________________
तिलकमञ्जरी ।
२२३
वितीर्णकुसुमविलेपनवसनालङ्कारमुपनीत विविधव स्त्रवाहनं प्रत्यर्पिताहवगृहीतनिःशेषकरितुरङ्गस्यन्दनं च विधाय विनोद्य च मुहूर्तम रतिच्छेदकारिभिः कथालापैरभिमुखो भूत्वा कृताञ्जलिरवादीत्--- 'कुमार ! सकलजगदेकवीरस्य करदीकृताशेषसागरान्तरद्वीप भूपतेर्विपक्षव्यसन सङ्कटगतैर्महद्भिरपि भूमिपालैरपेक्षणीयसाहाय्यकस्य चतुरुदधिविख्यातपार्थिवप्रथम सूनोः कथचिद् विधिवशाद् गृहायातस्य परेण परिकल्पितात्पवृत्तिरस्मद्विधो जनः किं ते प्रियं करोतु, केन वा कृतेनोपचारेण प्रीतिमधिगच्छतु । तथापि यद्यनुग्रहबुद्धिरस्मासु तदेतदङ्गीकुरु सततमादेशकारिणा समीपदेशस्थितेन मया प्रतिपन्नसकलपृथ्वी व्यापारभरनिराकुलो मदीयमाधिपत्यपदम्, अथ तुच्छमिति मन्दाभिलाषस्तदा स परिजन इतो गत्वा तदेव पित्रा प्रतिपादितमतिप्राज्यवैभवमध्यास्स्व निजमेव यौवराज्यम्, मा च मन्येथा यथाहमेतेन निर्जित्य विहितानुग्रहः कथमिदं करोमि, कोऽहं तब पराजये, धृताधिज्यधन्वानमन्योऽपि किमस्ति जगति यस्त्वां समरकर्मणा करोति विमुखम् । यत्तु मुख्यै
कुसुमविलेपनवसनालङ्कारं वितीर्णानि - समर्पितानि कुसुमानि-पुष्पाणि विलेपनानि - चन्दनादिद्रव्याणि वसनानि-वस्त्राणि, अलङ्काराः - आभूषणानि च यस्मै तादृशम्, पुनः उपनीतविविधवस्त्रवाहनम् उपनीतानि - उपस्थापितांनिदत्तानीत्यर्थः, विविधानि-अनेकप्रकाराणि, वस्त्रानि वाहनानि च यस्मै तादृशम् पुनः प्रत्यर्पिता हवगृहीतनिःशेषकरितुरङ्गस्यन्दनं प्रत्यर्पिताः - प्रत्यावर्त्तिताः, आहवे- रणे, गृहीताः आयत्तीकृताः, करिणः - हस्तिनः, तुरङ्गाः - अश्वाः, स्यन्दनाःरथा यस्मै तादृशम् विधाय कृत्वा, व पुनः, मुहूर्त क्षणम्, अरतिच्छेदकरिभिः पराजयग्लानिविनाशिभिः, कथालापैः वार्तालापैः, विनोद्य विनोदमनुभाव्य, अभिमुखः सम्मुखो भूत्वा कृताञ्जलिः रचिताञ्जलिः, अवादीत् उक्तवान्; सर्वत्र सेनापतिरिति शेषः । किमित्याह - कुमार ! समरकेतो !, परेण अन्येन, परिकल्पिताल्पवृत्तिः परिकल्पिता - सम्पादिता, अल्पा-परिमिता, वृत्तिः - जीविका यस्य तादृशः, अस्मद्विधः अस्मादृशो जनः, ते तब, किं प्रियम् अभीष्टम् करोतु सम्पादयतु, न किमपि कर्तुमर्हतीत्यर्थः । कीदृशस्य ते ? सकलजगदेकवीरस्य सकलेसमस्ते, जगति एकवीरस्य- अद्वितीयवीरस्य पुनः करदीकृताशेषसागरान्तरद्वीपभूपतेः करदी कृताः- करदायकत्वमापादिताः, अधिकृता इति यावत्, अशेषाः समग्राः सागरान्तरद्वीपानां समुद्र मध्यवर्तिद्वीपानाम्, भूपतयः -- नृपतयो येन तादृशस्य; पुनः विपक्षव्यसनसङ्कटगतैः विपक्षव्यसनैः - शत्रुकृतदुःखैः, यत् सङ्कटं - दुःखस्थितिः, तद्गतैः- तत्प्राप्तैः, महद्भिरपि श्रेष्ठैरपि समृद्धैरपीत्यर्थः, भूमिपालैः नृपैः, अपेक्षणीय साहाय्यकस्य अपेक्षणीयम् आश्रयणीयम्, साहाय्यम्उपकारो यस्य तादृशस्य; पुनः चतुरुदधिविख्यातपार्थिवप्रथम सूनोः चतुर्णाम् उदधीनां समुद्राणां समाहारः चतुरुदधि, तत्र - तत्परिच्छिन्नभूमण्डल इत्यर्थः, विख्यातः - प्रसिद्धो यः पार्थिवः - चन्द्रकेतुः, तस्य प्रथमसूनोः - ज्येष्ठपुत्रस्यः पुनः विधिवशाद् दैवयोगात्, कथञ्चित् केनापि प्रकारेण महता कष्टेनेत्यर्थः, गृहायातस्य मगृहातिथितामापन्नस्य । वा अथवा, कृतेन विहितेन, फेन उपचारेण सेवया, प्रीतिं प्रसादम् अधिगच्छतु प्राप्नोतु । तथापि भवत्प्रियकरणा सम्भवेऽपि अस्मासु अस्मद्विषये यदि अनुग्रहबुद्धिः दयादृष्टिः, अस्तीति शेषः, तत् तर्हि, सततं सर्वदा, आदेशकारिणा आज्ञाकारिणा, समीपदेशस्थितेन पार्श्वस्थितेन, मया वज्रायुधेन प्रतिपन्नसकल पृथ्वी व्यापारभरनिराकुलः प्रतिपन्नः - स्वीकृतो यः सकलायाः - समप्रायाः, पृथ्व्याः, व्यापारभरः - शासन कार्यजातम् तेन निराकुल:स्वस्थः सन् एतत् इदम् मदीयं मत्सम्बन्धि, आधिपत्यपदं चतुरङ्गसेनाध्यक्षपदम् अङ्गीकुरु स्वीकुरु । अथ यदि, तुच्छं तत् पदं न्यूनमिति हेतोः मन्दाभिलाषः मन्दः शिथिलः, अभिलाषः- तत्कामना यस्य तादृशः, त्वमसीति शेषः, तदा तर्हि, सपरिजनः सपरिवारः, इतः अस्मात् स्थानात्, गत्वा, पित्रा चन्द्रकेतुना, प्रतिपादितं दत्तम्, अतिप्राज्यवैभवम् अतिप्राज्यम् - अत्यधिकम्, वैभव - धनसम्पत्तिर्यस्मिंस्तादृशम्, निजं स्वकीयम्, यौवराज्यमेव युवराजत्वपदमेव, अध्यास्स्व अधितिष्ठ । च पुनः, मा मन्यथा न मन्यख यथा यत्, एतेन अनेन, निर्जित्य पराजित्य, विहितानुग्रहः कृतानुग्रहः, अहं कथं केन प्रकारेण इदं यौवराज्यकार्यम् करोमि सम्पादयामि । तव रणवीरस्य, पराजये पराजयकार्ये, अहं कः अकिञ्चित्करत्वान्न कोऽपीत्यर्थः । जगति लोके, अन्योऽपि मदन्योऽपि,