________________
टिप्पनक-परागविवृतिसंवलिता दोलाः, प्रतिदोलमान्दोलनक्रीडानन्दितानि दृश्यन्ते सततमनवद्यवेषाणि विद्याधरद्वन्द्वानि, अपि च सानौ सानो निशम्यते कर्णामृतं किन्नरगीतम् , भृगौ भृगावाकयेते निर्झरणझात्कृतमतिस्फीतम् , सरिति सरिति विलसन्ति रत्नवालुकापुलिनेषु चित्राः पक्षिणः, काले काले वाति विस्तारितरतिकेलिरमराणां समीरणो दक्षिणः, प्रदेशे प्रदेशे चिन्तिते चित्तस्य जायते परा प्रीतिः, वस्तुनि वस्तुनि विभावित भवति लोचनद्वयस्य द्रष्टव्यदर्श. नेच्छानिवृत्तिः [घ]। तथा च छाययापि पत्रपादपच्छायानामपसरति देहिनामङ्गग्लानिः, गन्धेनापि पुष्पद्रुमगन्धानामन्धीभवन्ति घ्राणानि, वातेनापि चैत्रवातस्य विकटमुद्वहन्ति वनलताः कुसुमाट्टहासम् , वार्तयापि दयितवार्ताया मनसि मानिनीनां करोति मन्मथः स्थाना धिपत्येनावासम् । किं चापरोक्षवर्णनेन, निर्णेष्यति यथावस्थितं स्वरूपमस्य स्वयमेवानुभूय स्वामी' इति जल्पित्या जोषमभजत् [3]
अहं त्वकाण्ड एव खण्डितगमनरभसेन तस्यानेन वचसानवसानेन पथापि जनितव्यथः 'कष्ट, न लेशोऽप्यभिलषितसंपत्त्या सुखस्य संजातः, क्लेश एव केवलमनुभूतः' इति भावयन्नुद्भूतगाढोद्वेगतस्तत्क्षणमधो
टिप्पनकम्-छायया लेशेन । जोष मौनम् [ङ] ।
बहुप्रपञ्चाः बहुविस्ताराः, काञ्चनलतादोलाः काञ्चनाख्यनागकेसरलतारूपा दोलाः, पुनः प्रतिदोलं दोलायो दोलायाम् , आन्दोलनक्रीडानन्दितानि आन्दोलनात्मकक्रीडासंजातानन्दानि, सततम् अविरतम् , अनवद्यवेषाणि अनिन्द्यवेषविशिष्टानि, विद्याधरद्वन्द्वानि विद्याधरदम्पतयः, दृश्यन्ते दृष्टिगोचरीभवन्ति । सानो सानौ प्रतिसमस्थल, कर्णामृतं कर्णयोरमृततुल्यं, किन्नरगीतं किन्नराणां-देवयोनिविशेषाणां, गीतं, निशम्यते श्रूयते। भृगौ भृगौ प्रतिप्रपातस्थान, अतिस्फीतं अतिस्फुटम् . निझरणझात्कृतं स्रोतःस्यन्दनध्वनिविशेषः, आकर्ण्यते श्रूयते । पुनः सरिसि सरिति प्रतिनदि, रत्नवालुकापुलिनेषु श्रेष्ठसिकतामयस्थलेषु, यद्वा रत्नरूपसिकतामयप्रदेशेषु, चित्राः चित्रवर्णाः, पक्षिणः, विलसन्ति विराजन्ते । पुनः काले काले समये समये, अमराणां देवानां, विस्तारितरतिकेलिः प्रवर्धितरतिक्रीडः, दक्षिणः दक्षिणदिग्वाही, समीरणः पवनः, वाति वहति । पुनः प्रदेशे प्रदेशे प्रत्येकप्रदेशे, चिन्तिते समालोचिते सति, चित्तस्य हृदयस्य, परा उत्कृष्टा, प्रीतिः तृप्तिः, जायते उत्पद्यते । पुनः वस्तुनि वस्तुनि प्रत्येकवस्तुनि, विभाविते विचारिते सति, लोचनद्वयस्य नेत्रदयस्य, द्रव्यदर्शनेच्छानिवृत्तिः दर्शनीयवस्त्वन्तरदर्शनौत्सुक्यनिवृत्तिः, जायते इति शेषः [घ]|च पुनः, तथा पत्रपादपच्छायानां पत्रावृतवृक्षकृतानातपानाम् , छाययाऽपि लेशेनापि, देहिनां शरीरिणाम् , अङ्गाग्लानिः शरीरतापः, अपसरति नश्यति । पुनः पुरुपद्रमगन्धानां पुष्पवृक्षाऽऽमोदानां, गन्धेनापि लेशेनापि, प्राणानि घाणेन्द्रियाणि, अन्धीभवन्ति ब्यामुह्यन्ति । पुनः चैत्रवातस्य चैत्रमासात्मकवसन्तकालिकपवनस्य, वातेनापि वहनेनापि संचरणेनापीति यावत् , वनलताः वनस्थलतिकाः, विकटं सुन्दरं, कुसुमाहासम् पुष्परूपं महाहासम्, उद्वहन्ति उत्सृजन्ति, पुनः दयितवार्तायाः पतिवृत्तान्तस्य, वार्तयापि चर्चयापि, मानिनीनां मानवतीना, मनसि हृदि, मन्मथः कामदेवः, स्थानाधिपत्येन स्थानस्वामिभावेन, आवासं निवास, करोति । अप रोक्षवर्णनेन प्रत्यक्षीभूतवस्तुवर्णनेन, किम् ? किमपि न प्रयोजनमिति भावः, स्वामी अधिपतिः, भवानिति यावत्, यथावस्थितं वस्तु सत् , अस्य प्रकृतशैलस्य, स्वरूपं, स्वयम् आत्मनैव, अनुभूय साक्षात्कृत्य, निर्णेष्यति अवधारयिष्यति । इति इत्थं, जल्पित्वा उक्त्वा, जोषं मौनम् , अभजत अशिश्रयत् [3]। अहं तु, अकाण्ड एव अनवसर एव, खण्डितगमनरभसेन खण्डितः-निवारितः, गमनरभसः-गमनवेगो येन तादृशेन, अनेन अनुपदमुक्तेन, तस्य तारकस्य, घचसा वाक्येन, पुनः अनवसानेन निरवधिकेन, पथापि मार्गेण च, जनितव्यथः उत्पादितदुःखः सन् , 'वचसानबसानेन पथापि' इति स्थाने वचसा पथ्येनापि इति पाठे हितकारिणापि वाक्येनेत्यर्थः, कष्टं दुःखम् , अभिलषितसम्पत्त्या अभिलाषितस्य-अभीष्टस्य, सम्पत्त्या प्राप्ता, सुखस्य-आनन्दस्य, लेशोऽपि अल्पमात्रापि, न सातः समुत्पन्नः, केवलं श एव, अनुभूतः उपभुक्तः, इति भावयन् विचारयन् , उन द्वेगतः उत्पन्न नितान्तसम्भ्रमवशात् , तत्क्षणं