________________
२२६
टिप्पनक-परागविवृतिसंवलिता मनन्तरातीतायां विभावयमिह नगर्यां प्रविष्टः । दृष्टं चाद्य पुण्योदयेन चिरकालाभिकासितदर्शनं चरणकमलद्वयं देवस्य, एतां च दिव्याङ्गुलीयकप्रभावावेदनप्रसङ्गागतामवनिपतिराकर्ण्य विजयवेगतो वज्रायुधसमरकेतुसमरवार्तामास्थानवर्तिना नरपतिसमूहेन सहितः परं विस्मयमगच्छत् । अव्याजशौर्यावर्जितश्च न तथा लब्धविजये सुहृदि बज्रायुधे यथा विपक्षे समरकेतौ बबन्ध पक्षपातम् । तथाहि-अस्य चिन्तयन्नचिन्तितात्मपरसैन्यगुरुलाघवां मनस्विताम् , विभावयन्नेकरथेन कृतमहारथसमूहमध्यप्रवेशां साहसिकताम् , विचारयन् विधृतपौरुषप्रकर्षमरातिपरिभाषणेष्वरोषपरुषमालापविभ्रमम् , अवधारयन्ननादरनिरस्त्रीकृतनिखिलपरचक्रनायकं सायकव्यापारमतिचिरमतिष्ठत् । अनुरागतरलितश्च तत्रैव गत्वा तं द्रष्टुमिव परिष्वमिव संभाषयितुमिवाभ्यर्चितुमिव स्वपदेऽभिषेक्तुमिव चेतसा भिलषितवान् , दर्शनोत्सुकश्च पुनरवोचत्'विजयवेग! कास्ते स सिंहलेश्वरसूनुः कदा च सोऽस्मान् द्रक्ष्यति । स जगाद-'देव ! स शक्रावतारोद्यानसंनिधिरमणीये सरय्वाः परिसरे निवेशितशिबिरस्तिष्ठति । दर्शनं तु यदैव देवः प्रसीदति तदैव करोति ।
शूद्राणां वास एव वा ॥" इत्यन्यत्रोक्तलक्षणाः, जनपदा:-देशाच येन- तादृशः, अस्यां हृदि वर्तमानायाम् , अनन्तरातीतायाम् अव्यवहितपूर्वव्यतीतायाम् , विभावर्या रात्रौ, इह अस्थां, मगर्याम् अयोध्यायाम् , प्रविष्टः कृतप्रवेशोऽभूवम् । च पुनः, पुण्योदयेन सुकृतविपाकेन, चिरकालाभिकाशितदर्शनं चिरकालं-दीर्घकालम् , अभिकाक्षितम्-अभिलषितम् , दर्शनं यस्य तादृशम् , देवस्य भवतः, चरणकमलद्वयं पादपद्मयुगलम् , अद्य अस्मिन् दिने, दृष्टं दृष्टिगोचरीकृतम् । अवनिपतिः मेघवाहननृपतिः, दिव्याङ्गुलीयकप्रभावावेदनप्रसङ्गागतां दिव्यं-मनोहरम यद् अङ्गुलीयकं-लक्ष्मीदेवीदत्तमगुलिभूषणम् , तत्प्रभावावबोधनप्रसङ्गेनोत्थिताम् , एताम् इमाम् , वज्रायुध-समरकेत
माख्यायिकाम् , विजयवेगतः तदाख्यवज्रायुधप्रधानपुरुषात्, आकर्ण्य श्रुत्वा, आस्थानवर्तिना सभावर्तिना, नरपतिसमूहेन राजगणेन, सहितः, परम् अत्यन्तम् , विस्मयम् आश्चर्यम् , अगच्छत् प्राप्तवान् । च पुनः, अन्याजशौर्यावर्जितः अव्याजेन-कपटरहितेन, वास्तविकेनेत्यर्थः, शौर्येण--वीर्येण, आवर्जितः-आह्लादितः सन् , लब्धविजये प्राप्तविजये, सुहृदि मित्रे, वज्रायुधे तदाख्यसेनापतौ, तथा तादृशम् , पक्षपातं प्रीतिम् , न बबन्ध कृतवान् , यथा यादृशम् , विपक्षे शत्रावपि, समरकेतौ तदाख्यनृपकुमारे । शौर्यमुपदर्शयति-तथाहीति । अस्य समरकेतोः, अचिन्तितात्मपरसैन्यगुरुलाघवाम् अचिन्तिते-अनालोचिते, आत्मपरसैन्ययोः-खसैन्य-शत्रसैन्ययोः. गुरुलाघवे-बलाबळे यया तादृशीम्, मनखितां खाभिमानिताम् , चिन्तयन् विचारयन् ; पुनः एकरथेन एकेनैव रथेन, कृतमहारथसमूहमध्यप्रवेशां कृतः, महारथानां-विशालरथानाम् , समूहस्य मध्ये प्रवेशो यया तादृश्चीम् , साहसिक
रकमेकारिताम्, विभावयन् निरूपयन् पुनः अरातिपरिभाषणेषु रिपुजनकर्मकाहानविषयेषु, विधता पौरुषप्रकर्ष विधृतः-व्यजयविधया आश्रितः, आविष्कृत इत्यर्थः, पौरुषप्रकर्षः-पराक्रमोत्कर्षो येन तादृशम् , पुनः अरोषपरुषं रोषजन्यपारुष्यरहितम् , आलापविभ्रमम् आभाषणविलासम्, विचारयन् आलोचयन् । पुनः अनादरनिरस्त्रीकृतनिखिलपरचक्रनायकम् अनादरेण-तिरस्कारेण, निरस्त्रीकृताः-अनशून्यतामापादिताः, परचक्रस्य-शत्रुराष्ट्रस्य, नायका येन तादृशम् , सायकव्यापारं बाणविक्षेपम् , अवधारयन् निश्चिन्वन् ; अतिचिरम् अतिदीर्घकालम् , अतिष्ठत स्थितवान् । च पुनः, अनुरागतरलितः अनुरागेण-प्रीत्या, तर लितः-चञ्चलतापनः, तत्रैव यत्र समरकेतुरासीत् तस्मिनेव स्थाने, गत्वा, तं समरकेतुम् , द्रष्टुमिव निरीक्षितुमिव, पुनः परिष्वङ्गमिव आलिङ्गितुमिव, पुनः सम्भाषयितुमिव आलापयितुमिव, पुनः अभ्यर्चितुमिव अभिपूजयितुमिक, स्वपदे स्वाधिष्ठितराज्यासने, अभिषेक्तुमिव अभिषेकं कर्तुमिव, चेतसा हृदयेन, अभिलषितवान् अभिलषति स्म । च पुनः, दर्शनासुका दर्शनार्थमुत्कण्ठितः सन् , पुनः भूयोऽपि, अवोचत् उक्तवान् , विजयवेग! भो विजयवेग!, सः त्वयेहानीतः, सिंहलेश्वरसूनुः सिंहलद्वीपतृपकुमारः, व कुत्र स्थाने, आस्ते तिष्ठति, कदा कस्मिन् काले, सः तृपकुमारः, अस्मान् , द्रक्ष्यति दृष्टिगोचरीकरिष्यति । स विजयवेगः, जगाद प्रत्युक्तवान् । किमित्याह-देव! राजन् !, शक्रावतारोधानसन्निधिरमणीये शक्रावतारस्य-तदाख्यतीर्थविशेषस्य, यद्यानम्-आरामः, तत्सनिधिना-तत्सामीप्येन, रमणीये-मनोहरे, सरय्वा: सरयूनद्याः, परिसरे प्रान्ते, तटप्रदेश