SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । २४३ सप्रागल्भ्यमार्यामिमां पपाठ गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमंचिरेण । स्थातासि पत्रपादपगहने तत्रान्तिकस्थाभिः ॥ अस्यां च पठ्यमानायामवहिताः सर्वे सभासदो बभूवुः । परिभावयतामेव च तेषां पाठसमकालमेव प्रज्ञाबलेन बुद्धा कोशलाधिपतिसूनुरवदत् - 'सखे ! यत् तदासादितं त्वया तथाविधं ताडीपत्रकम्, असावनङ्गलेखस्तावत् । स च कयाचिदीश्वरकन्यया समारूढमैौढयौवनया गुणानुरागप्रगुणितेन स्वचेतसा विदग्धाप्तसहचरीजनेन वा भूयो भूयः प्रवर्तितया कुमारीजन सहोत्थामपत्र पामपहाय कस्यचित् पूर्वमेवानुरागपिशुनैरिङ्गिताकारैरभिनन्दितोपांशुप्रयुक्तप्रार्थनस्य 'सुतनु ! सततानुवृत्तिपरोऽपि गुरुभिस्त्वदीयैर्नाह मनुगृहीतो भवत्याः प्रदाने, तदिदानीमनिच्छतोऽपि मे दुरात्मनानेन मदनवह्निना दह्यमानमिदमनुचितेनापि विधिना जीवितस्वामिनीं कर्तुमिच्छति त्वामतर्कितोपायान्तरं हतहृदयम्, अतो नाहमत्रापराधी' टिप्पनकम् - उपांशु - रहः [ङ] । रणं यत्र तादृश्या, गिरा वाण्या, सप्रागल्भ्यं प्रागल्भ्येन- प्रौढतया सहितं यथा स्यात् तथा, इमाम् उपस्थिताम् आर्या पपाठ पठितवान् गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमचिरेण । स्थातासि पत्रपादप गहने तत्रान्तिकस्थानिः ॥ १ ॥ गुरुभिः मत्पित्रादिभिः, अदत्तां विद्वेषवशेन स्वयमप्रतिपादिताम् माम्, अक्रमात्प्रसिद्धोद्वाहृप्रकारं विनैव, बलादपहारेणेत्यर्थः, वोढुं परिणेतुम्, वाञ्छन् इच्छन् त्वम्, तत्र तस्मिन् यत्रावयोः सम्मेनमभूदित्यर्थः, पत्रपादपगहने पत्र पूर्णवृक्षवने, अन्तिकस्थाग्निः पार्श्वस्थितानिरूपवैवाहिकोपकरणः, अचिरेण अविलम्बेन, स्थातासि स्थास्यसि, गृहे गुरुजनानुमतिरहितोद्वाहस्यानौचित्यादसम्भवाच्चेत्यर्थः, यद्वा बलादपहरणपूर्व कोद्वा हजन्यप्रत्यवायेन, अन्तिकस्थाझिः पार्श्वज्वलदभिः, असिपत्रपादपगहने असयः खगाः, खड्गवन्मारणसामर्थ्य कलितानीत्यर्थः, पत्राणि येषां तादृशानां पादपानां नारकवृक्षाणाम् गहने वने, स्थाता स्थितिकर्ता, भविष्यतीति शेषः, नरकं प्राप्स्यतीत्यर्थः । च पुनः अस्याम् आर्यायाम्, पठ्यमानायाम् उच्चार्यमाणायाम्, सर्वे सकलाः, सभासदः सभोपविष्टाः, अवहिताः तदर्थविचारे सावधानाः बभूवुः जाताः । परिभावयतामेव तदर्थमालोचयतामेव, तेषां सभासदां मध्ये, कोशलाधिपतिसूनुः कोशलाधिपतेः - कोशल देशाधिपतेः, मेघवाहनस्य, सूनुः - कुमारः, हरिवाइनः, प्रशाबलेन खंबुद्धिबलेन, पाठसमकालमेव पाठसमय एव, बुद्ध्वा तत्तात्पर्यमवधार्य, अवदत् उक्तवान् । किमित्याह - सखे ! भो मित्र !, त्वया मञ्जीरेण, तथाविधं तादृशम्, तत् अनुपदप्रस्तुतम्, यत् ताडीपत्रकम्, आसादितं प्राप्तम्, असौ सः, अनङ्गलेखः कामदेव विषयक लेखः, तावदिति वाक्यालङ्कारे । स च प्रकृतलेखश्च कयाचित् अविदितनान्या, ईश्वरकन्यया धनाढ्य - कुमार्या, कस्यचित् कस्यापि, महानागरिकस्य अत्यन्त नागरिकस्य, नगरवास्तव्यतया कान्तोपभोगकुशलस्य, यूनः तरुणपुरुषस्य, पार्श्व इति शेषः, प्रेषितः प्रेषणकर्मीकृतः कीदृश्या तया ? समारूढप्रौढयौवनया समारूढं सम्यगवाप्तम्, प्रौढं-प्रगल्भम्, यौवनं तम्हण्यं यया तादृश्या, पुनः गुणानुरागप्रगुणितेन अभिमतनायक गुणप्रीतिवृद्धेन, स्वचेतसा स्वकीयहृदयेन, विदग्धाप्तसहचरीजनेन वा निपुणविश्वस्त सखीजनेन वा, भूयो भूयः पुनः पुनः प्रवर्तितया प्रेरितया, कीदृशस्य यूनः ? तयेश्वरकन्यया कुमारीजन सहोत्थामपत्रपां कुमारीजनानां सहोत्था सहजा, या अपत्रपा - अन्यहेतुक. लज्जा, ताम्, अपहाय त्यक्त्वा, अनुरागपिशुनैः अनुरागसूचकैः, इङ्गिताकारैः चेष्टिताकारैः, आकारचेष्टया, पूर्वमेव, अभिनन्दितोपांशुप्रयुक्तप्रार्थनस्य अभिनन्दिता - अनुमोदिता, अङ्गीकृतेत्यर्थः, उपांशुप्रयुक्ता - रद्दसि कृता, प्रार्थना यस्य तादृशस्य, पुनः 'सुतनु ! हे सुन्दराङ्गि !, सततानुवृत्तिपरोऽपि निरन्तरानुसरणपरायणोऽपि, अहं भवत्याः श्रीमत्याः, प्रदानेन त्वदीयैः भवदीयैः, गुरुभिः पित्रादिभिः, न अनुगृहीतः अनुकम्पितः, तत् तस्माद्धेतोः, इदानीं सम्प्रति, अनिच्छितोऽपि त्वामनभिलषतोऽपि, 'मम, दुरात्मना दुष्टात्मना, अनेन प्रत्यक्षभूतेन, मदनवह्निना कामामिना, दह्यमानं सन्तप्यमानम्, अतर्कितोपायान्तरम् अतर्कितम् - अनालोचितम् उपायान्तरम् - उचित प्रकारान्तरं येन ताहशम्, इदं सन्निकृष्टम्, हतहृदयं कलुषितहृदयम्, अनुचितेनापि अयोग्येनापि, अवैधेनापीत्यर्थः, विधिना प्रकारेण, त्वां जीवितस्वामिनीं स्वप्राणस्वामिनीम्, स्वप्राणप्रियामित्यर्थः कर्तुं विधातुम्, परिणेतुमित्यर्थः इच्छति अभिलषति, 3
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy