________________
तिलकमञ्जरी ।
३११
मुखोऽभवम् । अदत्तोत्तरश्च तस्मै तदाकस्मिकमालोच्यालोच्य चापलमात्मनो मनसि जातहासो विस्मयपाविषादानां युगपदास्पदतामगच्छम् । अकरवं च जातपरमानुतापश्चेतसि - ' हन्त, कस्मान्मया मिथ्या - कुतूहलतरलितेन सहसैव तूर्यरवमुपश्रुत्य धावता शिशुनेव लघुतां परमात्माऽऽनीतः, किमित्यचिन्तितात्मविनिपातदुःखेन शिखरिणेव कुलिशपातभीरुणा संचरदनेकदुष्टप्राह दुरवगाहो महासमुद्रकुक्षिरवगाढः, किमनिवारितेन्द्रियवृत्तिना बालतपस्विनेव निष्फलोऽनुभूतः शीतवातादिजनितः कायक्लेशः, कुतो ममेदमनुपदिष्टमशिक्षितमनभ्यस्तमचिन्तितमेवाद्य चापलमाविर्भूतम् [च], अहो चञ्चलस्वभावता चित्तपरिणते:, अहो विकार बहुलता तारुण्यगतेः, अहो दुःखदायकत्वं सुखाभिलाषाणाम्, अहो व्यसनदानवैदग्ध्यमनधीनतायाः, अहो कार्यपरिणतिविचारविद्वेषो दर्पोद्रेक विलसितानाम्, अहो मतिविपर्ययप्रदानतात्पर्यं दैवप्रातिकूल्यस्य, तस्य तादृशस्य araप्रयत्नस्य तस्य विद्याभ्यासस्य, तस्य नीतिशास्त्रश्रवणस्य तस्य हेयोपादेयतत्त्वपरिज्ञानस्य, तेषां वृद्धोपदेशानाम्, तस्या विदग्धजन संगतेः, तस्य च निसर्गसिद्धस्येन्द्रियवर्गसंयमस्य कीदृशो विपाकः संवृत्तः [ छ ],
टिप्पनकम् - बालतपखिना अज्ञानतपोधनेन [च] |
तस्मिन् क्षणे, अधोमुखः अवनतवदनः अभवं जातः । च पुनः, तस्मै तारकाय, अदत्तोत्तरः अदत्तप्रतिवचनः सन् तदा तस्मिन् काले, आत्मनः स्वस्य, आकस्मिकम् अकारणकं, चापलं चाञ्चल्यम्, आलोच्य आलोच्य विचार्य विचार्य, मनसि चेतसि, जातहासः उत्पन्नखावज्ञोचित परिहासः सन् युगपत् एककालं, विस्मय त्रपा विषादानां आश्चर्यलजादुःखानाम्, आस्पदतां स्थानताम् अगच्छं प्रापम् । च पुनः, जातपरमानुतापः उत्पन्नात्यन्तपश्चात्तापः सन् चेतसि चित्ते, अकरवम् अचिन्तयम्, किमित्याह - हन्त खेदः, शिशुनेव बांलेनेव, मिथ्याकुतूहलतरलितेन मिथ्याभूतोत्सवचञ्चलितेन, पुनः सूर्यरवं वाद्यविशेषध्वनिमू, उपसृत्य अनुसृत्य, सहसैव शीघ्रमेव धावता वेगेन गच्छता, मया, अकस्मात् अकारणमेव, आत्मा खः, पराम् अत्यन्तां, लघुतां क्षुद्रताम्, आनीतः । पुनः किमिति कस्मात्, कुलिशपातभीरुणा वज्राघातभीतेन, शिखरिणा पर्वतेन, इव, अचिन्तितात्मविनिपातदुःखेन अचिन्तितः - अनालोचितः, आत्मनः-स्वस्य, विनिपातेन - अनर्थापातेन, पक्षे समुद्रान्तःपतनेन, दुःखं येन तादृशेन, मयेति शेषः, सञ्चरदनेकदुष्टग्राहदुरवगाहः सञ्चरद्भिः-उच्छलद्भिः, अनेकैः - बहुभिः, दुष्टप्रा है: - हिंसक जलचरविशेषैः, दुरवगाह :- दुष्प्रवेशः, महासमुद्र - कुक्षिः अतिविस्तृतसमुद्रोदरम्, अवगाढः प्रवेशकर्म तामापादितः । पुनः किं किमर्थं, बालतपखिने व अज्ञान तपोधनेन, अनिवारितेन्द्रियवृत्तिमा अनियन्त्रितेन्द्रियव्यापारेण, मयेति शेषः, निष्फलः व्यर्थः, शीतवातादिजनितः शीतवाध्वातपाद्युप. द्रवोत्पादितः, कायक्लेशः शरीरदुःखम्, अनुभूतः भुक्तः । पुनः अनुपदिष्टं न केनापि धर्माचार्येणोपदिष्टम्, अशिक्षितं नापि कस्माचिद् विद्यागुरोरधीतम्, अनभ्यस्तम् नापि स्वयमनुशीलितं मम इदं प्रकृतं चापलम् अचिन्तितमेव -- अतर्कितमेव कुतः कस्माद्धेतोः, आविर्भूतं प्रकटितम् [च] । अहो विषादविषयोऽयं, यदुत - चित्तपरिणतेः चित्तवृत्तेः, चञ्चलखभावता प्राकृतिकचञ्चलता, पुनः अहो प्राग्वदर्थः, एवमुत्तरत्र, तारुण्यगतेः यौवनावस्थायाः, विकार बहुलता विकृतिविपुलता, पुनः, अद्दो सुखाभिलाषाणां सुखेच्छाना, दुःखदायकत्वं दुःखजनकत्वम्, पुनः अहो अनधीनतायाः स्वतन्त्रतायाः, व्यसनदानवैदग्ध्यं संकटोत्पादनपाटवम् पुनः, अहो दर्पोद्रेकविलसितानां गर्वातिशयविलासानां, कार्यपरिणतिविचारविद्वेषः क्रियाफलविवेकवैरम्, पुनः, अहो दैवप्रातिकूल्यस्य भाग्यप्रतिकूलतायाः, मतिविपर्यय प्रदान तात्पर्य बुद्धिवैपरीत्यापादनतत्परत्वम् । तादृशस्य मत्कल्याण परिणामिनः, तस्य अनुभूतस्य, तातप्रयत्नस्य मत्पितुः प्रयासस्य पुनः तस्य स्वकृतस्य, विद्याभ्यासस्य शास्त्रानुशीलनस्य, पुनः तस्य स्वकृतस्य, नीतिशास्त्रश्श्रवणस्य नीतिशास्त्राध्ययनस्य पुनः तस्य खकृतस्य, हेयोपादेयतत्व परिज्ञानस्य हेयं-- त्याज्यम्, अनिष्टसाधनमिति यावत्, उपादेयंप्रायमिष्टसाधनमिति यावत् तयोर्यत् तत्त्वं याथार्थ्य तत्परिज्ञानस्य तन्निर्णयस्य पुनः तेषां गृहीतानां वृद्धोपदेशानां गुरुजनानुशासनानाम्, पुनः तस्याः उपासितायाः विदग्धजनसंगतेः विद्वज्जनसंगस्य, पुनः तस्य स्वसाक्षिकस्य, निसर्ग