________________
२४२
टिप्पनक-परागविवृतिसंवलिता संदा नितोभयान्तमभिमतवियोगविधुराभीरकामिनीकपोलपाण्डु ताडीपत्रखण्डमवलोकितम् [ग] आदाय च सकौतुकेनोत्तरीयवस्खैकदेशे नियत्रितम् , अवसितायां च यात्रायां निज निवासमागतेन विजने निविश्य कौतुकावेशात् कस्येदमिति सर्वतो निरूपितम् , अपश्यता च पृष्ठे नामाक्षराणि तत्क्षणमेवापनीय मुद्रामुद्वेष्टितम् , दृष्टा च तत्र ललितपदसंनिवेशा सान्द्रमृगमदमषीपङ्कलिखितैः प्रत्यप्रकुकुमपत्रभङ्गशोभिभिः कृष्णागुरुधूपवाससंभृतसौरभातिरेकैरभिनवमौक्तिकक्षोदविशदवर्णेन पुण्यपरिमलमुचा कपूरचूर्णेन समन्तादवकीर्णैर्निरन्तरैरपि परस्परासंस्पर्शिभिरवाप्तपरिणतिप्रकर्षैरपि सुकुमारसर्वावयवैरक्षरैरुपेता दुरवबोधतात्पर्यवस्तुरेकैवार्या, परिभाविता च वारंवारमादरव्यापारितहृदयेन, न तु तदीयं हृदयमवगतम् ; [ध] । तदादिशतु कुमारः सर्वमेवानुक्रमेण किं तत् पत्रक केन प्रेषितं कस्य वा प्रेषितं किमत्र कार्य विवक्षितम् । इत्युदीर्य विशदवर्गोच्चारया गिरा
टिष्पनकम्-निरन्तरैरपि परस्परसंस्पर्शिभिः यानि अन्तररहितानि तानि कथं परस्परासंस्पर्शीनि, अन्यत्र निरन्तराणि-संततानि, परस्परासलमानि च । अवाप्तपरिणतिप्रकर्षेरपि सुकुमारसर्वावयवैः ये प्रातपरिणामप्रकर्षास्ते कथं सौकुमार्ययुक्तसकलभुजाअवयवाः, अन्यत्र प्रकृष्टपरिणामानि मुश्लिष्टसर्वशिरःप्रभृत्यवयवानि च [घ।
बन्धेन चन्दनपङ्कमयी या वेदिका-वेदिकाप्रतिकृतिः, तद्वन्धेन-तन्निवेशेन, सन्दानितोभयान्तं सन्दानितौ-बद्धौ, उभयान्तीपूर्वापरान्तभागौ यस्य तादृशम् , पुनः अभिमतवियोगविधुराभीरकामिनीकपोलपाण्डु अभिमतवियोगेन-इष्टवियोगेन, विधुरा-व्यथिता, या आभीरका मिनी गोपवधूः, तस्याः कपोलवत्-गण्डस्थलवत्, पाण्डु-पीतशुक्लवर्णम् [ग] च पुनः,
आदाय गृहीत्वा, सकौतुकेन कुतूहलसहितेन, मयेति शेषः, उत्तरीयचौकदेशे उत्तरीयवस्वाञ्चले, नियन्त्रितं बद्धम् । च पुनः, यात्रायां यात्रोत्सवे, अवसितायां समाप्तायाम् , निजनिवासं खगृहम् , आगतेन, मयेति शेषः, विजने रहसि, कौतुकावेशात् कुतूहलोदयात् , कस्य किंसम्बन्धि, इदं प्रत्यक्षभूतं पत्रम् , इति सर्वतः समन्तात् , निरूपितं विलोकितम् । च पुनः, पृष्ठे पृष्ठभागे, नामाक्षराणि नामघटकान्यक्षराणि, अपश्यता अनवलोकमानेन, मयेति