्वोढव्यमिति बद्धनिश्चयेनापि निरवधौ पयोधावनवधारितायां गन्तव्यभूमावनिश्चिते द्रष्टव्यवस्तुदर्शने क्लेशायासलाभाय वराकः पुरः प्रवर्तयितव्यः, कथं च गमनं निवारयतः पूर्वमस्य वचनमनाहतमिदानी बहु मन्तव्यम् , कथं चास्थिरस्वभावतया सरभसप्रधावितेन भूमिमियतीमागत्य भग्न. मनसा तीरादर्शिशकुनिनेव पश्चान्निवर्तितव्यम् [ज ], निवृत्तेनापि कथमयमनेकविकटावर्तशतसंकुलः सर्वतो विशृङ्खलप्रचारैर्दुष्टजलचरैः पदे पदे प्रस्खलितयानपात्रगतिरतिमात्रदुर्गः सागरैकदेशो लङ्घयितव्यः, कथं च तत्कालमस्मत्संनिहितसैनिकावेदितवृत्तान्तं संभ्रान्तस्य समकालमेकवर्मना प्रातः प्रधावितस्य निरन्तरप्रचलितानेकनौसहस्रसंक्षोभिताम्बुधेरर्धपथदृष्टस्य पार्थिवलोकस्य वृथागमनलज्जाविलक्षाक्षमाननं दर्शयितव्यम् , कथं च दूरादेव दर्शितस्मितस्य पार्श्वमुपगतवतः ‘क गताः, किमर्थं गताः, किं दृष्टं, किमनुभूतं, किमासादितम्' इत्यादि पृच्छतः प्रणयिवर्गस्य सहसा हेपणं स्वचरितमावेदनीयम् , कथं चावासस्थानमुपागतेन दुर्विनयजनितोद्वेगाः स्वतन्त्र इति कृत्वा तूष्णीमेव सर्वे समर्पितस्वाधिकारमुद्राः प्रसादनीया राज्यचिन्तकाः प्रधान
सिद्धस्य खाभाविकस्य, इन्द्रियवर्गसंयमस्य चक्षुरादीन्द्रियगणनियन्त्रणस्य, कीदृशः किं प्रकारकः, विपाकः परिणामः, संवृत्तः संजातः [छ ] । पृच्छतः गमनपरावर्तनप्रश्नं कुर्वतः, अस्य तारकस्य, किं कीदृशं, प्रतिवचनम् उत्तरं, प्रयच्छामि प्रददामि, पुनः किं त्योः कतरत् , कर्तव्यं करणीयम् , उपदिशामि आज्ञापयामि च पुनः, स्वयम् आत्मनाऽपि, किं करोमि । मया आरब्धं प्रवर्तितं, तत्र गमनमित्यर्थः, अवश्य नूनम् , निर्वोढव्यं सम्पादनीयम्, इति इत्थं, बद्धनिश्चयेनापि कृतनिश्चयेनापि, मयेति शेषः, निरवधौ अपारे पयोधौ समुदे, गन्तव्यभूमौ गन्तव्यस्थाने, अनवधारितायाम् अनिर्णीतायाम् , पुनः द्रष्टव्यवस्तुदर्शने लक्ष्यभूतवस्तुदर्शने, अनिश्चिते सन्दिग्धे, वराक: दयनीयः, अयं तारकः, कथं केन प्रकारेण, पर: अग्रे, प्रवर्तयितव्यः प्रवर्तयितुमुचितः। च पुनः, पूर्व प्राक, गमन, निवारयतः निषेधतः, अस्य तारकस्य, अनाहतम् उपेक्षितं, वचनं वाक्यम् , इदानीम् अधुना, कथं केन प्रकारेण, बहु चारु, मन्तव्यं खीकरणीयम् । च पुनः, अस्थिरस्वभावतया चपलखभावतया, सरभसप्रधावितेन सवेगं कृतप्रधावनेन, मयेति शेषः, इयतीम् एतावती, भूमि समुद्रप्रदेशम् , आगत्य, भग्नमनसा भग्नमनोरथेन सता, तीरादर्शिशकुनिनेव तीरमपश्यता पक्षिणेव, पश्चात् , कथं केन प्रकारेण, निवर्तितव्यं परावर्तितव्यम् , [ज] । निवृत्तेनापि परावृत्तेनापि, मयेति शेषः, अनेकविकटावर्तशतसंकुलः अनेकेन-बहुना, विकटानां-भीषणानाम् , आवर्तानां, शतेन, संकुल:-व्याप्तः, सर्वतः परितः, विशृङ्खलप्रचारैः अप्रतिहतप्रचारैः, दुष्टजलचरैः हिंसकजलजन्तुभिः, पदे पदे स्थाने स्थाने, प्रस्खलितयानपात्रगतिः प्रस्खलिता-व्याहता, यानपात्रस्य-पोतस्य, गतिः-गमनं यस्मिस्तादृशः, अतिमात्रदुर्ग: अत्यन्तदुःखेन गमनीयः, अयं सागरैकदेशः समुद्रैकदेशः, कथं लड़यितव्यः लयितुं शक्यः । तत्कालं तत्क्षणम् अस्मत्सन्निहितसैनिकावेदितवृत्तान्तम् अस्मत्सनिहितसैनिकैः-अस्मत्पार्श्ववर्तिसैन्यैः, आवेदितवृत्तान्तं-निवेदितवृत्तान्तं यथा स्यात् तथा, सम्भ्रान्तस्य क्षुभितस्य पुनः समकालं युगपत् , प्रातः, एकवर्मना एकमार्गेण, प्रधावितस्य कृतप्रधावनस्य, निरन्तरप्रचलितानेकनौसहस्रसंक्षोभिताम्बुधेः निरन्तरप्रचलितैः-अनवरतप्रस्थितैः, अनेकनौसहनैःअनेकसहस्रसंख्यकनौभिः, संक्षोभितः-उन्मथितः, अम्बुधिः-समुद्रो येन तादृशस्य, पुनः, अर्धपथदृष्टस्य अर्धमार्गावलोकितस्य, पार्थिवलोकस्य नृपजनस्य, तं प्रतीति यावत् , वृथागमनलजाविलक्षाक्षं वृथागमनेन-व्यर्थमेवाज्ञातस्थाने प्रयाणेन, या लज्जा तया, विलक्ष-विषणं निमीलितमिति यावत्, अक्षि-नेत्रं यस्मिंस्तादृशम् , आननं मुखमण्डलं, दर्शयितव्यं दर्शमितुमुचितम् । च पुनः, प्रणयिवर्गस्य स्वस्नेहास्पदगणस्य, सहसा शीघ्र, हेपणं लज्जाजनक, स्वचरितं वकृत्यं, कथं केन प्रकारेण, आवेदनीयं विज्ञापनीयम् , कीदृशस्य ? दूरादेव दर्शितस्मितस्य प्रकटितमन्दहासस्य, पाच निकटम् , उपगतवतः आगतवतः, आगमिष्यत इति यावत् ,क्क कुत्र, गताः, किमर्थ किंनिमित्तं, मताः, भवन्त इति शेषः । पुनः किं दृष्टं दृष्टिगोचरीकृतम्, पुनः किम् अनुभूतम् अनुभवगोचरीकृतम्, पुनः किं वस्तु आसादितं प्राप्तम् , इत्यादि पृच्छतः जिज्ञासा प्रकटयतः । च पुनः, आवासस्थानं खनिवासस्थान राजधानीमिति यावत् , उपागतेन, समागतेन
Page #171
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
३१३ पुरुषाः । कथं च हृदयदाहलचितानुवृत्तीनामनुल्लङ्घनीयवचसां वृद्धबन्धूनामधोमुखेन सदसि सोढव्याः श्रवणपरुषा रोपतिरस्काराः, सर्वथा धिगू मां चापलोपहतमनात्मज्ञमुत्सृष्टाभिमानमसमीहितकारिणम् , अनेनाप्यदृष्ट. शिष्टव्यवहारेण सर्वदा प्राकृतलोकसहवासिना तारकेण तरल इति कुतूहुलीति क्रीडनशील इति संभावितम्' [झ] । इत्याद्यनल्पमनेकसंकल्पकवलितचित्तवृत्तेश्चिन्तयत एव मे जगाम परिणाममप्रतर्कितैव रजनिः । अर्ध्वकिरणरज्जुस्तम्बलम्बमानशशिविम्बनाङ्गरादपरदिग्भागयानपात्रादवततार सांयात्रिक इव कृताम्बरजलधियात्रः शनैः शनैरन्धकारः । किं वृथा नदसि, मथने यदि मया रत्नानि ते कक्षीकृतानि तदुरिक्षपैतदित्यवतार्य शिरसः पुरो मन्दरक्षितिभृता क्षिप्तमुत्तरीयक्षौममिव पिण्डीकृतमिन्दुमण्डलमाकुलाकुलप्रसारितोर्मिहस्तो जग्राह जलधिः । प्रमुख एव प्रवृत्तमेषस्य ततश्चलितसरोहिणीकवृषस्य कापि कापि विभाव्यमानतुलाधनुषः
टिप्पनकम्- [प्रवृत्तमेषस्य मेषः-अजः, ] मेषराशिश्च, चलितसरोहिणीकवृषस्य एकत्र रोहिणी-नक्षत्रम् , वृषः -राशिः, अन्यत्र रोहिणी-सुरभिः, वृषः- गौः । विभाव्यमानतुलाधनुषः एकत्र तुला-धनुषी राशी, भन्यत्र तुला-प्रसिद्धैव, धनुश्च-कार्मुकम् []।
याम
मयेति शेषः, राज्यचिन्तकाः राज्यसंचालकाः, प्रधानपुरूषाः मश्रिजनाः, कथं केन प्रकारेण, प्रसादनीयाः अनुनेतव्याः। कीदृशाः? दुर्विनयजनितोद्वेगाः मदीयदुर्विनीततोत्पादितान्तःक्षोभाः, पुनः स्वतन्त्रः खेच्छाचारी, इति कृत्वा मत्वा, तूष्णीमेव किमप्यकथयित्वैव, समर्पितस्त्राधिकारमुद्राः प्रत्यर्पितस्वस्खाधिकारज्ञापकचिहविशेषाः । च पुनः, वृद्ध. बन्धूनां वयसा श्रेष्ठबन्धुजनानां, श्रवणपरुषाः कर्णकठोराः, रोषतिरस्काराः क्रोधप्रयुक्तानादरवाक्यानि, सदसि सभा.
खेन अवनतवदनेन सता, मयेति शेषः, कथं केन प्रकारेण, सोढव्याः सड्नीयाः, कीदृशाम् ? हृदयदाहलवितानुवृत्तीनां हृदयदाहेन-अन्तस्तापेन, लविता-त्यक्ता, अनुवृत्तिः-अनुसरणं यस्तादृशानाम् , पुनः अनुल्लङ्घनीयवचसाम् अतिरस्करणीयवाक्यानाम् । चापलोपहतं चाञ्चल्यदूषितम्, पुनः अनात्मक्षम् आत्मपरिचयरहितम् , पुनः उत्सृष्टाभिमानं वक्तवाभिमानम् , पुनः असमीहितकारिणं स्वानभिमतकारिण, मां, सर्वथा सर्वप्रकारेण, धिक् निन्दा, अष्टशिष्टव्यवहारेण अपरिचितशिष्टाचारेण, सर्वदा सर्वकाले, प्राकृतलोकसहवासिना नीचजनसंसर्गिणा, अनेन प्रत्यक्षवर्तिना, तारकेणापि, तरल: अयं चपल इति, पुनः कुतूहली अयं फलनिरपेक्षलोलुप इति, क्रीडनशील: अयं क्रीडाप्रकृतिक इति, सम्भावितम् उत्कटोक्तकोट्या शङ्कितम् [अ]। अनेकसंकल्पकवलितचित्तवृत्तेः भूरिभावनाक्रान्तमनोवृत्तेः, मे मम, इत्यादि अनुपदोक्तप्रभृतिकम् , अनल्पं प्रचुरं च, चिन्तयतः आलोचयतः सत एव, अप्रतकितैव अवितर्कितैव, रजनिः रात्रिः, परिणाम समाप्ति, जगाम प्राप 1 ऊर्ध्वकिरणरज्जुस्तम्बलम्बमानशशिबिम्बनाङ्गरात् ऊर्वात-उपरितनात् , किरणरूपरजुमयस्तम्बात् , लम्बमान-नमत्, शशिबिम्बरूपं-चन्द्रमण्डलात्मक, नागर यानपात्रावष्टम्भकशिला यस्य तादृशात् , अपरदिग्भागयानपात्रात पश्चिमदिग्भागरूपपोतात्, सांयात्रिक इव पोतवाणिगिव, कृताम्बरजलधियात्रः कृताकाशरूपसमुद्रयात्रः, अन्धकारः, शनैः शनैः मन्द मन्दम् , अवततार अधस्तादाजगाम । आकुलाकुलप्रसारितोमिहस्तः आकुलाकुर्ल-विशेषेण व्यग्रं यथा स्यात् तथा, प्रसारितः-विस्तारितः,कामरूप:तरजात्मकः, हस्तो येन तादृशः, जलधिः समुद्रः, इन्दुमण्डलं चन्द्रबिम्ब, जग्राह गृहीतवान् , कीरशमित्र ? 'किं किमर्थ, वृथा मुधा, नदसि जल्पसि, मथने विलोडनावसरे, ते तव सागरस्य, रत्नानि, यदि, मया मेरुणा, कक्षीकृतानि गृहीत्वा वस्त्राञ्चले गोपितानि, तत् तर्हि, एतद् प्रत्यक्षं दीयमानं पिण्डीकृतोत्तरीयक्षौममित्यर्थः, उत्क्षिप ऊर्वीभावेन विस्तारय' इति एवंधिया, शिरसः मस्तकाधोभागात् , अवतार्य अधः कृत्वा, मन्दरक्षितिभृता मेरुगिरिणा, क्षिप्त प्रक्षिप्तम् , पिण्डीकृतं पिण्डाकारतां नीतं, उत्तरीयक्षौममिव उत्तरीयकौशेयवस्नमिव । प्रमुख एव आदावेत्र, प्रवृत्तमेषस्य प्रवृत्तःगन्तुमुद्यतः, मेषः-मेषराशियस्मिंस्तादृशस्य, पक्षे प्रवृत्ताः-गन्तुमुद्यताः, मेषाः-अजाः प्रस्थानक्रियाविशिष्टे यस्मिन् सति तादृशस्य, ततः तदनन्तरं, चलितसरोहिणीकवृषस्य चलितः-प्रस्थितः, सरोहिणीक:-रोहिणीनक्षत्रेण सहितः, वृषः-वृषराशि
४० तिलक.
