________________
टिप्पनक - परागविवृति संचलिता
प्रह्णीकृताशेषभूभुजा गुरुजनस्यापि गौरवेण ग्लानिमगमत्, अप्रणविनापि प्रार्थिता सर्वस्वमदित, कृतापकारेऽपि करुणापरा प्राणिविहे बभूव [थ ] ॥
१८२
पूर्णेषु च क्रमेण किञ्चित्सातिरेकेषु नवसु मासेषु सारतिथिवारकरणाश्रितेऽतिश्रेयस्यहनि पुण्ये मुहूर्त यथास्वमुञ्चस्थानस्थितैः कौतुकादिव शुभग्रहैरवलोकिते विशुद्धे लमे लमचा रुतादर्श नजा तपरितोषायामिवोर्ध्वमुख्यां होरायामप्रत एव जातेन सहितमखिलप्रजाप्रमोदेनाद्वितीयरूपमजनयत् तनयम् [द] | उत्पन्नमात्र एव च कार्यान्तरनियन्त्रितोऽप्यननुपालित परस्परः सरभसपदन्यासरणितनूपुरैः पुत्रजन्म स्वयमाख्यातुमुत्सुकैरिव पुरः पुरोभवद्भिः पादपल्लवैः प्रकटित संभ्रमः पूर्णपात्रग्रहणाय भूमिपालाभिमुखमचलत् सक किकिरात कुब्ज कल्लमूक
1
अपास्तरणपरिकरम् अपास्तः- त्यक्तः, रणपरिकरः- रणोचितदृढगात्रबन्धो येन तादृशम्, पक्षे अपगतम् आस्तरणम्आच्छादनं यस्य तादृशम्, भृत्यलोकं सेवकजनम्, पर्यङ्कमिव पल्यङ्कमिव, सावशम् अनादरपूर्वकं यथा स्यात् तथा, ऐक्षत दृष्टवती । सर्वदिग्व्यापिना सर्वदिग्ख्यापनशीलेन, पत्युरपि भर्त्तुरपि, प्रतापेन क्षात्रतेजसा, पक्षे प्रकृष्टतापेन, समतप्यत सम्यक् तप्ता अभवत् । पुनः प्रह्वीकृताशेषभूभुजा प्रह्वीकृताः - अवनमिताः, अशेषाः समस्ताः, भूभुजःराजानो येन तादृशेन, गुरुजनस्यापि भर्नादेरपि, गौरवेण महत्त्वेन, पक्षे भारेण, ग्लानिं खेदम् अगच्छत् प्राप्तवती । पुनः प्रणयिनापि स्नेहानास्पदेनापि जनेन, प्रार्थिता याचिता सती, सर्वस्वं समस्तसम्पत्तिम्, अदित दत्तवती, पुनः कृतापकारेऽपि कृतप्रतिकूलेऽपि, प्राणिनिवहे प्राणिसमूहे, करुणापरा दयाशीला, बभूव जाता, गर्भिणीनां कायेन मनसा चातीवकोमलत्वात् [ थ] 1 क्रमेण यथाक्रमम्, किञ्चित्सातिरेकेषु किञ्चिदधिकेषु नवसु नवसंख्यकेषु मासेषु, पूर्णेषु पूर्तिभावनेषु सत्सु सारतिथिवारकरणाश्रिते सारैः श्रेष्ठैः, शुभभूतैरिति यावत्, तिथिवार करणैः- तिथि:सूर्याचन्द्रमसोर्द्वादशान्तरांशः, वार- दिनम्, करणं-तिथ्यर्धम्, तैराश्रिते-युक्ते, अतिश्रेयसि परमशुभावहे, अहनि दिने, पुण्ये शुभ मुहूर्ते पञ्चदशधा विभक्तस्य दिनस्य पञ्चदशे भागे, किनिन्यूनाधिकघटिकाद्वयात्मककाले, यथास्वं यथायोग्यम्, उच्चस्थानस्थितैः उच्चस्थानाश्रितैः गृहाणामुच्चत्वं चैवम् - "अर्काद्युच्चान्यज १ - वृष२ मृग ३ - कन्या४ - कर्क ५-मीन ६ वणिजऽशैः । दिग् १० दहना ३ ऽष्टाविंशति २८ तिथी १५ षु ५ नक्षत्र २७ - विंशतिभिः २० ॥" अयं भावः - मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत परमोच्चाः । शुभग्रहैः गुरुबुधप्रभृतिग्रहैः, कौतुकादिव अपूर्वदिदृक्षारसादिव, अवलोकिते आभिमुख्येन निरीक्षिते, विशुद्धे शुभे, लग्ने राश्युदये सतीति शेषः । लग्नचारुतादर्शनजातपरितोषायामिव लग्नस्य राशीनामुदयरूपस्य, चारुतायाः - शुभावहतायाः, दर्शनेन जातः - प्रादुर्भूतः, परितोषः- सन्तोषो यस्यास्तादृश्याम्, होरायां घटिका र्धकालरूपायाम्, ऊर्ध्वमुख्याम् मङ्गलोन्मुख्यां सत्याम् अग्रत एव प्रथमत एव, जातेन उत्पन्नेन, अखिलप्रजाप्रमोदेन सकलप्रजाहर्षेण सहितं सह, अद्वितीयरूपम् अपूर्वरूपम्, तनयं पुत्रम्, अजनयत् उदपादयत् [ द ] | उत्पन्नमात्र एव पुत्रोत्पत्त्यनन्तरमेव, कार्यान्तरनियन्त्रितोऽपि अन्यकार्यासक्तोऽपि, शुद्धान्तवारस्त्रीजनः अन्तःपुरगणिकाजनः, पूर्णपात्रग्रहणाय पूर्णपात्रं नाम पुत्रजन्मादिमहोत्सवे वस्त्रमाल्यादिपूर्ण सुहृज्जनैः पारितोषिकतया बलादादीयमानं पात्रम्, तदुक्तम् - "उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्" इति, भूमिपालाभिमुखं राज्ञोऽन्तिकम्, अचलत् अगच्छत् । कीदृशः सन् ? अननुपालितपरस्परः अप्रतीक्षित परस्परः; पुनः सरभसपदन्यासरणितनूपुरैः सरभसः सत्वरो यः पदन्यासः-पादविक्षेप:, तेन रणितानि - ध्वनितानि नूपुराणि - पादाङ्गदानि येषु तादृशैः पुनः स्वयं साक्षादेव, न त्वन्यद्वारा, पुत्रजन्म राजकीय पुत्रोत्पत्तिवार्ताम् पुरः पूर्वम्, आख्यातुं कथयितुम्, उत्सुकैः उत्कण्ठितैरिव, पुरोभवद्भिः अग्रे सवरद्भिः, पादपल्लवैः पलवोपमपादैः प्रकटितसम्भ्रमः प्रदर्शित संवेगः पुनः कीदृशः ? सकचुकि-किरात- कुब्ज-बधिरमूक - वामनः कचकिनः - अन्तःपुरद्वारपालाः, किराताः - आरण्यकम्लेच्छ जातीयाः, कुब्जा:-"हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरक क्रुद्धो वायुर्यदा कुर्यात् तदा तं कुब्जमादिशेत् ॥” इत्युक्तलक्षणा जनाः, बधिराः - श्रवणशक्तिशून्याः, मूकाः- वाक्शक्ति शून्याः, वामनाः-ह्रस्वकलेवराः, तैः सहितः पुनः अनेकशतसंख्यः बहुशतसंख्यकः [ध ] |