________________
तिलकमञ्जरी।
२२७ तच्छ्रुत्वा नरपतिरासन्नवर्तिनमत्युदारवेषं साकारवपुषमभ्यर्हितमशेषस्यापि परिग्रहस्य महत्सु कार्येषु व्यापारणीय हरदासनामानं महाप्रतीहारमाकारणाय तत्क्षणमेव तस्य प्राहिणोत् । स गत्वा सपरिवारस्तदायासे कृतसमुचितोपचारो बहुप्रकारोपवर्णितनरेन्द्रानुरागनिर्वृतं कृताञ्जलिपुटस्तं राजकुलमानिनाय, प्रावेशयञ्च दर्शितप्रश्रयातिरेकोऽभ्यन्तरम् [आ]। प्रविष्टं च तं धृतविदग्धोज्जवलवेषकतिपयाप्तपदातिपरिवृतम् , आलोकनोपजातसंक्षोभसरभसापसृतेन द्वारवर्तिना राजलोकेन दीयमानमार्गम् , अग्रयायिना विनयपेशलालापेन दौवारिकजनेनागम्यमानम् , आत्मप्रतिबिम्बकैरिव समानरूपैः समानवयोभिः समानवसनालङ्कारधारिभिरव्यभिचारिभिः प्रधानराजपुत्रैः परिवृतम् , उपान्तप्ररूढकल्पपादपविटपमिव नवपारिजातपोतम् , दिगन्तरव्यापिना कुवलयदलश्यामलेन वदेहप्रभासंतानेन तिरोहितसर्वाकारम् , अम्बुराशिजलमध्यवर्तिनं मैनाकमिव विभाव्यमानम् , अनवरतमुन्मिषता निसर्गस्निग्धेन कर्णपूरमौक्तिकस्तवकेन कृत्तिकापुञ्जेनेव कुमारशब्द
इत्यर्थः, निवेशितशिबिरः रचितसैन्यावासः, तिष्ठति वर्तते । देवः भवान् , यदैव यस्मिन्नैव काले, प्रसीदति वर्तमान समीपे भविष्यति, प्रसन्नो भवेत् , तदैव तस्मिन्नेव काले, दर्शनं करोति कुर्यात् । तत् तदुक्तम् , श्रुत्वा श्रवणगोचरीकृत्य, नरपतिः मेघवाहनः, तत्क्षणमेव तत्कालमेव, तस्य नृपकुमारस्य, आकारणाय-आह्वानाय, हरदासनामानं सत्संज्ञकम् , महाप्रतीहारं प्रधानद्वारपालम् , प्राहिणोतु प्रेषितवान् । कीदृशम् ? आसन्नवर्तिनं पाश्ववर्तिनम् , पुनः अत्युदारवेषम् अत्युज्वलवेषम् । पुनः साकारवपुषम् आकारेण-मनोहरावयवसंस्थानेन सहितम्, वपुः-शरीरं यस्य तादृशम् , शरीरे साकारत्वस्य नियतत्वेनात्रोपादानसामर्थ्यादाकारपदस्य सुन्दराकारपरत्वं बोध्यम् ; पुनः अशेषस्यापि समग्रस्थापि, परिग्रहस्य परिजनस्य, अभ्यर्हितं माननीयम्; पुनः महत्सु असाधारणेषु, कार्येषु, व्यापारणीयं नियोज्यम् । स हरदासः, सपरिवारः परिजनसहितः, तदापासे तृपकुमारावासे, गत्वा उपस्थाय, कृतसमुचितोपचारः कृतः-अनुष्ठितः, समुचितः-योग्यः, उपचारः-सेवा येन तादृशः सन् , बहुप्रकारोपवर्णितनरेन्द्रानुरागनिर्वृतं बहुभिः प्रकारैः उपवर्णितेन-व्याख्यातेन, नरेन्द्रस्य