SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ तिलकमलरी। १९७ शालाभ्यो निर्गतेषु चिरनिरोधखिन्नतनुषु नियोगिषु, पुरःसरहिनदीपिकेषु ब्रजसु निजशिबिराणि तारतरकरेणुघण्टाकणितसूचितेषु सामन्तेषु, आपणिकसंवृतसायंतनपण्यसंततिषु विकटायमानेषु विपणिवीथीचतुष्पथेषु, शिबिरपर्यन्तबद्धगुल्मकेषु स्थित्वा स्थित्वा युगपदारटत्सु बाह्यतनपदातिवृन्देषु, विश्रान्तजनरवनिरङ्कुशप्रसरेवितस्ततः श्रूयमाणेष्वापानकमृदङ्गध्यनिषु, शयनमन्दिराङ्गणनिहितशययानिषण्णे संनिहितकतिपयप्रणयिनि प्रारब्धमदनजागरस्य जायाजनस्य गीतकान्याकर्णयति परितः परित्यक्तविग्रहकथानिरवग्रहमनसि सेनाधिपे, सहसैव संत्रासितकटकलोकस्खासतरलमन्दुरातुरङ्गश्रेणिश्रुतः सत्वरापसृतपृष्ठप्रसुप्ताधोरणानामपहायापहाय पांशुसल्पाम्युत्तिष्ठतामिभपतीनां चरणशृङ्खलारणितजरठेन जर्जरीकृतः कण्ठगर्जितेन, गजगर्जितारवश्रवणकुपितानां पञ्जरकेसरिणां सरभसकरास्फालितशलाकाप्रतिनादबृंहितेन बहलीकृतः पूत्कृतेन, प्रतिसैम्यमाहतानां प्रस्त टिप्पनकम् -गुरुमकं-स्थानकम् । निरवग्रहम्-उच्छृखलम् । मन्दुरा-अश्वशाला । काहल:-अभ्यतः । नियोगिषु भृत्येषु, निजनिजकर्मशालाभ्यः खखकार्यगृहेभ्यः, निर्गतेषु निष्कान्तेषु; पुनः तारतरकरेणुघण्टाक्कणितसूचितेषु तारतरेण-तीव्रतरेण, करेणूनां-हस्तिनाम् , घण्टाक्कणितेन-घण्टानादेन, सूचितेषु-संकेतितेषु, सामन्तेषु खविषयान्तर्वर्तिनृपेषु, पुरःसरत्रिदीपिकेषु पुरः-अमे, सरन्तः-गच्छन्तः, द्वित्राः-द्वौ वा त्रयो वा, दीपिकाः दीपवाहका येषा तादृशेषु, निजशिबिराणि स्वसैन्यावासान् , ब्रजसु गच्छत्सुः पुनः आपणिकसंवृतसायन्तनपण्यसन्ततिषु आपणिकः-विक्रेतृभिः, संवृताः-उपसंहृताः, सायन्तनपण्याना-सायंकाले विक्रयणार्थ प्रस्तुतवस्तूनाम् , सन्ततयः-पडयो येषु तादृशेषु, विपणिवीथीचतुष्पथेषु विपणिविथीनाम्-आपण. मार्गाणाम् , चतुष्पथेषु चतुर्दिगभिमुखमार्गेषु, विकटायमानेषु प्रकटायमानेषुः पुनः शिबिरपर्यन्तबद्धगुल्मकेषु शिबिरपर्यन्ते-सैन्यावासप्रान्ते, बद्धगुल्मकेषु-बद्धपतिकेषु, बाह्यतन्त्रपदातिवृन्देषु बाह्यतन्त्रपदातीना-बाह्यराष्ट्रियपदगामिनाम् , वृन्देधु-समूहेषु, स्थित्वा स्थित्वा मुहुर्मुहुः स्वगमनमवरुध्य; युगपत् सहैव, आरटत्सु शब्दायमानेषु; पुनः विश्रान्तअनरवनिरङ्कुशप्रसरेषु विश्रान्तः-निवृत्तो यो