________________
तिलकमञ्जरी।
१८३ वामनोऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः [ध]। प्रमुदितपौरजनजयजयारावपीवरः प्रतिभवनमाहतानामसंख्यकाहलाशङ्खझल्लरीमुरजपटहानामनुसृतः पटीयसा झात्कृतेन वादित्राणामाह्वयन्निव नर्तनाय व्योनि वैमानिकवधूवृन्दमाकारयन्निव महोत्सवालोकनाय दिक्षु लोकपालपरिषदमादिशन्निव रङ्गावलीयोग्यरत्नानयनाय पृथ्वीतलोपान्तेषुपाथोनिधीन् बभ्राम मथनभ्रान्तमन्दरविघूर्णितमहाणवध्वानघघरो जगति नान्दीघोषः [न]। प्रसर्पन्नितस्ततः प्रस्तुतपरीहास इव तत्कालमधिगतविकाशासु प्रमुदिताविव दिक्षु चिक्षेप पिष्टातरजःपिञ्जरं सरोकिञ्जल्कजालमुद्यानानिलः [प] । कृताध्ययनभङ्गविद्वजनविसर्जितानि प्रष्ठीकृतैकैकबठरच्छात्रहस्तार्पितविशालपूर्णकलशानि युगपदुञ्चारिताशी:परम्परावचनवाचालानि चेलुरन्तःपुराभिमुखमखिलानि विद्यासत्रशालान्तेवासिमण्डलानि [फ] 1 प्रचलितारुणपाणिमणिपल्लवमान्दोलितालिनीललीलालकभङ्गमाभङ्गुरमुरोज
नान्दीघोषः-“देवद्विज मृपादीनामाशीर्वादपरायणाः । नन्दन्ति देवता यस्मात् तस्मानान्ही प्रकीर्तिता ॥" इत्युक्तमङ्गलध्वनिः, जगति भुवने, बभ्राम भ्राम्यति स्म, कीदृशः ? प्रमुदितपौरजनजयजयारावपीवरः प्रमुदिताना प्रहृष्टानाम् , पौरजनानां-तत्पुरवासिजनानाम् , जयजयारावैः जयजयकारैः, पीवरः स्थूलः, प्रवृद्ध इति यावत् , पुनः प्रतिभवनं प्रतिगृहम् , आहतानां ताडितानाम् , असंख्यकाहला-शब-झलरी-मुरज-पटहानाम्, असंख्याःअनियतसंख्याकाः, बहव इति यावत् , ये कालाः-महाढक्काः, शङ्काः-समुद्रोत्पन्नमुखवाद्यविशेषाः, झलयः-कास्यवाद्यविशेषाः, मुरजाः-मृदङ्गाः, पटहाः-दुन्दुभयः, तेषाम्, वादित्राणां वाद्यविशेषाणाम्, पटीयसा मनोहरेण, झात्कृतेन ध्वनिविशेषेण, अनुसृतः अन्वितः, किं कुर्वन्निव ? ब्योम्नि आकाशे, स्थितमिति शेषः, वैमानिकवधूवृन्दं विमानवासिदेवानागणम् , नर्तनाय नृत्यार्थम् , आह्वयन्निव आकारयन्निवेत्युत्प्रेक्षा; पुनः दिक्षु दशदिशासु स्थितामिति शेषः, लोकपाल परिषदं दिक्पालदेवसभाम् , महोत्सवालोकनाय राजपुत्रजन्ममहोत्सवदर्शनाय, आकारयन्निव आह्वयनिवेति वोत्प्रेक्षा; पुनः रङ्गावलीयोग्यरत्नानयनाय रज्यत्यस्मिन्निति रङ्गः-नृत्यमण्डपः, तस्व आवली-पतिः, तद्योग्यानितन्निवेशनयोग्यानि, यानि रत्नानि, तेषामानयनाय-उपहरणाय, पृथ्वीतलोपान्तेषु पृथ्वीतलप्रदेशेषु, आदिशनिव आज्ञापयन्निवेति चोत्प्रेक्षाः कीदृशः? मथनभ्रान्तमन्दरविघूर्णितमहार्णवध्वानघर्धरः मथने-सुरासुरकृतसमुद्रविलोडने, भ्रान्त:-प्राप्तभ्रमणः, यो मन्दरः-मेहः, तेन विघूर्णितः-विक्षोभितः, यो महार्णवः-महासमुद्रः, तस्य यो ध्वानः-ध्वनिः, तद्वद् घर्घर:-खरविशेषान्वितः [न]। इतस्ततः अत्र तत्र प्रदेशे, प्रसर्पन प्रवहन् , उद्यानानिलः आरामवातः पिष्टातरजमंपिञ्जरं पिष्टातरजोवत्-पटवास नुवत् पिजरं-किञ्चिद्रक्तपीतवर्णम्, सरोजकिजल्कजाल सरोजाना-कमलानाम्, किजल्कजालं-केसरसमूहम्, दिक्ष सकलदिशासु, चिक्षेप विक्षिपति स्म । कीदृशीषु दिक्षु? तत्कालं तत्क्षणम् , अधिगतविकासासु प्राप्त विकासासु, विकसितास्वित्यर्थः, अत एव प्रमुदिताखिव प्राप्तप्रमोदाखिवेत्युत्प्रेक्षा । कीदृश इव ? प्रस्तुतपरिहास इव प्रस्तुतः-प्रारब्धः, परिहासः-परि सर्वतोभावेन हासो येन तादृश इवेत्युत्प्रेक्षा, यथा नायको होलिकोत्सवे परिहासेन नायिकोपरि रक्तचूर्णानि विक्षिपति तथेत्यर्थः [प] । अखिलानि सकलानि, विद्यासत्रशालान्तेवासिमण्डलनि विद्यासत्रशालायाः-विद्यादानशालायाः, ये अन्तेवासिनः-छात्राः, तेषां मण्डलानि-समूहाः, अन्तःपुराभिमुखं राजनीनिवासभवनाभिमुखम् , चेलुः जम्मुः, कीदृशानि ? कृताध्ययनभङ्गविद्वज्जनविसर्जितानि कृतोऽध्ययनस्य भयो विच्छेदो यैस्तादृशैः, विद्वजनैः-अध्यापकजनैः, विसर्जितानि-परित्यक्तानि दत्तावकाशानीत्यर्थः पुनः प्रष्टीकतैकैकबटरच्छात्रहस्तार्पितविशालपूर्णकलशानि प्रष्टीकृतस्य-एकैकेन मण्डलेन खाने गमितस्य, एकैकस्य बैठरच्छात्रस्यमूर्खच्छात्रस्य, हस्ते, अर्पितः-निहितः, विशाल:-बृहदाकारः, पूर्णकलशः-जलपूरितपलवायुतमुखकुम्भो यैस्तादृशानि, पुनः युगपदुचारिताशी परम्परावचनवाचालानि युगपदुचारितैः-एककालावच्छेदेनोक्तैः, आशीःपरम्परावचनैः-शुभैषणासमूहार्थकवाक्यैः, वाचालानि-शब्दायमानानि [फ] 1 सान्तःपुरम् अन्तःपुरेण-तास्थ्येनोपचारादन्तःपुरस्त्रीजनेन सहितम् , नगरनारीवृन्दं प्रकृतनगरवास्तव्यस्त्रीसमूहः, अनिलाहतकल्पलतावनमिव अनिलेन-वायुना, आहतम् - आस्फालितम् , कल्पलतावनं-कल्पवृक्षसमूह इव, ननर्त नृत्यं चकार । कीदृशम् ? प्रचलितारुणपाणिमणिपल्लवं प्रचलितानि-प्रकम्पितानि, अरुणानि-रक्तवर्णानि, पाणिमणिरूपाणि-मनोहरहस्तरूपाणि, पल्लवानि-नवपत्राणि यस्य तादृशम्,