SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तिलकमारी। २९९ दूरविक्षिप्तकण्टकद्रुमविटपवलयितावासेष्वावासयत्सु सत्वरान्तर्वं शिकनिवेश्यमानशुद्धान्तवनितानिशान्तेषु सामन्तेषु, अप्रतीक्षितवितन्यमानदूष्ये निषीदति मणिस्थलीषु स्थूलवसनाच्छादितवपुषि निद्राभरालसदृशि विलासिनीजने [क्ष] ___पुष्कलशुष्कचन्दनकाष्ठसंदीपितानलेषु मुहुर्मुहुर्जठरपृष्ठपरिवर्तनेन व्यपनयत्सु परुषरजनीपवनसंपर्कजनितमङ्गजाड्यमूर्ध्वस्थितेषु दुःस्थितपदातिषु, प्रकाशितनभसि तिरस्कृततरुलतालीनतमसि विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विलुप्तशैलौषधिज्वलनतेजसि भग्नवनचरमिथुनरहसि संक्षोभितक्षपाचरसदसिसर्पति दिक्षु सर्वतः संधुक्षितानामाशुशुक्षणीनां महीयसि महसि, मुखरितदरीमुखे प्रवृत्ते वातुमन्तःशिबिरमुद्वृत्तसैनिकोपद्रवप्रकुपिताद्रिनिःश्वास इव सोमणि सधूमे क्षपाचरमयामानिले [अ], सहसैव तस्य शिखरिणः पश्चिमोत्तराद् दिगन्तरादुद्धिमारुतप्रेरितो विरुतसंघात इव संनिकृष्टप्रभातसमयनष्टनिद्राणां वरुण टिप्पनकम्-तूष्यं-पटगृहम् [२] । वयः-पक्षी, आशुशुक्षणिः-अग्निः [अ]। दूरविक्षिप्तकण्टकद्रुमविटपवलयितावासेषु दूरविक्षिप्तैः-दूरदूरविकीर्णैः, कण्टकद्रुमविटपैः-कण्टकवृक्षशाखाभिः, वलयिताः-वेष्टिता ये आवासाः-निवासस्थानानि, तेषु आवासयत्सु निवासयत्सु सत्सु, कीदृशेषु? सत्वरान्तर्वशिकनिवेश्यमानशुद्धान्तवनितानिशान्तेषु सत्वरं-शीघ्रम् , अन्तर्वशिकैः-अन्तःपुराधिकृतजनैः, निवेश्यमान-समावेश्यमानं, शुद्धान्तपनितानाम्-मन्तःपुराङ्गनाना, निशान्तं-गृहं यस्तादृशेषुः पुनः विलासिनीजने विलासशीलनारीजने, मणिस्थलेषु मणिमयभूमिषु, निषीदति उपविशति सति, कीदृशे ? अप्रतीक्षितवितन्यमानदृष्ये अप्रतीक्षितम्-अनपेक्षित, वितन्यभान-विस्तार्यमाणं, दुष्यं-पटगृहं येन तादृशे, पुनः स्थूलवसनाच्छादितवपुषि स्थूलवसनेन-स्थूलवस्त्रेण, आच्छादितं, वपुः-शरीरं येन तादृशे, पुनः निद्राभरालसहशि निद्राभरेण-निद्राधिक्येन, अलसा-खिन्ना, इक्-दृष्टिर्यस्य तादृशि [क्ष]; पुनः ऊर्ध्वस्थितेषु दण्डायमानतयावस्थितेषु, दुःस्थितपदातिषु दुःखेनावस्थितपादगामिषु, परुषरजनीपवनसम्पर्कजनितं कठोररात्रिवायुसंसर्गजनितम् , अङ्गजाड्यम् अनिश्चेष्टता, व्यपनयत्सु दूरीकुर्वत्सु सत्सु, केन ! पुष्कलशुष्कचन्दनकाष्ठसन्दीपितानलेषु पुष्कलेन-प्रचुरेण, शुष्केन-नीरसेन, चन्दनात्मकेन काष्ठेन, सन्दीपिताः-प्रज्वालिता ये, अनलाः-अमयः, तेषु, जठरपृष्ठपरिवर्तनेन उदरपश्चाद्भागपरावर्तनेनः पुनः सन्धुक्षितानाम् उद्दीपितानाम् , आशुशुक्षणीनाम् अग्नीनां, महीयसि अतिमहति, महसि तेजसि, दिक्षु दिशा मध्ये, सर्वतः समन्ततः, सर्पति प्रसरति सति, कीदृशे ? प्रकाशितनभसि उद्भासितगगनमण्डले, पुनः तिरस्कृततरुलतालीनतमसि तिरस्कृतं-निराकृतं, तर लतालीनं-तरुषु-वृक्षेषु लतासु च, लीनं-लमं, तमः-अन्धकारो येन तादृशे, पुनः विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विप्रलब्धम्-अरुणोदयप्रत्यायनया वञ्चितं, प्रभातसमयोत्सुकं-प्रातःकालागमनोत्कण्ठितं, चक्रवाकजातीयं, वयःपक्षी येन तादृशे, पुनः वि षधिज्वलनतेजसि विलुप्तं-तिरोहित, शैलौषधीनां-पर्वतस्थौषधीनां सम्बन्धिनः, ज्वलनस्य-अनलस्य स्वाभाविकस्य, तेजो येन तादृशि, पुनः भग्नवनचरमिथुनरहसि मग्न-निराकृतं, वनचरमिथुनानाधनेचरदम्पतीना, रहः-एकान्तो येन तादृशे, पुनःसंक्षोभितक्षपाचरसदसि संक्षोभितं-विघटितं, क्षपाचराणां-रात्रिचराणां, सदः-गोष्ठी येन तादृशे पुनः क्षपाचरमयामानिले क्षपायाः-रात्रः, यश्चरमः-अन्तिमो, यामः-प्रहरः, तत्सम्ब. न्धिनि, अनिले-वायौअन्तःशिबिरं शिविरमध्ये, वातुं प्रसर्पित, प्रवृत्ते सति, कीडशे ? मुखरितदरीमुखे शब्दायितकन्दराने, पुनः उदृत्तसैनिकोपद्रवप्रकुपिताद्रिनिःश्वास इव उद्वतानाम्--उद्धतानां, सैनिकानाम् , उपद्रवेण, प्रकुपितस्यअतिकुद्धस्य, अद्रे:-पर्वतस्य, निःश्वास इव-नासिकामारुत इव, सोमणि ऊष्मणा-उष्णतया सहिते, पुनः सधूमे धूमसहिते [म]। सहसैव शीघ्रमेव, तस्य प्रकृतस्य, शिखरिणः पर्वतस्य, पश्चिमोत्तरात् , दिगन्तरात् दिमेध्यात्, दिव्यमङ्गलगीतनिनदः मनोजमङ्गलगानध्वनिः, तं प्रदेशं तीरप्रदेशम् , आजगाम आगतः, क इव ? उद्धिमारुतप्रेरितः समुद्रपवनोद्वेलितः, सन्निकृष्टप्रभातसमयनष्टनिद्राणां सन्निकृष्टेन-प्रत्यासनेन, प्रभातसमयेन प्रातःकालेन,
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy