________________
३०४
टिप्पनक- परागविवृतिसंवलिता
वसितस्य ते गोष्पदमदृश्यमानपारः सकलोऽप्यकूपारः, किं पुनश्चक्षुः परिच्छेद्यमहिमा तदेकदेश: ? [ ] इति ब्रुवाणे मयि क्षणं स दोलायमानचित्तः स्थित्वा पुनरवादीत् - 'कुमार! भ्रूक्षेपमात्र व्यापारणीये मयि किमियता वचनविस्तरेण ?, यद्यवश्यमेव गन्तव्यमिति निश्चयस्तन्न कश्चिदपि ते कौतुकप्रतिपन्थी, प्रस्थीयता - मभ्युदयाय, सज्जोऽयमाजन्मनः परिपोषितः सर्वेष्वन्यराजकार्येष्वनुपयुक्त एतावन्मात्रप्रयोजनः प्रेष्यजनः ' इत्यभिधाय प्रणतेन मूर्ध्ना बद्धा नमस्काराञ्जलिमुदन्वते तत्क्षणोपनताभिप्रेतशकुनप्रगुणितमनोवृत्तिः प्रवर्तयामास गमनायासदोलायमानध्वजध्वनितकिङ्किणीनिबद्धोद्धु रविरावां नात्रम्, प्रावर्तयच्च प्राचेतसेन मसृणमसृणमनुसृततूर्य निस्वनो दिक्पथेन [ ए ] | प्रस्थितायां च तस्यां सहसैव स्पन्दिताधरपुटमचिरभाविनमा नन्दमिव मे निवेदयामास दक्षिणं चक्षुः, आश्चर्यदर्शनत्यरयेव सर्वतो विभाव्यमानरम्यरोमोद्भेदमश्वभिव जात्यमनिमित्तमेवारुरोह हर्षप्रकर्षमन्तरात्मा, हृदयप्रसर्पदुद्दामहर्षोत्थापितश्च किञ्चित् सशेषनिद्र इव प्रारभत जृम्भितु - • मायताध्वपरिश्रमप्रसुप्तो गमनोत्साहः [ ऐ ] |
टिप्पनकम् - प्राचेतसेन वारुणेन । मसृणमसृणं मन्दं मन्दम् [ ए ] । सशेषनिद्र इव जृम्भितुं जृम्भां मोक्तुम्, अन्यत्र विकसितुम् [ ऐ] 1
पदे, युगायतं वृषस्कन्धारोप्यशकटाम्यदण्डवद्दीर्घ, निर्जं स्वकीयं, भुजयुगलमेव बाहुद्वयमेव, नियोजय जलचरावर्ततटप्रावादिगमनप्रतिबन्धकापनयनाय स्थापय, अध्यवसितस्य गमनोद्युक्तस्य, ते तव, अदृश्यमानपारः अलक्ष्यमाणचरमाधः, सकलोऽपि समोऽपि, अकूपारः सागरः, गोष्पदं गोपदप्रमाणः, तर्हि चक्षुः परिच्छेद्यमहिमा चक्षुषैव प्रमेयमहत्ताकः, तदेकदेशः सागरैकावयवः, किं पुनः तस्य गोष्पदत्वं किमुतेत्यर्थः [ ] । मयि, इति इत्थं, ब्रुवाणे कथयति सति, सः तारकः, क्षणं क्षणपर्यन्तं, दोलायमानचित्तः गमनागमनानवधारणक्षुब्धहृदयः सन् स्थित्वा मौनमास्थाय पुनः, अवादीत् उक्तवान् किमित्याह- कुमार 1, खूक्षेपमात्रव्यापारणीये भूत्क्षेपात्मक संकेतमात्रप्रवर्तनीये, मय, इयता एतावता, वचनविस्तरेण वागाडम्बरेण किं प्रयोजनमिति शेषः, न किमपीत्यर्थः, यदि अवश्यमेव, किं गन्तव्यं प्रस्थातव्यमिति निश्चयः, अस्तीति शेषः, तत् तर्हि, ते तव, कश्चिदपि कोऽपि कौतुकप्रतिपन्थी गमनाभिलाषप्रतिबन्धी, न वर्तत इति शेषः, अभ्युदयाय मङ्गलाय, प्रस्थीयतां गन्तुमारभ्यताम्, आ जन्मनः जन्मारभ्य, परिपोषितः प्रतिपालितः, सर्वेषु समस्तेषु, अन्यराजकार्येषु राजोचितकार्यान्तरेषु, अनुपयुक्तः अकृतोपयोगः, किन्तु एतावन्मात्रप्रयोजनः एतत्कार्यमात्रोपयोगी, अयं प्रेष्यजनः मृत्यजनः, सज्जः प्रस्थानाय सन्नद्धः, अस्तीति शेषः । इत्यभिधाय इत्युक्त्वा, प्रणतेन अवनतेन, मूर्ध्ना मस्तकेन, उदन्वते समुद्राय नमस्काराञ्जलिं नमस्कारात्मककर सम्पुटं, बद्धा विरचय्य, तत्क्षणोपनताभिप्रेतशकुनगुणितमनोवृत्तिः तत्क्षणोपनतैः- तत्कालोपस्थितैः, अभिप्रेतशकुनैः - अभिमतशुभसूचकवस्तुभिः, प्रगुणितमनोवृत्तिः प्रवर्तितचित्तवृत्तिः सन् गमनाया सदोलायमानध्वजध्वनितकिङ्किणीनिबद्धो दुरविरावां गमनायासेन - गमनवेगेन, दोलायमाने - व्याधूयमाने, ध्वजे - पताकायां, ध्वनिताभिः -- ध्वनिं कुर्वन्तीभिः किडि - णीभिः - क्षुद्रघण्टिकाभिः, निबद्धाः - कृताः, उद्धुराः - उच्चाः, विरावाः- ध्वनयो यस्यां तादृशीं, नावं प्रवर्तयामास प्रेरयामासः च पुनः प्राचेतसेन वरुणस्वामिकेन, पश्चिमेनेत्यर्थः, दिक्पथेन दिङ्मार्गेण, अनुसृततूर्यनिस्वनः अनुसृतः सूर्यस्य - वाद्य विशेषस्य, निखनः- निनादो येन तादृशः, मसृणमसृणं मन्दं मन्दं यथा स्यात् तथा प्रावर्त्तयत् प्रेरितवान्, नावमिति शेषः [ ए ] । च पुनः, तस्यां नावि, प्रस्थितायां गन्तुं प्रवृत्तायां सत्याम्, सहसैव अकस्मादेव, मे मम, स्पन्दिताधरपुरं किञ्चिञ्चलिपुटा कराधराघोभागं, दक्षिणं चक्षुः, अचिरभाविनं शीघ्रभाविनम्, आनन्दं शुभं, निवेदयामास इव सूचयामास इवेत्युत्प्रेक्षा । पुनः आश्चर्यदर्शनस्वरयेव आश्चर्यावलोकनौत्सुक्येनेव, सर्वतः परितः, विभा व्यमानरस्यरामोद्भेदं विभाव्यमानः- लक्ष्यमाणः, रम्यः - मनोहरः, रोमोद्भेदः -- रोमाञ्चो यस्मिंस्तादृशं जात्यं प्रशस्तम्, अश्वमिवेत्युत्प्रेक्षा, अन्तरात्मा अन्तःकरणं, हर्षप्रकर्षे हषोत्कर्षम्, अनिमित्तमेव अकस्मादेव, आरुरोह आरुक्षत् । च पुनः आयताध्वपरिश्रमप्रसुप्तः आयतेन-दीर्घेण, अध्वना-मार्गेण, मार्गगमनेनेति यावत् यः परिश्रमः खेदः, तेन प्रसुप्तः-प्रशयितः, गमनोत्साहः गानध्वनिगवेषणार्थ प्रयाणोत्साहः, हृदयप्रसर्पदुद्दामहर्षोत्थापितः हृदये-अन्तःकरणे,