SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १९८ टिप्पनक-परागविवृतिसंवलिता 3 तारतर काहला कणितकाहेलेन सन्नाहपदानामुन्नादितः कोलाहलेन, ससंभ्रमोत्थितानां तत इतः प्रधावताम् 'आहरत रथवरूथानि, कल्पयत मातङ्गान, आरोहत तुरङ्गान् अङ्गीकुरुत तनुत्राणि गृह्णीत शस्त्राणि इत्यनवरतमाघोषतामधिकारिपुरुषाणां श्रवणपरुषेण पोषितस्तारतुमुलेन व्याहृतेन, निर्भरभरित सकल-त्रिभुवनोद महानुदभूत् कलकलारवः [ अ ] । तं च प्रलयकालजृम्भितमहाभैरवाट्टहास भैरवं रवमाकर्ण्य समुपजातरिपुबलावस्कन्दपातशङ्को नायकस्तत्काललब्धावसरेण भृत्येनेव रणरसेन बद्धविकटरोमाचकवचेन प्रेर्यमाणो विजृम्भितातिभीषणभ्रुकुटि संकटायमानललाटभित्तिरमर्षदष्टदशनच्छदो दक्षिणकरेणाच्छिद्य परिचारक हस्तादुत्पातत डिल्लतानुकारिणं कृपाणमितरपाणिना प्रेङ्खयन् विचित्ररत्नखण्डखचितमन्तककितवकौतुकाष्टापद प्रकोष्टनिविष्टमष्टापद फलकमति बहलेन तिर्यग्विसर्पता खड्गप्रभापटलेन मलिनितमाबद्धविकटकालायसकङ्कटकमिवोरःकपाटमुद्वहन् रभसदूरपातिभिरभिमुख प्रकटितासियष्टिमात्मच्छायामभिहन्तुमिव टिप्पनकम् - उन्नादितः उच्चैः कृतः । [अं] । भैरवः शङ्करः । अवस्कन्दः - घाटकः । कङ्कटः- लोहकवचम् | वरूथं रथगोपनम् । कल्पयत सज्जयत । तारतुमुलेन- उच्चबहलेन अष्टापदं चतुरङ्गफलकम् । अष्टापदफलकं सुवर्णफरकः । कालायस - } काइलानां -- महाढकानाम्, क्वणितेन शब्देन, काहलेन वर्धितेन अव्यक्तेन वा, कोलाहलेन शब्देन, उमादितः संवर्धितः; पुनः ससम्भ्रमोत्थितानां सवेगमुत्थितानाम्, तत इतः तत्रान प्रधावताम् - प्रकर्षेण धावताम् अधिकारिपुरुषाणां सैन्याध्यक्षजनानाम्, श्रवणपरुषेण कर्णकठोरेण, तारतुमुलेन अतिगम्भीरेण व्याहृतेन शब्देन, पोषितः पुष्टिमापादितः, कीदृशानां तेषाम् ? रथवरूथानि रथानां वरूथानि - वर्माणि रथगुप्तिस्थानानि, परप्रहाररक्षार्थमावृतस्थानानि वा, आहरत आनयत अन्वेषयत वा, मातङ्गान् इस्तिनः कल्पयत सजयत, तुरङ्गान् अश्वान्, आरोहत पृष्ठावच्छेदेनाधितिष्ठत, तनुत्राणि कवचान् अङ्गीकुरुत धारयत, शस्त्राणि शस्त्रसमूहम् गृहीत उत्थापयत, इति एवम् अनवरतं निरन्तरम्, आघोषताम् आक्रोशताम् पुनः निर्भरभरितस कलत्रिभुवनोदरः निर्भरम् - अत्यन्तम्, भरितंपूरितम्, सकलं- समप्रम्, त्रिभुवनस्य - भुवमत्रयस्य, उदरं - मध्यं येन तादृशम् [ अ ] । प्रलयकालज्जृम्भितमहाभैरवाट्टहासभैरवं प्रलयकाले- जगद्विध्वंससमये, जृम्भितः - प्रकटितः, महाभैरवस्य - महाकालस्य, मोऽधहासः - महाहासः, तद्व भैरवं भयङ्करम्, तम् अनुपदोक्तम्, एवं शब्दम् आकर्ण्य श्रुत्वा समुपजातरिपुबलावस्कन्दपातशङ्कः समुप जाता - समुत्पन्ना, रिपुबलस्य - शत्रुसेनायाः, अवस्कन्दपातस्य - आक्रमणार्थमागमनस्य, शङ्का यस्य तादृशः सन् नायकसेनापतिः, राजकुलात् राजधानीतः, अतिजवेन अतिवेगेन, निरगच्छत् निष्क्रान्तः । कीदृशः ? तस्काललन्धावसरेण तत्क्षणप्राप्तावसरेण, भृत्येनेव अनुचरेणेव, बद्ध विकटरोमाञ्चकवचेन बद्धः- धृतः, विकटः- दृढः, रोमाञ्चकवचःरोमाञ्चरूपं वर्म येन तादृशेन, रणरसेन संप्रामोत्साहेन, प्रेर्यमाणः प्रवर्त्यमानः पुनः विजृम्भितातिभीषणक्षुकुटिसंकटायमानललाटभित्तिः विजृम्भितया-प्रकटितया, अतिभीषणया- अतिभयानिकया, भ्रुकुट्या - नेत्रोपरितनरोमराजकौटिल्येन, संकटायमाना-संकुचिताकारा, ललाटभित्तिः - ललाटस्थलं यस्य तादृशः; पुनः अमर्षदष्टदशनच्छदः श्रमर्षेणक्रोधेन, दृष्टौ -कृतदशनौ, दशनच्छदौ- ओष्ठौ यस्य तादृशः, दक्षिणकरेण दक्षिणहस्तेन, परिचारकहस्तात् सत्यहस्तात्, उत्पाततडिल्लतानुकारिणं प्रलयकालिक विद्युल्लतासदृशम्, कृपाणं खगम्, आच्छिद्य बलाद् गृहीत्वा इत्तरपाणिना वामहस्तेन, अष्टापदफलकं सुवर्णमयं फलकं - 'ढाल' इति प्रसिद्धमन प्रतिघातनिवारणसाधनम्, प्रेयन् प्रचालयन, कीटशम् ? विचित्ररत्नखण्डखचितं विचित्रैः - विलक्षणैः, रनखण्डैः - रत्नावयवैः, खचितं व्याप्तम्, पुनः अन्तककितवकौतुकाष्टापदम् अन्तक कितवस्य - यमरूपद्यूतकारस्य, कौतुकाष्टापदं- कुतूहलजनक चतुरङ्गशा रिफलकभूतम्, तत्सदृशमित्यर्थः, पुनः प्रकोष्ठनिविष्टं प्रकोष्ठे - कूर्पराधोभागे निविष्टं स्थितम् ; पुनः अतिबहलेन अतिविपुलेन, तिर्यग विसर्पता तिरःप्रसरता, खड्गप्रभापटलेन कृपाणकान्तिकलापेन, मलिनितं मालिन्यमापादितम्, अत एव आबद्धविकट कालायसकङ्कटमित्र आबद्धः - गृहीतः, विकटः- विषमः, कालायस कङ्कटः- लोहविशेषनिर्मितकवचो येन तादृशमिव, उरः कपाटं वक्षःस्थलरूममर्गलम्, उद्वहन् धारयन्; पुनः रभसदूरपातिभिः रभसेन वेगेन, दूरपतनशीलैः पुनः अभिमुखप्रकटितासियष्टिम्
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy