________________
३१२
टिप्पनक-परागविवृतिसंवलिता किमिदानीमस्य पृच्छतः प्रतिवचनं प्रयच्छामि, किं कर्तव्यमुपदिशामि, स्वयं च किं करोमि, कथमयमवश्यमारब्धं मया निर्वोढव्यमिति बद्धनिश्चयेनापि निरवधौ पयोधावनवधारितायां गन्तव्यभूमावनिश्चिते द्रष्टव्यवस्तुदर्शने क्लेशायासलाभाय वराकः पुरः प्रवर्तयितव्यः, कथं च गमनं निवारयतः पूर्वमस्य वचनमनाहतमिदानी बहु मन्तव्यम् , कथं चास्थिरस्वभावतया सरभसप्रधावितेन भूमिमियतीमागत्य भग्न. मनसा तीरादर्शिशकुनिनेव पश्चान्निवर्तितव्यम् [ज ], निवृत्तेनापि कथमयमनेकविकटावर्तशतसंकुलः सर्वतो विशृङ्खलप्रचारैर्दुष्टजलचरैः पदे पदे प्रस्खलितयानपात्रगतिरतिमात्रदुर्गः सागरैकदेशो लङ्घयितव्यः, कथं च तत्कालमस्मत्संनिहितसैनिकावेदितवृत्तान्तं संभ्रान्तस्य समकालमेकवर्मना प्रातः प्रधावितस्य निरन्तरप्रचलितानेकनौसहस्रसंक्षोभिताम्बुधेरर्धपथदृष्टस्य पार्थिवलोकस्य वृथागमनलज्जाविलक्षाक्षमाननं दर्शयितव्यम् , कथं च दूरादेव दर्शितस्मितस्य पार्श्वमुपगतवतः ‘क गताः, किमर्थं गताः, किं दृष्टं, किमनुभूतं, किमासादितम्' इत्यादि पृच्छतः प्रणयिवर्गस्य सहसा हेपणं स्वचरितमावेदनीयम् , कथं चावासस्थानमुपागतेन दुर्विनयजनितोद्वेगाः स्वतन्त्र इति कृत्वा तूष्णीमेव सर्वे समर्पितस्वाधिकारमुद्राः प्रसादनीया राज्यचिन्तकाः प्रधान
सिद्धस्य खाभाविकस्य, इन्द्रियवर्गसंयमस्य चक्षुरादीन्द्रियगणनियन्त्रणस्य, कीदृशः किं प्रकारकः, विपाकः परिणामः, संवृत्तः संजातः [छ ] । पृच्छतः गमनपरावर्तनप्रश्नं कुर्वतः, अस्य तारकस्य, किं कीदृशं, प्रतिवचनम् उत्तरं, प्रयच्छामि प्रददामि, पुनः किं त्योः कतरत् , कर्तव्यं करणीयम् , उपदिशामि आज्ञापयामि च पुनः, स्वयम् आत्मनाऽपि, किं करोमि । मया आरब्धं प्रवर्तितं, तत्र गमनमित्यर्थः, अवश्य नूनम् , निर्वोढव्यं सम्पादनीयम्, इति इत्थं, बद्धनिश्चयेनापि कृतनिश्चयेनापि, मयेति शेषः, निरवधौ अपारे पयोधौ समुदे, गन्तव्यभूमौ गन्तव्यस्थाने, अनवधारितायाम् अनिर्णीतायाम् , पुनः द्रष्टव्यवस्तुदर्शने लक्ष्यभूतवस्तुदर्शने, अनिश्चिते सन्दिग्धे, वराक: दयनीयः, अयं तारकः, कथं केन प्रकारेण, पर: अग्रे, प्रवर्तयितव्यः प्रवर्तयितुमुचितः। च पुनः, पूर्व प्राक, गमन, निवारयतः निषेधतः, अस्य तारकस्य, अनाहतम् उपेक्षितं, वचनं वाक्यम् , इदानीम् अधुना, कथं केन प्रकारेण, बहु चारु, मन्तव्यं खीकरणीयम् । च पुनः, अस्थिरस्वभावतया चपलखभावतया, सरभसप्रधावितेन सवेगं कृतप्रधावनेन, मयेति शेषः, इयतीम् एतावती, भूमि समुद्रप्रदेशम् , आगत्य, भग्नमनसा भग्नमनोरथेन सता, तीरादर्शिशकुनिनेव तीरमपश्यता पक्षिणेव, पश्चात् , कथं केन प्रकारेण, निवर्तितव्यं परावर्तितव्यम् , [ज] । निवृत्तेनापि परावृत्तेनापि, मयेति शेषः, अनेकविकटावर्तशतसंकुलः अनेकेन-बहुना, विकटानां-भीषणानाम् , आवर्तानां, शतेन, संकुल:-व्याप्तः, सर्वतः परितः, विशृङ्खलप्रचारैः अप्रतिहतप्रचारैः, दुष्टजलचरैः हिंसकजलजन्तुभिः, पदे पदे स्थाने स्थाने, प्रस्खलितयानपात्रगतिः प्रस्खलिता-व्याहता, यानपात्रस्य-पोतस्य, गतिः-गमनं यस्मिस्तादृशः, अतिमात्रदुर्ग: अत्यन्तदुःखेन गमनीयः, अयं सागरैकदेशः समुद्रैकदेशः, कथं लड़यितव्यः लयितुं शक्यः । तत्कालं तत्क्षणम् अस्मत्सन्निहितसैनिकावेदितवृत्तान्तम् अस्मत्सनिहितसैनिकैः-अस्मत्पार्श्ववर्तिसैन्यैः, आवेदितवृत्तान्तं-निवेदितवृत्तान्तं यथा स्यात् तथा, सम्भ्रान्तस्य क्षुभितस्य पुनः समकालं युगपत् , प्रातः, एकवर्मना एकमार्गेण, प्रधावितस्य कृतप्रधावनस्य, निरन्तरप्रचलितानेकनौसहस्रसंक्षोभिताम्बुधेः निरन्तरप्रचलितैः-अनवरतप्रस्थितैः, अनेकनौसहनैःअनेकसहस्रसंख्यकनौभिः, संक्षोभितः-उन्मथितः, अम्बुधिः-समुद्रो येन तादृशस्य, पुनः, अर्धपथदृष्टस्य अर्धमार्गावलोकितस्य, पार्थिवलोकस्य नृपजनस्य, तं प्रतीति यावत् , वृथागमनलजाविलक्षाक्षं वृथागमनेन-व्यर्थमेवाज्ञातस्थाने प्रयाणेन, या लज्जा तया, विलक्ष-विषणं निमीलितमिति यावत्, अक्षि-नेत्रं यस्मिंस्तादृशम् , आननं मुखमण्डलं, दर्शयितव्यं दर्शमितुमुचितम् । च पुनः, प्रणयिवर्गस्य स्वस्नेहास्पदगणस्य, सहसा शीघ्र, हेपणं लज्जाजनक, स्वचरितं वकृत्यं, कथं केन प्रकारेण, आवेदनीयं विज्ञापनीयम् , कीदृशस्य ? दूरादेव दर्शितस्मितस्य प्रकटितमन्दहासस्य, पाच निकटम् , उपगतवतः आगतवतः, आगमिष्यत इति यावत् ,क्क कुत्र, गताः, किमर्थ किंनिमित्तं, मताः, भवन्त इति शेषः । पुनः किं दृष्टं दृष्टिगोचरीकृतम्, पुनः किम् अनुभूतम् अनुभवगोचरीकृतम्, पुनः किं वस्तु आसादितं प्राप्तम् , इत्यादि पृच्छतः जिज्ञासा प्रकटयतः । च पुनः, आवासस्थानं खनिवासस्थान राजधानीमिति यावत् , उपागतेन, समागतेन