________________
तिलकमञ्जरी ।
२९५
कुलिशपातशङ्काविदीर्णहृदयनिर्गलत्प्राणैरिव निशम्यमानो मैनाकवग्र्यैर्गिरिभिः समन्तात् तस्तार दिगन्तराणि तारगम्भीरः सैन्यावासमेरीध्वनिः [र], येन श्रुतिविषय मायातेन स्तम्भितेवाऽऽहूतेव दत्ताज्ञेव सावरूथिनी क्षणमेकमखापि निश्चला बभूव, उच्चचाल च गतिरभसचलितध्वजावचूलचामरा प्रत्यचलम, अन्योऽन्यसंघट्टविघटितानेकयानपात्रा च प्राप कष्टेन घट्टोद्देशम् [ ल ] । अथ दशाशामुखविसर्पी सर्पितस्तास्तुमुलेन प्रतिवेलमास्फालितवेलातटानामुदधिवीचीनामुदचता दूरमश्रान्तसंतानेन कलकलेन विघटितजलदेवतावृन्द
निद्रः [ व ]
'भद्र ! सर पुरः किञ्चित्; आर्य ! देहि गमनमार्गम्; अङ्ग ! मा पीडय ममाङ्गमङ्गेन; मङ्गलक ↓ कोऽयं बलदर्पः ? कूर्पराघातैः परानाहंसि; हंस ! हस्य से दूरमुत्क्षिप्तनिष सनाग्र पल्लवोऽनया, लावण्यवति ! पृष्ठतो निबिडलग्ना पीडयसि मामन्तर्बहिश्चातिनिष्ठुरेण वल्गता पुरस्तनपीठेन; तरङ्गिके ! दूरमपसर, विनिता गतिस्तव
टिप्पनकम् - तालतुमुलेन उच्चाव्यक्तशब्देन [व] |
मानानि दीर्घीभवन्तीत्यर्थः पुनः गुहामुखात् कन्दराग्रात् उत्पतन्ति - उच्छलन्ति, केसरिकुलानि - सिंहगणा येषु तादृशैः, मैनाकवयैः मैनाकजातीयैः, गिरिभिः पर्वतैः कुलिशपातशङ्काविदीर्णहृदय निर्गलप्राणैरिव कुलिशपातशङ्कयावज्रपातशङ्कया, विदीर्णात् पाटितात्, हृदयात, निर्गलन्तः- निर्गच्छन्तः प्राणा येषां तादृशैरिवेत्युत्प्रेक्षा, निशम्यमानः श्रूयमाणः [र] | श्रुतिविषयं श्रवणगोचरताम्, आयातेन आगतेन प्राप्तेनेत्यर्थः, येन मेरीध्वनिना, स्तम्भितेव निरुद्धेव आहूतेव कृताहानेव, दत्ताज्ञेव कृतादेशेव, अखिलापि समस्तापि, वरूथिनी सेना, एकं क्षणं निश्चला स्थिरा, बभूव अभूत् । च पुनः, गतिरभसचलितध्वजावचूल वामरा गतिरभसेन-गमन वेगेन, चलितानि - उद्धूतानि, ध्वजावचूलचामराणि - ध्वजाधोमुखशिख चामराणि यस्यां तादृशी सती, च पुनः प्रत्यचलं पर्वतं प्रति, उच्चचाल उत्कर्षेण चलितवती । अन्योऽन्यसङ्घट्ट विघटितानेकयानपात्रा अन्योऽन्यसङ्घट्टेन- परस्पर सङ्घर्षेण, विघटितानि - विश्लेषितानि, विदारितानीति यावत्, अनेकानि यानपात्राणि - पोता यस्यास्तादृशी सती, कष्टेन क्लेशेन, घट्टोद्देशं तीरोर्ध्वदेश, प्राप प्राप्तवती [ल ] | अथ अनन्तरं शिबिरलोकस्य सैनिकजनस्य, कलकलः कोलाहलः, 'उल्ललास उदभूत्' इत्यत्रेणान्वेति कीदृश: ? दशाशामुखविसर्पी दशदिगन्त प्रसरणशीलः, पुनः प्रतिवेलं तस्यां तस्यां जलधिनीरविकाररूपायां वेलायाम्, आस्फालितवेलातटानाम् आइतनिरुक्तवेलाविषयतीराणाम् उदधिवीचीनां समुद्रतरङ्गाणां, दूरम्, उदञ्चता उद्गच्छता, पुनः अधान्तसन्तानेन अविच्छिन्नपरम्परेण, पुनः तारतुमुलेन उच्चगम्भीरेण, कलकलेन - कोलाहलेन, विसर्पितः प्रसारितः, वर्धित इति यावत् । पुनः कीदृशः कलकलः ? विघटितजलदेवता वृन्दनिद्रः विघटिता- विध्वंसिता, जलदेवतावृन्दस्य जलवासिदेवगणस्य, निद्रा येन तादृशः पुनः इत्यादिश्श्रूयमाणानेक सैनिकशतालापः इत्यादयःएवंविधाः श्रूयमाणा अनेके सैनिकशतस्य - शतसंख्यक सैनिकानाम्, आलापाः - आभाषणानि यस्मिंस्तादृश इति दूरवर्तिविशेषणान्तरम् [ व ], तत्र किमादयस्तदालापा इत्याह
·
भद्र कल्याणिन् ! पुर: अग्रे, किञ्चित् ईषत् सर गच्छ; आर्य! श्रेष्ठ !, गमनमार्ग गमनावकाशं, देहि; अङ्ग ! भो ! मम अङ्गं शरीरावयवम्, अङ्गेन शरीरावयवेन, तत्संघट्टनेनेत्यर्थः, मान, पीडय व्यथय; मङ्गलक ! कल्याणिन् ! यद्वा तत्संज्ञक1 अयम् अनुभूयमानः, बलदर्पः बलगर्वः कः ? येनेति शेषः, कूर्पराघातैः भुजमध्यप्रन्थिकृताभिघातैः, परान् अन्यान्, आहंसि ताडयसि; हंस ! तत्संज्ञक !, दूरमुत्क्षिप्त निवसनाग्रपल्लवः दूरमुत्क्षिप्तः - आर्द्रताभयादत्यन्तमुपरिगात्रे समानीतः, निवसनापत्रः - वस्त्रप्रान्तभागरूपः पलवो येन तादृशः, अनया स्त्रिया, हस्यसे विडम्ब्य से; लावण्य वति ! सौन्दर्यवति !, पृष्ठतः पृष्ठभागे, निबिडलग्ना अतिसंसृष्टा, त्वमिति शेषः, अतिनिष्ठुरेण अतिकठिनेन, पुनः पुरः अमे, चलता गच्छता, स्तनपीठेन स्तनतलेन, अन्तः मनसि बहिश्च बाह्यप्रदेशे च पीडयसि क्लेशयसि तरङ्गिके ! तन्नाम्नि ! दूरम्, अपसर अपगच्छ, तव जघनभित्त्या कटिपुरोभागरूपभित्त्या, सर्वतः सर्वभागेषु, निरुद्धमार्गस्य