________________
३०२
टिप्पनक-परागविवृतिसंवलिता इति ब्रुवाणे मयि क्षणमथोमुखः स तूष्णी स्थित्वा जगाद--'युवराज! गम्यते न कश्चिदपि दोषः, दृश्यते च कौतुकमिदम् , किं तु सर्वत एव दुर्गः पर्वतस्यास्य पर्यन्तेषु तोयराशिर्न शक्यते महान्तं यत्नमन्तरेण यानपात्रिकैरवगाहयितुम् ; अत्र हि महाप्रमाणाः संचरन्ति जलचराः, पदे पदे प्रकृतिदुस्तराः प्रवहणानां निवर्तयन्ति गतिमावर्ता:, स्थाने स्थाने शिथिलयन्ति यात्रोत्साहमतिशयोदनास्तटग्रावाणः [] । ईदृशे च निसर्गदुरवतारे नीरधावनवधारित कर्णधारेषु केनापि निरपाये पथि यथावदविभाव्यमानसमानसमविषम् . भागायां विभावर्यामनुक्षणमपेक्षणीयसाहायकेष्वनासन्नवर्तिध्वपरयानपात्रेषु यानमत्यन्तसक्लेशमिति मन्यमानस्य मे मनाङ्मन्दायते चित्तम् , अभिलाषस्तु न केवलं कुमारस्य ममाप्यस्ति गन्तुम् , यतः-पूर्वमप्येकदाऽस्माभिरिहावासितैः श्रुतोऽयमासीदन्यैरपि कर्णधारैरनेकशः कथितमत्र ध्वनेरस्य सामान्येन समुत्थानं न तु विशेषत: यतोऽयं प्रवर्तते यो वास्य प्रवर्तक इति कुतोऽपि विशेषोपलब्धिरुपजाता [ ऋ], इत्यभिहिते तेन समधिकोत्पन्नकौतुकः पुनरवोचम्-'सखे ! यदि तवाप्यभिलाषस्तदलं विलम्बितुम् , उत्तिष्ठ गमननिष्ठो भव,
टिप्पनकम्-यानं गमनम् [ऋ]।
समासन्नदेशप्रभवः अतिनिकटदेशोत्पन्नः, इति ताल-लयविशेषाणां तालशन्दः करतले करास्फोटे कांस्यमयवाद्यभेदे गीतादौ द्वित्रमात्रादिकालक्रियामानादौ च वर्तते, मृत्यगीतवाद्यानामेकतानता लयः, तद्विशेषाणां-तत्प्रकाराणाम् , व्यक्ततयैव स्फुटतयैव, अवगतं निश्चितम् [ ऊ] । मयि, इति अनुपदोक्तप्रकार, अवाणे कथयति सति, सः तारकः, अधोमुखः भवनतवदनः सन् , क्षणं तूष्णीं निःशब्द, स्थित्वा, जगाद् उक्तवान्, किमित्याह-युवराज! गम्यते तदनुसन्धानाय प्रस्थीयते, कश्चिदपि कोऽपि, दोषः आलस्यादिः, न विद्यत इति शेषः, च पुनः, इदं वर्तमानं, कौतुकं उत्सवः, तावक तदन्वेषणोत्सुक्य वा, दृश्यते अनुभूयते, किन्तु परन्तु, सर्वत एव सर्वेष्वेव मार्गेषु, दुर्गः दुरवगाहः, अस्य सुवेलाख्यस्य पर्वतस्य, पर्यन्तेषु प्रान्तेषु, विद्यमान इति शेषः, तोयराशिः समुद्रः, यानपात्रिकैः पौतिकैरपि, महान्तं प्रचुरं, यत्रम् मायासम् , अन्तरेण विना, अवगाहयितुं प्रवेष्टुं, न शक्यते पार्यते; हि यतः, अत्र अस्मिन् समुद्रे, महाप्रमाणाः अतिविस्तृताः, जलचराः जलजन्तवः, सञ्चरन्ति उच्छलन्ति, पुनः पदे पदे स्थाने स्थाने, प्रकृतिदुस्तराः स्वभावतो दुरतिक्रमाः; आवर्ताः अलभ्रमयः, प्रवहणानां पोतानां, गतिं गमनं, निवर्तयन्ति निरुन्धन्ति; पुनः स्थाने स्थाने . प्रत्येकस्थाने, अतिशयोदग्राः अत्यन्तोनताः, तटग्रावाणः तटस्थप्रस्तराः, यात्रोत्साहं प्रयाणोद्यम, शिथिलयन्ति मन्दीकुर्वन्ति [क]। ईदृशे एवंविधे, निसर्गदुरवतारे खभावतो दुरवगाहे, नीरधी समुद्रे, कर्णधारेषु कैवर्तानां मध्ये, केनापि, अनषधारिते अनिर्णीते, निरपाये मिरापरके, पथि मार्गे, यथावत् यथायथम् , अविभाव्यमानसमानसमविषमभागायाम् अविभाव्यमानौ- अनवधार्यमाण, अत एव समानौ-तुल्यौ, समविषमभागौ-समतल-विषमोन्नतभागी यस्यो तारश्या, विभावर्या रात्री, अनुक्षणं प्रतिक्षणम् , अपेक्षणीयसहायकेषु अपेक्षणीयम्-आश्रयणीम् , सहायकसाहाय्यं येषां तादृशेषु, अपरयानपात्रेषु अन्यपोतेषु, अनासन्नवर्तिषु अनिकटवर्तिषु सत्सु, यानं प्र सक्लेशम् अतिक्लेशसाध्यम् , इति मन्यमानस्य बुध्यमानस्य, मे मम, चित्तं हृदयं, मनाक् किञ्चित् , मन्दायते शिथिलायते; गन्तुं प्रस्थातुम् , अभिलाषस्तु वाञ्छा तु, केवलं कुमारस्य भवतः, न न, अपितु ममापि अस्ति वर्तते । यतः यस्माद्धेतोः, एकदा एकस्मिन् काले, पूर्वमपि, इह अस्मिन् स्थाने, आवासितैः निवासितैः, अस्माभिः, अयं ध्वनिः, श्रतः श्रवणगोचरीकृतः आसीत, अन्यैरपि वर्तमानकर्णधारव्यतिरिक्तैरपि. कर्णधारः कैवतैः. अत्र अस्मिन् स्थाने.अस्य प्रकृतस्य, ध्वनेः, सामान्येन अविशेषेण, समुत्थान समुद्रमः, कथितम् उक्तम् , आसीत् , न तु विशेषतः विशेषेण, यतः यस्मात् स्थानात् , अयं ध्वनिः, प्रवर्तते प्रादुर्भवति, वा अथवा, अस्य ध्वनेः, यःप्रवर्तकः प्रादुर्भावक इति, कुतोऽपि कस्मादपि, विशेषोपलब्धिः विशेषपरिचयः, उपजाता अभूत् [ ]। इति इत्थं, तेन तारकेण, अभिहिते उक्ते सति, समधिकोत्पन्नकौतुकः उत्पन्नप्रभुरतरौत्सुक्यः सन्, पुनः अवोचम् उक्तवानहम् , किमित्याह-सखे! भो मित्र ! यदि