Page #172
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता प्रभात एव प्रस्थितस्य तारकासार्थस्य चरणोत्थापितो रेणुविसर इव धूसरारुणो नभः सरणिमरुणदरुणालोकः [अ] 1 ततः क्रमेण रञ्जिताम्बरे तुहिनकरविरहविदलितविभावरीहृदयरुधिर इव निपतति धरण्यामरुणरागे, तिमिरकरिरेचितेषु पांशुतल्येष्विव स्तोक स्तोकमुच्चसत्सु दिग्भागेषु, अपरभागसंक्रान्तनक्षत्रभारावर्जित इव पूर्वभागमतिदूरमुन्नमयति व्योम्नि, विनिद्रशकुनिकुलबद्धकोलाहलासु जलनिधिप्रबोधमङ्गलानीव गायन्तीषु वेलावनावलीषु, मार्गशैलशृङ्गकृतविश्रामेष्याहारान्वेषणाय द्वीपान्तराणि प्रस्थितेषु समुद्रोदरनिवासिषु विहङ्गेषु, पङ्कमलिनतनुषु कौपीनमात्रकर्पटावरणेष्वरुणलुण्टिततिमिरपुरलोकेष्विव समाश्रयत्सु वेलानदीपुलिनानि जालि. केषु, मुहुः स्पृष्टशैवलप्रताने मुहुरामृष्टचन्द्रकान्तमणिदृषदि मुहुर्मुदितफेनपटले मुहुराश्लिष्टसलिलवीचिसंचये संचरति वडवामुखानलसंपर्कजाततीव्रसंताप इव मन्दमन्दमौदन्वते मरुति, मुक्तमसृणमणितटीशय्येषु सवि
___ टिप्पनकम्-रेचितं-रिक्तम् । अभ्रमुः-ऐरावणजाया । वामनः-पश्चिमा शा]करी, दिक्षिणाशाकरीति बहवः, तस्यैवात्रौचित्यात् ] [2]
यस्मिंस्तारशस्य, पक्षे चलिताः, सरोहिणीका:-रोहिणीभिः-धेनुभिः सहिताः, वृषाः-बलिवर्दाः प्रस्थान क्रियाविशिष्टे यस्मिन् सति तादृशस्य, पुनः कापि क्वापि कस्मिंश्चित् कस्मिंश्चित् प्रदेशे, विभाव्यमानतुलाधनुषः विभाव्यमाना-लक्ष्यमाणा, तुलातुलाराशिः, धनुः-धनराशिश्च यस्मिंस्तादृशस्य, पक्षे विभाव्यमानाः, तुलाः-मानानि तोलनदण्डा वा, धषि-कार्मुकाणि, प्रस्थान क्रियाविशिष्टे यस्मिन् सति तादृशस्य, पुनः प्रभात एव प्रातरेव, प्रस्थितस्य कृतप्रयाणस्य, तारकासार्थस्य तारागणस्य, चरणोत्थापितः चरणोत्क्षिप्तः, रेणुविसर इव धूलिराशिरिव, धूसरारुणः किश्चित्पाण्डुरक्तवर्णः, अरुणालोका सूर्यप्रकाशः, नभःसरणिम् आकाशमार्गम् , अरुणत् रुद्धवान् , व्याप्तवानित्यर्थः [अ]। ततः तदनन्तरं, किश्चिदुपशान्तचिन्तासंज्वरः किञ्चिन्निवृत्तचिन्तासन्तापः सन् , पुरस्तात् अने, चक्षुः नेत्रम्, अक्षिपं व्यापारितवानहम् , कस्मिन् कीदृशे सति ? क्रमेण शनैः, रञ्जिताम्बरे रक्तीकृतगगनमण्डले, अरुणरागे सूर्यबिम्बसगे, तुहिनकरविरहविदलितविभावरीहृदयरुधिर इव तुहिनकरस्य-शीतकिरणस्य, चन्द्ररूपनायकस्येत्यर्थः, विरहेण-विश्लेषण, विदलित-विदीर्ग, यत् , विभावर्याः-रात्रिरूपनायिकायाः, हृदयं, तस्य रुधिर इव शोणित इव, धरण्यां भूमौ, निपतति अवतरति सति । पुनः पांशुतल्पेष्विव धूलिमयशय्यास्विच, तिमिरकरिरेचितेषु अन्धकाररूपहस्तिनोज्झितेषु, दिग्भागेषु, स्तोकं स्तोक किञ्चित् किश्चित् , उच्छुसत्सु मुखमारुतमुद्रमत्सु । पुनः अपरभागसंक्रान्तनक्षत्रभारावर्जित इव अपरभागेपश्चिमभागे, संक्रान्तानि-संलग्नानि, यानि नक्षत्राणि-तारकाः, तद्भारेण-तद्रूत्वेन, आवर्जित इव-अवनत इवेत्युत्प्रेक्षा, व्योनि आकाशे, पूर्वभागम् , अतिदरम् अत्यन्तदूरम् , उन्नमयति उत्क्षिपति सति । पुनः विनिद्रशकुनिकुलबद्धकोलाहलासु विनिद्राणा-भननिद्राणां, शकुनीनां-पक्षिणां, कुलेन-पुखेन, बद्धः कृतः, कोलाहल:-कलकलो यासु तादृशीषु वेलावनावलीषु तटवर्तिवनपतिष, जलनिधिप्रबोधमङ्गलानि समुद्र जागरणकालि कमङ्गलानि, गायन्तीषु इवेत्युत्प्रेक्षा। पुनः मार्गशैलशृङ्गकृतविश्रामेषु मार्गस्थपर्वतशिखरविश्रान्तेषु, समुद्रोदरनिवासिषु समुदमध्यवास्तव्येषु, विहङ्गेषु पक्षिषु, आहारान्वेषणाय खभक्ष्यवस्तुगवेषणाय, द्वीपान्तराणि अन्यद्वीपान् , प्रस्थितेषु गन्तुं प्रवृत्तेषु सत्सु । पुनः पङ्कमलिनतनुषु कर्दमकलुषितकलेवरेषु, कौपीनमात्रकर्पटावरणेषु कौपीनमात्रं यत् कर्पट-पटखण्डः, तदेव आवरणं येषां तादृशेषु, जालिकेषु धीवरजातीयेषु, अरुणलुण्टिततिमिरपुरलोकेष्विव सूर्यापहृतान्ध कारपुरवासिजनेष्विव, वेलानदीपुलिनानि तटवर्तिनदीसैकतस्थलानि, समाश्रयत्सु निषेवमाणेषु । पुनः मुहुः असकृत् , स्पृष्टशैवलप्रताने संपृक्तजलतृणराशो, पुनः मुहुः अनेकवारम्, आमृष्टचन्द्रकान्तमणिदृषदि आमृष्टा-संस्पृष्टा, चन्द्रकान्तमणिरूपा दृषद्-प्रस्तरो येन तादृशि, पुनः मुहः वारंवारम् , मृदितफेनपटले मृदितं-त्रोटितं, फेनपटलं-समुद्रकफराशियेन ताशे, पुनः मुहः असकृत् , आश्लिष्टसलिलवीचिसंचये आश्लिष्टः-आलिङ्गितः, सलिलवीचीनां-जलतरङ्गाणा, सञ्चयःपुजो येन तादृशे, औदन्वते समुद्रसम्बन्धिनि, मरुति पवने, वडवामुखानलसम्पर्कजाततीव्रसन्ताप इव बडवायाः-समुद्रोदरवर्तिन्या अश्वायाः, यो मुखानल:-मुखाग्निः, वाडवानिरिति यावत् , तत्सम्पर्केण-तत्संयोगेन, जात:-उत्पन्नः,
Page #173
--------------------------------------------------------------------------
________________
विलकमञ्जरी।
३१५ भ्रममभ्रमुकुलप्रभवाभिः करेणुभिरुपनीतसरसलवङ्गपल्लवकवलेषु सुवेलमेखलासु खेलत्सु वामनदिङ्नागवंशजेषु गजेषु [ट], सर्वतः प्रसृततापसाग्रिहोत्रधूमान्धकारे कलशयोनिप्रसादनायायात विन्ध्यशिलालिङ्गित इवोपलक्ष्यमाणे रोहणगिरौ, प्रविष्टारुणालोकस्तोकतरलितद्वारपालवेतालेष्वसुरदेवतार्चनारम्भपिशुनमपूर्वसौरभं दिव्यकुसुमधूपामोदमुद्रित्सु विवरेषु, पातालचन्दनठुमोपवनक्रीडारागिणीभिः पन्नगाङ्गनाभिरापतन्तीभिरलभ्यान्तरेषु रसातलमलयान्तरालमार्गेषु, प्रभातमारुतापूरितरणन्मुखरपुलिनशङ्खमाले दलितशुक्तिमुक्तास्तबकिततीरभुवि जडितजलमानुषाध्यासितसबालातपतटे द्रवीभूतशावरतिमिरविभ्रममूर्मिविस्तारमुपसंहरति मत्सुखप्रचारार्थमिव चन्द्रास्तसमयविद्राणतेजसि तरङ्गिणीनाथे, दिवसकृतयुगावतारे तिमिरसागरादुन्मनां मेदिनीमिव द्रष्टुमुदयादिशिखरमधिरूढे सहस्रदीधितौ; शनैः शनैश्च संधुक्षितसूर्यकान्ताश्महुतभुजि, मन्दितेन्दुमणि
तीव्रः-अत्यन्तः, सन्तापो यस्य तथाभूत इवेत्युत्प्रेक्षा, मन्दं मन्दं शनैः शनैः, सञ्चरति प्रवहति सति । पुनः मुक्तमसृणमणितटीशय्येषु मुक्ता-त्यक्ता, मसृगा-चिक्कणा, मणिनिर्मिता, तटीरूपा-स्थलीरूपा, शय्या यैस्तादृशेषु, पुनः अभ्रमुकुल. प्रसूताभिः अभ्रमुसंज्ञकहस्तिनीवंशजाभिः, करेणुभिः हस्तिनीभिः, सविभ्रमं सविलासम्, उपनीतसरसलघङ्कपल्लवकवलेषु उपनीतः-उपस्थापितः, सरसलवङ्गपल्लवरूपः-स्निग्धलवङ्गलतानूतनदलरूपः, कवलः-ग्रासो येभ्यस्तादृशेषु, वामनदिङ्नागवंशजेषु वामनाख्यदिग्गजकुलप्रसूतेषु, गजेषु हस्तिषु. सुवेलमेखलासु सुवेलपर्वतनितम्बेषु, खेलस्लु क्रीडत्सु सत्सु [2] । पुनः सर्वतः परितः, प्रसृततापसाग्निहोत्रधूमान्धकारे प्रसृतः-विस्तृतः, तापसाना-तपस्विनाम् , अग्निहोत्रसम्बन्धिधूमरूपोऽन्धकारो यस्मिंस्तादृशे, रोहणगिरी रोहणाचले, कलशयोनिप्रसादनाय अगस्त्यमुनेरनुरजनाय, आयातविन्ध्यशिलालिड़ित इव आयातस्य-आगतस्य, विन्ध्यस्य-विन्ध्याचलस्य, शिलाभिः-प्रस्तरैः, आलिङ्गित इव संश्लिष्ट इव, उपलक्ष्यमाणे प्रतीयमाने सति । पुनः प्रविष्टारुणालोकस्तोकतरलितद्वारपालवेतालेषु प्रविष्टाः कृतप्रवेशाः,अरुणालोकेन-सूर्यतेजसा, स्तोकम्-ईषत् , तरलिताः-चञ्चलिताः, द्वारपालाः-प्रतीहाररूपाः, वेतालाः-पिशाचविशेषा येषु तादृशेषु, विवरेषु गुहासु, असुरदेवतार्चनारम्भपिशुनम् असुराणां-देवजातिद्विषां राक्षसानों, देवतार्चनस्य-स्खेष्टदेवत्वेन
वपूजायाः,आरम्भस्य, पिशुन-सूचकम् , पुन: अपूर्वसारभम् असाधारण सौगन्ध्यम्, दिव्यकुसुमधूपामोद दिव्यानां-सुन्दराणां, कुसुमानां-पुष्पाणां, धूपानाम् अग्नितप्तसुगन्धिद्रव्याणां च, आमोद-परिमल त्सु उद्वमत्सु सत्सु। पुनः रसातलमलयान्तरालमार्गेषु पातालमलयगिरिमध्यवर्तिमार्गेषु, पातालचन्दनद्रुमोपवनक्रीडारागिणीभिः पाताले यत् चन्दननुमाणां-चन्दनवृक्षाणाम् उपवनं, तस्मिन् , क्रीडानुरागवतीभिः, आपतन्तीभिः आगच्छन्तीभिः, पन्नगाङ्गनाभिः सर्पस्त्रीभिः, अलभ्यान्तरेषु अप्राप्यावकाशेषु सत्सु । पुनः प्रभातमारुतापूरितरणन्मुखरपुलिनशङ्ख. माले प्रभातमारुतेन-प्रातःकालिकपवनेन, आपूरिता-परिपूर्णविवरा, अत एव रणन्ती-ध्वनन्ती पुलिनशङ्खमाला-सैकत्तस्थल. स्थितशङ्खसमूहो यस्मिंस्तादृशे, पुनः दलितशुक्तिमुक्तास्तबकिततीरभुवि दलितानां-स्फुटितानां, शुक्तीनां-तादृशशुक्तिसम्बन्धिनीभिः,भुक्ताभिः-मुक्तामणिभिः, स्तबकिताः-संजातस्तबकाः, तीरभूः-तीरभूमिर्यस्य तादृशे, पुनः जडितजलमानुषा. ध्यासितसबालातपतटे जडितैः-जाड्यमापादितः, जलमानुषैः-जलीयमनुष्यैः, अध्यासितम्-अधिष्ठित, सबालातपंबालातपेन-अपरिपक्कातऐन रक्तातपेनेति यावत् सहितं, तट-तीरं यस्य तादृशे, पुनः चन्द्रास्तसमयविद्राणतेजसि चन्द्रास्तसमये चन्द्रतिरोभावकाले, विद्राणं-विलीन, तेजः-प्रभावः समृद्धिरिति यावत् , यस्य तादशे, तरङ्गिणीनाथे समुद्र, मत्सुखप्रचारार्थमिव सुखेन-अक्लेशेन, मत्सञ्चारार्थमिवेत्युप्रेक्षा, द्रवीभूतशारतिमिरविभ्रमं द्रवीभूतस्य-स्यन्दितस्य, शार्वरतिमिरस्य-रात्रिसम्बन्ध्यन्धकारस्य, विभ्रमं - विलासभूतम् , ऊर्मिविस्तारं तरङ्गसन्तानम् , उपसंहरति संक्षिपति सति, पुनः दिवसकृतयगावतारे दिवसे-दिने, कृतः, युगावतारः-युगारम्भो येन तादृशे, यद्वा दिवसरूपस्य कृतयुगस्य-सत्यनामक. प्रथमयुगस्यावतारे समागते सति, सहनदीधितौ सहस्रकिरणे. सूर्य इति यावत् , तिमिरसागरात अन्धकारसमुद्रात्, उन्मनाम् ऊर्ध्वमागता, मेदिनीं पृथ्वी, द्रष्टुमिव अवलोकितुमिव, उदयादिशिखरम् उदयाचलशिखरम् , अधिरूढे आरूढे सति । च पुनः, सन्धुक्षितसूर्यकान्तारमहुतभुजि सन्धुक्षितः-उद्दीपितः, सूर्यकान्तारमहुतभुक्-सूर्यकान्तमणि
Page #174
--------------------------------------------------------------------------
________________
टिप्पनक-परागविवृतिसंवलिता निर्झरस्यन्दे, निष्प्रभीकृतदवदहनतेजसि, विस्तारिततरुणतरुलतापल्लवलावण्ये, मुकुलितोलूकचक्षुरालोकसंपदि, विकासितदरीगृहद्वारोदरे, प्रकीर्ण इव गुञ्जाफलेषु, अङ्कुरित इव राजशुकचञ्चकोटिषु, पल्लवित इव कृकवाकुचूडाचक्रेषु, मञ्जरित इव सिंहकेसरसटासु, फलित इव कपिकुटुम्बिनीकपोलकूटेषु, प्रसारित इव हरितालस्थलीषु, क्षुण्ण इव शबरराजसुन्दरीसान्द्रनखदन्तक्षतेषु, राशीकृत इव पद्मरागसानुप्रभोल्लासेषु, निपतति सति पयोधिमध्यशिखरिणां शिखासु बन्धूककुसुमस्तबकभासि बालातपे; जाते स्फुटालोके जगति, किश्चिदुपशान्तचिन्तासंज्वरः पुरस्ताचक्षुरक्षिपम् [8]।
अथ नातिदूर दरीभृतस्तस्य परिसरादुजिहानं धातुधूलीपटलमिव विलुलितं वेलानिलेन, समन्ततः समुद्भासितनभोमार्गमर्घरत्नाञ्जलिमिव क्षिप्तमुदयसंध्यायाः सागरेण, कचिद् विद्रुमरसद्वारुणरागम् , कचित् तरुणहारीतपक्षहरिताभोगम् , कचित् कर्णिकारकुसुमपुञ्जपिञ्जरसन्निवेशम् , क्वचिद् दह्यमानकृष्णागुरुधूमधूस
सम्बन्धी अनिर्येन तादृशि; पुनःमन्दितेन्दुमणिनिर्झरस्यन्दे मन्दितः-मान्यमापादितः, इन्दुमणे-चन्द्रकान्तमणिसम्बन्धिनः, निर्झरस्य-सुधाप्रवाहस्य, स्यन्दः-प्रस्रवणं येन तादृशे; पुनः निष्प्रभीकृतदवदहनतेजसि निष्प्रभीकृतं मन्दीकृतं, दवदहनस्य-दावाः, तेजः-दीप्तिर्येन ताशि; पुनः विस्तारिततरुणतरुलतापल्लवलावण्ये विस्तारितं-वर्धितं, तरुणानांपरिणताना, तरूणां-वृक्षाणां, लतानां च, पल्लवानां-नूननपत्राणां, लावण्य-सौन्दर्य येन तादृशे; मुकुलितोलूकचक्षुरा. लोकसम्पदि मुकुलिता-उपसंहृता, उलूकानां-दिवान्धपक्षिणां, चक्षुषोः--नयनयोः, आलोकसम्पत्-तेजस्सम्पत्तिर्येन तादृशे; पुनः विकासितदरीगृहद्वारोदरे विकासितं-प्रकाशितं, दरीगृहद्वारोदरं-गुहागृहद्वारमध्यं येन तादृशे; पुनः गुलाफलेषु कृष्णलाख्यलताफलेषु, प्रकीर्ण इव प्रसूत इव; पुनः राजशुकचञ्चकोटिषु प्रशस्तशुक्रतुण्डाप्रभागेषु, अङ्कुरित इव सजाताङ्कर इव; पुनः कृकवाकुचूडाचक्रेषु कुक्कुटशिखामण्डलेषु, पल्लवित इव संजातपल्लव इव; पुनः सिंहकेसरसटासु सिंहसम्बन्धिस्कन्धकेशजटासु, मञ्जरित इव संजातमञ्जरीक इव; पुनः कपिकुटुम्बिनीकपोलकूटेषु मर्कटस्त्रीगण्डस्थलोप्रभागेषु, फलित इव समातफल इव; पुनः हरितालस्थलीषु हरितालाख्यवृक्षमयप्रदेशेषु, प्रसारित इव विस्तारित इव; पुनः शबरराजसुन्दरीसान्द्रनखदन्तक्षतेषु शबरराजसुन्दरीणां-शबरजातीयनृपतिसुन्दरस्त्रीणां, सान्द्रनखदन्तखतेषु-निविडनखदन्ताघातजनितव्रणेषु, क्षुषण इव पिष्ट इव; पुनः पद्मरागसानुप्रभोल्लासेषु पद्मरागाणारकमणीनां, यः सानुः-समस्थली, तत्सम्बन्धिद्युतिततिषु, राशीकृत इव पुञ्जित इव; पुनः बन्धूककुसुमस्तबकभासि बन्धूकसंशकं यत् कुसुम-रक्तपुष्पं, तस्य स्तबकस्येव-गुच्छस्येव, भाः-छविर्यस्य ताशे, बालातपे रक्तातपे, पयोधिमध्यशिखरिणां समुद्रमध्यवर्तिपर्वताना, शिखासु शिखरेषु, निपतति सति अवतरति सति; पुनः जगति भूमण्डले, स्फुटालोके स्फुट प्रकाशे, जाते सम्पन्ने सति [3]।