शेषः, तत्क्षणमेव तत्कालमेव, मुद्राम् उभयान्तबन्धनम्, अपनीय दूरीकृत्य, उद्वेष्टितम् उद्घाटितम्, तत् पत्रमिति शेषः । च पुनः, तत्र तस्मिन् पत्रे, एकैव अद्वितीयैव, आर्या तदाख्यवृत्तबद्धः श्लोकः, दृष्टा दृष्टिगोचरीकृता । कीदृशी ? ललितपद सन्निवेशा ललितः-सुन्दरः, पदसन्निवेश:-पदविन्यासो यस्यां तादृशी; पुनः सान्द्रमृगमदमषीपङ्कलिखितैः सान्द्रःनिबिडो यः, मृगमदस्य-कस्तूरिकायाः, मषीपङ्कः-पत्राज्ञनकर्दमः, तेन लिखितैः, पुनः प्रत्यग्रकुमपत्रभङ्गशोमिभिः प्रत्यग्रस्य-अभिनवस्य, कुडमपत्रस्य-केसरपत्रस्य यः, भङ्गः-खण्डः, तद्वत् शोभनशीलः, पुनः कृष्णागुरुधूपवाससम्भृतसौरभातिरेकैः कृष्णागुरुधूपस्य-कालागुरुधूपस्य, वासेन-सौरमेण, सम्भृतः-समोधेतः, सौरभातिरेकः-सुगन्धातिशयो येषां तादृशैः, पुनः कर्पूरचूर्णेन कर्पूरपरागेण, समन्तात् सर्वतः, अवकीर्णैः व्याप्तैः, कीदृशेन ? अभिनवमौक्तिकक्षोदविशदवर्णन अभिनवो यो मौक्तिकक्षोदः-मुक्तामणिचूर्णम् , तस्येव विशदः-शुभ्रः, वर्ण:-कान्तिर्यस्य तादृशेन, पुनः पुण्यपरिमलमुचा पुण्यः-मनोहरो यः, परिमल:-गन्धः, तन्मुचा-तदभिव्यञ्जकेन, पुनः निरन्तरैरपि अवकाशरहितैरपि, परस्परासंस्पर्शिभिः परस्परमसंसृष्टैरिति विरोधः, तत्परिहारे तु निरन्तरैः-सान्द्ररित्यर्थः, पुनः अवाप्तपरिणतिप्रकर्षेरपि प्राप्तपरिपाकोत्करपि, सुकुमारावयवैः कोमलावयवैरिति विरोधः, घटादेः परिपाकोत्तरं काठिन्योदयात् , तत्परिहारे तु मसीदाथै प्राप्तदायोत्कर्षैः, प्राप्त फलप्रसवोत्करिति वार्थः, अक्षरैः लिपिभिः, उपेता अन्विता, पुनः दुरवबोध. तात्पर्यवस्तुः दुर्वेद्यभावार्था । च पुनः, आदरब्यापारितहृदयेन आदरेण व्यापारित-प्रेरितं हृदयं यस्य येन वा तादृशेन, मयेति शेषः, परिभाविता विचारिता, तदीयं तस्या आर्यायाः, हृदयं गूढार्थवस्तु, न अवगतं ज्ञानम् [घ] 1 तत् तस्माद्धेतोः कुमारः श्रीमान् , अनुक्रमेण मत्प्रश्नक्रमानुसारम् आदिशतु बोधयतु,तत् पत्रकं ताडीपत्रम् ,किं किमर्थकम् !, केन प्रेषितं प्रेषणकर्मतामापादितम् ?, वा अथवा, कस्य पार्श्व इति शेषः, प्रेषितम् ?, अत्र अस्मिन् पत्रे, किं कार्य कर्तव्यम् , विवक्षितं वक्तुमभिप्रेतम् ?, इत्युदीर्य इत्युक्त्वा, विशदवर्णोच्चारया विशदः-विस्पष्टः, वर्णानामुच्चारः-उच्चा