SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २९४ टिप्पनक-परागविवृतिसंवलिता चितोऽन्यः प्रदेशो द्वीपसंनिवेशः पर्वतो वा, सर्वतो वेत्रलतावनाकीर्णमपारीयमर्ण एव केवलम् [भ], अतो विलम्ब्य त्रिचतुराण्यहानि प्रतिपाल्य पृष्ठानुपातिनं सैनिकलोकं विधाय रिपुयोधमार्गणव्यथितमर्मणो वीरवर्गस्य व्रणकर्म कृत्वा विचित्रतरुफलोपपादनेन क्षीणपाथेयसंग्रहदुःस्थस्य दुर्गतपदातिसार्थस्य क्षुधः प्रतीकार प्रगुणीकृत्य पटुपवनपाटितसितपटानि गिरितटाघातविघटितफलकसंधिबन्धानि यानपात्राणि पूरयित्वा स्वादुसलिलेन रिक्तजलभाण्डानि गृहीत्वा कियन्मात्रमपि सारमिन्धनदारु गम्यते प्रतिदिनमविच्छिन्नैः प्रयाणैः, इति [म ] श्रुत्वा प्रभुः प्रमाणम्" अहं तु क्षणमात्रकृतविमर्शः प्रतिगृह्य चेतसा तस्य वचनमेवं क्रियते इत्युदीर्य तं व्यसर्जयम् [य] | गते च तत्र यथागतमतीते च कियत्यपि कालक्षणे संक्षोभितसकलजलचरः स्ववासतरुखण्डोड्डीनभारुण्डपक्षिपक्षाक्षेपरवविस्तारितस्तटशायिमहाकायकरिमकरपतनवेगदूरोच्छलितपयसा संभ्रममुत्थाय निरूप्यमाण इव पुनरमृतमन्थनारम्भभीतेनाम्भोधिना सत्वरोत्थानविस्तरद्गुहामुखोत्पतत्केसरिकुलैश्च पोताः, अर्गलितानीव केनापि निरुद्धानीव, शिबिरगामिन सैनिकाऽऽवासगामिनं, मार्ग पन्थानं, न, अभिधावन्ति शीघ्रं गच्छन्ति । इतः अस्मात् प्रदेशात्, चलितानां प्रस्थितानाम् , आश्रयोचितः विश्रामयोग्यः, नेदीयान् अतिनिकटः, द्वीपसन्निवेशः द्वीपसंस्थानरूपः, पर्वतः तद्रूपो वा, अन्यः कश्चित् , प्रदेशः, नास्ति न वर्तते; किन्तु सर्वतः सर्वत्र, वेत्रलतावनाकीर्ण वेत्राख्यलतावनव्याप्तम् , केवलम् , अपारीयं पाररहितम् , अर्ण पव जलमेव, अस्तीति शेषः [भ] । अतः अस्मात् कारणात् , त्रिचतुराणि त्रीणि वा चत्वारि वा, अहानि दिनानि, विलम्ब्य विलम्ब कृत्वा, पुनः पृष्ठानुपातिनं पृष्ठानुगामिनं, सैनिकलोकं सैन्यजनं, प्रतिपाल्य प्रतीक्ष्य, पुनः रिपुयोधमार्गणव्यथितमर्मणः रिपुयोधानां-शत्रुभटाना, मार्गणैः-बाणैः, व्यथितानि-दुःखितानि, मर्माणि-मर्मस्थानानि यस्य तादृशस्य, वीरवर्गस्य खवीरगणस्य, व्रणकर्म चिकित्सा, विधाय कृत्वा, पुनः क्षीणपाथेयसंग्रहदुःस्थस्य क्षीणेन-व्ययं गतेन, पाथेयसंग्रहेग-पथि भोजनीयवस्तुजातेन, दुःस्थस्य-दुरवस्थितस्य, दुर्गतपदातिसार्थस्य दरिद्रपादगामिगणस्य, विचित्रतरुफलोपपादनेन विविधवृक्षफलसंग्रहेण, क्षुधः बुभुक्षायाः, प्रतीकारं प्रशमनं कृत्वा, पुनः पटुपवनपाटितसितपटानि पटुपवनैः-तीबवायुभिः, पाटिताः-छिन्नाः, सितपटाः-बद्धवस्त्राणि येषु तादृशानि, पुनः गिरितटाघातविघटितफलकसन्धिबन्धानि गिरितटाघातैः पर्वतप्रान्ताघातः, विघटितः-विश्लेषितः, फलकसन्धीनां-काष्ठपटिकासम्मेलनप्रदेशाना, बन्धो येषु तादृशानि, यानपात्राणि पोतान् , प्रगुणीकृत्य प्रकृष्टगुणानि विधाय, सज्जीकृत्येत्यर्थः, पुनः रिक्तजलभाण्डानि शून्यजलपात्राणि, स्वादुसलिलेन मधुरजलेन, पूरयित्वा पूर्णीकृत्य, पुनः कियन्मात्रं कियत्प्रमाणक, सारं दृढम् , इन्धनदारु पावकोद्दीपनकाठ, गृहीत्वा, अविच्छिन्नैः विच्छेदरहितः, प्रयाणैः प्रस्थानः, प्रतिदिनं गम्यते गंस्यते ।म: इति इत्थं, सन्देशं श्रुत्वा श्रवणगोचरीकृत्य, प्रभुः त्वं, प्रमाणं तदनुसारकर्तव्याकर्तव्यावधारणसमर्थः, इति, अहं तु क्षणमात्रकृतविमर्शः क्षणमात्रविहितभावनः, चेतसा हृदयेन, तस्य सेनापतेः, वचनं वाक्य, प्रतिगृह्य आदाय, एवं क्रियते अनुष्ठीयते, इत्युदीर्य इत्युक्त्वा, तं भट्टपुत्रं, व्यसर्जयं त्यक्तवान् अस्मि [य] । तत्र तस्मिन्, भट्टपुत्रे, यथाऽऽगतं येन प्रकारेण आगमनं कृतं तथा, गते सति, च पुनः, कियत्यपि कतिपये, कालक्षणे कालसम्बन्धिनि क्षणे, अतीते व्यतीते सति, तारगम्भीरः उच्चगम्भीरः, सैन्यावासभेरीध्वनिः शिबिरसंनिवेशसूचकभेरीनादः, समन्तात् सर्वतः, दिगन्तराणि दिङ्मध्यानि, तस्तार आच्छादितवान् , व्याप्तवान् इत्यर्थः, कीदृशः? संक्षोभितसकलजलचर: संक्षोभिताः-सम्भ्रमिताः, सकलाः-समस्ताः, जलचरा:-जलजन्तवो येन तादृशः, पुनः खवासतरुखण्डोड्डीनभारुण्डपक्षिपश्नाक्षेपरवविस्तारितः खवासभूतात्-खनिवासाधिकरणभूतात्, तरुखण्डात्-वृक्षवनात्, उडीनानाम्-उत्पतिताना, भारण्डपक्षिणां-तदाख्यपक्षिजातिविशेषाणां, पक्षाक्षेपरवैः-पक्षोत्क्षेपणध्वनिभिः, विस्तारितः-विस्तारमापादितः, पुनः तटशायिमहाकायकरिमकरपतनवेगदरोच्छलितपयसा तटशायिनां-तटसुप्तानां, महाकायाना-विशालशरीराणां, करिणाजलहस्तिनां, मकराणां-नक्राणां च, पतनवेगेन-समुद्रनिपातवेगेन, दूरमुच्छलितं, पयः-जलं यस्य तादृशेन, अत एव पुनरमृतमन्थनारम्भभीतेन पुनः-द्वितीयवारं, य अमृतमन्यनस्य-सुरासुरकर्त कामृतोद्धरणार्थविलोडनस्य, आरम्भः-उपक्रमः, तभीतेन, अम्भोधिना समुद्रेण, ससम्भ्रमं सम्भ्रमपूर्वकम् , उत्थाय, निरूप्यमाण इव निश्चीयमान इवेत्युत्प्रेक्षा, च पुनः; सत्वरोत्थानविस्तरहहामुखोत्पतत्केसरिकुलैः सत्वरोत्थानेन-ससम्भ्रमोत्थानेन, विस्तरन्ति-विस्तारमापद्य
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy