________________
२२८
टिप्पनक-परागविवृतिसंवलिता विप्रलब्धेन कृतमुखालोकम् , हराट्टहासद्युतिहासिना दूरमुल्लसितेन हारप्रभावलयेन वक्षःस्थलनिवासिन्याः श्रियः क्षीरोदमिव दर्शयन्तम् , अतिबहलकेयूरपद्मरागांशुरञ्जितैश्चिरप्ररूढैरपि सरसैरिवारिशस्त्रप्रहारैः स्थपुटितोर:स्थलम् , तरुणतामरसताम्रतलस्य सविलासं प्रेङ्खतः पाणियुगलस्य विसर्पन्तीभिर्धवलनखदीधितिभिरम्बुधाराभिरिव सावष्टम्भचरणपातभरपीडितामुक्षन्तं क्षितिं क्षितिपतिः समरकेतुमद्राक्षीत् [इ]। दृष्ट्वा च संमुखचलितवदनो वारंवारमादरप्रणिहितप्रसादादृष्टिरासन्नसर्पिणा महाप्रतीहारेण कारितप्रणाममादरप्रणतिलग्नकुट्टिमोपहारकुसुमकिञ्जल्कशारीकृतशिरोरुहमे हीति दूरादेवाह्वयत् । उपसृत्य चरणान्तिके भूयः कृतप्रणामं च प्रेम्णातिदूरं प्रसारिताभ्यां भुजाभ्यामाकृष्याङ्कमारोपयत् । आश्लिष्टमुक्तं च तं विनयादनातससंभ्रमाधिकृतढौकितविकटवेत्रासनमासन्नोपविष्टमुन्नमितपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा निरीक्ष्य साचीकृतशिरोधरः
मेहास्पदेन खभावतो मसृणेन वा, कर्णपूरमौक्तिकस्तबकेन कर्णाभरणभूतमौक्तिकगुच्छेन, कृतमुखालोकं कृतः, मुखस्य, आलोक:-प्रकाशो यस्य तादृशम् , केनेव ! कुमारशब्दविप्रलब्धेन कुमारशब्देन-"पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः" इत्यादिकोशेषु कार्तिकेयपर्यायतया पठितेन समरकेतुबोधकेन शब्देन, निपलब्धेन-वपुत्रप्रत्यायनेन प्रतारितेन, कृत्तिकापुजेनेव पुत्रवात्सल्यादागतेन कार्तिकेयमातृभूतकृत्तिकास्यतारागगेनेवः पुनः हराट्टहासद्युतिहासिना हरस्यशिवस्य, योऽहासः महाहासः, तदीयद्युतिहासिना-तदीयकान्तितिरस्कारिणा, पुनः दूरमुल्लसितेन दूर यावदुद्भासितेन, हारप्रभावलयेन हारद्युतिमण्डलेन, वक्षःस्थलनिवासिन्याः उपास्यतया हृदयदेशवर्तिन्याः, श्रियः लक्ष्म्याः, क्षीरोदमिव क्षीरसागरमिव, दर्शयन्तं दर्शनेन प्रत्याययन्तम् । पुनः अतिबलकेयूरपारागांशुरञ्जितैः अतिबलैः-अतिप्रचुरैः, केयूरपदरागांशुभिः-केयूरस्थ-बाहुभूषणस्य, यः पद्मरागः-तदाख्यरक्तमणिविशेषः, तस्य अंशुभिः-किरणैः रञ्जितैः, रक्ततामापादितः, अतः चिरप्ररूढैरपि चिरकालोपजातैरपि, शुष्करपीत्यर्थः, सरसैरिव आरिव, अरिशस्त्रप्रहारैः शत्रुशस्त्रधातैः, स्थपुटितोरस्थालं स्थपुटितं-निनोमतीकृतम्, उरःस्थल-वक्षःस्थलं यस्य तादृशम् , पुनः तरुणतामरसताम्रतलस्य तरुणपरिणतम् , यत् तामरसं-रक्तपद्मम् , तद्वत् ताम्र-रतं, तलं-चपेटं यस्य तादृशस्य, सविलासं विलासपूर्वकं यथा स्यात् तथा, प्रेतः प्रचलतः, पाणियुगलस्य हस्तद्वयस्य, विसर्पन्तीभिः प्रसरन्तीभिः, धवलनखदीधितिभिः खच्छनखकिरगैः, अम्बुधाराभिरिव जलधाराभिरिव, सावष्टम्भचरणपातभरपीडितां सावष्टम्भस्य-साक्रमणस्य, चरणपातस्य-पादारोपणस्य, भरेण-भारेण, पीडितां-व्यथिताम् , क्षिति पृथवीम् , उक्षन्तं सिञ्चन्तम् , सेचनेन तत्पीडामपनयन्तमित्यर्थः [इ]। च पुनः, दृष्ट्वा तं दृष्टिगोचरीकृत्य, सम्मुखचालितवदनः तदभिमुखीभूतमुखः, वारंवारम् असकृत् , भादरप्रणिहितप्रसादाद्रदृष्टिः आदरेण-प्रीत्या, प्रणिहिता-समारोपिता, प्रसादाा-प्रसादेन-प्रसन्नतया, आर्द्रा-सरसा, दृष्टियेन तादृशः, आसनसर्पिणा पार्श्वगामिना, महाप्रतीहारेण प्रधानद्वारपालेन, कारितप्रणामं कारितनमस्कारम् , पुनः आदरप्रणतिलग्नकुट्टिमोपहारकुसुमकिञ्जल्कशारीकृतशिरोरुहम् आदरेण या प्रणतिः, तया लग्नः-सम्पृक्तः, कुट्टिमस्य-मणिबद्धप्रदेशस्य, उपहारभूताना-प्राभूतभूतानाम् , कुसुमाना-पुष्पानाम्, किजल्क:-केसरैः, शारीकृताः-चित्रिताः, शिरोरुहा:-केशा यस्य तादृशम् , समरकेतुमिति शेषः, पहि एहि आगच्छ आगच्छति, दुरादेव दूरत एव, आयत् आहूतवान् । च पुनः, चरणान्तिके चरणसमीपे, उपसृत्य आगत्य, भूयः पुनः, कृतप्रणाम कृतनमस्कारम् , तमिति शेषः, प्रेम्णा स्नेहेन, अतिदूरम् अत्यन्तदूरपर्यन्तम् , प्रसारिताभ्यां विस्तारिताभ्याम् , भुजाभ्यां-बाहुभ्याम् , आकृष्य गृहीत्वा, अङ्क क्रोडम् , आरोपितवान् तत्र स्थापितवान् , च पुनः, आश्लिष्टमुक्तं पूर्वमाश्लिष्टम्-आलिङ्गितम् , पश्चान्मुक्तं त्यतम् , विनयात् नम्रभावात् , अनादृतससम्भ्रमाधिकृतढौकितविकटवेत्रासनम् अनाहतं-तिरस्कृतं त्यक्तमिति यावत् , ससम्भ्रम-सत्वरम्, अधिकृतेन-नियुक्तजनेन, दौकितम्-आनीतम्, विकट-विशालम्, वेत्रासन-वेत्ररचितमूर्खासन येन तादृशम् । आसन्नोपविष्टं पार्वोपविष्टम् , तं समरकेतुम्, उन्नमितपक्ष्मणा उन्नमितमू-उद्धृतम्, पक्ष्म-नयनोपरितनरोमराजिर्यस्य तादृशेन, उम्मीलिवेनेत्यर्थः, निश्चलनिबद्धलक्ष्येण निश्चलं-निर्निमेषं यथा स्यात् तथा, निबद्धमिजरदिमना नियन्त्रितम्, लक्ष्य-दृश्यं येन तादृशेन, चक्षुषा नेत्रेण, निरीक्ष्य अवलोक्य, साचीकृतशिरोधरस