________________
टिप्पनक - परागविवृतिसंवलिता
7
क्षिप्तविस्मयस्मेरलोचनं तारकमवोचम् — 'सखे ! तारक ! लङ्घितो निर्विघ्नमेवास्माभिरेष जलनिधिशैलान्तरालवर्ती सर्वेद्वीपसांयात्रिकाणाममार्गेौ मार्गः, समाक्रान्ता सुखेन दिव्यजनसंचारपूतेयं भूमिगोचराणामभूमिर्भूमिः, आसादितमिदं सर्वसुन्दर पदार्थानामधिष्ठानं स्थानम्, अवलोकितं लोकत्रयतिलकमेतत् सकलकौतुकानामायतनमायतनम्, सर्वथा पुण्यभाजो वयम् जातं जन्म सफलम्, उत्तिष्ठ तूर्णम्, अनुतिष्ठ सांप्रतं कालोचितं कृत्यम्, उपसृत्य पर्वत नितम्बादितः समाहर प्रत्ययविकसितानि संतानकप्रभृतीनां पुण्यपादपानां कुसुमानि, पानीयं च निर्झरादानय स्वादु, येन संपादितपाणिपादशौचाः प्रविश्य पश्यामः पूजयामश्च भगवन्तमन्तः प्रतिष्ठितमस्य देवतायतनस्य देवम् । अत्र हि विलोकिते साक्षादभ्यर्चिते स्वहस्तेन स्तुते च परमया भक्त्या महार्थाभिः स्तुतिभिरेषा विशेषतो नः फलवती भविष्यति यात्रा' इति [ फ] । स एवमुक्तो विहस्य मां प्रत्यभाषत — 'कुमार ! सर्वं संपाद्यते, किं [तु] पुनरिदं विज्ञापयामि, कथमिह प्रवेष्टव्यं यत्तावदिदमवलोक्यते पुरस्तादस्य गोपुरप्रतिबद्धमम्बरोत्तम्भिना मणिस्तम्भतोरणेन तिरस्कृततरणिरथसंचारं द्वारम्, अनेन योऽवतारः
३२४
प्रासाददर्शनप्रसन्नहृदयम् पुनः रत्नकूटाद्रिकटकदेशेषु रत्नकूटाख्य पर्वतनितम्ब प्रदेशेषु, अनुक्षणक्षिप्तविस्मयस्मेरलोचनम् अनुक्षणं-प्रतिक्षणं, क्षिप्ते-प्रेरिते, विस्मयस्मेरे- आश्चर्य विकखरे, लोचने येन तादृशम् कीदृशेषु तेषु ? अदृश्यमानुषप्रचारेषु अदृश्य मनुष्य गमनागमनेषु पुनः मदमत्त विविधपक्षिकुलबद्धकोलाहलेषु मदमत्तैः - मदान्वितैः, विविधपक्षिकुलैः--नानाविधपक्षिगणैः, बद्धः - निरन्तरं कृतः, कोलाहलो येषु तादृशेषु, पुनः नित्यविकच देवद्रुमवनामोदवासितदिक्षु नित्यम् - अनवरतं, विकचाः पुष्पिताः, ये देवद्रुमाः - देववृक्षाः, तद्वनसम्बन्धिना, आमोदेन - अत्युत्कृष्ट सौरभेय, वासिताः- सुरभिताः दिशो यैस्तादृशेषु । किमवोचदित्याह - सखे ! मित्र 1, तारक !, जलनिधिशैलान्तरालवर्ती समुद्रपर्वतमध्यवर्ती, सर्वद्वीपसांयात्रिकाणां सर्वेषां द्वीपमार्गेण पौतिकानाम्, अमार्गः अगम्यः, एष मार्गः, निर्विघ्नमेव, लङ्घितः अतिक्रान्तः । पुनः दिव्यजनसञ्चारपूता दिव्यानां दिवि खर्गे भवानां जनानां, सञ्चारेण प्रचारेग, पूतापवित्रिता, भूमिगोचराणां भूतलवर्तिनाम्, अभूमिः संचाराविषयभूता, इयं, भूमिः पृथ्वी, सुखेन आनन्देन, समाक्रान्ता समधिष्ठिता । पुनः सर्व सुन्दरपदार्थानाम् अशेषमनोहरवस्तूनाम्, अधिष्ठानं क्षेत्रभूतम् इदं स्थानं, समा सादितं प्राप्तम्, पुनः लोकत्रयतिलकं त्रिभुवनश्रेष्ठं, सकलकौतुकानाम् अशेषोत्सवानाम्, अशेषाश्चर्याणां वा, आयतनम् आस्पदम् एतत्, आयतनं प्रासादः, अवलोकितं दृष्टम् । वयं सर्वथा सर्वप्रकारेण पुण्यभाजः पुण्यवन्तः, स्म इति शेषः । जन्म अस्माकम् उत्पत्तिः, सफलं सार्थकं जातम् अभूत् । तूर्ण शीघ्रम्, उत्तिष्ठ व्याप्रियख । सांप्रतम् अधुना, कालोचितम् एतत्कालयोग्यं कृत्यं कार्यम्, अनुतिष्ठ कुरु । इतः अस्मात् पर्वतनितम्बात् पर्वतमध्यभागात्, अपसृत्य बहिर्गत्वा प्रत्यनविकसितानि अचिरविकसितानि सन्तानकप्रभृतीनां सन्तानकादीनां पुण्यपादपानां पुण्यवृक्षाणां दिव्यवृक्षाणामिति यावत्, कुसुमानि पुष्पाणि, समाहर सचिनु च पुनः निर्झरात् प्रवाहात्, स्वादु मिष्टं, पानीयं जलम् आनय, येन पानीयेन, सम्पादितपाणिपादशौचाः कृतहस्तपादप्रक्षालनाः सन्तः प्रविश्य प्रकृतायतनाभ्यन्तरं गत्वा, भगवन्तम् ऐश्वर्यशालिनम् अस्य देवतायतनस्य देवमन्दिरस्य, अन्तः प्रतिष्ठितं मध्ये प्रतिष्ठितं देवं पश्यामः दृष्टिगोचरीकुर्मः च पुनः, पूजयामः आराधयामः, हि यतः, अत्र अस्मिन् देवे, साक्षात् प्रत्यक्षरूपेण, विलोकिते दृष्टे सति, पुनः स्वहस्तेन निजकरेण, अभ्यर्चिते सम्यक् पूजिते सति, च पुनः, परमया उत्कृष्टया, भक्त्या श्रीया, महार्थाभिः उत्कृष्टार्थाभिः स्तुतिभिः स्तोत्रैः, स्तुते सति एषा इथं, नः अस्माकं यात्रा, विशेषतः अत्यन्तं फलवती सफला भविष्यति, इति [ फ] | एवम् अनेन प्रकारेण उक्तः कथितः, सः तारकः, विहस्य विशेषेण हसित्वा, मां प्रत्यभाषत प्रत्युक्तवान् किमित्याह -कुमार । सर्वे भवदुपदिष्टं समस्तं कार्य, सम्पाद्यते अनुष्ठीयते, किं किन्तु, इदं पुनः, विज्ञापयामि आवेदयामि, इह अस्मिन् आयतने, कथं केन प्रकारेण, प्रवेषव्यं प्रवेष्टुं शक्यम्, अस्य आयतनस्य, पुरस्ताद् अग्रे, गोपुरप्रतिबद्धं पुरद्वारावृतम्, अम्बरोत्तम्भिना