SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तिलकमलरी। ३०३ मैकान्ततो विनिपातभीरुर्मश्रीव यात्राभियोगभङ्गार्थमर्थशास्त्रप्रदर्शितेन वर्मना देशकालसहायवैकल्यादीनि कारणान्यकारणमेव दर्शय, सक्लेशमस्तु यदि वा क्लेशरहितम् , अवश्यमेव तावद् गन्तव्यमवगन्तव्यं च गीतध्वनेरस्य तत्त्वम् , अकृतगमनो न तावदधुना प्रयत्नेनापि शक्नोमि चेतसः कुतूहलतरलितस्य त्वराभङ्ग कर्तु, कृत्वापि कृच्छ्रेणावासमुपगतः प्रत्यप्रेण पश्चात्तापहुतभुजा दन्दह्यमानदेहो दिवसमपि न स्वस्थचित्तः स्थास्यामि, प्राप्तनिजभूमेरपि समुद्रवार्तावसरेषु स्मरणमस्योपजायमानं न मे कारणमनणीयसो रणरणकस्य न भविष्यति [ल] । एवं च स्थिते क्लेशोऽपि वरमल्पकालमनुभूतः शरीरेण स्तोको न जीवितावधिर्मनसा महान् शोकः, यदि च निमित्तशास्खं प्रमाणं ततः सोऽपि गच्छतामस्माकमिह नास्ति, सर्वत्र निरपाया प्रमोदहेतुश्च यात्रेयमिति भावय स्वयं तत्त्वदृष्टया, नहि सग्निकृष्टायामापदि दुरुपपादायां च कल्याणसंपदि कदाचिदीदृशी निरातङ्कता त्वरा च चित्तवृत्तेर्भवति, तदलमपायशङ्कया, कुरु स्थिरमस्थान एव भड्डरीभूतं चेतः, चिन्तय प्रस्थानकालोचितं सकलमात्मीयकल्पम् , अर्पय तमस्तिरोहितवस्तुसाक्षात्करणाय रजनीसमयक्षेपणीयमीक्षणयोरञ्जनम् , नियोजयाऽन्ययानपात्रिकासत्तिनिरपेक्षः सहायपक्षे युगायतं निजमेव भुजयुगलम् , अध्य तवापि, अभिलाषः तदन्वेषणैषणा, वर्तत इति शेषः, तत् तर्हि, विलम्बितुं तदन्वेषणे विलम्ब कर्तुम् , भलं व्यर्थम् , उत्तिष्ठ, गमननिष्ठः प्रयाणपरः, भव । मन्त्रीव विनिपातभीरुः अनर्थागमभयान्वितः सन् , यात्राभियोगभङ्गार्थ प्रयाणोद्यमविलोपार्थम् , अर्थशास्त्रप्रदर्शितेन नीतिशास्त्र प्रदर्शितेन, वर्त्मना मार्गेण, देशकालसहायवैकल्यादीनि कारणानि समुचितदेशकालाभावादिप्रयाणप्रतिबन्धहेतून, अकारणमेव अहेतुकमेव, एकान्ततः नियमेन, न दर्शय ब्रूहि । यदि सक्लेशं क्लेशपूर्वकम् , वा अथवा, क्लेशरहितं विनैव क्लेशम् , अस्तु गमनं भवतु, अवश्यं तावत् प्रथम, गन्तव्यं तत्र प्रस्थातव्यम् , च पुनः अस्य भूयमाणस्य, गीतध्वने गानशब्दस्य, तत्त्वं याथातथ्यम् , अवगन्तव्यं निश्चेतव्यम् । अकृतगमनः अविहिततदन्वेषणार्थप्रयाणः, प्रयत्नेनापि महता यत्नेनापि, कुतूहलतरलितस्य तदौत्सुक्याकुलितस्य, चेतसः हृदयस्य, त्वराभङ्गम् औत्सुक्यशान्तिम् , तावदिति वाक्यालङ्कारे, अधुना इदानीं, कर्तुं न, शक्नोमि पारयामिः कृच्छ्रेण क्लेशेन, कृत्वापि कथञ्चन तद्भङ्गं विधायापि, आवासं निजनिवासस्थानम् , उपगतः उपस्थितः सन् , प्रत्यग्रेण अभिनवेन, पश्चात्तापरतभुजा यथावत् तदकरणजन्यानुतापवदिना, दन्दद्यमानदेहः जाज्वल्यमानशरीरः.दिवसमपि दिनमेकमपि. खस्थचित्तः प्रकृतिस्थमनाः, न स्थास्यामि बतिष्ये । प्राप्तनिजभूमेरपि उपगतखराजधानीकस्यापि, मे मम, समुद्रवार्तावसरेषु समुद्रयात्रावृत्तान्तकीर्तनावसरेषु, अस्य गामध्वनेः, स्मरणम् , उपजायमानं प्रवर्तमानं सत्, अमणीयसः अत्यधिकस्य, रणरणकस्य उद्वेगस्य, कारणं, न भविष्यति भविष्यत्येवेत्यर्थः [ल.] । एवं स्थिते च ईदृशस्थितौ तु, शरीरेण अल्पकालं किञ्चित् कालम्, अनुभूतः उपभुक्तः, स्तोका अल्पः, क्लेशोऽपि दुःखमपि, वरम् ईषत्रियम्, किन्तु मनसा अन्तःकरणेन, अनुभूत इति शेषः, जीवितावधि: जीवनपर्यन्तः. शोकः पश्चात्तापः, न वर इति शेषः । यदि च निमित्तशालं शकुनशास्त्र प्रमाणम्, ततः तर्हि, सोऽपि क्लेशोऽपि, इह अस्मिन् मार्गे, गच्छतां प्रतिष्ठमानानाम्, अस्माकं, नास्ति न सम्भवति, सर्वत्र सर्वस्मिन् मा, निरपाया क्लेशरहिता, प्रत्युत प्रमोदहेतुश्च शुभजनिका च, इयं यात्रा, भवेदिति शेषः, इति स्वयं तत्त्वदृष्टया यथार्थधिया, भावय आलोचय, हि यतः, आपदि विपत्ती, सन्निकृष्टायां प्रत्यासन्नायां च पुनः, कल्याणसम्पदि शुभसम्पत्ती, दुरुपपादायां दुरवापायां विप्रकृष्टायामिति यावत् , कदाचित् कदापि, चित्तवृत्तेः मनोवृत्तेः, ईदशी एवं विधा, निरातङ्कता अपायशङ्काशून्यता, च पुनः, स्वरा तदनुसन्धानार्थप्रयाणातुरता, न भवति सम्भवति, तत् तस्मादेतोः, अपायशङ्कया आपत्तिसंशयेन, अलं व्यर्थम् ; अस्थान एव अनवसर एव, भारीभूतम् अपायशङ्कया सम्भ्रान्तं, चेतः अन्तःकरणं, स्थिरीकुरु खास्थ्यमापादय । प्रस्थानकालोचित प्रयाणावसरोचितं यथा स्यात् तथा, सकलं सर्वमपि, आत्मीयकल्पम् आत्मनः कर्त्तव्यविधिः, चिन्तय अवधेहि, पुनः तमस्तिरोहितवस्तुसाक्षात्करणाय निशान्धकारावृतवस्तुविलोकनार्थ, रजनीसमयक्षेपणीयं रात्रिकालेऽपणीयम् , ईक्षणयोः-नेत्रयोः, अजन-संस्कारकद्रव्यम् , अर्पय लगय; अन्ययानपात्रिकासत्तिनिरपेक्षा अन्यपोतप्रत्यासत्यपेक्षारहितः सन् , सहायपक्षे सहकारि
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy