________________
१८४
टिप्पनक-परागविवृतिसंवलिता स्तबकभारेण रणरणितताररत्नाभरणमालमनिलाहतकल्पलतावनमिव ननर्त सान्तःपुरं नगरनारीवृन्दम् [4] ॥ ___ अवनीश्वरोऽपि परमोत्पन्ननिर्वृतिर्जलकटाहकोडनिक्षिप्तनाडिकानिहितचक्षुषा गणकनिवहेन निश्चित्य देव्याः प्रसवलप्रमागतेन मुहुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्मग्रहबलं बालकस्य कृतमज्जनादिकृत्यः शुभे मुहूर्ते निवर्तितानुचरलोकः परिगतप्रान्तमुत्खातखङ्गैः समन्ततो वीरपुरुषैः प्रशस्सतरुपल्लवास्तृतमुखेन द्वारशाखासङ्गिना मङ्गलकलशयुगलेनावभासितमुदारगन्धोदगारगुग्गुलघूपधूमान्धकारदूरीकृतदुष्टचक्रवक्राक्षीसंचारमचिरधौतचरणाभिः प्रविश्य साशीर्वादमन्तःप्रकीर्णकुसुमाक्षतकणाभिर्बन्धुवृद्धाभिराबद्धमङ्गलगीतकोलाहलमदत्तबाह्यपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुशलेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणम् , रचयत स्थानस्थानेषु रत्नचूर्णस्वस्तिकान् , दत्त द्वारि नूतनं चूतपल्लवदाम, विकिरतान्तरुत्फुल्लपङ्कजोपहारम् ,
समासोत्तरपदभूतमण्यादिशब्दानां पूर्वपदार्थगतसौन्दर्यबोधकत्वात् ; पुनः आन्दोलितालिनीललीलालकभङ्गम् आन्दो लिता:-उत्क्षिप्ताः, अलिनीलाः-भ्रमरसदृशश्यामवर्णाः, लीलालकभना:-क्रीडार्थकल्पितकुटिलकेशा यस्य तादृशम् । पुनः उरोजस्तबकभारेण उरसि वक्षसि, जायत इत्युरोजः-स्तनः, तद्रूपस्य स्तबकस्य-पुष्पगुच्छस्य, भारेण, आभड्रं समन्तानम्रम् ; पुनः रणरणितताररत्लाभरणमालं रणरणितानि-ध्वनिविशेषान्वितानि, ताररत्नानाम्-उत्तमरत्नानाम् , भाभरणानि-कटकनूपुराधलङ्करणानि माला च यस्य तादृशम् [व]॥
अवनीश्वरोऽपि राजापि, परमोत्पन्न निर्वृतिः परमम्-अत्यन्तं यथा स्यात् तथा, उत्पन्ना निर्वृतिः--हषों यस्य तादृशः; पुनः जलकटाहक्रोडनिक्षिप्तनाडिकानिहितचक्षुषा जलकटाहस्य-जलपूर्णमहाभाजनविशेषस्य, कोडे-मध्ये, निक्षिप्तास्थापिता, या नाडिका-कालप्रमापकयन्त्रविशेषः, तत्र निहितानि-निवेशितानि, चक्षषि येन तादृशेन, देव्याः मदिरावत्याः, प्रसवलग्नं प्रसवकालिकलमम् , निश्चित्य निणीय, आगतेन तत्रोपस्थितेन, गणकनिवहेन दैवज्ञसमूहेन, मुहुर्मुहुः पुनः पुनः, अनेकप्रकारैः विविधप्रकारैः, कृतोपवर्णनम् उपवर्णितम् , बालकस्य जातकस्य, जन्मग्रहबलं जन्मकालिकोच्चस्थानस्थितप्रहरूपं बलम् , आकर्ण्य-श्रुत्वा, कृतमजनादिकृत्यः कृतस्नानादितात्कालिककार्यः सन् , निवर्तितानुचरलोकः परित्यक्तभृत्यजनः, शुमे उत्तमे, मुहूर्त समये, प्रियायाः मदिरावत्याः, प्रसूतिगृहं प्रसवालयम् , अविक्षत प्रविष्टवान् । कीदृशम् ?, उत्खातखड़ेः उद्भतखङ्गः, वीरपुरुषैः, समन्ततः सर्वतः, परिगतप्रान्तं व्याप्तप्रान्तप्रदेशम पुनः प्रशस्ततरुपल्लवास्तृतमुखेन प्रशस्तैः-उत्तमैः, तरुपल्लवैः-वृक्षनवदलैः, प्रशस्तानां वा तरूणां पल्लवैः, आस्तृतम्आवृतम्, मुखम्-ऊर्श्वभागो यस्य तादृशेन, पुनः द्वारशाखासङ्गिना द्वारशाखा-द्वारस्य ऊर्ध्वभागः, तत्सजिना-तत्र स्थितेन, मङ्गलकलशयुगलेन मङ्गलोद्देश्यकघटद्वयन, अवभासितम् उद्दीपितम् । पुनः उदारगन्धोद्गारगुग्गुलु धूपधूमान्धकारदुरीकृतदुष्टचक्रवकाक्षीसञ्चारम् उदारः-महान् , गन्धोद्गारः-गन्धाविर्भावो यस्य तादृशो यो गुग्गुलु धूपस्य-गुग्गुलधूपसम्बन्धी, धूमः, तद्रूपान्धकारेण, दूरीकृतः-निरुद्धः, दुष्टाना-बालधातनदोषवतीनाम, चक्रवक्राक्षीणांचक्रवक्राकारनेत्राणां स्त्रीणाम् , सञ्चारो यस्मिंस्तादृशम् । पुनः अचिरधौतचरणाभिः तत्क्षणप्रक्षालितपादाभिः, साशीदिम् आशीर्वादेन सहितं यथा स्यात् तथा, अन्तः प्रसूतिगृहाभ्यन्तरम् , प्रविश्य प्रवेश कृत्वा, प्रकीर्णकुसुमाक्षतकणाभिः प्रकीर्णानि-प्रक्षिप्तानि, कुसुमानि-पुष्पाणि, अक्षतकणाः-तण्डुलकणाश्च याभिस्तादृशीभिः, बन्धुवृद्धाभिः खबन्धु भूतवृद्धस्त्रीभिः, आबद्धमङ्गलगीतकोलाहलम आवद्धः-आयोजितः. कृत इति यावत् , मङ्गलगीतानां कोलाहल:-शब्दविशेषो यस्मिंस्तादृशम् । पुनः शुद्धान्तजरतीजनेन अन्तःपुरसम्बन्धिवृद्धस्त्रीजनेन, क्रियमाणविविधशिशुरक्षाविधानं क्रियमाणं-विधीयमानम्, विविधम्-अनेकप्रकारकम् , शिशुरक्षाविधानं शिशुरक्षाप्रयोजकं कार्य यमिंस्तादृशम् । कीदृशेन तेन ? अदत्तबाह्यपरिजनप्रवेशेन अदत्तः-अवरुद्धः, बायपरिजनस्य-बायखजनस्य, प्रवेशःअन्तरागमं येन तादृशेन; पुनः प्रशस्तालापिना प्रियालापशीलेन; पुनः सकललौकिकाचारकुशलेन समप्रलौकिकव्यवहाराभिलेन; पुनः जल्पता प्रतिपादयता, किमित्याह-मन्दिराङ्गणं राजभवनप्राङ्गणम् , हरिचन्दनोपलेपहारि हरिचन्दनस्य-चन्दनविशेषस्य, यद्वा-"पृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केसरैर्योज्यं हरिचन्दनमुच्यते ॥" इत्युक्तम मिश्रितद्रव्यविशेषस्य, उपलेपेन-विलेपनेन, हारि-मनोहरम् , कुरुत सम्पादयत; पुनः स्थामेषु स्थानेषु तत्तत्स्था