अथ अनन्तरम् , अत्युद्धतम् अत्याश्चर्यावहम् , प्रभाराशिं द्युतियुधम् , अपश्यं दृष्टवानहम् , कीदृशम् । तस्य प्रकृतस्य, दरीभृतः पर्वतस्य, परिसरात प्रान्तप्रदेशात नातिदरं किञ्चिन्निकट, वेलानिलेन तटमारुतेन, विललितं विक्षिप्त, उजिहानम् उद्गच्छन्तम् , धातुधूलीपटलमिव "सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाजनकासीससीसलोहं सहिडलं । गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ।" इत्युका ये धातवः, तेषां या धूल्यः-रेणवः, तासां पटलमिव समूहमिव । पुनः समन्ततः सर्वतः, समुद्भासितनभोमार्गम् उद्दीपितगगनमार्गम् , पुनः उदयसन्ध्यायाः सूर्योदयकालिकसन्धायाः, सागरेण समुद्रेण, क्षिप्तम् अर्पितम् , अर्घरत्नाञ्जलि मिव अर्थरूपरत्नपूर्णाजलिमिष, पुनः क्वचित् कस्मिंश्चिद् भागे, विद्रमरसद्वारुणरागम् विद्रुमरसस्य-प्रवालरसस्य, यो द्रवः-पङ्कः, तस्येव अरुणःयस्य तादृशम्, पुनः कचित् कुत्रचिदंशे, तरुणहारीतपक्षहरिताभोगं तरुणः-युवा, यः हारीत:-पक्षिविशेषः, तत्पक्षवद् हरिताभोगः-हरितकान्तिविस्तारो यस्मिंस्तादृशम् , पुनः क्वचित् कुत्रचित् प्रदेशे, कर्णिकारकुसुमपुञ्जपिञ्जरसन्निवेशम् कर्णिकारसंज्ञकं यत् पुष्पं तत्पुजवत् , पिजर:-पीतः, सन्निवेशः-संस्थानं यस्य तादृशम् , क्वचित् कुत्रापि सन्निवेशे, दह्यमानकृष्णागुरुधूमधूसरोद्देशम् दह्यमानस्य-तप्यमानस्य, कृष्णागुरोः-कालागुरुद्रव्यस्य, धूमेन धूसरः-ईषत्पाण्डुवर्णः, उद्देशः
Page #175
--------------------------------------------------------------------------
________________
तिलकमञ्जरी। रोद्देशम् , अतिभास्वरतया दुरालोकम् , आकुलाकुलेक्षणैरुत्थाय सर्वैः समकालमौर्वानलार्चिःशङ्कया निभालितं भालतटविनिहिताग्रहस्तच्छत्रकैः कैवतैः संवर्तकालसंध्यासदृशमत्यद्भुतं प्रभाराशिमपश्यम् [ड]1
____दृष्ट्वा चोपजातकौतुकः किमेतदिति वितर्कयन्नेव तस्मादर्कमण्डलादिव मयूखनियहमेकहेलया विनिर्गतम् , आगच्छदभिमुखमाकाशमार्गेण, संतानकनमेरुमन्दारकुसुमप्रायशेखरं, हरिचन्दनरसप्रायाङ्गरागं, कल्पद्रुमांशुकप्रायनिवसनम्, अनेकदिव्याभरणभूषितम् , आभरणमणिकिरणप्रभासंतर्पितेन प्रसर्पता सर्वतस्तप्ततपनीयद्रवाकारेण देहातिप्राग्भारेण पिङ्गलीकृताखिलदिगन्तरालं सदावानलमिवान्तरिक्षमादधानम् , उज्ज्वालदावानलानुलग्नदग्धस्थलाभेन जलनिधिवेलावनान्यपहाय युगपत्प्रधावितेन पृष्ठतो वहता विलेपनामोदाकृष्टेन मधुलिहां पटलेन पश्चात्प्रयायिभिरुन्नीयमानगतिमार्गम् [ 8 ], आदराकृष्टवल्गैर्वारंवारमुच्छलज्जलच्छटास्पर्शपरिहाराय तरुणवारिदानामन्तरालेन नीयमानैरनुभूतधूलीपटलमश्रूयमाणमुखरखुरपुटारवमतिवल्गु वल्गद्भिः
ऊर्ध्वदेशो यस्य तादृशम् । पुनः अतिभास्वरतया अतिदीप्रतया, दूरालोकं दुर्दर्शम् । पुनः और्वानलार्चिःशङ्कया वाडवाग्निज्वालाशङ्कया, आकुलाकुलेक्षणैः अत्यन्तचकितनयनैः, पुनः भालतटविनिहिताग्रहस्तच्छत्रकैः भालतटेललाटतटे, विनिहित-स्थापितम् , अग्रहस्तच्छत्रं-हस्ताग्रभागरूपं छत्रं यस्तादृशैः, सर्वैः, कैवतैः धीवरैः, उत्थाय, समकालमेव युगपदेव, निभालितं विलोकितम् , पुनः संवर्तकालसंध्यासदृशं प्रलयकालिकसन्ध्यातुल्यम् [3] __च पुनः, दृष्ट्वा निरुक्तप्रभाराशिं दृष्टिगोचरीकृत्य, उपजातकोतुकः उत्पन्नोत्सुक्यः सन् , एतत् तेजः, किम् कीदृशम् , इति वितर्कयन्नेव विचिन्तयन्नेव, खेचरनरेन्द्रवृन्दं विद्याधरेन्द्रगणम् , अद्राक्षं दृष्टवानहम् , कीदृशम् ? अर्कमण्डलात् सूर्यमण्डलात् , मयूखनिवह मिव किरणकलापमित्र, तस्मात् प्रभामण्डलात्', एकहेलया युगपत् , विनिर्गतं विनिःसृतम् । पुनः आकाशमार्गेण, अभिमुखं सम्मुखम् , आगच्छत् अवतरत्। पुनः सन्तानक-नमेरु-मन्दारकुसुमप्रायशेखरं संतानक-न मेरु-मन्दारा:-देववृक्षविशेषाः, तेषां यानि कुसुमानि-पुष्पाणि, तत्प्राय-तत्प्रचुर, शेखरं-शिरोमाल्यं यस्य तादृशम्। पुनः हरिचन्दनरसप्रायाङ्गरागम् हरिचन्दनरसप्रायः-चन्दनविशेषरसप्रचुरः, अङ्गरागः-अङ्गालेपो यस्य तादृशम् । पुनः कल्पद्माशुकप्रायनिवसनम् कल्पद्रुमांशुकप्राय-कल्पद्रुमसम्बन्धिसूक्ष्मश्लक्षणवस्त्रप्रचुरं, निवसन-वस्त्रं यस्य तादृशम् । पुनः अनेकदिव्याभरणभूषितं विविधोत्कृष्टालङ्कारालङ्कृतम् । पुनः देहधुतिप्राग्भारेण शरीरकान्तिकलापेन, पिङ्गलीकृताखिलदिगन्तरालंपिङ्गलीकृत-पिशजीकृतम्, अखिलाना-समस्ताना, दिशाम् , अन्तरालं-मध्यं येन तादृशम् ,कीडशेन ? आभरणमणिकिरणप्रभासन्तर्पितेन आभरणमणीनाम्-अलङ्करणमणीना, ये किरणा:-रश्मयः, तत्प्रभाभिः, सन्तर्पितेन-संवर्धितेन, पुनः सर्वतः परितः,प्रसर्पता प्रसरता, तप्ततपनीयद्रपाकारेण तप्तं यत् तपनीयं-सुवर्ण, तस्य यो द्रव-पङ्कः, तदाकारण, अत एव अन्तरिक्षं-गगनमण्डलं, सदावानलमिव दावामिसहितमिव, आदद्धानं कुर्वाणम् । पुनः पश्चात्प्रयायिभिः पश्चात्प्रगामिजनैः, उन्नीयमानगतिमार्गम् उन्नीयमानः-अनुमीयमानः, गतिमार्ग:-गमनमानें यस्य तादृशम् , केन ? मधुलिहां भ्रमराणा, पटलेन-समूहेन, कीदृशेन ? उज्वालदावानलानुलग्नदग्धस्थलामेन उत्-उर्च, ज्वाला यस्य तादृशेन, दावानलेन-दावामिना, अनुलन-संबद्धं दग्धं च यत् स्थलं-स्थानं, तस्येव आभा-कान्तिर्यस्य तादृशेन, पुनः जलनिधिवेलावनानि समुद्रतटवर्तिवनानि, अपहाय त्यक्तवा, युगपत् एककालं, प्रधावितेन कृतसत्वरगतिकेन, पुनः पृष्ठतः पृष्ठमागे, वहता गच्छता, पुनः विलेपनामोदाकृष्ठेन विलेपनस्य-अझोपलेपनद्रव्यस्य, आमोदेन-अतिसौरमेण, आकृष्टेन-वशीकृतेन [6] । पुनः प्रधानवाजिमिः मुख्यभूताश्वैः, उामाननायकम् उह्यमानः-देशान्तर नायमानः, नायको यस्य तादृशम् , कीदृशैः ? आदराकृष्टवलौः आदरेण आकृष्टा वल्गा-मुखरज्जुर्येषां तादृशैः, पुनः वारं वारम् अनेकवारम्, उच्छलजलच्छटास्पर्शपरिहाराय उच्छलन्त्याः-उद्वेलन्याः, जलच्छटायाः-जलधारायाः, स्पर्शपरिहाराय-स्पर्शवर्जनाय, तरुणवारिदानां परिणतमेघानाम् , अन्तरालेन मध्येन, नीयमानः गम्यमानैः, पुनः अनुभूतधूलीपटलम् अनुभूतम्-अनुत्क्षिप्त, धूलीपटलं-धूलीसमूहो यस्मिंस्तादृशं यथा स्यात् तथा, पुनः अश्रूयमाणमुखरखुरपुटारवम् अश्रूयमाणः, मुखरयोः-शब्दायमानयोः, खुरपुटयोः-सम्पुटितखुरयोः, आरवः- ध्वनियस्मिंस्तादृशं
Page #176
--------------------------------------------------------------------------
________________
३१८
टिप्पनक-परागविवृतिसंवलिता स्वभावचञ्चलैः प्रधानवाजिभिरुह्यमाननायकम् , अदृश्यमानहरितच्छायामण्डलेश्वलद्भिरुद्दण्डैरातपत्रखण्डैरभिनवतापसलिलनिर्झरे नभःसरसि मूलभागनिननलिनीपलाशप्रकराणि पङ्कजवनानीव संचारयमाणम् , अचिरांशुतेजःस्तबकचन्द्रकितैरिन्द्र नीलकान्तिभिः तरुगजलदैरध्यासितो कदलिकाशिखरेषु समुच्छ्रितोदण्डमायूरातपत्रेष्विव द्विरदसारिसदनेषु निद्रायमाणकुमारम् , अच्छिन्नसंतानपवनप्रसारिताभिरतिभास्वरतया दिवापि प्रेखदुल्कादण्डमिव व्योम दर्शयन्तीभिः कल्पतरुरत्नांशुकवैजयन्तीभिः समन्ततो ज्वलद्रथविमानकेतनम् , उदारनेपथ्यधारिणा गृहीतनानाप्रहरणेन विद्यानुभावसिद्धत्वाद् गतेरकृतपदविक्षेपमग्रतः प्रसर्पता समपादस्थितेन प्रदातिसंदोहेन कृतकलकलं [ण], पृष्ठतश्च वरकरेणुकारूढाभिरुपरिधृतकुन्दधवलातपत्रिकाभिः पुरःप्रधावमानकनकदण्डोड्डामरमायूरच्छत्रमण्डलाभिरुभयतः प्रचलितभुजलतारत्नक्लयेन वाराङ्गनाजनेन सलीलमुद्भयमानचामरकलापाभिराप्रपदीनचीनकञ्चकावच्छन्नवपुषा निजनिजवाहनाधिरूढेन वृद्धान्तर्वशिक
यथा स्यात् तथा, अतिवल्गु अतिमनोहरं, वल्गद्भिः गच्छद्भिः । पुनः स्वभावचञ्चलैः प्रकृतिचपलैः । पुनः अदृश्यमानहरितच्छायामण्डलैः अदृश्यमानम्-अप्रतीयमानम् , हरितच्छायामण्डलं-हरितकान्तिकलापो येषां तादृशैः, उद्दण्डैः ऊर्ध्वदण्डैः, आतपत्रखण्डैः छत्रमण्डलैः, अभिनवातपसलिलनिझरे अभिनवः- नवीनः, आतपात्मकानां सलिलानांजलाना, निर्झरः-प्रवाहो यस्मिस्तादृशे. नभःसरसि आकाशरूपसरसि, मूलभागनिळूननलिनीपलाशप्रकराणि मूलभागे-मूलप्रदेशे, निर्लनः-छिन्नः, नलिनीपलाशप्रकरः-पशिनीपत्रसमूहो येषु तादृशानि, पङ्कजवनानि कमलवनानि, सञ्चारयमाणमिष संवाहयमानमिव, पुनः द्विरदसारिसदनेषु द्विरदानां-गजाना, ये सारयः-पर्याणानि, तद्रूपगृहेषु, निद्रायमाणकुमारं निद्रायमाणः-शयानः, कुमारः-युवराजो यस्मिंस्तादृशम् , कीदृशेषु ? तरुणजलदैः परिणतमेधैः, अध्यासितोचकदलिकाशिखरेषु
लेकानाम् -उपरितनवेजयन्तीनां, शिखरं-शिरोभागो येषां तादृशेषु, कीदृशैः ? अचिरांशुतेजास्तबकचन्द्रकितैः अचिरांशतेजःस्तबकेन-विद्युत्तेजोगुच्छेन, चन्द्रकितैःसञ्जातमयूरपक्ष्मस्थचन्द्राकारचिङः, पुनः इन्द्रनीलकान्तिभिः मरकतमणितुल्यकान्तिभिः, अत एव, समुच्छ्रितोइण्डमायूरातपत्रेष्विव समुच्छ्रितं-समुन्नमितम् , उद्दण्डम्-अर्वदण्डं, मायूरं-मयूरसम्बन्धि, आतपत्रं छत्रं येषु तादृशेष्विवेत्युत्प्रेक्षा । पुनः कल्पतरुरत्नांशुकवैजयन्तीभिः कल्पतरुसम्बन्धिरत्नमयवस्वरूपपताकाभिः, समन्ततः सर्वतः, ज्वलद्रथविमानकेतनं ज्वलद्-दीप्यमानं, रथस्य विमानस्य च, केतनं-पताकादण्डो यस्य तादृशम् , की शीभिः ? अच्छिन्नसन्तानपवनप्रसारिताभिः अच्छिन्नसन्तानेन-अविरतसन्ततिकेन, पवनेन-वायुना, प्रसारिताभिः-विस्तारिताभिः, पुनः अतिभावरतया अतिदीप्तिमत्तया, दिवापि दिनेऽपि, प्रेसदुल्कादण्डमिव प्रेङ्खन्-प्रचलन् , उल्कादण्ड:निर्गच्छजवालारूपदण्डो यस्मिंस्तादृशमिवेत्युत्प्रेक्षा, व्योम गगनमण्डलं, दर्शयन्तीभिः प्रत्याययन्तीभिः, पुनः पदातिसन्दोहेन पादगामिगणेन, कृतकलकलं कृतकोलाहलम् , कीदृशेन ? उदारनेपथ्यधारिणा उज्वलकृत्रिमषधारिणा, पुनः गृहीतनानाप्रहरणेन धृतविविधास्त्रेण, पुनः गतेः गमनस्य, विद्यानुभावसिद्धत्वात् विद्या प्रभावसिद्धत्वात् , अकृतपदविक्षेपम् अकृतपादप्रक्षेपणं यथा स्यात् तथा, अग्रतः अग्रे, प्रसर्पता प्रचलता, पुनः समपादस्थितेन अन्यूनानधिकदेशवर्तिपादावलम्बितेन [ण ] 1 च पुनः पृष्ठतः पृष्ठभागे, प्रधानावरोधसुन्दरीभिः प्रधानान्तःपुरसुन्दरस्त्रीभिः, अनुगम्यमानम् अनुत्रियमाणम् , कीदृशीभिः ? वरकरेणुकारूढाभिः उत्तमहस्तिनीमारूढवतीभिः; पुनः उपरिधृतकुन्दधवलातपत्रिकाभिः उपरि धृता-गृहीता, कुन्दपुष्पवद् धवला-शुभ्रा, आतपत्रिका-लघुच्छत्रं याभिस्ताहशीभिः; पुनः पुरःप्रधावमानकनकदण्डोड्डामरमायूरच्छत्रमण्डलाभिः पुर:-अग्रे प्रधावमानं, कनकदण्डेन-सुवर्णमयदण्डेन, उड्डामरम्-उद्भर्ट, मायूरच्छत्रमण्डलं-मयूरपक्षमयच्छत्रवृन्दं यासा तादृशीभिः पुनः उभयतः पार्श्वद्वये, प्रचलितभुजलतारत्नवलयेन प्रचलितम्-उद्वेलितं, भुजलतयोः-बाहुलतयोः, रत्नमयं वलय-कङ्कणं यस्य तादृशेन, वाराङ्गनाजनेन वेश्याजनेन, सलील सविलासं, यथा स्यात् तथा, उद्धूयमानचामरकलापाभिः उद्धयमानः-उत्क्षिप्यमाणः, चामरकलापः-चामरसमूहो यासां तादृशीभिः पुनः वृद्धान्तर्वशिकसमूहेन वृद्धान्तःपुराधिकारिगणेन, सर्वतः परितः,
Page #177
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
समूहेन सर्वतः परिवृताभिरालोहितापाङ्गतरङ्गैर्मन्दतारकाप रिस्पन्दैर्लोच नारविन्दै रनुभूत दीर्घरज निजागराभिरिव विभाव्यमानाभिरलम्बितालक श्रेणिभिरलुप्तललाट तिलकैरग्लपितौष्ठमुद्रालक्तकैराननेन्दुभिरसंपादितमनोभवाज्ञाभिरिव ज्ञायमानाभिः प्रधानावरोधसुन्दरीभिरनुगम्यमानम् अनतिभूरिपरिवार परिच्छदम्, उच्चलित-मध्वना सुवेलाद्रेः खेचरनरेन्द्रवृन्दमद्राक्षम् [ त ] |
दृष्ट्वा चातस्तं प्रभार शिमत्यन्तदुरालोकं तं चापतन्तमभिमुखं खेचरलोकमुल्लसच्चित्तवृत्तिः प्रवर्तय पुरस्तान्नावमिति नियुज्य तारकं तत्क्षणमेव चलितस्तेन विस्मयस्तिमितचक्षुषा समस्तेनापि गगनचारिणां गणेन 'कोऽयं ? कुतोऽयं ? किमर्थमायातः ? कथमिहातिदुर्गमायां नगोपकण्ठभूमावेकाकी प्रविष्टः ? क यास्यति ?' इति जल्पता परस्परमवलोक्यमानो गत्वा स्तोकमन्तरमधस्तात् तस्य भूधरस्य झटिति दृष्टवानष्टापदाद्रिशिखरभाखराकारम्, उत्पातपवनधून नोपजातवेदानां गर्भपातमिव संवर्तका विद्युताम्, अनवरतवारिधिसलिलशोषणोत्पन्नजाड्यस्य दाहशक्तिभ्रंशभिव वाडवाग्नेः अमृतमथनोत्फालमन्दरास्फालितस्य रुधिरच्छटोद्गार -
"
३१९
यः,
परिवृताभिः परिवेष्टिताभिः कीदृशेन ? आप्रपदीनचीनकशुकावच्छन्नवपुषा आप्रपदीनः पादायान्तं यावत् लम्बमानो चीनकछुकः - चीन देशीय वस्त्रनिर्मितः कक्षुकः, तेन अवच्छन्नम् - आच्छादितम्, वपुः शरीरं यस्य तादृशेन, पुनः निज निजवाहनाधिरूढेन खखवाहने कृताधिरोहणेन; पुनः आलोहितापाङ्गतरङ्गैः आलोहितः - आरक्तः, अशङ्गतर:नेत्रप्रान्तभाग कान्तिप्रवाहो येषां तादृशैः पुनः मन्दतारका परिस्पन्दैः मन्दः, तारका परिस्पन्दः - कनीनिकासच्चारो येषु तादृशैः, लोचनारविन्दैः नयनकमलैः, अनुभूतदीर्घरजनिजागराभिरिव अनुभूता प्राप्ता, दीर्घायाम् आयतायां, रजन्यां--रात्रौ, जागरा-जागरणं याभिस्तादृशीभिरिव, विभाव्यमानाभिः प्रतीयमानाभिः पुनः अलम्बितालक श्रेणीभिः बद्धकुटिलकेशपङ्क्तिभिः; पुनः अलुप्तललाटतिलकैः अध्वस्तभाल स्थालक्तकबिन्दुभिः, पुनः अग्लपितौष्ठमुद्रालतकैः अग्लपितम्-अप्रच्यावितम् ओष्ठे, मुद्रालक्तकं-मुद्रात्मकम्, आलक्तकम् - रक्तद्रवो येषु तादृशैः, आननेन्दुभिः मुखचन्द्रैः, असम्पादितमनोभवाज्ञाभिरिव न सम्पादिता अपरिपालिता, मनोभवस्य - कामदेवस्य, आज्ञा- अनुशासनं याभिस्तादृशीभिरिव ज्ञायमानाभिः उत्प्रेक्ष्यमाणाभिः । पुनः कीदृशम् ? अति भूरिपरिवारपरिच्छदम् अतिभूरि- अत्यधिकः, परिवारः-अमात्यादिपरिजनः, परिच्छदः - उपकरणं च यस्य तादृशम् । पुनः सुवेलाद्रेः सुवेलसंज्ञकपर्वतस्य, अध्वना मार्गेण, उच्चलितम् ऊर्ध्वं चलितम् [त ] |
च पुनः, अग्रतः अत्रे, अत्यन्तदुरालोकम् अतिदुर्दर्श, तं प्रकृतं, प्रभाराशि तेजःपुञ्जं च पुनः, अभिमुखं सम्मुखम्, आपतन्तम् आगच्छन्तं खेचरलोकं विद्याधरजनं दृष्ट्वा दृष्टिगोचरीकृत्य, उल्लखच्चित्तवृत्तिः प्रमोदमानमनोवृत्तिः सन्, पुरस्तात् अग्रे, नावं, प्रवर्तय प्रेरय, इति इत्थं, तारकं तत्संज्ञकं नाविकं नियुज्य आज्ञाप्य, तत्क्षणमेव तत्कालमेव, चलितः प्रस्थितः, विस्मयस्तिमितचक्षुषा विस्मयेन आश्चर्येण, स्तिमितं निश्चलं, चक्षुः- नेत्रं यस्य तादृशेन, समस्तेनापि समग्रेणापि, तेन प्रकृतेन, गगनचारिणां खेचराणां गणेन समूहेन, अयं प्रत्यक्षवर्ती, क: ?, अयं कुतः कस्मात् स्थानात्, किमर्थे किमुद्देश्यकम्, आयातः आगतः ? कथं केन प्रकारेण अतिदुर्गमायाम् अतिदुःखेन गम्यायाम्, इह अस्यां नगोपकण्ठभूमौ पर्वतप्रान्तभूमौ एकाकी अद्वितीयः, प्रविष्टः कृतप्रवेशः सन् क्व कुत्र, यास्यति गमिष्यति ? इति परस्परम् अन्योऽन्यम्, जल्पता ध्रुवता, अवलोक्यमानः निरीक्ष्यमाणः, स्तोकं किञ्चित्, अन्तरं दूरं तस्य प्रकृतस्य, भूधरस्य पर्वतस्य, अधस्तात् अधोदेशं, झटिति शीघ्रं गत्वा, एकं दिव्यं मनोहरम्, आयतनं गृहं, देवमन्दिरमित्यर्थः, दृष्टवान् कीदृशम् ? अष्टापदाद्विशिखरभाखराकारम् अष्टापदनामकपर्यंतस्य शिखरवत्, भाखरः--दीप्रः, आकारो यस्य तादृशम् । पुनः उत्पातपवनधूननोपजातखेदानाम् उत्पातपवनेन - शुभाशुभावेदका - कस्मिक भूकम्पादिकालिकवायुना, यत् धूननं-कम्पनं, तेन उपजातः - उत्पन्नः खेदः - वेदना यासां तादृशीनां संवर्तकाभ्रविद्युतां संवर्तक नामक मेघसम्बन्धितडितां, गर्भपातमिव गर्भस्रा चमिवेत्युत्प्रेक्षा । पुनः अनवरतवारिधिसलिलशोषणोत्पन्न जाड्यस्य अनवरतं - निरन्तरं वारिधेः समुद्रस्य, सलिलशोषणेन - जलशोषणेन उत्पन्नं, जाड्यं - शैत्यं यस्य तादृशस्य, वाडवाग्नेः समुद्रस्थिताग्नेः, दाहशक्तिभ्रंशमिव दाहशक्तिध्वंसमिवेति चोत्प्रेक्षा । पुनः अमृतमथनोत्फालमन्दरा
Page #178
--------------------------------------------------------------------------
________________
३२०
टिप्पनक-परागविवृतिसंवलिता मिव पारावारस्य, प्रलयपर्जन्यगर्जितोपजनितप्रौढभेदायाः कन्दलोद्भेदमिव पातालस्वर्गवैडूर्यभूमेः, अतुलगारुडप्रावघटितोदप्रविकटपीठम् , अध्यासितपीठबन्धमध्यया रसातलत्रिपथगातरङ्गमालयेव गगनमवलोकयितु'मुत्पतितया चन्द्रकान्तमणिशिलासोपानमालया विराजितोदारमण्डपद्वारावतारमार्गम् , अनेकमाणिक्यमत्तवारणकभूषितम् [थ], अनिमेषलोचनाभिरतिशयितविश्वकर्मकौशलं शिल्पनिर्माणमवलोकयितुममरलोकादुपागताभिः स्वर्गरमणीभिरिव मणिशिलाशालभञ्जिकाभिरध्यासिताभ्रंकषपुष्परागपाषाणस्तम्भशिखरम् , उपरि घूर्णन्ती भिरर्णवोदकपानकालीभिर्वालजलधरलेखाभिरापादिताञ्जनवर्तिकृत्यैर्वलद्भिरुच्छिखैः पद्मरागकलशैः प्रकाशिताकालदीपोत्सवविलासम् , अविरलोद्गीर्णसुरचापचक्रकृतकलापापलापेषु वज्रमणिशलाकाजालकेषु कूजितानुमितनिलीननीलकण्ठम् , आशामुखव्यापिनि महानीलाश्मयोनेरामलसारकस्य घनदुर्दिनश्यामले प्रभाचवाले बलाकायमानपवनलोलसितपताकम् , आभोगदूरोत्सारितदिशा तपनमण्डलमिवात्मनः कलशतां
स्फालितस्य अमृतमथने-समुद्रादमृतोद्धरणे, उत्फाल:-उद्धतः, यो मन्दरः-मन्दराचलः, तेन आस्फालितस्य-संक्षोभितस्य, पारावारस्य समुद्रस्य, रुधिरच्छटोदारमिव रुधिरधारोद्वमन मिवेति चोत्प्रेक्षा । पुनः प्रलयपर्जन्यगर्जितोपजनितप्रौढ मेदायाः प्रलयपर्जन्यस्य-प्रलयकालिकमेघस्य, गर्जितेन-गर्जनेन, उपजनितः-उत्पादितः, भेदः-विदारणं यस्यास्तादृश्याः, पातालस्वर्गवैडूर्यभूमेः पातालखर्गसम्बन्धिमणिविशेषक्षेत्रभूतभूमेः, कन्दलोद्भेदमिव नवाङ्कुरोद्गममिवेति चोत्प्रेक्षा । पुनः अतुलगारुडगावटितोदनविकटपीठम् अतुलेन-अनुपमेन, यद्वा अपरिमितेन, गारुडग्राव्णा-मरकतमणिना, घटित-खचितम् , उदग्रम्-उन्नतं, विकटं-विशालंच, पीठम्-ऊर्श्वभूमिर्यस्य तादृशम् । पुनः अध्यासितपीठबन्धमध्यया ऊर्श्वभूमिवन्धमध्यवर्तिन्या, गगनम् आकाशम् , अवलोकितुं द्रष्टुम् , उत्पतितया उच्छलितया, रसातलत्रिपथगातरङ्गमालयेव पातालगडातरङ्गावल्येवेत्युत्प्रेक्षा, चन्द्रकान्तमणिशिलासोपानमालया चन्द्रकान्तमणिरूप. प्रस्तरमयाधिरोहणीपङ्या, विराजितोदारमण्डपद्वारावतारमागे विराजितः-उद्भासितः, उदारस्य-महतः, मण्डपस्य गृहविशेषस्य, द्वारे, अवतारमार्ग:-प्रवेशमार्गो यस्य तादृशम् । पुनः अनेकमाणिक्यमत्तवारणकभूषितम् अनेकैःबहुभिः, माणिक्यस्य मणिनिर्मितैः, मत्तवारणकैः-वरण्डकैः, वरण्डि इति ख्यातेहावयवैः, भूषितं-शोभितम् [थ]। पुनः अनिमेषलोचनाभिः अनिस्यन्दनयनाभिः, अत एव अतिशयितविश्वकर्मकौशलम् अतिशयित-तिरस्कृतं, विश्वकर्मणः-तदाख्यशिल्पिदेवस्य, कौशलं-नैपुण्यं येन तादृशं, शिल्पनिर्माणं शिल्परचनाम् , अवलोकयितुं द्रष्टुम् , अमरलोकात् देवलोकात् , उपागताभिः समीपमागताभिः, स्वर्गरमणीभिरिव खर्गसम्बन्धिसुन्दरीभिरिवेत्युत्प्रेक्षा, मणिशिलाशालभलिकाभिः मणिरूपप्रस्तररचितशिलापुत्रिकाभिः, अध्यासिताभ्रङ्कषपुष्परागपाषाणस्तम्भशिखरम् अध्यासितम्-अधिष्ठितम्, अभ्रषस्य-मेघस्पर्शिनः, पुष्परागपाषाणस्तम्भस्य-पद्मरागमणिरूपप्रस्तरमयस्तम्भस्य, शिखरम्-उपरिभागो यस्य तादृशम् । पुनः उपरि ऊवं, घूर्णन्तीभिः भ्रमन्तीभिः, अर्णवोदकपानकालीभिः समुद्रजलपानकृष्णवर्णाभिः, बालजलधरलेखाभिः नवीनमेधपतिभिः, आपादिताजनपर्तिकृत्यैः सम्पादिताञ्जनात्मकदीपदशाकार्यैः, ज्वलद्भिः दीप्यमानैः, उच्छिखैः अशिखैः, पद्मरागकलशैः पंझरागाख्यमणिमयकुम्भैः, प्रकाशिता. कालदीपोत्सवविलासं प्रकाशितः-प्रकटितः, अकाले-खोचितकालाभावेऽपि, दीपानां-दीपावल्याः, उत्सवविलासःउत्सवशोभा यस्मिंस्तादृशम् । पुनः अविरलोद्गीर्णसुरचापचऋकृतकलापापलापेषु अविरलोद्गी”न-निरन्तरमुद्भासितेन, सुरचापचक्रेण-इन्द्रधनुर्गणेन, कृतः, कलापस्य-मयूरशिखायाः, अपलापः-अपह्नवो येषु तादृशेषु, वज्रमणिशलाकाजालकेषु हीरकमणिमयशलाकासमूहेषु, कूजितानुमितनिलीननीलकण्ठं कूजितेन-अव्यक्तशब्देन, अनुमितः, निलीनः-प्रच्छन्नः, नीलकण्ठः-मयूरो यस्मिंस्तादृशम् । पुनः आशामुखव्यापिनि दिगन्तव्यापके, घनदुर्दिनश्यामले सान्द्रमेघच्छन्नदिनवत् कृष्णवणे, महानीलाश्मयोनेः महानीलाश्मा-महानीलमणिः, योनिः-उत्पत्तिस्थानं यस्य तादृशस्य, आमलसारकस्य शिखरावयवविशेषस्य, प्रभाचक्रवाले प्रभामण्डले, बलाकायमानपवनलोलसितपताकं बलाकायमाना-बकपतिवदाचरन्ती, पवनेन-वायुना, लोला-चञ्चला, सिता-श्वेता, पताका यस्मिंस्तादृशम् । पुनः आभोगदूरो
Page #179
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
३२१ नेतुमुत्थितेन चुम्बिताम्बरशिखमतिप्रांशुना शिखरेण, विततशिखरश्रेणिना सागरवीचिमालास्फालवाचालतलशिलासोपानमालेन मूलदेशासीननानारूपजलचरजातिना स्वच्छतातिरेकादात्मकरतलस्थितवदवलोक्यमानापरभागावस्थितपदार्थजातेन शुद्धजातिस्फाटिकनिर्मितेन स्फुटस्फातिना प्राकारमण्डलेन कुण्डलितम् , अमलप्राकारभित्तिलग्नैः प्रतिबिम्बकैरिव निजैरनिलवेल्लितपताकापल्लवतया प्राप्तुमुन्नतिप्रकर्षमारब्धसेवासमुचितोत्तरीयाञ्चलवीजनैरमरगिरिशृङ्गैरिव सर्वतः परिवृतं हिरण्मयैः सुरप्रासादैः [द], छन्दोविचितिशास्त्रमिव बृहत्या जगत्या भ्राजितं, युगान्तदिवसमिव विलसदनेकरूपकालिकान्तं, हेमन्तमिव समासन्नशिशिरवातायनालंकृतं,
टिप्पनकम् छन्दोविचितिशास्त्रमिव बृहत्या जगत्या छन्दोजात्या, अन्यत्र महत्या देवकुलिकाधरया । युगान्तदिवसमिव विलसदनेकरूपकालिकान्तम् एकत्र विलासवज्ञानारूपशङ्करम् , अन्यत्र देदीप्यमाननानारूपैकपतिकमनीयम् । हेमन्तमिव समासन्नशिशिरवातायनालङ्कतम् एकत्र निकटशीतलगवाक्षभूषितम् ,......। प्रौढवादिनमिवातिविषमपत्रमाविस्मायितप्रेक्षकजनम् एकत्र दुर्विजेयपत्रकभञ्जनाश्चर्यितावलोककलोकम् , भन्यन दुर्लेखनीयपत्रवल्लीरचनाभेदाश्चर्यितप्रेक्षकजनम् []
सारितदिशा आभोगेन- विस्तारेण, दूरम् , उत्सारिता-उत्क्षिप्ता, दिक् येन तादृशेन, अतः तपनमण्डलं सूर्यबिम्बम् , आत्मनः खस्य, कलशतां कुम्भतां, नेतुं प्रापयितुम् , उत्थितेनेव उद्गतेनेव, अतिप्रांशुना अत्युनतेन, शिखरेण शृङ्गेण, चुम्बिताम्बरशिखं चुम्बित्ता-स्पृष्टा, अम्बरशिखा-आकाशोपरिभागो येन तादृशम् । पुनः प्राकारमण्डलेन प्राकारसमूहेन मण्डलाकारप्राकारेण वा, कुण्डलितं परिवेष्टितमू, कीदृशेन ? विततशिखरश्रेणिना विस्तृतशिखर. समूहकेन, पुनः सागरवीचिमालास्फालवाचालतलशिलासोपानमालेन सागरवीचिमालाया:-समुद्रतरङ्गश्रेण्याः, य आस्फाल:-आस्फालनं, तेन वाचालतला-शब्दायमानाधःस्थला, शिलासोपानमाला-प्रस्तरमयी रोहिणीश्रेणी यस्य तादृशेन, पुनः मूलदेशासीननानारूपजलचरजातिना मूलदेशे-अधोदेशे, आसीनाः-उपविशन्त्यः, नानारूपाः-अनेकरूपाः, जलचरजातयः-जलजन्तुजातीया जीवा यस्मिंस्तादृशेन, पुनः स्वच्छतातिरेकात् उज्वलतोत्कर्षात् , आत्मकरतलस्थितवत् खकरतलवर्तिवस्तुवत् , अवलोक्यमानापरभागावस्थितपदार्थजातेन अवलोक्यमानं-दृश्यमानम् , अपरभागावस्थितम्-उत्तरभागावस्थित, पदार्थजातं-वस्तुसमूहो यस्मिंस्तादृशेन, पुनः शुद्धजातिस्फाटिकनिर्मितेन शुद्धजाति-स्वच्छजातीय, यत् स्फाटिकं-स्फटिकमणिगणः, तद्रचितेन, पुनः स्फुटस्फातिना स्फुटा स्फातिः-विस्तारो यस्य तादृशेन । पुनः हिरण्मयैः सुवर्णमयैः, सुरप्रासादैः देवमन्दिरैः, सर्वतः सर्वभागेषु, परिवृतं परिवेष्टितम् , कैरिव ? अमलप्राकारभित्तिलग्नैः उजवलप्राकारकुख्यसंक्रान्तैः, निजैः स्वकीयः, प्रतिबिम्बकैरिव प्रतिच्छायाभिरिव, पुनः अनिलवेल्लितपताकापल्लवतया पक्नोद्भूतपताकारूपपल्लवतया हेतुना, उन्नतिप्रकर्षम् उच्छ्रायोत्कर्ष, प्राप्तमिव लब्धुमिव, आरब्धसेवासमुचितोत्तरीयाञ्चलवीजनैः आरब्धं-प्रवर्तित, सेवासमुचितं-सेवायोग्यम् , उत्तरीयांश्चल. वीजनम्-उत्तरीयवस्त्राग्रभागेन वीजन-पवनान्दोलनं यैस्तादृशैः, अमरगिरिशृङ्गैरिव सुमेरुशिखरैरिव [द ] । पुनः कीदृशम् ? छन्दोविचितिशास्त्रमिव छन्दोविचितिः-छन्दःसन्दोहः, तत्सम्बन्धिशास्त्रमिव, यद्वा छन्दसा या विचितिः-अन्वेषणं तत्सम्बन्धिशास्त्रमिव, वृहत्या विस्तृतया, जगत्या आयतनाधारभूम्या, पक्षे बृहती-जगतीसंज्ञकछन्दोभ्यां, भ्राजितं शोभितम्, पुनः युगान्तदिवस मिव प्रलयदिनमिव, विलसदनेकरूपकालिकान्तं विलसन्तीभिः-विराजमानाभिः, अनेकरूपाभिः-नानाकाराभिः, आलिभिः-पतिभिः, कान्तं-सुन्दरम् , पक्षे विलसन्-विराजन् , नानारूपाभिः-नानाकाराभिः, कालिकाभिः-चण्डिकाभिः, अन्तः-क्षयो बत्र, यद्वा विलसद्भिः, नानारूपकैः, अलिभिः-भ्रमरैः, [मार्कण्डेयपुराणान्तर्गतदुर्गासप्तशतीस्तुत्यन्तः एकादशाध्याये] “तदाऽहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्पदम्" इत्यन्यत्रोक्कदिशा भ्रमराकारधारणीभिश्चण्डीभिरिति यावत् , कान्त-मनोहरम् , यद्वा विलसन् क्रीडन् नानारूपः काल्याः कान्तः-शिवो यत्र तादृशम् । पुनः हेमन्तमिव हेमन्तऋतुमिव, समासन्नशिशिरवातायनालङ्कतं समासन्नैः-अतिसमीपवर्तिभिः, शिशिरैः-शीतलैः, वातायनैः-गवाक्षः, पक्षे
४१ तिलक.
Page #180
--------------------------------------------------------------------------
________________
३२२
टिप्पनक-परागविवृतिसंवलिता प्रौढवादिनमिवातिविषमपत्रभङ्गविस्मायितप्रेक्षकजनम्, अनेकमाणिक्यखण्डखचितकाश्चनशिलासंघातम् , एकं दिव्यमायतनम् [ध]।
उपजातविस्मयश्च विस्मृतनिमेषनिश्चलेन चक्षुषा तदवलोक्य सुचिरमकरवं मनसि-'फलाभिलाषिणा पुरुषेण नैकान्तो नीतिनिष्ठेन भवितव्यम् , अभिमते वस्तुनि दैवं प्रमाणीकृत्य सर्वात्मना प्रवर्तितव्यम् , अनुकूल विधिविहितसाहायकस्य साहसिकस्य सर्वदा शस्यसंपदिवानीतिरनीतिरपि फलति, येन सकलबुधजनोपहासपात्रमेषोऽपि यात्राविधिरीदशस्य मे निवृतिलाभस्य कारणं संवृत्तः, यद्यपायभीरुतया नीतिमनुसरबाहमेतां भूमिमागमिष्यं कथमिदं कथापथोत्तीर्णरूपगुणलुप्तसुरपतिविमानकमनीयताप्रवादं प्रासादरत्नमद्रक्ष्यम् [न] । यदवलोकनेनाद्य विनिवृत्तमिवाह्लादकरपदार्थदर्शनकुतूहलं दृष्टेः, उपरत इवाद्भुतकथाकर्णनादरः कर्णयोः, नृत्यतीव हृदयमन्तः प्रहर्षेण, पुण्यभाजो जगति, यैः परित्यज्य राज्यमपि, गृहीत्वा पारिवाज्यमपि, भुक्त्वा फलमूलमयमाहारलेशमपि, विषह्य दुःसहं वनवासक्लेशमपि, अङ्गीकृत्य बान्धवसुहृद्वियोगमपि, प्राप्य
टिष्पनकम्-शस्यसम्पदिवानीतिरनीतिरपि फलति अनीतिः-अनयोऽपि, अन्यत्र अनीतिः-ईतिरहिता [न] ।
समासन्नानां शिशिराणां वातानां-वायूनाम् , आयनैः-आगमनैः, अलङ्कतं-भूषितम् । पुनः प्रौढवादिनमिव निपुणं वक्तारमिव विवादकर्तारमिव वा, अतिविषमपत्रभङ्गविस्मायितप्रेक्षकजनम् अतिविषमैः-दुर्लेखनीयैः, पत्रभझैः-पत्रवालीरचनाभिः, पक्षे अतिविषमस्य-दुर्विजेयस्य, पत्रस्य-पत्रलिखितविचारस्य, भान-भञ्जनेन खण्डनेनेति यावत्, विस्माथिताः-आश्चर्यमनुभाविताः, प्रेक्षकजनाः-दर्शकलोका येन तादृशम् । पुनः अनेकमाणिक्यखण्डखचितकाञ्चनशिलासंघातम् अनेकेषांनानाविधानां, माणिक्याना-रत्नाना, खण्डैः खचितः-व्याप्तः, काञ्चनशिलासंघात:-सुवर्णशिलासमूहो यस्मिस्तादृशम् [2] । ___च पुनः, उपजातविस्मयः उत्पन्नाश्चर्यः, विस्मृतनिमेषनिश्चलेन विस्मृतः-आश्चर्यव्यग्रतया स्मृतिपथादपसृतः, निमेषः-स्पन्दो यस्य तादृशेन, अत एव निश्चलेन-स्थिरेण, चक्षुषा नेत्रेण, तत् आयतनं, सुचिरं दीर्घकालम् , अघलोक्य दृष्ट्वा, मनसि हृदि, अकरवं विचारितवानहम् , किमित्याह-"फलाभिलाषिणा फलेच्छुना, पुरुषेण जनेन, एकान्ततः नियमेन, नीति निष्ठेन नीत्यवलम्बिना, न भवितव्यं भवितुमुचितम् , प्रत्युत अभिमते इष्टे, वस्तुनि, दैवं भाग्य, प्रमाणीकृत्य प्रमाणतयाऽऽस्थाय, सर्वात्मना सर्वतोभावेन, प्रवर्तितव्यं प्रवर्तितुमुचितम् , अनुकूलविधिविहितसाहायकस्य अनुकूलेन, विधिना-दैवेन, विहितं-कृतं, साहायक-साहाय्यं, यस्य तादृशस्य, साहसिकस्य साहसशालिजनस्य, सर्वदा सर्वकाले, अनीतिः अतिवृष्ट्यादिषडीतिरहिता, शस्यसम्पदिव धान्यसमृद्धिरिव, अनीतिरपि नीतिविरुद्धकृतिरपि, फलति फलं ददाति । येन यस्मात् कारणात् , सकलबुधजनोपहासपात्रम् अशेषविज्ञजनोपहासास्पदम् , एषोऽपि अयमपि, यात्राविधिः प्रयाण कार्य, मे मम, ईदृशस्य एतादृशस्य, निर्वृतिलाभस्य सुखप्राप्तः, कारणं, संवृत्तः सम्पन्नः, यदि अहम् , अपायभीरुतया विनाशभीरुतया, नीतिम् , अनुसरन् आश्रयन् , एताम् इमां, भूमि न आगमिष्यम् आगतवानभविष्यम् , तर्हि कथापथोत्तीर्णरूपगुणलुप्तसुरपतिविमानकमनीयताप्रवादं
वर्णनमार्गातिगामिभिः, रूपगुणैः-स्वरूपसौष्ठवैः, लुप्त:-निवारितः, सुरपतिविमानस्य-इन्द्रसम्बन्धिव्योमयानस्य, कमनीयतायाः सौन्दर्यस्य, प्रवादो येन तादृशम् , इदं प्रासादरत्न प्रासादश्रेष्ठ, कथं केन प्रकारेण, अद्रक्ष्यं दृष्टवानभविष्यम् [न] । अद्य अस्मिन् दिने, यवलोकनेन यद्दर्शनेन, दृष्टेः नेत्रस्य, आह्लादकरपदार्थदर्शनकुतूहलम् आनन्दजनकवस्तुदर्शनौत्सुक्य, विनिवृत्तमिव विध्वस्तमिव; पुनः कर्णयोः श्रोत्रयोः, अद्भुतकथाकर्णनादरः आश्चर्यजनककथाश्रवणप्रीतिः, उपरत इव निवृत्त इव; पुनः प्रहर्षेण प्रकृष्टहर्षवशेन, हृदयम् , अन्तः अन्तर्देशे, नृत्यतीव नृत्यं करोतीवेति सर्वत्रोत्प्रेक्षा । जगति लोके, पुण्यभाजः ते पुण्यशालिनः, सन्तीति शेषः, यैः, राज्यमपि लोकाधिपत्यमपि, परित्यज्य, प्रत्युत पारिवाज्यमपि संन्यासमपि, गृहीत्वा, पुनः फलमूलमयम् फलमूलात्मकम् , आहारलेशमपि भक्ष्यलवमपि, भुक्त्वा भक्षित्वा, पुनः दुस्सहं दुश्शकं, वनवासक्लेशमपि वनवासदुःखमपि, विषह्य विशेषेण सोद्धा,
Page #181
--------------------------------------------------------------------------
________________
३२३
तिलकमञ्जरी। पक्षिजातियोगमपि, कृतस्थितिभिरत्र कालः प्रेयते । वन्द्यवैभवः स कोऽपि भगवान् देवो वा दानवो वा येन सुकृतकर्मणा निर्मापितमिदम् । अस्य हि प्रारम्भसमये प्रवर्तितः प्रथमभादरात् तेन संख्यातीतानां विश्वकर्मणां सर्गनिर्माणाय भगवान् प्रजापतिः, तदनु गत्वाऽलकापुरीमाबद्धवर्मणा रणपराजितस्य मनुष्यधर्मणः कृतं कारूयेन कोशापहरणम् , अथ कदर्थितत्रयस्त्रिंशत्रिदशकोटिना समूल एवोत्पाटितः सुरशैल इति निश्चयो मे, नौकविश्वकर्मसमारब्धकर्मणा प्रकारान्तरोपार्जितधनेन स्थानादन्यतः समाहृतमणिशिलादारुणा कारयितुमतिभूयसापि कालेन कीर्तनमीदृशं शक्यम् । शङ्के चात्र निष्पाद्यमाने त्रिदिवशिल्पिनामभीक्ष्णमतितीक्ष्णकोटिभिष्टतिकाभिस्तक्ष्यमाणाभ्यः शिखरमणिशिलाभ्यः समन्ततः समुच्छलितानि यानि स्थूलशकलानि तैरेष लम्भितो रत्नाकराभिधानं लवणसिन्धुः [प]। इति चिन्तयत्येव मयि तत्कालसत्वरकैवर्तरभसप्रेरिता क्षणेनैव दक्षिणामायतनप्राकारभित्तिमाससाद नौः । आक्रम्य च क्रमेणातिरमणीयमस्याः पर्वतनितम्बसङ्गिनं पूर्वभागमवस्थितायां तत्र क्षणमात्रमतिवाहिताध्वखेदो दिव्यदेवतायतनदर्शनप्रीतमनसमदृश्यमानुषप्रचारेषु मदमत्तविविधपक्षिकुलबद्धकोलाहलेषु नित्यविकचदेवलुमवनामोदवासितदिक्षु रत्नकूटाद्रिकटकदेशेष्वनुक्षण
पुनः बान्धवसुहृद्वियोगमपि बन्धुमित्रविरहमपि, अलीकृत्य स्वीकृत्य, पुनः पक्षिजातियोगमपि पक्षिजातीयैः सम्पर्कमपि, प्राप्य, अत्र अस्मिन् स्थाने, कृतस्थितिभिः कृतनिवासः, कालः, प्रेर्यते व्यतीयते । वन्द्यवैभवः स्तुत्यैश्वर्यः, कोऽपि अविज्ञातनामा, भगवान् ऐश्वर्यशाली, स देवो वा, दानवो वा राक्षसो वा, अस्तीति शेषः, सुकृतकर्मणा पुण्यकर्मणा, येन, इदम् आयतनं, निर्मापितं कारितम् । हि यतः, अस्य आयतनस्य, प्रारम्भसमये प्रारम्भावसरे, तेन निर्मापकेण भगवता, प्रथमं पूर्व, संख्यातीतानाम् असंख्यानां, विश्वकर्मणां शिल्पकुशलदेवानां, सर्गनिर्माणाय सृष्टिरचनार्थ, भगवान् सगैश्वर्यवान् , प्रजापतिः ब्रह्मा, प्रवर्तितः प्रेरितः; तदनु ततः पश्चात् , अलकापुरी कुबेरसम्बन्धिनीमलकानाम्नी पुरी, गत्वा, आबद्धवर्मणा धृतकवचेन सता तेन, रणपराजितस्य रणे-युद्धे, पराजय प्रापितस्य, मनुष्यधर्मणः कुबेरस्य, कात्स्न्ये न साकल्येन, कोशापहरणं कोशलुण्टनं कृतम् , अथ अनन्तरं, कदर्थितत्रयस्त्रिंशत्रिदशकोटिना कर्थिताः-पराजिताः, त्रिदशाना-देवानां, त्रयस्त्रिंशत्-त्र्यधिका त्रिंशत्, कोटयो येन तादृशेन सता, समूल एव मूलसहित एव, सुरशैलः सुमेरुः, उत्पाटितः उत्खातः, इति अयं, मे मम, निश्चयः विश्वासः, वर्तत इति शेषः । हि यतः, एकविश्वकर्मसमारब्धकर्मणा एकेन, विश्वकर्मणा-शिल्पिदेवविशेषेण, समारब्ध-प्रवर्तितं, कर्म-निर्माणव्यापारो येन तादृशेन, पुनः प्रकारान्तरोपार्जितधनेन प्रकारान्तरेण-उक्तादन्येन साधारणप्रकारेण, उपार्जितं धनं येन तादृशेन, पुनः अन्यतः उक्तादन्यस्मात्, स्थानात, समाहतमणिशिलादारुणा समाहृताः-सञ्चिताः, मणिशिलाः-मणिरूपाः शिलाः, दारूणि-काष्ठानि च, येन तादृशेन, पुरुषेण, अतिभूयसापि अत्यधिकेनापि, कालेन, ईदृशम् एवंविधं, कीर्तनं मन्दिर, कारयितुं निर्मापयितुं, न शक्यं शक्तिसाध्यम् । च पुनः, शङ्के सम्भावयामि, अत्र अस्मिन् आयतने, निष्पाद्यमाने निर्मीयमाणे, त्रिदिवशिल्पिनां खोकशिल्पिना, विश्वकर्मणामिति यावत् , अतितीक्षणकोटिभिः अत्यन्ततीक्ष्णाग्रभागाभिः, टङ्किकाभिः शिलातक्षणलौहशलाकामिः, तक्ष्यमाणाभ्यः तनूक्रियमाणाभ्यः, शिखरमणिशिलाभ्यः शिखरवर्तिमणिरूपप्रस्तरेभ्यः, समुच्छलितानि समुत्पतितानि, यानि स्थूलशकलानि स्थूलखण्डानि, तैः, एष लवणसिन्धुः लवणसमुद्रः, रत्नाकराभिधानं रत्नाकरेति सार्थकसंज्ञां, लम्भितः प्रापितः" [प11 मयि, इति इत्थं, चिन्तयत्येव आलोचयति सत्येव, तत्कालसत्वरकैवर्तरभसप्रेरिता तत्कालं-तत्क्षणं, सत्वरेण-त्वरान्वितेन, कैवर्तेन-कर्णधारेण, रभसेन- वेगेन, प्रेरिता-प्रचारिता, नौः, दक्षिणाम् , आयतनप्राकारभितिं प्रकृतप्रासादप्राकारकुड्यम् , आससाद आजगाम । च पुनः, अस्याः दक्षिणप्राकारभित्तेः, अतिरमणीयम् अत्यन्तसुन्दरम् , पर्वतनितम्बसङ्गिनं पर्वतमध्यभागसंपृक्तं, पूर्वभाग, क्रमेण, आक्रम्य अधिष्ठाय, अवस्थितायां, तत्र नावि, क्षणमात्रम् , अतिवाहिताध्वखेदः निवारितमार्गश्रमः, तारकं तत्संज्ञकप्रकृतकैवर्तम् , अवोचम् उक्तवानहम् , कीदृशम् ? आयतनदर्शनप्रीतमनसं निरुक्त
Page #182
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृतिसंवलिता
7
क्षिप्तविस्मयस्मेरलोचनं तारकमवोचम् — 'सखे ! तारक ! लङ्घितो निर्विघ्नमेवास्माभिरेष जलनिधिशैलान्तरालवर्ती सर्वेद्वीपसांयात्रिकाणाममार्गेौ मार्गः, समाक्रान्ता सुखेन दिव्यजनसंचारपूतेयं भूमिगोचराणामभूमिर्भूमिः, आसादितमिदं सर्वसुन्दर पदार्थानामधिष्ठानं स्थानम्, अवलोकितं लोकत्रयतिलकमेतत् सकलकौतुकानामायतनमायतनम्, सर्वथा पुण्यभाजो वयम् जातं जन्म सफलम्, उत्तिष्ठ तूर्णम्, अनुतिष्ठ सांप्रतं कालोचितं कृत्यम्, उपसृत्य पर्वत नितम्बादितः समाहर प्रत्ययविकसितानि संतानकप्रभृतीनां पुण्यपादपानां कुसुमानि, पानीयं च निर्झरादानय स्वादु, येन संपादितपाणिपादशौचाः प्रविश्य पश्यामः पूजयामश्च भगवन्तमन्तः प्रतिष्ठितमस्य देवतायतनस्य देवम् । अत्र हि विलोकिते साक्षादभ्यर्चिते स्वहस्तेन स्तुते च परमया भक्त्या महार्थाभिः स्तुतिभिरेषा विशेषतो नः फलवती भविष्यति यात्रा' इति [ फ] । स एवमुक्तो विहस्य मां प्रत्यभाषत — 'कुमार ! सर्वं संपाद्यते, किं [तु] पुनरिदं विज्ञापयामि, कथमिह प्रवेष्टव्यं यत्तावदिदमवलोक्यते पुरस्तादस्य गोपुरप्रतिबद्धमम्बरोत्तम्भिना मणिस्तम्भतोरणेन तिरस्कृततरणिरथसंचारं द्वारम्, अनेन योऽवतारः
३२४
प्रासाददर्शनप्रसन्नहृदयम् पुनः रत्नकूटाद्रिकटकदेशेषु रत्नकूटाख्य पर्वतनितम्ब प्रदेशेषु, अनुक्षणक्षिप्तविस्मयस्मेरलोचनम् अनुक्षणं-प्रतिक्षणं, क्षिप्ते-प्रेरिते, विस्मयस्मेरे- आश्चर्य विकखरे, लोचने येन तादृशम् कीदृशेषु तेषु ? अदृश्यमानुषप्रचारेषु अदृश्य मनुष्य गमनागमनेषु पुनः मदमत्त विविधपक्षिकुलबद्धकोलाहलेषु मदमत्तैः - मदान्वितैः, विविधपक्षिकुलैः--नानाविधपक्षिगणैः, बद्धः - निरन्तरं कृतः, कोलाहलो येषु तादृशेषु, पुनः नित्यविकच देवद्रुमवनामोदवासितदिक्षु नित्यम् - अनवरतं, विकचाः पुष्पिताः, ये देवद्रुमाः - देववृक्षाः, तद्वनसम्बन्धिना, आमोदेन - अत्युत्कृष्ट सौरभेय, वासिताः- सुरभिताः दिशो यैस्तादृशेषु । किमवोचदित्याह - सखे ! मित्र 1, तारक !, जलनिधिशैलान्तरालवर्ती समुद्रपर्वतमध्यवर्ती, सर्वद्वीपसांयात्रिकाणां सर्वेषां द्वीपमार्गेण पौतिकानाम्, अमार्गः अगम्यः, एष मार्गः, निर्विघ्नमेव, लङ्घितः अतिक्रान्तः । पुनः दिव्यजनसञ्चारपूता दिव्यानां दिवि खर्गे भवानां जनानां, सञ्चारेण प्रचारेग, पूतापवित्रिता, भूमिगोचराणां भूतलवर्तिनाम्, अभूमिः संचाराविषयभूता, इयं, भूमिः पृथ्वी, सुखेन आनन्देन, समाक्रान्ता समधिष्ठिता । पुनः सर्व सुन्दरपदार्थानाम् अशेषमनोहरवस्तूनाम्, अधिष्ठानं क्षेत्रभूतम् इदं स्थानं, समा सादितं प्राप्तम्, पुनः लोकत्रयतिलकं त्रिभुवनश्रेष्ठं, सकलकौतुकानाम् अशेषोत्सवानाम्, अशेषाश्चर्याणां वा, आयतनम् आस्पदम् एतत्, आयतनं प्रासादः, अवलोकितं दृष्टम् । वयं सर्वथा सर्वप्रकारेण पुण्यभाजः पुण्यवन्तः, स्म इति शेषः । जन्म अस्माकम् उत्पत्तिः, सफलं सार्थकं जातम् अभूत् । तूर्ण शीघ्रम्, उत्तिष्ठ व्याप्रियख । सांप्रतम् अधुना, कालोचितम् एतत्कालयोग्यं कृत्यं कार्यम्, अनुतिष्ठ कुरु । इतः अस्मात् पर्वतनितम्बात् पर्वतमध्यभागात्, अपसृत्य बहिर्गत्वा प्रत्यनविकसितानि अचिरविकसितानि सन्तानकप्रभृतीनां सन्तानकादीनां पुण्यपादपानां पुण्यवृक्षाणां दिव्यवृक्षाणामिति यावत्, कुसुमानि पुष्पाणि, समाहर सचिनु च पुनः निर्झरात् प्रवाहात्, स्वादु मिष्टं, पानीयं जलम् आनय, येन पानीयेन, सम्पादितपाणिपादशौचाः कृतहस्तपादप्रक्षालनाः सन्तः प्रविश्य प्रकृतायतनाभ्यन्तरं गत्वा, भगवन्तम् ऐश्वर्यशालिनम् अस्य देवतायतनस्य देवमन्दिरस्य, अन्तः प्रतिष्ठितं मध्ये प्रतिष्ठितं देवं पश्यामः दृष्टिगोचरीकुर्मः च पुनः, पूजयामः आराधयामः, हि यतः, अत्र अस्मिन् देवे, साक्षात् प्रत्यक्षरूपेण, विलोकिते दृष्टे सति, पुनः स्वहस्तेन निजकरेण, अभ्यर्चिते सम्यक् पूजिते सति, च पुनः, परमया उत्कृष्टया, भक्त्या श्रीया, महार्थाभिः उत्कृष्टार्थाभिः स्तुतिभिः स्तोत्रैः, स्तुते सति एषा इथं, नः अस्माकं यात्रा, विशेषतः अत्यन्तं फलवती सफला भविष्यति, इति [ फ] | एवम् अनेन प्रकारेण उक्तः कथितः, सः तारकः, विहस्य विशेषेण हसित्वा, मां प्रत्यभाषत प्रत्युक्तवान् किमित्याह -कुमार । सर्वे भवदुपदिष्टं समस्तं कार्य, सम्पाद्यते अनुष्ठीयते, किं किन्तु, इदं पुनः, विज्ञापयामि आवेदयामि, इह अस्मिन् आयतने, कथं केन प्रकारेण, प्रवेषव्यं प्रवेष्टुं शक्यम्, अस्य आयतनस्य, पुरस्ताद् अग्रे, गोपुरप्रतिबद्धं पुरद्वारावृतम्, अम्बरोत्तम्भिना
Page #183
--------------------------------------------------------------------------
________________
तिलकमञ्जरी ।
३२५
स दूरमुभयतः प्रसृतेन टङ्कच्छिन्नपर्वतकटकसङ्गिना प्राकारेणैव वारितः, यानि त्वस्य पार्श्वतः संभवन्ति प्रतोलिकासु क्षुद्रद्वारकाणि तान्यपि नभस्तलनिर्विशेषभित्तेरस्यैव प्राकारस्य प्रकर्षप्राप्तेन स्वच्छतागुणेन दुरुपलक्ष्यतां नीतानि, तदेतदधुना प्राप्तकालम् - अत्रैव स्थिताः प्रतिपालयामः क्षणमात्रं, यावदस्माद् देवतायतनात् कोऽपि भूगोचरः खेचरो वा निर्याति, योऽस्मभ्यमस्मिन्नवतरणमार्गमुपदिशति, अस्य चावश्यमभ्यन्तरे केनापि भवितव्यम् अचिरनिर्वृत्तयात्रोत्सवं हीदमुद्भाव्यते लिङ्गैः तथाहि--अत्र तुङ्गत्वादधिकसंसृज्यमानसमीरणेष्वपि द्वारतोरणेषु सान्द्ररुचयश्चन्दनप्रवालवन्द नमालाः, प्रत्यग्ररचिताभिश्चीनांशुकपताकाभिः पल्लवितशिखराणि चामीकरचऋदोलायात्राणि [ब], गुणनिकाप्रासादस्य च पृष्ठवेदिकायामिन्द्रनीलमय्यामासादितप्रकटपरभागानि पिशुनयन्ति वारसुन्दरीवृन्दस्य रासविभ्रमभ्रमणमभिनवमम्लानयावकपङ्काङ्कानि पदमुद्रापरिपाटिमण्डलानि, सततमास्फालितानां च वादित्राणामारवेण विद्रावितानि त्रासात् समासन्नतरुशाखाशिखासु कृतस्थितीनि नाद्यापि निकटीभवन्ति शिखरायकोटर कुलायशायीनि पारापतपतत्रिकुलानि,
टिप्पनकम् - प्रकटपरभागानि प्रकाशितशोभानि । प्रततं विस्तीर्ण सन्ततं वा । कुलायः - पक्षिगृहम् । चञ्चर्यमाणानि अत्यर्थं गच्छन्ति, व्यात्युक्षीं परस्परसेचनम् [भ] |
गगन मण्डलावरोधिना, मणिस्तम्भतोरणेन मणिमय स्तम्भावलम्बि बहिर्द्वारेण, तिरस्कृततरणिरथसञ्चारं तिरस्कृतःनिवारितः, तरणिरथसञ्चारः -सूर्यरथप्रचारो येन तादृशम्, यत् यतः, तावद् वाक्यालङ्कारे, इदं द्वारं निरुतायतन प्रवेशनिर्गमस्थानम्, अवलोक्यते दृश्यते । अनेन द्वारेण यः, अवतारः प्रवेशः, स दूरं दूरपर्यन्तम् उभयतः भागद्वये, प्रसृतेन विस्तृतेन, टङ्कच्छिन्नपर्वतकटकसङ्गिना टङ्केन- तक्षणशलाकया, छिन्नं नष्टं यत् पर्वतकटकं - पर्वत नितम्बः, तत्सङ्गिना- तत्सङ्गतेन, प्राकारेणैव वारितः अवरुद्धः । अस्य द्वारस्य, पार्श्वतः पार्श्वे, प्रतोलिकासु रथ्यासु, यानि तु क्षुद्रद्वारकाणि लघुद्वाराणि, सम्भवन्ति सम्भावनागोचरीभवन्ति, तान्यपि, नभस्तल निर्विशेषभित्तेः गगनतलाविशेषकुड्यस्य, अस्यैव प्राकारस्य, प्रकर्षप्राप्तेन उत्कर्षमापन, स्वच्छतागुणेन उज्ज्वलतागुणेन, दुरुपलक्ष्यतां दुःखेनोपलक्षणीयतां, नीतानि प्रापितानि । तस् तस्माद्धेतोः, अधुना, एतत् इदमेव कार्य, प्राप्तकालं प्राप्तावसरं वर्तत इति शेषः, यत्, अत्रैव अस्मिन्नेव स्थाने, स्थिताः सन्तः, क्षणमात्रं, प्रतिपालयामः प्रतीक्षामहे, यावत् अस्मात् प्रत्यक्षभूतात् देवतायतनाद् देवमन्दिरात्, कोऽपि भूगोचरः भूमिवास्तव्यः, मानव इत्यर्थः, खेचरो वा देवो वा, निर्याति निर्गच्छति, यः, अस्मभ्यम्, अस्मिन् आयतने, अवतरणमार्ग प्रवेशमार्गम्, उपदिशति उपदेश्यति च पुनः अस्य आयतनस्य, अभ्यन्तरे मध्ये, केनापि, अवश्यं निश्चितं भवितव्यं भवितुं स्थातुमुचितम् । हि यतः, लिङ्गैः वक्ष्यमाणलक्षणैः, इदम् आयतनम् अचिरनिर्वृत्तयात्रोत्सवम् अचिरं - शीघ्रमेव, निर्वृत्तः - सम्पन्नः, यात्रोत्सवः - लोकयात्राप्रयुक्त उत्सवो यस्मिंस्तादृशम् उद्भाव्यते प्रत्याय्यते । तथाहि अत्र अस्मिन् आयतने, तुङ्गत्वात् उच्चत्वात्, अधिकसंसृज्यमान समीरणेष्वपि अधिकं यथा स्यात् तथा, संसृज्यमानः संश्लिष्यमाणः, समीरणः - पवनो येषु तादृशेध्वपि, द्वारतोरणेषु द्वारप्रदेशवर्तिबहिर्द्वारेषु, सान्द्ररुचयः अमन्दद्युतयः, चन्दनप्रवाल वन्दनमालाः चन्दनपल्लवमयद्वारपूजाङ्गमालाः पुनः प्रत्यग्ररचिताभिः अभिनवनिर्मिताभिः, चीनांशुकपताकाभिः चीन देशीय सूक्ष्मवस्त्रपताकाभिः पल्लवितशिखराणि व्याप्तोर्ध्वदेशानि चामीकरचक्रदोलायन्त्राणि सुवर्णसमूहमयान्दोलनयन्त्राणि [ब] । च पुनः, गुणनिकाप्रासादस्य नृत्यगृहस्य इन्द्रनीलमय्यां मरकतमणिमय्यां, पृष्ठवेदिकायां पृष्ठवर्तित्रेयाम्, आसादितप्रकट परभागानि प्राप्तस्फुटोत्कर्षाणि, अम्लानयावकपङ्काङ्कानि उज्जवलालक्तकद्रवचिह्नितानि, पदमुद्रापरिपाटिमण्डलानि चरणप्रतिकृतिपरम्परापटलानि, वारसुन्दरीवृन्दस्य वेश्यागणस्य, अभिनवं नवीनं, रासविभ्रमभ्रमणं रासविभ्रमेण-नृत्यलीलया, भ्रमणं, पिशुनयन्ति सूचयन्ति । च पुनः सततं विस्तीर्ण संततं वा, आस्फालितानाम् आहतानां वादित्राणां वाद्यानाम्, आरवेण ध्वनिना विद्रावितानि अपसारितानि पुनः त्रासात् भयाद्धेतोः,
Page #184
--------------------------------------------------------------------------
________________
टिप्पनक - परागविवृतिसंवलिता
झङ्कारमुखरितमण्डपद्वारदेशानि च सूचयन्त्यवचूलकुसुमस्रजां प्राचुर्यमप्रतश्चञ्चूर्यमाणानि चञ्चरीकचक्रवाला नि क्रीडारसाक्षिप्तेन च कुर्वता व्यात्युचीमितस्ततः कनकशृङ्गैर्भुजङ्गलोकेन क्षिप्तमेतान्यपि क्षरन्ति विरलविरलैबिन्दुभिः कुङ्कुमारुणं केलिपुष्करिणीनां वारि प्राकारमूल मरकतप्रणालानि' [भ] । इति व्याहरत्येव तस्मिन्नकस्मादमतो दिगन्तसर्पी, तर्पयन्निव सुधारसस्रोतसा श्रुतिविवरमप्रचनिश्चलधृतार्थोपभूक्तशैवालप्रवालैर्युगपदावलितकण्ठनालमाकर्णितः सोत्कण्ठैरायतनवापीकलहंसैः, सत्वरोपसृतवेलासरित्सारसरसितसंभिन्नेन विस्तारितस्तारेण जघनपुलिनसारसीनां रसनानां शिखितेन, दोलायमानभुजलतोल्लासितेन प्रबलीकृतः प्रतिवेलविघटमानसंनिवेशानां कनककङ्कणानां कणितेन, मेखलागुणस्खलनविशृङ्खलेन मुखरितो वल्गदुच्चकुचमण्डलान्दोलितानामायामिना मुक्ताहाराणां रणितेन तारतरोच्चारेण गतिरभ सविच्युतानामासाद्यासाद्य
३२६
टिप्पनकम् - तारतरोच्चारेण दीर्घतरोच्चारणेन । तलीनं- कृशम् । संक्रमः मार्गः । स्त्रैणस्य स्त्रीसमूहस्य । मसृणतारः कोमलोबः [म] 1
समासन्नतरुशाखाशिखासु समीपवर्ति वृक्ष विटपाग्रभागेषु कृतस्थितीनि कृतनिवासानि शिखराग्रकोटर कुलायशायीनि निरतायतनशिखर देशा प्रवर्तिरन्धनिर्मित नीडाधिकरणकश्यनशीलानि, पारापतपतन्त्रिकुलानि कपोतजातीयपक्षिगणाः, अद्यापि अधुनापि न निकटीभवन्ति निकटमुपसर्पन्ति । पुनः झङ्कारमुखरित मण्डपद्वारदेशानि झङ्कारैः-ध्वनिविशेषैः, मुखरितः - वाचालितः, मण्डपस्य द्वारदेशो यैस्तादृशानि अग्रतः अग्रभागे, चञ्चूर्यमाणानि पुनः पुनरतिशयेन वा भ्रमन्ति, चञ्चरीकचक्रवालानि भ्रमणमण्डलानि, अवचूलकुसुमस्रजां द्वारदेशाधोऽवनतपुष्पमालानां, प्राचुर्यम् आधिक्यं सूचयन्ति प्रत्याययन्ति । च पुनः, क्रीडारसाक्षिप्तेन क्रीडाकौतुकाकुष्टेन, इतस्ततः अत्र तत्र, व्यात्युक्षीम् अन्योऽन्यं सेचनं कुर्वता, भुजङ्गलोकेन विटजनेन, कनकशृङ्गैः सुवर्णमय जलोत्क्षेपणयन्त्रैः, क्षिप्तं प्रकीर्ण, केलि पुष्करिणीनां जलक्रीडाक्षेत्रभूतसमचतुरस्र खातजलाशयानां, कुङ्कुमारुणं कुङ्कुमरक्त, वारि जलं, प्राकारमूलमरकतपणालानि प्राकाराधस्तनेन्द्रनीलमणिमयप्रणाल्यः, विरलविरलैः विरलप्रकार कैः, विच्छिन्नधारैरिति यावत् बिन्दुभिः जलकणरूपैः, क्षरन्ति स्यन्दयन्ति [भ] । इति इत्थं तस्मिन् तारके, व्याहरत्येव कथयति सत्येव, अकस्मात् अतर्कितम्, अग्रतः अग्रभागे, मसृणतारः कोमलेोचः, प्रतिक्षणं क्षणे क्षणे, अधिगताधिकाधिकव्यक्तीनां प्राप्तात्यन्तप्राकट्यानां, नूपुराणां पादभूषणानां, झात्कारः झणत्कारः, उच्चचार उच्चरितवान् कीदृश: ? दिगन्तसप दिगन्तविस्तारी | पुनः सुधारस स्रोतसा अमृतरसप्रवाहेण, श्रुतिविवरं कर्ण कुहरें, तर्पयन्निव प्रीणयन्निव, अग्रचनिश्चलधृतार्थोपभुक्तशैवालप्रवालैः अग्रचक्षुना-चश्वप्रभागेन, धृतानि - गृहीतानि, अर्थोपभुक्तानि-अर्धचर्चितानि, शैवालप्रवालानि - जलीयतृणनूतनपत्राणि यैस्तादृशैः, सोत्कण्ठैः उत्सुकैः, आयतनवापीकलहंसैः निरुतग्रहदीर्घिका कादम्बैः, युगपदावलितकण्ठनालं युगपत् - एककालावच्छेदेन, आवलितम् - ईषद्वक्रितं, कण्ठनाल - कण्ठकाडं यस्मिंस्तादृशं यथा स्यात् तथा, आकर्णितः श्रुतः, पुनः सत्वरोपसृतवेलासरित्सारस र सितल म्भिन्नेन सत्वरं - शीघ्रम्, उपसृतैःउपगतैः, वेलासरित्सारसानां तटवर्तिनदी सम्बन्धिनां पक्षिविशेषाणां रसितैः - कूजितैः, सम्भिनेन् - संमिश्रणेन, जघनपुलिनसारसीनां कटिपुरोभागात्मक सैकतवर्तिसारस्याख्यपक्षिणीरूपाणां रसनानां काञ्चीनां तारेण उच्चेन, शिक्षितेन ध्वनिना, विस्तारितः वर्धितः । पुनः दोलायमानभुजलतोल्लासितेन आन्दोल्यमानबाहुरूपल तोपजनितेन, प्रतिवेल - विघटमानसन्निवेशानां प्रतिक्षणविश्विष्यमाण संस्थानानां कनककङ्कणानां सुवर्णमयकरभूषणानां कणितेन झणत्कारेण, प्रबलीकृतः प्रचुरीकृतः । पुनः मेखलागुणस्खलन विशृङ्खलेन काचीरजुस्खलनतः परिपाटीशून्येन, वलादुच्चकुचमण्डलान्दोलितानां वल्गता उद्वेलता, उच्चकुचमण्डलेन- उन्नतस्तनमण्डलेन, आन्दोलितानां - कृतान्दोलनानां, मुक्ताहाराणां मुक्तामणिमालानां, आथामिना दीर्घेण, रणितेन ध्वनितेन मुखरितः वाचालः । पुनः गतिरभसविच्युतानां गमनवेगस्खलितानाम् पुनः सोपानमणिफलकम् अधिरोहिणीमणिपट्ट्कम्, आसाय आसाद्य, आबद्धफालानां धृतोत्प्लुतीनां सीमन्तकालङ्कारमाणिक्यानां केशवेशालङ्करणरत्नानां, जवावतरणजन्मना जवेन - वेगेन यत् अवतरणम्-अधस्तादागमनं, तज्जन्मना - तज्जन्येन तारतरोच्चारेण दीर्घतरोच्चारणेन, स्वनसन्तानेन ध्वनिसमूहेन,
Page #185
--------------------------------------------------------------------------
________________
तिलकमञ्जरी।
३२७ सोपानमणिफलकमाबद्धफालानां सीमन्तकालंकारमाणिक्यानां जवावतरणजन्मना स्वादूकृतः स्वनसंतानेन, तलिनताडिततत्रीध्वनिकलेन च बहलितः विलोलकुसुमापीडहेलोत्पतितानां गुञ्जतां वियति बद्धमण्डलानामलिगणानां गुङ्कतेन, प्रत्यासन्न एव प्राकारान्तरितदर्शनस्य प्रतिक्षणमधिगताधिकाधिकव्यक्तीनां मधुरगम्भीरेण चरणपातधमधमारवेण संवर्धितः सविधमागच्छतः सोपानसंक्रमण स्त्रैणस्य मसृणतारो नूपुराणामुञ्चचार झात्कारः [म]। ___ तदनुसारप्रहितलोचनश्च पुरः प्राकरशिखरे पुञ्जीभूताः, नातिदूरवर्तिनीः, अतिभास्वरतया कार्तस्वरपताका इव पातालादुद्यतो रविरथस्योल्लसिताः, विद्युत इवोदधिजलमवगाहमानैर्घनैरपघनेभ्यो विश्लेषिताः, दिव्यौषधीरिव मथनोत्थितस्य धन्वन्तरेविस्मृताः, कल्पलता इव पारिजातजन्मभूमिमवलोक्रयितुममरकाननादागताः, दीधितीरिवास्तसमये गभस्तिमालिनो विगलिताः, कुलिशार्चिष इव सपक्षपर्वतान्वेषणाय समुद्रमायाताः, कनककमलिनीमृणालिका इवानिर्वाणसुरवारणकवलदानार्थमिन्द्राधोरणैरुपसंगृहीताः, समुद्रजलदेवता इव प्रभातमारुतोवगादातपं सेवितुमुत्थिताः, हस्तदीपिका इव धनदाधिराजस्य, अवचूलरत्नमालिका इव नभस्तल
टिप्पनकम्-अपघन:-अङ्गम् । अनिर्वाणः-मत्तः [य]।
स्वादूकृतः श्रोत्राखाद्यतामापादितः। च पुनः, तलिनताडिततन्त्रीध्वनिकलेन तलिनं-स्तोकं यथा स्यात् तथा, ताडिता या तन्त्रीः-वीणागुणः, तस्या यो ध्वनिस्तेन, कलेन-मधुरेण, विलोलकुसुमापीडहेलोत्पतितानां विशेषेण लोल-चञ्चलं यत् , कुसुमापीडं-पुष्पशिरोमाल्यं, तस्मात् हेलया-लीलया, उत्पतितानाम्-उड्डीनाना, गुञ्जतां शब्दायमानानां, वियति आकाशे, बद्धमण्डलानां बद्धश्रेणीनाम् , अलिगणानां भ्रमरवृन्दाना, गुङ्कतेन ध्वनिविशेषेण, बहलितःवर्धितः। पुनः प्रत्यासन्न एव निकटस्थ एव, प्राकारान्तरितदर्शनस्य प्रकारावरुद्धदर्शनस्य, सोपानसंक्रमेण सोपानमार्गेण, सविधं निकटम् , आगच्छतः, स्त्रैणस्य स्त्रीसमूहस्य, मधुरगम्भीरेण मधुरसान्द्रेण, चरणपातधमधमारवेण पादप्रक्षेपणजनितध्वनिविशेषेण, संवर्धितः सम्यग्वर्धितः [म]। __च पुनः, तदनुसारप्रहितलोचनः तदनुसारेण-तदनुसन्धानेन, व्यापारितनयनः, पुरः अने, झटिति शीघ्रं, कन्यकाः कुमारिकाः, अद्राक्षं दृष्टवानहम् , कीदृशीः? प्राकारशिखरे प्राकारोपरि, पुजीभूताः संहताः। पुनः नातिदूरवर्तिनीः किश्चिन्निकटवर्तिनीः । पुनः अतिभावरतया अत्युज्वलतया, पातालाद्, उद्यतः उद्गच्छतः, रविरथस्य सूर्यरथसम्बन्धिनीः, उल्लसिताः उच्छ्रिताः, कार्तवरपताका इव सुवर्णपताका इव । पुनः उद्धिजलं समुद्रजलम् , अवगाहमानैः प्रविशद्भिः, घनः मेघैः, अपघनेभ्यः स्वशरीरावयवेभ्यः, विश्लेषिताः विमुक्ताः, विद्युत इव तडिल्लता इव । पुनः मथनोत्थितस्य सागराऽऽलोडनोद्भूतस्य, धन्वन्तरेः खवैद्यस्य, विस्मृताः स्मृतिपथच्युताः, दिव्यौषधीरिव दिव्याः-मनोहराः खगीयाः, औषधीरिव । पुनः पारिजातजन्मभूमि पारिजातस्य-तदाख्यदिव्यवृक्षस्य, जन्मभूमि-समुद्ररूप
,अवलोकयितं द्रष्टम् ,अमरकाननात नन्दनवनात् , आगताः, कल्पलता इव । पुनः अस्तसमये अस्त काले, गभस्तिमालिनः सूर्यात् , विगलिताः भ्रष्टाः, दीधितीरिव कान्तीरिव । पुनः सपक्षपर्वतान्वेषणाय पक्षविशिष्टावशिष्ट पर्वतान्वेषणोद्देशेन, समुद्रम् , आयाताः आगताः, कुलिशार्चिष इव वज्राग्निज्वाला इव । पुनः अनिर्वाणसुरवारणकवलदानार्थम् अनिर्वाणस्य-मज्जनरहितस्य मत्तस्य वा, सुरवारणस्य-इन्दगजस्य, ऐरावतस्येति यावत् , कवलदानार्थ-ग्राससमर्पणार्थम्, इन्द्राधोरणैः इन्द्रहस्तिपकैः, उपसंगृहीताः सञ्चिताः, कनककमलिनीमृणालिका इव सुवर्णकमलिनीबिसलता इव । पुनः प्रभातमारुतोद्वेगात् प्रातःकालिकपवनोपद्रवाद्धेतोः, आतपं सूर्यमरीचिं, सेवितुम् , उत्थिता ऊर्ध्वमागताः, समुद्रजलदेवता इव समुद्रजलाधिष्ठानदेवता इव । पुनः धनदाधिराजस्य कुबेरनृपतेः, हस्तदीपिका इव हस्ततलावलम्बितदीपिका इव । पुनः नभस्तलवितानकस्य गगनतलरूपस्योल्लोचस्य, अवचूलरत्नमालिका इच अधोमुखरत्नमाला इव । सुवर्णचम्पककलिकासवः सुवर्णमयं यच्चम्पर्क-पुष्पविशेषः, तत्कलिकायाः
Page #186
--------------------------------------------------------------------------
________________
३२८
टिप्पनक-परागविवृतिसंवलिता वितानकस्य, काश्चित् सुवर्णचम्पककलिकासवर्णाः [य], काश्चिदसितोत्पलदलश्यामावदातत्विषः कस्तूरिकातिलककलङ्कितैराननेन्दुभिः शतचन्द्रमिव गगनतलमादधानाः, विकासिभिर्नयनविक्षेपैरुच्छलच्छफरसहस्रानिव सागरोद्देशानुपदर्शयन्तीः, आशामुखव्यापिना मुखामोदेन प्रवृत्तामृतमथनमिव तं प्रदेशमादधानाः, विलेपनपरिमलेनान्यमिव पारिजातोद्ममातन्वतीः, आभोगशालिभिः पयोधरोत्सेधैः पर्वतमयमपरमिव सेतुमासूत्रयन्तीः, विभ्रमावलोकितैरुदधिमिव मर्यादालङ्घनमध्यापयन्तीः, ध्रुविभ्रमैमन्मथमिव धनुर्वेदं शिक्षयन्तीः, अखिलजगदाक्षेपकारिरूपाः कन्यका झगित्यद्राक्षम् [२] । तासां च मध्ये शब्दविद्यामिव विद्यानाम् , कौशिकीमिव रसवृत्तीनाम् , उपजातिमिव छन्दोजातीनाम् , जातिमिवालंकृतीनाम् , वैदर्भीमिव रीतीनाम् , प्रसत्तिमिव काव्यगुणसंपदाम् , पञ्चमश्रुतिमिव गीतीनाम् , रसोक्तिमिव भणितीनाम् , अधिकमुद्भासमानाम् , अबहुदिवसोपारूढयौवनामूर्धस्थिताम् , आसन्नवेत्रधारीस्कन्धविन्यस्तवामहस्तकिसलयाम् , उभयतः सलील. मुद्भूयमानचामरकलापाम्, अवलम्बमानस्थूलमुक्ताफलावचूलेन जलधिफेनपटलेनेव परस्परानुलग्नविगलजलबिन्दुना गगनमुत्पतितेन श्वेतातपत्रेण वारितातपाम् , अशोकतरुपल्लवाताम्रतलस्य चरणपङ्कजयुगलस्य
तत्कोरकस्य, समानवर्मा:-तुल्यवर्णाः, एवंविधाः, काश्चित् कतिपयाः [य] 1 पुनः असितोत्पलदलश्यामावदातस्विषः असितं-कृष्णं, यत् उत्पल-कमलं, तद्दलस्येव-तत्पत्रस्येव, श्यामा-कृष्णा, अवदाता-उज्ज्वला च, विट्-कान्तिर्यास तादृशीः, काश्चित् कतिचित् तु, कस्तूरिकातिलककलङ्कितैः मृगनाभिस्निग्धचूर्णतिलकलाञ्छितैः, आननेन्दुभिः मुखचन्द्रः, गगनतलम् आकाशमण्डलं, शतचन्द्र मिव शतसंख्यकचन्द्रोद्भासितमिव, आद्धानाः जनयन्तीः, विकासिभिः विस्तारिभिः, नयनविक्षेपैः नेविस्फारणैः, उन्मीलितनेरिति यावत् , सागरोद्देशान् समुद्रोर्ध्वदेशान् , उच्छलच्छफरसहस्रानिव उच्छलत्-उत्सत् , शफराणा-मत्स्यविशेषाणां, सहस्रं येषु तादृशानिव, उपदर्शयन्तीः प्रत्याययन्तीः । पुनः आशामुखव्यापिना दिगन्तविस्तारिणा, मुखाऽऽमोदेन मुखोत्कटसौरभेण, तं समुद्रसम्बन्धिन, प्रदेश, प्रवृत्तामृतमथनमिव प्रारब्धामृतमन्थनमिव, आदधानाः आपादयन्तीः। पुनः विलेपनपरिमलेन अझोपलेपनद्रवसौरभेण, अन्यम् अभिनवं, पारिजातोद्गममिव पारिजातवृक्षारमिव, आतम्वतीः विस्तारयन्तीः सूचयन्तीरिति यावत् । पुनः आमोगशालिभिः विस्तारशालिभिः, पयोधरोत्सेधैः स्तनोनतिभिः, पर्वतमयं पर्वतात्मकम् , अपरम् अन्यं, सेतुमिव समुद्रबन्धमिव, आसूत्रयन्तीः आबनतीः । पुनः विभ्रमावलोकितैः सविलासविलोकनैः, उदधिं समुद्र, मर्यादालबन्नमिव खमर्यादातिकममिव, अध्यापयन्तीः शिक्षयन्तीः । पुनः भूविभ्रमैः श्रूविलासः, मन्मथं कामदेवं, धनुर्वेदमिव धनुर्विद्यामिव, शिक्षयन्तीः । पुनः अखिलजगदाक्षेपकारिरूपाः समस्तजगत्तिरस्कारस्वरूपाः [२]।
- च पुनः, तासां कन्यकानां, मध्ये, द्विरष्टवर्षवयसम् द्विगुणिताष्टवर्धवयस्कां, षोडशवर्षवयस्कामित्यर्थः, दिव्यरूपां मनोहराकारां, कन्यका कुमारिकाम् , अद्राक्षं दृष्टवानहम् , कीदृशीम ? विद्यानां चतुर्दशविद्यानां, मध्ये, शब्दविद्यामिव व्याकरणविद्यामिव, पुनः रसवृत्तीनां "भारती सात्वती चैव, कौशिक्यारभटी तथा। चतस्रो वृत्तयश्चैता, यासु नाघ्यं प्रतिष्ठितम्" । इति भरतोक्तनाट्यरसरीतीना, मध्ये, कौशिकीमिव कौशिकी रीतिमिव, पुनः छन्दोजातीनां छन्दःसामान्य. मध्ये, उपजातिमिव तत्संज्ञक छन्दोविशेषमिव, पुनः अलङ्कप्तीनाम् अलङ्काराणां मध्ये, जातिमिव जातिनामालङ्कारमिव, पुनः रीतीनां गौड़ीपाञ्चालीवैदीरूपाणां श्रव्यकाव्यसम्बन्धिसङ्घटनानां मध्ये, वैदर्भीमिव तदाख्योत्तमरीतिमिव, पुनः काव्यगुणसम्पदा काव्यसम्बन्धिगुणसम्पत्तीनां मध्ये, प्रसत्तिमिव प्रसादरूपोत्तमगुणमिव, पुनः गीतीनां स्वराणां मध्ये, पञ्चमश्रुतिमिव पश्चमाख्यखरविशेषमिव, पुनः भणतीनां वाचां मध्ये, रसोक्तिमिव रसविशिष्टवाचमिव, अधिकम् अत्यन्तम् , उद्भासमानाम् उजवलन्तीम् । पुनः अबछुदिवसोपारूढयौवनामूर्धस्थितां अचिरोत्पन्न यौवनाना-नवयौवनानामित्यर्थः, मूर्धनि--सर्वत उपरि निषण्माम्। पुनः आसन्नवेत्रधारीस्कन्धविन्यस्तवामहस्तकिसलयाम् आसन्नाया:-पार्थस्थितायाः, वेत्रधार्याः-चेव्याः, परिचारिकाया इति यावत् , स्कन्धे विन्यस्तं-स्थापितं, वामहस्तरूपं किसलयंपल्लवं यया तादृशीम् । पुनः उभयतः पार्श्वद्वये, सलीलं सक्रीडं यथा स्यात् तथा, उद्धूयमानचामरकलापाम् उद्धूयमानः-वीज्यमानः, चामरकलापः-चामरगणो यस्यास्तादृशीम् । पुनः श्वेतातपत्रेण श्वेतच्छत्रेण, वारितातपां वारितः
Page #187
--------------------------------------------------------------------------
________________
तिलकमलरी।
३२९ विलासचलनेषु सर्वतः प्रसरतातिसंनिहितमुखरमणिनूपुरखनेन प्रभासंतानेन श्रूयमाणराजहंसरवमाकाशकमलिनीवनमिवोद्विकासमुपदर्शयन्तीम् [ल], अङ्गुलिप्रणयिपद्मरागोर्मिकारागसंवर्धितप्रभासमृद्धिभिः समन्ततः प्रसरन्तीभिरभिनवातपताम्राभिरङ्गिनखमयूखलेखासंततिभिर्दाशरथिशरकृशानुकर्शितत्विषामुदधिविद्रुमलतावनानामुज्जीवनाय कुङ्कुमरसवारिकुल्यासहस्राणीव प्रवर्तयन्तीम् , अच्छकुङ्कुमरसपिञ्जरेण मसृणमाणिक्यवलयश्रेणिना जङ्घाकाण्डयुगलेन गिरितटाघातकुण्ठितमणिप्रतिममनङ्गकरिकलभदन्तद्वितयमाक्षिपन्तीम्, उभयथापि परिमण्डलोरुणा द्विधापि निबिडकक्षाबन्धबन्धुरेण नितम्बिना जघनबिम्बेन प्रयत्ननिवसितमप्यदृश्यत्वादविद्यमानकल्पं कल्पपादपांशुकं कलयन्तीम् [व], आच्छादितोदरवलित्रयस्य हसितहारीतपक्षह रितिनः कनुका
टिप्पनकम्-- ऊर्मिका-मुद्रिका । कुल्या-सारणिः । उभयथापि परिमण्डलोरुणा द्वाभ्यां प्रकाराभ्याम् , परिमण्डलोरुणा-वृत्तबृहजङ्ग्रेन वृत्तविस्तीर्णेन च। द्विधापि निचितकक्षाबन्धबन्धुरेण घनकाञ्चीबन्धचारुणा निबिडपुरुषकक्षाबन्धमनोज्ञेन च । नितम्बिना प्रशस्तपश्चात्कटीभागेन [व] ।
अवरुद्धः, आतपो यस्यास्तादृशीम, कीदृशेन ? अवलम्बमानस्थूलमुक्ताफलावचूलेन अवलम्बमानः-अवनमन्, स्थूलमुक्ताफलानो-स्थूलमुक्तामणीनाम्, अवचूल:-प्रान्तविलम्बिजालको यस्मिंस्तेन, केनेव, परस्परानुलग्नविगलजलबिन्दुना परस्परानुलग्नाः- परस्परसंश्लिष्टाः, विगलन्तः-क्षरन्तः, जलबिन्दवः-पानीयकणा यत्र तादृशेन, गगनम् आकाशम् , उत्पतितेन उड्डीनेन, जलधिफेनपटलेनेव समुद्रफेनपुञ्जेनेवेत्युत्प्रेक्षा । पुनः अशोकतरुपल्लवाताम्रतलस्य अशोकवृक्षपल्लवक्त्, आताम्रम्-आरक्त, तलम् अधःप्रदेशो यस्य तादृशस्य, चरणपङ्कजयुगलस्य पादपद्मद्वयस्य, विलासचलनेषु सविलासविक्षेपेषु, सर्वतः परितः, प्रसरता व्याग्नुवता, पुनः अतिसन्निहितमणिनपुरस्वनेन अतिसन्नि हितः-अतिनिकटः, मणिनूपुरखनः-मणिमयनूपुरध्वनियस्य तादृशेन, प्रभासन्तानेन द्युतिराशिना, श्रूयमाणराजहंसरवं श्रूयमाणः, राजहंसरवः-राजहंसशब्दो यस्मिंस्तादृशम् , आकाशकमलिनीवनम् आकाशस्थक्रमलिनीकाननम् , उद्विकासमिव उत्-उत्कृष्टो विकासो यस्य तादृशमिव, उपदर्शयन्तीं दृष्टिगोचरतां नयन्तीम् [ ल]। पुनः अधिनखमयूखलेखासन्ततिभिः पादसम्बन्धिनखकिरणपतिसमूहैः, कुङ्कुमरसवारिकुल्यासहस्राणीव कुङ्कुमरसरूपं यद्वारि-जलं, तत्कुल्यानां-तत्प्रणालिकानां, सहस्राणीव प्रवर्तयन्तीं प्रवाहयन्तीम् , कीदृशीभिस्तत्सन्ततिभिः ? अङ्गुलिप्रणयिपद्मरागोर्मिकारागसंवर्धितप्रभासमृद्धिभिः अङ्गुलिप्रगयिन्याः-अङ्गुलिस्नेहिन्याः, पद्मरागोर्मिकाया:-पद्मरागमणिमयाजुलीयकस्य, रागेण-रक्ततया, संवर्धिता-सम्यग्वर्धिता, प्रभासमृद्धिः-द्युतिसम्पत्तिर्यामां तादृशीभिः, पुनः समन्ततः परितः, प्रसर न्तीभिः स्फुरन्तीभिः, पुनः अभिनवातपताम्राभिः बालातपवद् रक्ताभिः, कस्मै फलाय ? दाशरथिशरकृशानुकर्शि
रथे:-रामस्य, शरकृशानुना-बाणाग्निना, कर्शिता-कृशतामापादिता, विट्- कान्तिर्येषां तादृशानाम्, उदधिविद्रुमलतावनानां समुद्रसम्बन्धिप्रवाललतावनानाम् , उज्जीवनाय । पुनः अच्छकुङ्कुमरसपिञ्जरेण उज्जवलकुङ्कुमद्रववत् पीतवर्णेन, मसृणमाणिक्यवलयश्रेणिना मसणा-स्निग्धा, माणिक्यवलयश्रेणिः-रत्नमयकङ्कणपतिर्यस्मिन् तादृशेन, जङ्घरकाण्डयुगलेन काण्डाकारजङ्घाद्वयेन, गिरितटाघातकुण्ठितमणिप्रतिम गिरितटाघातेन-पर्वतप्रदेशाघातेन, कुण्ठिताप्रतिहता, मणिप्रतिमा-मणिनिर्मितो गजदन्तबन्धो यस्य तादृशम् , अनङ्गकरिकलभदन्तद्वितयं कामदेवहस्तिशावकदन्तद्वयम् , आक्षिपन्तीं निन्दयन्तीम् । पुनः उभयथापि उभयप्रकारेणापि वक्ष्यमाणरूपेण, परिमण्डलोरुणा परिमण्डलीवर्तुलौ, ऊरू-जानूपरिभागौ यस्य तादृशेन, परिमण्डलं-वर्तुलम् , उरु बृहन्च, तादृशेन च, पुनः द्विधापि प्रकारद्वयेनापि, भागद्वयेऽपीत्यर्थः, निबिडकक्षाबन्धबन्धुरेण सान्द्रपरिधानपश्चादञ्चलपल्लवबन्धचारुणा घनकाञ्चीबन्धनशोभिना च,नि म्बिना प्रशस्तकटिपश्चाद्भागद्वयस्थौल्यशालिना, जघनबिम्बेन कटिपुरोभागमण्डलेन, प्रयत्ननिविसितमपि प्रयत्नपरिहितमपि, कल्पपादपांशुकं कल्पवृक्षसूक्ष्मवस्त्रम् , अदृश्यत्वाद्धेतोः, अविद्यमानकल्पम् अविद्यमानतुल्यं, कलयन्ती चारयन्तीम् [व] | पुनः आच्छादितोदरवलित्रयस्य आच्छादितम्, उदरसम्बन्धिवलित्रयं-रेखात्रयं येन तादृशस्य,
४२ तिलक
Page #188
--------------------------------------------------------------------------
________________
३३०
टिप्पनक- परागविवृतिसंवलिता
प्रपल्लवस्य चञ्चलतया प्रतिक्षणमवेक्ष्यमाणविपुलनाभिमण्डलां प्रसृततनुतरङ्गपर्यायत्क्षिप्तपद्मिनीदलोपलक्ष्यमाणसुकुमारावर्तामिवोद्याननदिकाम्, अनन्यजनिवासवेश्मनो जघनमण्डलस्योपरि परिस्फुरन्तीमायतारुणां नाभिचक्रचुम्बनो हारनायकस्यांशुलेखां विभ्रमपताकामिय रोमराजिमरकतदण्डिकाशिखरलग्नामुद्वहन्तीम् [श], मेरुमत्सरिणा दूरदर्शिताभोगसंक्षोभितसुरासुरेण विन्ध्यगिरिणेव प्रतिदिनं प्रवर्धमानेन स्तनभरेण निरुद्ध्यमानवदनचन्द्रालोकाम, अचिरावतीर्णेन निर्भरमदभृता यौवनवनगजेनेव दूरविक्षिप्तस्य लावण्यपयसो वीचिवलयैवि सबुद्बुदैरविरलप्रत्युप्तवत्रोपलगणैः कनककङ्कणैरधिष्ठितकोमलप्रकोष्ठकन्दलाम् [ष], सुदर्शनोपेतेन वैकुण्ठेनेव कण्ठनालेन तुलितशङ्खाम्, प्रकटितादभ्रविभ्रमेण प्रथमयौवनावतारमरुता तरलितायतापाङ्गतरङ्गयोरन्तस्तरच्चारुतारकयोः क्षीरधवलयोरीक्षण महानदी प्रवाहयोर्जलतुषारजालकमिवोच्छलितमच्छमुक्ताफलस्तम्बमुभय
टिप्पनकम्—सुकुमारः-चारुः । अनन्यजः कामः [श ] | सुदर्शनोपेतेन वैकुण्ठेनेव कण्ठनालेन तुलितशङ्खाम् एकत्र चनोपेतेन, अन्यत्र शोभनदर्शनयुक्तेन, तुलितशङ्खाम्-अनुकृतशङ्खाम् [ष]।
पुनः हसितहारीत पक्षहरितिनः हसितः तिरस्कृतः, हारीतस्य-पक्षिविशेषस्य, पक्षस्य पक्षसम्बन्धी हरितिमा - हरितवर्णो येन तादृशस्य, कञ्चुकाग्रपल्लवस्य चोलकाचलरूपपल्लवस्य चञ्चलतया, प्रतिक्षणम्, अवेक्ष्यमाणानाभिमण्डलाम् अवेक्ष्यमाणं-दृश्यमानं, नाभिमण्डलं यस्यास्तादृशीम्, अत एव प्रसृततनुतरङ्गपर्यायत्क्षिप्तपद्मिनीदलोपलक्ष्यमाणसुकुमाराव प्रसृतेन चञ्चलितेन, तनुतरङ्गपर्यायेण - अनुद्धततरङ्गक्रमेण, उत्क्षिप्तैः - उद्वेलितैः, पद्मिनीदलैः - कमलिनीपत्रैः, उपलक्ष्यमाणः- दृश्यमानः, सुकुमारः - चारुः, आवर्तः - जलभ्रमो यस्यास्तादृशीम्, उद्याननदिकामिव क्रीडाकानननदीमिव । पुनः अनन्यजनिवासवेश्मनः अनन्यजस्य - खयमेवोत्पादिनः कामदेवस्येत्यर्थः, निवासवेश्मनः - निवासगृहरूपस्य, जघनमण्डलस्य, उपरि स्फुरन्तीम् अहसन्तीम्, पुनः आयतारुणाम् आयतां विस्तृताम्, अरुण रक्तां च, नाभिचक्रचुम्बिनः नाभिमण्डलस्पर्शिनः, हारनायकस्य हारमध्यवर्तिमणेः, अंशुमालां किरणश्रेणीं, उद्वहन्तीं धारयन्तीम् कीदृशीमिव रोमराजिमरकतदण्डिकाशिखरलग्नां रोमराजिरूपा - रोमावलीरूपा, या मरकतदण्डिका - इन्द्रनीलमणिस्तम्भः, तच्छखरलग्नां तदुपरिस्थितां, विभ्रमपताकामिव विलासवैजयन्तीमिव [श ] 1 पुनः मेरुमत्सरिणा सुमेरुस्पर्धिना, पुनः दूरदर्शिताभोग संक्षोभितसुरासुरेण दूरदर्शितेन दूरादेव दृष्टिगोचरतां नीतेन, आभोगेन विस्तारेणसंक्षोभितौसम्भ्रमिती, सुरासुरी-देवदानवो येन तादृशेन, पुनः विन्ध्यगिरिणेव विन्ध्याचलेनेव प्रतिदिनं दिने दिने, प्रवर्धमानेन अतिवृद्धिमापद्यमानेन, स्तनभरेण स्तनभारेण निरुध्यमानवदनचन्द्रालोकां निरुध्यमानः- निवार्यमाणः, वदनचन्द्रस्य-मुखरूपचन्द्रस्य, आलोक:- प्रकाशो यस्यास्तादृशीम् । पुनः अचिरावतीर्णेन अचिरं शीघ्रमेव, अवतीर्णेनप्रविष्टेन, निर्भर भदभृता अत्यन्तमदशालिना, यौवनचनगजेनेव तारुण्यरूपवन हस्तिनेव, दूरविक्षिप्तस्य दूरमुत्पातितस्य, लावण्यपयसः सौन्दर्यजलस्य, सुबुद्बुदैः विकृतबिन्दुविशिष्टैः, वीचिवलयैरिव तरङ्गसन्तानैरिवेत्युत्प्रेक्षा अविरलप्रत्युप्तवज्रोपलगणैः अविरलं- निरन्तरं यथा स्यात् तथा प्रत्युप्तः - सन्निवेशितः वज्रोपलगणः - हीरकमणिगणो येषु तादृशैः, कनककङ्कणैः सुवर्णवलयैः, अधिष्ठितकोमलप्रकोष्ठकन्दलाम् अधिष्टितं व्याप्तं, कोमलयोः प्रकोष्ठयोः - मणिबन्धयोः, कन्दलं मूलं यस्यास्तादृशीम् [ ष ] । पुनः वैकुण्ठेनेव विष्णुनेव, सुदर्शनोपेतेन सुन्दरदर्शनेन, पक्षे सुदर्शनाख्यचक्रवता, कण्ठनालेन कण्ठकाण्डेन, तुलितशङ्खाम् उपमितशङ्खाम्, पक्षे धृतशङ्खाम् । पुनः प्रकटितादभ्रविभ्रमेण आविष्कृतबहुविलासेन, प्रथमयौवनावतारमरुता प्रथमयौवनप्रवेशपवनेन, तरलितायतापाङ्गतरङ्गयोः तरलितौ चञ्च लितों, आयतो दीर्घौ, अपाङ्गावेव-नेत्रप्रान्तभागावेव, तरनौ ययोस्तादृशयोः पक्षे तरलितापाङ्गवत् कल्लोला ययोस्तादृशयोः, पुनः अन्तस्तरच्चारुतारकयोः अन्तः - मध्ये, तरन्त्यौ - लवमाने, चारुतारके - सुन्दरकनीनिके, पक्षे चारु- सुन्दरं, तारम्उज्वलं, कं-जलं ययोस्तादृशयोः, क्षीरधवलयोः दुग्धवत् स्वच्छयोः, पक्षे क्षीरेण जलेन, शुक्लयोः, ईक्षणमहानदी - प्रवाहयोः नयनगङ्गाप्रवाहयोः, उच्छलितम् उत्पतितं, जलतुषारजालकमिव जलनिर्मितहिमगवाक्षमिव उभयश्रवण
Page #189
--------------------------------------------------------------------------
________________
तिलकमञ्जरा।
श्रवणशिखरावलम्बिन बिभ्राणाम् [स], अविरलावदातदन्तकुमलममलगण्डफलकमनिलविलुलितविनीलालकालिकमनीयमनिभृतभूलताविलासमुन्नतनासावंशमभिनवप्रवालपाटलाधरमुत्कलितकालागुरुतिलकशोभमावद्धनिबिडपुष्पापीडमाक्रीडमिव रतिपतेरुभयकर्णपाशदोलायमानमाणिक्यदन्तपत्रं वदनशतपत्रमुद्वहन्तीम् , उद्धिनापि तरङ्गचलिततनुशीकरक्षोदजालकेन करविधूतश्वेतचामरेणेवोपवीज्यमानाम् , प्रत्युषसापि गगनमरकतस्थालनिहितदिनकरप्रदीपेन प्रस्तुतारात्रिकेणेव कृतोपस्थानाम् , दिगन्तैरपि दूरमुल्लसितैः साभिलाषैरिव
तरलितायतापाङ्गतरङ्गयोः अन्तस्तरचारुतारकयोः क्षीरधवलयोः [ ईक्षणमहानदीप्रवाहयोः] ईक्षणेनेने एव महानदीप्रवाही तयोः, कीदृशोः? तरलितायतापाङ्गतरङ्गयोः- चञ्चलीकृतौ दीर्घनेत्रत्रिभागावेव तरङ्गी ययोस्तौ तथोक्तौ तयोः, अन्यत्र तरलतापानवत् कल्लोला ययोस्तौ तथोक्तो तयोः, तथा अन्तस्तरञ्चारुतारकयो:-एकत्र मध्यचलच्छोभनतारिकयोः, अन्यत्रमध्यतरन्मनोज्ञोज्वलजलयोः, क्षीरधवलयोः समानविशेषणम् [स] । अविरलावदातदन्तकुडालं दन्ता एव.दन्तवञ्च कुलानि-भविकसितकुसुमानि यत्र तत् तथोक्तम् । अमलगण्डफलकम् एकत्र निर्मलप्रशस्तकपोलम्, अन्यत्र निर्मलकपोलवत् फलानि यत्र तत् तथोक्तम् । अनिलविलुलितनीलालकालिकमनीयं वातचलितकृष्णकुटिलकेशा एव मलयः-भ्रमराः, तैरेकन, अन्यन्त्र अलकवद् ये भ्रमराः, तैः कान्तम् । अनिभृतभूलता. विलासं चञ्चलभूबिब्बोकम् , चञ्चलभ्रूलतापद् वीनां-पक्षिणां, लास:-लसनं यत्र तत् तथोक्तम् । उन्नतनासावंशम् उच्चप्रशस्तनासिकम, उन्नतवंशं च । अभिनवप्रवालपाटलाधरं नूतनपत्रवद् रत्तोऽधरो यत्र तत् तथोक्तम् , अन्यत्र प्रवाला एव रक्ताधरो यत्र तत्र तत् तथोक्तम् । [उत्कलितकालागुरुतिलकशोमं] उत्कलितकालागुरुविशेषकविभूषम् , अन्यत्र उत्कलितकालागुरुतिलकवृक्षशोभम् । आवद्धनिबिडपुष्पापीडम् एकत्र रचितगाढकुसुमसंघात [......म्, आ] क्रीडमिव क्रीडापर्वतमिव ह] ॥
शिखरावलम्बिनं कर्णद्वयोर्ध्वदेशावलम्बिनम् , अच्छमुक्ताफलस्तम्ब विमलमुक्कामणिगुच्छं, बिभ्राणां दधानाम् [स]। पुनः कीदृशीम् ? वदनशतपत्रं मुखकमलम् , उद्वहन्तीं धारयन्तीम् , कीदृशमिव ? रतिपतेः कामदेवस्य, आक्रीड. मिव सर्वोपभोग्योद्यानमिव, कीदृशं वदनकमलं, कीदृशं चोद्यानम् ? अविरलावदातदन्तकुनालम् अविरलाः-निरन्तराः, अवदाता:-खच्छाः, दन्तकुदाला:-दन्तरूपा विकाशोन्मुखकलिका यस्मिस्तादृशम् , पक्षे अविरलावदातदन्ता इव कुमला यस्लिस्तादृशम्, पुनः अमलगण्डफलकं अमलं-निर्मलं, गण्ड फलक-कपोलरूपं पट्टकं, प्रशस्तकपोलमित्यर्थः, यत्र तादृशम्, पक्षे निर्मलकपोलवत् फलानि यत्र तादृशम्, पुनः अनिलविललितविनीलालकालिकमनीयम अनिलविलुलितैः-वायुविचलितः. विनीलैः-अतिश्यामः, अलकालिभिः-कुटिलकेशरूपभ्रमरैः, यद्वा अनिलविलुलितानां विनीलानाम् , मलकानांकुटिलकेशानाम् , आल्या-पडया, कमनीर्य-मनोहरम्, पक्षे अनिलविललितविनीलालकसहशैः, अलिभिः-भ्रमरैः, कमनीयम्, पुनः अनिभृतभूलताविलासम् अनिभृतः-चञ्चलः, भ्रूलतायाः-नेत्रोपरितनरोमराज्याः, विलासः-विभ्रमो यत्र तादृशम् , पक्षे अनिभृतभ्रलतावत् वीनां--पक्षिणां, लासः-लसनं क्रीडनं यत्र तादृशम् , पुनः उन्नतनासावंशम् उन्नतः-उच्चः, नासावंशःनासिकारूपवंशः प्रशस्तनासिका यत्र तादृशम् , पक्षे उन्नतनासाः-उच्चशब्दाः, वंशाः-वेणवो यत्र तादृशम् , पुनः अभिनवप्रवालपाटलाधरम् अभिनवप्रवालवत्-नूतनपल्लववद् नूतनप्रवालाभिधरतमणिवत , पाटलाधरः-रक्तवर्ण ओष्ठो यस्मिंस्खाहशम्, पक्षे नूतनपल्लवयुक्तपाटलाभिधवृक्षधारकम् , पुनः उत्कलितकालागुरुतिलकशोभम् उत्कलिता-उद्भासिता, कालागुरुतिलकेन सुरभिद्रव्यविशेषकृततिलकेन, शोभा-चारुता यत्र तादृशम्, पक्षे उत्कलिताः-विकसिता ये कालागुरुवृक्षाः,ये च तिलकक्षाः, तैः शोभा यत्र तादृशम् , पुनः आबद्धनिबिडपुष्पापीडम् रचितघनपुष्पशिरोमाल्यम् , पक्षे आबद्धानिवृक्षाप्रसंबद्धानि, निविडानि पुष्पाणि एव, आपीडः-शिरोमाल्यं यस्य तादृशम् , पुनः उभयकर्णपाशदोलायमानमाणिक्यदन्तपत्रम् उभयकर्णपाशयोः-शोभनोभयकर्णयोः, दोलायमानं-दोलनं कुर्वत् , माणिक्यदन्तपत्रं-माणिक्यमयं दन्तपत्रंकुन्दपुष्पं यस्य तादृशम् । पुनः उदधिनापि समुद्रेणापि, तरङ्गचलिततनुशीकरक्षोदजालकेन तरमोच्छलितेन सूक्ष्मजलकर्णचूर्णपुजेन, करविधूतश्वेतचामरेणेव हस्तोरिक्षप्तशुभ्रचामरेणेव, उपवीज्यमानां पवनेन संयोज्यमानाम् । पुनः
Page #190
--------------------------------------------------------------------------
________________ 332 / टिप्पनक-परागविकृतिसंवलिता प्रतीष्यमाणपटुविलेपनामोदाम् [ह], वेलायनतरुभिरपि विबुद्धशकुनिकृतकोलाहलैरुद्भूतमदनोन्मादेवि परिवृताम्, अन्तरिक्षेणापि गलदवश्यायबिन्दुना बद्धस्मरस्वेदेनेवोत्सङ्गिताम् , निशान्तमरुताप्याकृष्टकमलकेसरचयेन रोमाञ्चिताङ्गेनेवालिङ्गिताम् , मदशक्तिमिव मन्दरान्दोलनात् पलायितां मदिरायाः, निष्यन्दधारामिव मुष्टिनिपीडनाद् विगलितामनशक्षुचापयष्टेः, द्विरष्टवर्षवयसं दिव्यरूपां कन्यकामद्राक्षम् [1] / इति कथारसाक्षिप्तचेतसि स्ववृत्तान्तमावेदयति समरकेतौ निश्चलपक्ष्मलेखे लिखित इव पश्यति तदीयमुखमभिमुखप्रहितदृशि सभ्यलोके श्लथीकृतान्तरकथेष्वाकर्णयत्सु सकुतूहलमन्तरान्तराविस्तारितहर्षकोलाहलेषु कमल. गुप्तप्रभृतिषु प्रधानराजपुत्रेषु प्रचलितशिरसि सप्रपञ्चमाकर्णयति सरसतां कथापञ्जरस्य मञ्जीरमुख्य बन्दिवृन्दे सहसैव हर्षोत्फुल्ललोचना प्रविश्य प्रतीहारी हरिवाहनं व्यजिज्ञपत-'कुमार ! युवराजवार्ताद्भुतश्रवणेन पीतमतिचिरं कर्णामृतम्, इदानीमीक्षणामृतं क्षणमेकमास्वाद्यताम् / ' इत्युदीर्य दूरावनतपूर्वकाया दक्षिणेन करणादाय सादरमुपरितनवसनपल्लवप्रान्तसंयतं दिव्यं चित्रपटमुपनिन्ये [ज्ञ]॥ प्रत्युषसापि प्रभातेनापि, गगनमरकतस्थालनिहितदिनकरप्रदीपेन गगनरूपम्-आकाशरूपं, यत् मरकतस्थालम्इन्द्रनीलमणिमयं स्थालं, तत्र निहितेन-धृतेन, दिनकररूपेण-सूर्यरूपेण, प्रदीपेन, प्रस्तुतारात्रिकेणेव प्रवर्तितनीराजनेनेव, कृतोपस्थानां कृताराधनाम् / पुनः दूरम् , उल्लसितैः उस्थितैः, दिगन्तैरपि दिङ्मुखैरपि, साभिलाषैरिव सस्पृहैरिव, प्रतीष्यमाणपटविलेपनामोदां प्रतीष्यमाणः-अभिलष्यमाणः, गृह्यमाण इत्यर्थः, पटुः-उत्कटः, विलेपनामोद:-विलेपनगन्धो यस्यास्तादृशीम् [ह ] | पुनः विबुद्धशकुनिकृतकोलाहलैः विबुद्धैः-प्रबुद्धैः, शकुनिभिः-पक्षिभिः, कृतः कोलाहलो येषु तादृशैः, वेलावनतरुभिरपि तटस्थवन क्षैरपि, उद्भूतमदनोन्मादरिव आविर्भूतकामोन्मादैरिव, परिवृतां परिवेष्टिताम् / पुनः अन्तरिक्षेणापि आकाशेनापि, गलवश्यायबिन्दुना स्रवत्तुषारबिन्दुना, बद्धस्मरखेदेनेव धृतकामविकारात्मकधर्मोदकेनेव, उत्सङ्गितां क्रोडीकृताम् / पुनः मन्दान्दोलनात् मन्दराचलालोडनात् , पलायिताम् अपमृताम् , मदिरायाः, मदशक्तिमिव मनोविकारताशक्तिमिवेत्युत्प्रेक्षा / पुनः मुष्टिनिपीडनात् मुष्ट्या निष्कर्षणात् , अनड्रेक्षु. चापयष्टेः अनङ्गसम्बन्धीक्षुरूपधनुर्यष्टेः, विगलितां च्युता, निष्यन्दधारामिव रसप्रस्रवणधारामिव [क्ष]। इति इत्थं, कथारसाक्षिप्तचेतसि कथाकौतुकाकृष्टहृदये, समरकेतौ तदाख्यप्रकृतनृपकुमारे, स्ववृत्तान्तं खकीयवार्ताम् , आवेदयति विज्ञापयति सति, लिखित इव चित्रित इव, निश्चलपक्ष्मलेखे निर्निमेषनयनरोमावलीके, पुनः अभिमुख. प्रहितदशि अभिमुखव्यापारितलोचने, सभ्यलोके सभासज्जने, तदीयमुखं समरकेतुमुखं, पश्यति सति, पुनः श्लथीकृतान्तरकथेषु शिथिलितमध्यवर्तिकथानकेषु, पुनः सकुतूहलं सौत्सुक्यम् , अन्तरा अन्तरा मध्ये मध्ये, विस्तारित. हर्षकोलाहलेषु विस्तारितहर्षजन्यकलकलेघु, कमलगुप्तप्रभृतिषु कमलगुप्तप्रमुखेषु, आकर्णयत्सु तस्कयां शृण्वत्सु, प्रचलितशिरसि प्रकम्पितमस्तके, मञ्जीरमुख्ये मीरप्रभृतौ, बन्दिवृन्दे बन्दिगणे, कथापञ्जरस्य कथाविस्तारस्य, सप्रपञ्चं सविस्तरं, सरसतां रसवत्ताम् , आकर्णयति श्रवगेनाखादयति सति, हर्षोत्फुल्ललोचना आनन्दोल्लसितनयना, प्रतीहारी द्वारपालिका, सहसैव अकस्मादेव, अतर्कितमेवेत्यर्थः, प्रविश्य प्रवेशं कृत्वा, हरिवाहनं तदाख्ययुवराजं, व्यजिशपत् विज्ञापितवती, किमित्याह-कुमार ! युवराजवार्ताद्भुतश्रवणेन समरकेतुवृत्तान्ताश्चर्यश्रवणेन, कर्णामृतं श्रवणेन्द्रियावाद्यामृतरसः, अतिचिरम् अतिदीर्घकालम् , पीतम् आस्वादितम् , इदानीम् अधुना, एक क्षणम् , ईक्षणामृतं नेत्रास्वाद्यामृतरसः, आखाद्यताम् , इत्युदीर्य इत्युक्त्वा, दूरावनतपूर्वकाया दूरम् अवनतम्-आनतं, पूर्वकार्यशरीरपूर्वभागो यस्यास्तादृशी, उपरितनवसनपल्लवप्रान्तसंयतम् उपरितनेन पल्लवकोमलवस्त्राचलेन बद्धं दिव्यं-मनोहरं चित्रपट चित्राधारवस्त्रं, दक्षिणेन करेण हस्तेन, आदाय गृहीत्वा, सादरम् आदरसहितम् उपनिन्ये उपजहार [6] /