________________
तिलकमञ्जरी ।
३२५
स दूरमुभयतः प्रसृतेन टङ्कच्छिन्नपर्वतकटकसङ्गिना प्राकारेणैव वारितः, यानि त्वस्य पार्श्वतः संभवन्ति प्रतोलिकासु क्षुद्रद्वारकाणि तान्यपि नभस्तलनिर्विशेषभित्तेरस्यैव प्राकारस्य प्रकर्षप्राप्तेन स्वच्छतागुणेन दुरुपलक्ष्यतां नीतानि, तदेतदधुना प्राप्तकालम् - अत्रैव स्थिताः प्रतिपालयामः क्षणमात्रं, यावदस्माद् देवतायतनात् कोऽपि भूगोचरः खेचरो वा निर्याति, योऽस्मभ्यमस्मिन्नवतरणमार्गमुपदिशति, अस्य चावश्यमभ्यन्तरे केनापि भवितव्यम् अचिरनिर्वृत्तयात्रोत्सवं हीदमुद्भाव्यते लिङ्गैः तथाहि--अत्र तुङ्गत्वादधिकसंसृज्यमानसमीरणेष्वपि द्वारतोरणेषु सान्द्ररुचयश्चन्दनप्रवालवन्द नमालाः, प्रत्यग्ररचिताभिश्चीनांशुकपताकाभिः पल्लवितशिखराणि चामीकरचऋदोलायात्राणि [ब], गुणनिकाप्रासादस्य च पृष्ठवेदिकायामिन्द्रनीलमय्यामासादितप्रकटपरभागानि पिशुनयन्ति वारसुन्दरीवृन्दस्य रासविभ्रमभ्रमणमभिनवमम्लानयावकपङ्काङ्कानि पदमुद्रापरिपाटिमण्डलानि, सततमास्फालितानां च वादित्राणामारवेण विद्रावितानि त्रासात् समासन्नतरुशाखाशिखासु कृतस्थितीनि नाद्यापि निकटीभवन्ति शिखरायकोटर कुलायशायीनि पारापतपतत्रिकुलानि,
टिप्पनकम् - प्रकटपरभागानि प्रकाशितशोभानि । प्रततं विस्तीर्ण सन्ततं वा । कुलायः - पक्षिगृहम् । चञ्चर्यमाणानि अत्यर्थं गच्छन्ति, व्यात्युक्षीं परस्परसेचनम् [भ] |
गगन मण्डलावरोधिना, मणिस्तम्भतोरणेन मणिमय स्तम्भावलम्बि बहिर्द्वारेण, तिरस्कृततरणिरथसञ्चारं तिरस्कृतःनिवारितः, तरणिरथसञ्चारः -सूर्यरथप्रचारो येन तादृशम्, यत् यतः, तावद् वाक्यालङ्कारे, इदं द्वारं निरुतायतन प्रवेशनिर्गमस्थानम्, अवलोक्यते दृश्यते । अनेन द्वारेण यः, अवतारः प्रवेशः, स दूरं दूरपर्यन्तम् उभयतः भागद्वये, प्रसृतेन विस्तृतेन, टङ्कच्छिन्नपर्वतकटकसङ्गिना टङ्केन- तक्षणशलाकया, छिन्नं नष्टं यत् पर्वतकटकं - पर्वत नितम्बः, तत्सङ्गिना- तत्सङ्गतेन, प्राकारेणैव वारितः अवरुद्धः । अस्य द्वारस्य, पार्श्वतः पार्श्वे, प्रतोलिकासु रथ्यासु, यानि तु क्षुद्रद्वारकाणि लघुद्वाराणि, सम्भवन्ति सम्भावनागोचरीभवन्ति, तान्यपि, नभस्तल निर्विशेषभित्तेः गगनतलाविशेषकुड्यस्य, अस्यैव प्राकारस्य, प्रकर्षप्राप्तेन उत्कर्षमापन, स्वच्छतागुणेन उज्ज्वलतागुणेन, दुरुपलक्ष्यतां दुःखेनोपलक्षणीयतां, नीतानि प्रापितानि । तस् तस्माद्धेतोः, अधुना, एतत् इदमेव कार्य, प्राप्तकालं प्राप्तावसरं वर्तत इति शेषः, यत्, अत्रैव अस्मिन्नेव स्थाने, स्थिताः सन्तः, क्षणमात्रं, प्रतिपालयामः प्रतीक्षामहे, यावत् अस्मात् प्रत्यक्षभूतात् देवतायतनाद् देवमन्दिरात्, कोऽपि भूगोचरः भूमिवास्तव्यः, मानव इत्यर्थः, खेचरो वा देवो वा, निर्याति निर्गच्छति, यः, अस्मभ्यम्, अस्मिन् आयतने, अवतरणमार्ग प्रवेशमार्गम्, उपदिशति उपदेश्यति च पुनः अस्य आयतनस्य, अभ्यन्तरे मध्ये, केनापि, अवश्यं निश्चितं भवितव्यं भवितुं स्थातुमुचितम् । हि यतः, लिङ्गैः वक्ष्यमाणलक्षणैः, इदम् आयतनम् अचिरनिर्वृत्तयात्रोत्सवम् अचिरं - शीघ्रमेव, निर्वृत्तः - सम्पन्नः, यात्रोत्सवः - लोकयात्राप्रयुक्त उत्सवो यस्मिंस्तादृशम् उद्भाव्यते प्रत्याय्यते । तथाहि अत्र अस्मिन् आयतने, तुङ्गत्वात् उच्चत्वात्, अधिकसंसृज्यमान समीरणेष्वपि अधिकं यथा स्यात् तथा, संसृज्यमानः संश्लिष्यमाणः, समीरणः - पवनो येषु तादृशेध्वपि, द्वारतोरणेषु द्वारप्रदेशवर्तिबहिर्द्वारेषु, सान्द्ररुचयः अमन्दद्युतयः, चन्दनप्रवाल वन्दनमालाः चन्दनपल्लवमयद्वारपूजाङ्गमालाः पुनः प्रत्यग्ररचिताभिः अभिनवनिर्मिताभिः, चीनांशुकपताकाभिः चीन देशीय सूक्ष्मवस्त्रपताकाभिः पल्लवितशिखराणि व्याप्तोर्ध्वदेशानि चामीकरचक्रदोलायन्त्राणि सुवर्णसमूहमयान्दोलनयन्त्राणि [ब] । च पुनः, गुणनिकाप्रासादस्य नृत्यगृहस्य इन्द्रनीलमय्यां मरकतमणिमय्यां, पृष्ठवेदिकायां पृष्ठवर्तित्रेयाम्, आसादितप्रकट परभागानि प्राप्तस्फुटोत्कर्षाणि, अम्लानयावकपङ्काङ्कानि उज्जवलालक्तकद्रवचिह्नितानि, पदमुद्रापरिपाटिमण्डलानि चरणप्रतिकृतिपरम्परापटलानि, वारसुन्दरीवृन्दस्य वेश्यागणस्य, अभिनवं नवीनं, रासविभ्रमभ्रमणं रासविभ्रमेण-नृत्यलीलया, भ्रमणं, पिशुनयन्ति सूचयन्ति । च पुनः सततं विस्तीर्ण संततं वा, आस्फालितानाम् आहतानां वादित्राणां वाद्यानाम्, आरवेण ध्वनिना विद्रावितानि अपसारितानि पुनः त्रासात् भयाद्धेतोः,