________________
२४४
टिप्पनक-परागविवृतिसंवलिता इति दूतीमुखेन च ख्यापितनिजसाहसाध्यवसायस्य महानागरकस्य यूनः प्रेषितः [3] । प्रयोजनं पुनरत्रेदं विवक्षितम्-अकारणद्विष्टैर्मदीयगुरुभिः सामप्रयोगोपक्रमेण कथञ्चिदपि न प्रतिपादितामपमानासहिष्णुत या प्रसिद्धमपहाय क्रममपहारादिना प्रकारेण मामुद्वोदुमिच्छन्ननुचितकारी त्वम् , अतो मा त्वरस्व, सेत्स्यति तवैष कामः, यतः कतिपयैरेव दिवसैर्यत्र पुरादर्शनमाषयोरभवत् , तत्र पत्रप्रायपादपगहने निगूहितो मदीयदूतिकया त्वमनपेक्षितापरविवाहमङ्गलोपकरणः केवलेनैवामिना सनाथीकृतपार्श्वः स्थास्यसि । स्थितश्च तत्र द्वित्राभिराप्तसहचरीभिः सहानुपदमेव मे समुपस्थितायाः पाणिग्रहणमग्निसाक्षिकं कर्तासीति । यः पुनरिहापरः 'केनापि वैगुण्येन गुरुभिरप्रदत्तामभिलषन मामन्यायतः क्षिप्रमेव प्राप्य नारकत्वमन्तिकज्वलदग्निरसिपत्राणां पादपानां गहने स्थाता त्वं पापकारिन् !' इति शापरूपोऽर्थः प्रकाशते, स सर्वथा निरवकाश एव । नहि विरक्ताः स्त्रियः कदाचिदक्षिगतानामीक्षणहारिणस्तादृशानुदारविरचनाँल्लेखानभिलिख्य तथाऽत्यादरेण
टिप्पनकम्-अक्षिगतानां शत्रूणाम् [च]।
सङ्कल्पत इत्यर्थः, अतः अस्माद्धेतोः, अत्र अस्मिन् , अवैधाचरण इत्यर्थः, अहम् , अपराधी दोषी, न भवेयमित्यर्थः, इति इत्यम्, दूतीमुखेन खदूतीद्वारा, ख्यापितनिजसाहसाध्यवसायस्य ख्यापितः-सन्देशवाचा निवेदितः, निजसाहसस्य-खानुचितकार्यस्य, अध्यवसायः-उद्योगो येन तादृशस्य [0] । पुनः अत्र अस्मिन् लेखे, इदं प्रयोजनं फलम् , विवक्षितं वक्तुमभिप्रेतम् , अकारणद्विष्टैः विनैव कारणम् अप्रीतिं प्रापितैः. मदीयगुरुभिः मत्पित्रादिभिः, सामप्रयोगोपक्रमेण सामप्रयोगरूपः-सान्त्वनारूपो य उपक्रमः-प्रकारः, तेन कथञ्चिदपि कथमपि, न प्रतिपादितां दत्ताम् , माम् , अपमानासहिष्णुतया अप्रतिपादनजन्यानादरासहनशीलतया, प्रसिद्धं वैधतया शिष्टाचारसिद्धम् ,क्रम परिणयप्रकारम् , अपहाय त्यक्त्वा, अपहारादिना बलाद् ग्रहणप्रभृतिना, प्रकारेण, उद्वोदं परिणेतुमिच्छन् , त्वं भवान्, अनुचितकारी अयोग्याचारी, वर्तसे इति शेषः, अतः अस्माद्धेतोः, मा त्वरख न त्वरां कुरु, तव एष कामः मत्परिणयमनोरथः, सेत्स्यति सिद्धिमेष्यति, यतः यस्मात् , कतिपयैरेव परिगणितैरेव, दिवसैः दिनैः, यत्र यस्मिन् , आवयोः, दर्शनं परस्सरमवलोकनम् , अभूत् जातम् , तत्र तस्मिन् , पत्रप्रायपादपगहने पत्रपूर्णवृक्षवने, मदीयदूतिकया महत्या, निगृहितः पिहितः, त्वम्, अनपेक्षितापरविवाहमङ्गलोपकरणः अनपेक्षितम् . अपरं-अग्न्यतिरिक्तम् विवाहरूपस्य मङ्गलस्य-शुभकर्मणः, उपकरण-साधनं येन तादृशः, केवलाग्निना अग्निमात्रतदुपकरणेन. सनाथी सनाथीकृत-सनाथतामापादितम्, पार्श्व-सविधं यस्य तादृशः, स्थास्यसि वर्तिध्यसे, च पुनः, तत्र तस्मिन् स्थाने, स्थितः कृतावस्थितिकः, द्वित्राभिः द्वाभ्यां तिसृभिर्वा, आप्तसहचरीभिः विस्रब्धसखीभिः, सह, अनुपदमेव अतिशीघ्रमेव, समुपस्थितायाः समागतायाः, समागमिष्यन्त्या इत्यर्थः, मे मम, अग्निसाक्षिकम् अग्निरेव साक्षी-साक्षादृष्टा, प्रमाणभूत इत्यर्थः, यस्य तादृशम्, पाणिग्रहणं विवाहम्, कर्तासि करिष्यसि, इति । इह अस्यामार्यायाम , केनापि केनचित्, वैगुण्येन दोषेण, गुरुभिः पित्रादिभिः, अप्रदत्तां प्रदानकर्मतामनापादिताम् , माम् , अभिलषन् बलादुद्वोढुं वान्छन् , त्वम् , अन्यायतः अनुचिताचरणात् , क्षिप्रमेव शीघ्रमेव, नारकत्वं नरकदुःखभोक्तृत्वम् , प्राप्य, अन्तिकज्वलदग्निः अन्तिके-निकटे, ज्वलन्-दीप्यमानः, अग्निर्यस्य तादृशः, ताइगग्निसन्तप्यमानः समित्यर्थः, असिपत्राणां असयः-कृपाणाकाराणि कृपाणवद्धातकानि च पत्राणि येषां तादृशानाम्, पादपानां वृक्षाणाम् , गहने बने, स्थाता भविष्यसीति शेषः, पापकारिन् ! भोः पापिन् 1, इति ईदृशः, यः, पुनः, अपरः, शापरूपः, अर्थः अर्थान्तरमित्यर्थः, प्रकाशते श्लेषमहिना प्रतिभासते, सः अर्थः, सर्वथा सर्वप्रकारेण, निरवकाश एव असत एव । यतः विरक्ता अपरक्ताः, स्त्रियः, ईक्षणहारिणः नयनहारिणः, उदारविरचनान् विशिष्टविन्यासान् , तादृशान् अनुपदोपवर्णितस्वरूपान् , लेखान् , अभिलिख्य सम्यग्लिखित्वा, अक्षिगतानां शत्रुभूतजनानाम् , पार्श्व इति शेषः, तथाऽत्यादरेण ताहगल्यन्तादरेण, कदा