________________
तिलकमञ्जरी।
३०१
इव मयूरं सारसकुलकाण इव निर्जलारण्यपथिकमधिकोद्भूतहर्षमाकर्षति ममान्तःकरणम् । आयासितश्च त्वमधुना न युज्यसे नियोजयितुम् , तथापि ब्रवीमि यदि नातिमात्रमध्वश्रमो बाधाकरः शरीरस्य, मन्दोद्यम वा न यात्रा प्रति मनः, ततः प्रगुणीकुरु गमनाय नावं [ई ], यावदद्यापि पृष्ठतो वहति शिबिरं, यावदवतारयन्ति तीरभुवि सेनावरा यथास्वं कस्वराणि, यावन्निरन्तराणि संचरन्ति सामन्तानामितस्ततो यानपात्राणि, यावच्च मुक्तास्मत्संनिधिर्निवेशयति पटमन्दिराणि परितो राजकुलमाकुलाऽऽकुलोऽङ्गरक्षवर्गः, तावदनुपलक्षिता एव यामः [उ ], पश्यामश्च दिव्यगीतध्वनेरस्य प्रारम्भकं लोकं, यत्र च क्वापि नगरे वा नगे वा सागरोदरसैकते वा ध्वनन्त्यमूनि वादित्राणि तत्र नियतमत्यद्भुतेन कस्यचिन्महाराजस्य राज्याभिषेकेण वा लोकत्रयख्यातचरितस्य खेचरेन्द्रस्य विद्यासिद्धिलाभेन वा प्रकृष्टरूपाकृष्टसकलराजकस्य कन्यारत्नस्य स्वयंवरप्रक्रमेण वा शक्रादिसुरवृन्दारकप्रतिष्ठितस्य देवताविशेषस्य यात्राव्यतिकरेण वा भवितव्यं, न ह्यल्पीयसि प्रयोजने यत्र तत्र चोत्सवे कदाचिदेवंविधो भवति सकलत्रिभुवनचमत्कारकारी समारम्भः, समासन्नदेशप्रभवश्व वाद्यध्वनिरसाविति व्यक्ततयैव ताललयविशेषाणामवगतम्' [ ऊ]
टिप्पनकम्-कस्वराणि उपस्करम् [] ।
पारं, श्रुतिविषयं श्रवणपथम् , अवतरस्नेव आगच्छन्नेव, एष इति स्थाने एव इति पाठः, अधिकोद्भुतहर्ष प्रचुरोत्पन्नानन्दं यथा स्यात् तथा, मम अन्तःकरणम् , आकर्षति आकृष्य वशीकरोति, के क इव ? मयूरम् , अभिनवाम्भोदगोंद्वार इव नवीनमेघगर्जनातिशय इव, पुनः निर्जलारण्यपथिकं निर्जलवनमार्गगामिनं, सारसकुलक्काण इव सारसकुलस्य-समीपस्थजलाशयसूचकसारसजातीयपक्षिसमूहस्य, वाणः-शब्द इव । अयासितः श्रमितः, त्वम् , अधुना सम्प्रति, नियोजयितुं प्रकृतगायकान्वेषणाय व्यापारयितुं, न युज्यसे योग्यो वर्तसे, तथाऽपि तदयोग्यत्वेऽपि, ब्रवीमि वच्मि, यदि अध्वश्रमः मार्गगमनपरिश्रमः, शरीरस्य, अतिमात्रम् अत्यन्तं, बाधाकरः दुःखाकरः, न स्यादिति शेषः, वा अथवा, यात्रां प्रति यात्राविषये, मनः, मन्दोद्यम शिथिलोद्यमं, न अस्तीति शेषः, ततः तर्हि, नावं, गमनाय प्रयाणाय, प्रगुणीकुरु सज्जय [ई ] । अद्यापि यावत्, पृष्ठतः पृष्ठभागे, शिविरं सैन्यसमूहः, वहति आयाति; यावत् तीरभुवि तीरभूमौ, सेनावराः सेनाश्रेष्ठाः, यथाखं यथायथं, कखराणि उपस्करनिकरम् , अवतारयन्ति अधो नयन्ति; यावत् निरन्तराणि निरवकाशानि, निरवच्छिन्नानीत्यर्थः, सामन्तानां क्षुद्रनृपाणां, यानपात्राणि पोताः, इतस्ततः अत्र तत्र, सञ्चरन्ति प्रचलन्ति; च पुनः, यावत् मुक्तास्मत्सन्निधिः त्यचास्मरसामीप्यः,आकुलाकुलोऽङ्गरक्षघर्गः अतिव्यप्रान्तःकरणोऽरक्षाधिकृतगणः, राजकुलं राजमन्दिर, परितः सर्वतः, पटमन्दिराणि वस्त्रगृहाणि, निवेशयति स्थापयति; तावत् अनुपलक्षिता एव केनाप्यलक्षिता एव सन्तः, यामः गच्छामः [1] । च पुनः, अस्य प्रत्यक्ष श्रूयमाणस्य, दिव्यगीतध्वनेः मनोहरगायनशब्दस्य, प्रारम्भकं प्रवर्तक, लोकं जनं, पश्यामः; यत्र यस्मिन् , कापि कुत्रापि, नगरे वा, नगे वा पर्वते वा, सागरोदरसैकते वा समुद्रमध्यवर्तिसिकतामयस्थले वा, अमूनि तानि, पादिवाणि वाद्यानि, ध्वनन्ति नन्दन्ति, तत्र नियतं निश्चितं, कस्यचित् अविज्ञातनान्नः, महाराजस्य महानृपस्य, अत्यद्भुतेन अत्याश्चर्यावहेन, वा अथवा, लोकत्रयख्यातचरितस्य भुवनत्रयप्रसिद्धचरित्रस्य, खेचरेन्द्रस्य विद्याधरेन्द्रस्य, विद्यासिद्धिलाभेन विद्यापीढिप्राप्त्या, वा अथवा, प्रकृष्टरूपाकृष्टसकलराजकस्य प्रकृष्टरूपेण-उत्कृष्टखरूपेण, आकृष्ट-वशीकृतं, सकलं-समग्रं, राजक-राजसमूहो येन तादृशस्य, कन्यारतस्य कुमारिकारत्नस्य, स्वयंवरप्रक्रमेण स्वयंवरसमारम्मेण, वा अथवा, शक्रादिसुरवृन्दारकप्रतिष्ठितस्य शक्रादिभिः-इन्द्रादिभिः, सुरवृन्दारकैः-सुरश्रेष्ठैः, प्रतिष्ठितस्य-प्रतिष्ठामापनस्य, देवताविशेषस्य, यात्राव्यतिकरण यात्रासम्मर्दैन, भवितव्यं भवितुं योग्य, हि यतः, अल्पीयसि अत्यल्पे, प्रयोजने उद्देश्ये, यत्र तत्र चोत्सवे साधारणोत्सवे च, एवंविधः एतादृशः, सकलत्रिभुवनचमत्कारकारी समप्रखर्ग-मल पाताललोककौतुकावहः, समारम्भः समारोहः, कदाचिद्, न भवति न जायते। असौ वाद्यभ्वनिः वाद्यशब्दः,