________________
टिप्पनक - परागविषृतिसंबलिता
यानवहंसयुथानाम्, आभरणनिस्वन इव स्वनिवासवीथिप्रस्थितानामसुरनगराभिसारिकाश्रातानाम्, अनारंतप्रसृतमुरजमृदङ्गझल्लरीकांस्यतालझाकृतिः, अन्तरान्तरा विसर्पदुच्छृङ्खल शङ्खकाहलाकोलाहलः, स्फुटप्रसृतटङ्कारेण वारंवार मास्फालित द्विगुणबाहुफलकानामुल्ला सितो मल्लाना मास्फोटरवेण, सविस्तरस्तुतिवृत्तपाठपुर : सरीभिरितस्ततो विस्तारितस्तारमुश्चरन्तीभिश्चतुरचारणवृन्द जयशब्दपरम्पराभिः, अनेकवेणुवीणारव सहस्रसंवर्धितः, प्लावयन्निवामृतस्रोतसा गगनमार्गमाजगाम तं प्रदेशम तिशयश्रव्य दिव्यमङ्गलगीतनिनदः [ आ ] | श्रुत्वा च तमहमश्रुतपूर्वमवधान निश्चलेन चेतसा परमयोगीव क्षणमात्रमुपजाततत्प्रभवदर्शनाभिलाषः प्रेष्य निकटवर्तिनं नरेन्द्रलोकमात्मपरिजनं च पार्श्वविधृतचामरच्छत्रधारादिद्वित्रपरिचारकः, तत्कालमन्तिकस्थमुदधिकूलासन्नसलिलस्थिरावस्थापितनावमच्छिन्नसंतानमागच्छतस्तस्य गीतध्वनेर्दत्तावधानं ध्याननिश्चलनयनतारकं तारकमवोचम् [इ] - 'सखे ! किमपि सुन्दरो गीतनिःष्यन्दः श्रुतिविषयमवतरन्नेष वारंवारमभिनवाम्भोदगर्जीद्वार
www.www.
३००
टिप्पनकम् – कांस्यताळा:- कंसालकानि [ आ ] ।
नष्टा- क्षीणा, निद्रा येषां तादृशानां वरुणयानहंसयूथानां वरुणः - पश्चिमाशापतिः, तस्य यानभूताः - वाहनभूत ये हंसातेषां यूथानां - राशीनाम्, विरुतसंघात इव निनादसमूह इव, पुनः स्वनिवासवीथिप्रस्थितानां निजवासपङ्क्तिप्रयात्तानाम्, असुरनगराभिसारिकावातानां राक्षसपुरवास्तव्यव्यभिचारिणीगणानाम्, आभरणनिखन इव अलङ्करणझणत्कार इवः पुनः अनारतप्रसृतमुरज- मृदङ्ग - झल्लरी कांस्यतालझात्कृतिः अनारतप्रसृता - अविरत प्रवृद्धा, मुरज- मृदङ्ग -झलरी- कांस्यतालानां तत्तदाख्य वाद्यविशेषाणां ज्ञात्कृतिः- ध्वनिविशेषो यस्मिंस्तादृशः; पुनः अन्तरान्तरा मध्ये मध्ये, विसर्पदुच्छृङ्खल शङ्ख- काहलाकोलाहलः विसर्पन्- प्रसरन्, उच्छृङ्खल : - उचः, शङ्खस्य, काहलायाःमहाढक्कायाः, कोलाहलः--ध्वनियस्मिंस्तादृशः पुनः स्फुटप्रसृतटङ्कारेण स्फुटं स्पष्टं यथा स्यात् तथा प्रसृतः प्रवृद्धः, टङ्कारः- ध्वनिविशेषो येन तादृशेन, वारं वारम् अनेकवारम्, आस्फालित द्विगुणबाहुफलकानाम् आस्फालितेन - आहननेन यद्वा आस्फालिते- आहते, द्विगुणे--द्विगुणस्थूले, बाहुफलके--भुजपरिघी