जनरवः-लोकशब्दस्तेन निराशप्रसरेषु-अप्रतिबद्धप्रचारेषु, आपानशालामृदङ्गध्वनिषु आपानशालायाः-मद्यपानसभायाः, मृदङ्गध्वनिषु-वाद्यमानमृदङ्गनादेषु, इतस्ततः अभितः, भूयमाणेषुः पुनः शयनमन्दिराङ्गणनिहितशय्यानिषण्णे शयनमन्दिराजणे-शयनभवनप्रागणे, निहितायां स्थापितायाम् , शय्यायां निषण्णे-उपविष्टे, सन्निहितकतिपयप्रणयिनि समीपस्थकतिपयनेहास्पदजने, प्रारब्धमदनजागरस्य प्रारब्धा मदनजागरा-कामदेवोद्देश्यकजागरणं येन तादृशस्य, जायाजनस्य स्त्रीजनस्य, गीतकानि गानानि, आकर्णयति शृण्वति सति, पुनः परितः सर्वतः, परित्यक्तविग्रहकथानिरवग्रहमनसि परित्यक्ता-निवारिता या, विप्रहकथा-युद्धवार्ता, तया निरवग्रह-प्रतिबन्धरहितमुच्छृङ्खलमिति यावत् , मनो यस्य तादृशे, सेनाधिपे सेनापती सति, महान् गम्भीरः, कलकलारवः कोलाहलध्वनिः, उदभूत् प्रादुरभूत् । कीदृशः? सहसा शीघ्रम् ,संत्रासितकटकलोक: भीषितसैन्यजनः; पुनः प्रासतरलमन्दुरातुरङ्गश्रेणिश्रुतः त्रासेन-भयेन, तरला-चञ्चला या, मन्दुरायाः-अश्वशालायाः, तुरज श्रेणि:-अश्वपतिः, तया श्रुतः-श्रवणगोवरीकृतः; पुनः सत्वरापसृतपृष्ठप्रसुप्ताधोरणानां सखरं-शीघ्रम् , अपसताः-दूरीभूताः, पृष्ठप्रसुप्ताः-पृष्ठभागमधिशयिताः, आधोरणाः-हस्तिपका येषां तादृशानाम् , पुनः प्रांशुतल्पानि उन्नतशय्याः, अपहाय अपहाय त्यक्त्वा त्यक्त्वा, उत्तिष्ठताम् उत्थानं कुर्वताम् , इभपतीनां महागजानाम्, चरणशृङ्खलारणितजरठेन चरणशृङ्खलायाः-चरणबन्धनविशेषस्य, रणितेन-शब्देन, जरठेन-वृद्धन, कण्ठगर्जितेन कण्ठकृतगर्जनेन, जर्जरीकृतः मिश्रितः; पुनः गजगर्जितारवश्रषणकुपितानां गजाना-हस्तिनाम् , यद् गर्जितं-गर्जनम्, तद्रूपस्य आरवस्य-शब्दस्य, श्रवणेन, कुपितानाम्-ईयितानाम् , पञ्जरकेसरिणां पजरबद्धसिंहानाम, सरभसकरास्फालितशलाकाप्रतिनादबृंहितेन सरभसं-सवेगं यथा स्यात् तथा, कराभ्याम्-अग्रिमपादाभ्याम् , आस्फालिताः-आहता याः, शलाकाः-पारस्थलौहयष्टयः, तासो प्रतिनादेन-प्रतिध्वनिना, बृहितेन-वर्धितेन, फूत्कृतेन फूत्कारेण, बहलीकृतः-वर्धितः; पुनः प्रतिसैन्यं प्रतिसेनासम्भवेन, आहतानां नादितानाम्, सन्नाइपटहानां युद्धार्थकवचपरिधानद्योतकवाद्यविशेषाणाम् , प्रसूततारतरकाहलावणितकाहलेन प्रसृतेन-प्रवृद्धेन, तारतरेण-अतितीव्रण,
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy