________________
टिप्पनक - परागविवृतिसंग लिता
क्रमेण चोत्तीर्णे कियत्यपि राजलोके, रिक्तीकृतोदरलघुषु तटनिकटमानीयमानेषु यानपात्रेषु, प्रस्थितेष्वावासाय पर्वतस्य पूर्वदक्षिणं भूभागमुत्सुकेषु सैनिकवृन्देषु, मुकुलितसितपटेषु दृढ निखात निष्ठुरकाष्ठकीलनियमितनौकेषु सर्वतोऽवलम्बितस्थूलनाङ्गरशिला निगडितपोतेषु गृहीतसर्वात्मोपकरणेष्वपसरत्सु नाविकेषु, नायकोपलालनारूढगर्येषु खर्वौभूय युगपगृहीतबहुजनोत्क्षिप्त भरकेष्वावासभूमिं व्रजत्सु भारभुज्यमानभुजसंधिमर्मसु कर्मकरेषु, सरभसप्रधावितेन पुरोयायिना क्लिष्टसेवकजनेन परिगृह्यमाणेषु मणिगुहागृहेषु, हठनिराकृतलुण्टाककीकटप्रायलोके स्वीकुर्वति सगर्वमुपतट प्ररूढप्रौढलवली लवङ्गकर्पूरपादपानि स्वादुसलिलनिर्झरणानि राजवल्लभविटवण्ठवर्गे [ह], भुजङ्गभयपरिहृतश्रीखण्डशाखिखण्डेषु शिखण्डिरुतमुखरितांलतामण्डपानाश्रयत्सु विद्वत्सु पर्यन्तरोपितशङ्कु संयम्यमानतनिनणी केष्वितस्ततो विस्तार्यमाणेष्यमात्यपट सासु,
२९८
टिप्पनकम् — लवली - चन्दनलता [६] |
च पुनः क्रमेण पर्यायेण, कियत्यपि कतिपयेऽपि, राजलोके नृपजने, उत्तीर्णे समुद्रादूर्ध्वमागते सति पुनः रिक्तीकृतोदरलघुषु रिक्तीकृतेन-रिकतामापादितेन, उदरेण-मध्यभागेन, लघुषु - लघुतामापन्नेषु यानपात्रेषु पोतेषु, तटनिकटं तटसमीपम्, आनीयमानेषु आगम्यमानेषु सत्सुः पुनः उत्सुकेषु भवासोयतेषु, सैनिकवृन्देषु सैनिकगणेषु, आवासाय निवासाय पूर्वदक्षिणं पूर्वदक्षिणदिगन्तरालस्थितं, पर्वतस्य भूभागं भूम्येकदेशं प्रस्थितेषु प्रयातेषु सत्सुः पुनः नाविकेषु कर्णधारेषु, अपसरत्सु अपगच्छत्सु सत्सु, कीदृशेषु ? मुकुलित सितपदेषु मुकुलितः - उपसंहृतः, सितपट:नौकोर्ध्वव्याधूयमानश्वेतवस्त्रं यैस्तादृशेषु, पुनः दृढ निखातनिष्ठुर काष्ठकी लनियमितनौकेषु दृढनिखातेन - दृढम् - अत्यन्तं यथा स्यात् तथा, निखातेन- भूगर्भनिवेशितेन, निठुर काष्ठकीलेन दृढ काष्ठमय कीलेन, नियमिता- नियन्त्रिता नौका यैवादृशेषु, पुनः सर्वतः सर्वभागेषु, अवलम्बितस्थूलनाङ्गर शिलानिगडितपोतेषु अवलम्बिताभिः - नमिताभिः स्थूलाभिःनागरशिलाभिः - यानपात्रावष्टम्भकलङ्करेतिख्यात शिलाविशेषैः, निगडितः - नियन्त्रितः, पोतः यानपात्रं यैस्तादृशेषु पुनः गृहीतसर्वात्मोपकरणेषु गृहीतानि सर्वाणि, आत्मनः - स्वस्य, उपकरणानि - नौवहनोपकरणवस्तूनि येस्तादृशेषु पुनः कर्मकरेषु किङ्करेषु, आवासभूमिं निवासस्थानं, व्रजत्सु गच्छत्सु सत्सु, कीदृशेषु ? नायकोपलाल नारूढ गर्वेषु नायकस्यस्वामिनः, तत्कर्तृकयेत्यर्थः, उपलालनया- वात्सल्योचितक्रियया, रूढः - उत्पन्नः, गर्वः - अभिमानो येषु तादृशेषु, पुनः खर्चीभूय हखतामापद्य, युगपत् एककालं गृहीतबहुजनोत्क्षिप्तभरकेषु गृहीतः, बहुजनोत्क्षिप्तः - अधिकजनैः, एकस्योपरि निक्षिप्तः, भरः-भारो यैस्तादृशेषु पुनः भारभुज्यमानभुजसन्धिमर्मसु भारेण भुज्यमानं कुटिलायमानं, भुजसन्धिमर्मबाहुसन्धिस्थानरूपं मर्म येषां तादृशेषु मणिगुहागृहेषु मणिमयकन्दरात्मकगृहेषु, क्लिष्टसेवकजनेन श्रान्तभृत्यजनेन, परिगृह्यमाणेषु समाश्रीयमाणेषु कीदृशेन ? सरभसप्रधावितेन सत्वरं कृतप्रधावनेन, पुनः पुरोयायिना अग्रगामिनाः पुनः राजवल्लभविटवण्ठवर्गे राजप्रियजारमूर्खगणे, स्वादुसलिलनिर्झरणानि मधुरजलस्रोतांसि, सगर्वे साभिमानं, स्वीकुर्वति पानावगाहनार्थमङ्गीकुर्वति सति, कीदृशे ! हठनिराकृत लुण्ठाककी कटप्रायलोके हठेन- बलात् निराकृताःअपसारिताः, लुण्टाकाः- लुण्टनशीला ये कीकटाः- कृपणा दरिद्रा वा, तत्त्रायाः - तत्प्रचुराः, लोकाः -जना येन तादृशे, कीदृशानि ? उपतटप्ररूढप्रौढलवलीलवङ्गकर्पूरपादपानि उपतटं - तटनिकटे, प्ररूढाः- उत्पन्नाः, लवलीनां क्षुदामलकानां चन्दनलतानां वा, लवङ्गानां कर्पूराणां च पादपाः-वृक्षा येषां तादृशानि [ ह ]; पुनः विद्वत्सु विज्ञजनेषु, लतामण्डपान् लतागृहान्, आश्रयत्सु निषेवमाणेषु सत्सु, कीदृशेषु ? भुजङ्गभय परिहृत श्रीखण्डशाखिखण्डेषु भुजङ्गभयेन - सर्पभयेन, परिहृतः-परित्यक्तः, श्रीखण्डशाखिनां - चन्दनवृक्षाणां खण्डः - श्रेणी यैस्तादृशेषु कीदृशान् ? शिखण्डिरुतमुख रितान् मयूरशब्दवाचालितान् पुनः इतस्ततः अत्र तत्र, आमात्यपटसनसु सचिवसम्बन्धिवस्त्रमयगृहेषु, विस्तार्यभाणेषु प्रसार्यमाणेषु सत्सु कीदृशेषु ? पर्यन्तरोपिताङ्कुसंयम्यमानत निनणीकेषु पर्यन्तरोपितेन - प्रान्तनिखातेन, शङ्कुना-कीलेन, संयम्यमानं-नियन्त्रयमाणं, तनीनां - पटविस्तारकरजूनां, नणीकं समूहो येषु तादृशेषु; पुनः सामन्तेषु क्षुदन्नृपेषु,