मेघवाहननृपतेः, अनुरागेण-प्रेम्णा, निर्वृतं-प्रसन्नम् , तं नृपकुमारम् , कृताञ्जलिपुटः रचिताजलिपुटः, राजकुलं मेघवाहनराजधानीम् , तपार्श्वमित्यर्थः, आनिनाय आनीतवान् । च पुनः, दर्शितप्रश्रयातिरेकः प्रकटितप्रेमातिरेकः, अभ्यन्तरं राजगृहाभ्यन्तरम् , प्रावेशयत् प्रवेशितवान् [आ]। प्रविष्टं कृताभ्यन्तरप्रवे. शम् , तं प्रकृतम् , समरकेतुं तन्नामक नृपकुमारम् , क्षितिपतिः मेघवाहनो नृपः, अद्राक्षीत् दृष्टवान् । कीदृशम् ? धृतविदग्धोज्वलवेषकतिपयाप्तपदातिपरिवृतं धृतः-परिहितः, विदग्धः-मनोहरः, उज्वलः-निर्मलश्च, वेषो यस्तादृशैः, कतिपयैः परिगणितैः, आतैः विश्वस्तैः, पदातिभिः-पदगामिभिः, परिवृतं-परिवेष्टितम् । पुनः आलोकनोपजात. संक्षोभसरभासापसृतेन आलोकनेन-समरकेतोरवलोकनेन, उपजातः-उत्पन्नः, यः संक्षोभः-सम्भ्रमस्तेन सरभसापसृतेन सरभसं-सत्वरम् , अपमृतेन-पृथग्भूतेन, द्वारवर्तिना द्वारदेशस्थेन, राजलोकेन नृपजनेन, दीयमानमार्ग दीयमानःरितीक्रियमाणो मार्गो यस्य तादृशम् । पुनः अग्रयायिना अग्रगामिना, विनयपेशलालापेन विनयेन-नम्रतया, पेशल:रमणीयः, आलापः-आभाषणं यस्य तादृशेन, दौवारिकजनेन द्वारपालजनेन, आगम्यमानं मेघवाहनपा अनुगम्यमानमिति पाठे अनुस्रियमाणम् ; पुनः आत्मप्रतिबिम्बकैरिव खप्रतिविम्बभूतैरिव, समानरूपैः तुल्याकारः, समानवयोमिः तुल्यावस्थाकैः, समानवसनालङ्कारधारिभिः तुल्यवनालङ्कारशालिभिः, अव्यभिचारिभिः नियतसहचारिभिः, प्रधानराजपुत्रैः मुख्यनृपकुमारैः, परिवृतं परिवेष्टितम् ; पुनः उपान्तप्ररूढकल्पपादपविटपम् उपान्ते-निकटे, प्ररूढा-उत्पन्नाः, कल्पपादपस्य-कल्पवृक्षस्य, विटपा:-शाखा यस्य तारशम्, नवपारिजातपोतमिव नवंनवीनम् , पारिजातस्य-तदाख्यदेवतरोः, पोतं-शिशुमिव, बालपारिजातमिवेत्यर्थः, अत्र राजपुत्राणां कल्पवृक्षशाखात्वेन समरकेतो लपारिजासत्वेनोस्प्रेक्षा बोध्या; पुनः स्वदेहप्रभासन्तानेन खशरीरकान्तिकलापेन, तिरोहितसर्वाकारं तिरोहितसर्वावयवम् , कीदृशेन ? दिगन्तरव्यापिना दिङ्मध्यव्यापिना, पुनः कुवलयदलश्यामलेन कुमुदपत्रवत् कृष्णवर्णेन, पुनः अम्बुराशिजलमध्यवर्तिनम् अम्बूनां-जलानाम् , राशिः-समुद्रः, तजले मध्यवर्तिनम्, मैनाकमिव तदाख्य पर्वतमिव, विभाव्यमानं प्रतीयमानम् । पुनः अनवरतं निरन्तरम् , उन्मिषता उद्गच्छता, निसर्गस्निग्धेन स्वाभाविक