येषां यैर्वा तेषां मल्लानां मल्लपुरुषाणाम्, भास्फोटरवेण भुजास्फालनध्वनिना, उल्लासितः उन्नमितः; पुनः चतुरचारणवृन्दजयशब्दपरम्पराभिः चतुरस्यनिपुणस्य, चारणवृन्दस्य - बन्दिगणस्य, जयशब्दपरम्पराभिः --जयकार श्रेणीभिः इतस्ततः अत्र तत्र, विस्तारितः वर्धितः, कीदृशीभिः ? सविस्तरस्तुतिवृत्तपाठपुरस्सरीभिः सविस्तरः- विस्तारसहितो यः स्तुतिपाठ - वृत्तयोः - प्रशंसाचारित्रयोः, पाठ: - कीर्तनं, तत्पुरस्सरीभिः- तत्प्रमुखाभिः पुनः सारम् उच्चैः, उच्चरन्तीभि उद्गच्छन्तीभिः पुनः अनेकवेणु-वीणारवसहस्रसंवर्धितः अनेकेषां वेणूनां वंशमयवाद्यानां, वीणानां च रवसहस्रैः सहस्र संख्याकध्वनिभिः, संवर्धितः विस्तारितः; किं कुर्वन्निव ? अमृतस्त्रोतसा अमृतप्रवाहेण, गगनमार्गम् आकाशमार्गम्, प्लावयन्निव प्रवाहयन्निवः पुनः कीदृशः ? अतिशयश्रव्यः अत्यन्तश्रवणार्हः [आ] | अहं परमयोगीव उत्कृष्टयोगीव, अवधाननिश्चलेन ऐकाम्यस्थिरेण चेतसा, अश्रुतपूर्व पूर्वमतं तं निनदं श्रुत्वा, क्षणमात्रं किञ्चित्कालम्, उपजाततत्प्रभवदर्शनाभिलाषः उपजातः- उत्पन्नः, तत्प्रभवस्य - तदुत्पत्तिस्थानस्य, दर्शनाभिलाषः - साक्षात्काराभिलाषो यस्य तादृशः, निकटवर्तिनं पार्श्ववर्तिनं, नरेन्द्रलोकं नृपजनम्, आत्मपरिजनं स्वपरिवारं च, प्रेष्य प्रस्थाप्य, पार्श्वविधृतचामरच्छत्रधारादिद्वित्रपरिचारकः पार्श्वेनिकटे, विधृताः - अवस्थापिताः, चामरच्छत्र धारादयः, द्वित्राः द्वौ वा त्रयो वा परिचारकाः - सेवका येन तादृशः, तारकं तदाख्यकर्णधारकम् अवोचम् उक्तवान् कीदृशम् ? तत्कालं तत्क्षणम् अन्तिकस्थं निकटस्थम्, पुनः उदधिकूलासन्नसलिलस्थिरावस्थापितनावम् उदधिकूलस्य - समुद्रतटस्य, आसने-निकटे, सलिले- जले, स्थिरं यथा स्यात् तथा, अवस्थापिता- धृता नौर्येन तादृशम्, पुनः अच्छिन्नसन्तानम् अविरतसन्ततिकं यथा स्यात् तथा, आगच्छतः आपततः, तस्य प्रकृतस्य, गीतध्वनेः गानशब्दस्य, तच्छ्रवण इत्यर्थः, दत्तावधानं समाहितहृदयं, ध्याननिश्चलनयनतारकं ध्यानेन - मनःसमाधानेन, निश्चला-स्थिरा, नयनतारका - नेत्र कनीनिका यस्य तादृशम् [इ] । किमवोचमित्याह - सखे ! मित्र !, किमपि सुन्दरः अनिर्वचनीयमनोहरः, एषः गीतनिःष्यन्दः गीतप्रवाहः, गीतनिनाद इति पाठे तु गानध्वनिः, वारं