________________
२९६
टिप्पनक - परागविवृतिसंवलिता
जघनभित्त्या सर्वतो निरुद्धमार्गस्यास्य सैनिकवर्गस्य; लवङ्गिके ! परिकरबन्धदर्शनेऽपि परिचारकः खिन्नसकलगात्रयष्टिर्यथैष कम्पते तथावश्यमवतरन्त्यास्तरीतस्तव घनस्तनजघनभारेण पीडितो ब्रीडयिष्यति प्रेक्षकजनम् ; व्याघ्रदत्त ! धाव, शीघ्रमेषा विपद्यते निपतिता पोतात् पितामही मकरिकायास्तव श्वश्रूः अश्रूणि किं सृजसि ? विसृज वार्तामपि तस्य तथाविधस्थानपतितस्य दस्युनगरनारी कर्णभूषणसुवर्णस्य; स्तेनलूनप्रन्थिः पथि प्राप्स्यति विनाशं विना शम्बलेन बलभद्रकः; भद्रकं भवति यद्यासाद्यते समग्रमुग्रजनसंमर्द पीडितेन मया परेषामर्पितं सर्पिः; चयस्य ! वसुदत्त ! किमुत्तरं दास्यामि भर्तुराविष्टस्य ? विनष्टाः क्षारोदकेन मोदका:; . [श ] मन्थरक ! सा स्थवीयसी कन्था गलितमात्रैव करतलाद् गिलिता तिमिङ्गिलेन, गललग्ग्रहस्तेन मर्तव्यमधुना हिमर्ती शीतेन; भ्रातर् ! उत्प्लुत्य नौफलकाद् दत्तफालेन निष्फलमेव भग्नस्त्वया जानुः, अनुचराधीनेन धीधनेनाधुना व्यवहर्तव्यम्; अमिमित्र ! परिहृत्य तीर्थमुत्पथेन व्रजन्नतिथिर्भविष्यसि प्राहाणाम् ; अरे ग्रहिक ! मा वृथा कुट्टय पृष्ठकर्परे कूर्मम्, उदरमर्म पीडयाऽस्य निचिडमङ्गुलीयुगलेन;
टिप्पनकम् - स्थवीयसी स्थूलतरा । ग्रहः - जलचरः । प्रसेवकः -कोत्थलकः । निरनुक्रोशो निर्दयः, क्रोश रुन्दं गव्यूतिविस्तीर्णम् । प्लवकः मण्डूकः [ ष ] ।
अवरुद्धमार्गस्य, अस्य वर्तमानस्य, सैनिकवर्गस्य सैन्यसमूहस्य, गतिः गमनं, विनिता प्रतिबद्धा; लवङ्गिके ! तत्संज्ञिके !, परिकरबन्धदर्शनेऽपि उत्तरीयाधरीयवस्त्राभ्यां दृढगात्रबन्धावलोकनेऽपि स्विन्नसकलगात्रयष्टिः खिन्ना - खेदार्दा, सकला - संपूर्णा, गात्रयष्टि:- शरीररूपा यष्टिर्यस्य तादृशः, एषः, परिचारकः सेवकः, यथा कम्पते कम्पं प्राप्नोति तथा, तरीतः नौकातः, अवतरन्त्याः अधो गच्छन्त्याः, तव, घनस्तनजघनभारेण घनयोः - सान्द्रयोः, स्तनयोः, जघनयो:कटिपुरोभागयोश्च भारेण, पीडितः क्लेशितः सन् प्रेक्षकजनं दर्शकजनं, व्रीडयिष्यति लज्जयिष्यति; व्याघ्रदत्त ! व्याघ्रदत्तनामक!, धाव सत्वरमागच्छ, पोतात् जलयानपात्रातू, निपतिता स्खलिता, मकरिकायाः तत्संज्ञकस्त्रियाः, पितामही पितृमाता, तब श्वश्रूः श्वशुरभार्या, एषा, शीघ्रं झटिति, विपद्यते म्रियते; अश्रूणि नेत्रजलानि, किं किमर्थ, सृजसि मुसि, तथाविधस्थानपतितस्य तादृशस्थाने भ्रष्टस्य, दुरवगाहप्रदेशे स्खलितस्येति यावत् तस्य अनुभूतपूर्वस्य, दस्युनगरनारीकर्णभूषणसुवर्णस्य शत्रुनगरस्थकामिनी कर्णालङ्करणभूतस्य, सुवर्णस्य वार्तामपि कथामपि, विसृज त्यजः बलभद्रकः तन्नामा कश्चित् पश्चाद्रष्टः सैनिकः, स्तेनलूनग्रन्थिः स्तेनेन चौरेण, लूना- उन्मुक्ता, ग्रन्थिःपाथेयबन्धो यस्मिंस्तादृशं यथा स्यात् तथा, पथि मार्गे, शम्बलेन-पाथेयेन, विना, विनाशं प्राप्स्यतिः भद्रकं कल्याणं, भवति भविष्यति, यदि उग्र जनसम्मर्द पीडितेन उग्रेण-भयानकेन, जनसम्मर्देन-जनसङ्घर्षेण, पीडितेन व्यथितेन, मया परेषाम् अन्येषाम्, अर्पित, समग्रं समस्तं सर्पिः घृतम्, आसाद्यते प्राप्यते; वयस्य ! सखे!, वसुदत्त तन्नामक !, आविष्टस्य कोपादेशमापन्नस्य, भर्तुः खामिनः, किम् ? उत्तरं प्रतिवचनं दास्यामि वक्ष्यामि, क्षारोदकेन क्षाररमवता जलेन, मोदकाः खाद्यविशेषाः, विनष्टाः विध्वस्ताः मन्थरक ! तन्नामक | स्थवीयसी अतिस्थूला, सा कन्था प्रावरणविशेषः करतलात् हस्ततलात्, गलितमात्रैव स्खलितमात्रैव, तिमिङ्गलेन मत्स्यविशेषेण, गिलिता भक्षिता, हिमत हेमन्तऋतौ अधुना सम्प्रति, गललग्नहस्तेन गले लग्नो हस्तो यस्मिंस्तादृशेन, शीतेन तुषारपातेन, मर्तव्यं मरणावसर उपस्थितः; भ्रातः ! बन्धो !, नौफलकात् नौपट्टिकातः, उत्प्लुत्य उत्पत्य, दत्तफालेन कृतकूर्दनेन त्वया, निष्फलमेव वृथैव, जानुः ऊधपर्व, भग्नः व्रणितः, अधुना सम्प्रति, धीधनेन धीमता, अनुचराधीनेन भृत्याधीनेन तद्वारकेणैवेत्यर्थः, व्यवहर्तव्यं व्यवहर्तुं शक्यं, न तु खयमेव; अग्निमित्र ! तत्संज्ञक !, तीर्थम् अवतरणमार्ग, परिहृत्य त्यक्त्वा, उत्पथेन प्रतिकूलमार्गेण, व्रजन् गच्छन्, ग्राहाणां जलजन्तुविशेषाणाम्, अतिथिः प्राघुर्णिकः, भविष्यसि सम्पत्स्यते; अरे ग्रहिक! ग्रहणशील ! तक्षामक ! वा, पृष्ठकर्परे तस्य पृष्ठकटाहे, कूर्म कच्छपं वृथा व्यर्थं, मा कुट्टय ताडय, किन्तु अस्य कूर्मस्य, निबिडं सान्द्रम्, उदरमर्स उदरग्रन्थिम् अङ्गुलीद्वयेन - अङ्गुलीयुगलेन, पीडय व्यथय;