SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ २९३ तिलकमञ्जरी। रमणीयतातिशयदर्शनप्रीतमनसा सुचिरमवलोक्य नायमुद्रागतुङ्गातिपिशङ्गिताशामुखो वज्रमणिरिव कृत्रिमैमणिभिः पाषाणमृन्मयैरमीभिरचलैः सहैकत्र समवायमर्हतीति विमृश्य सेतोः पृथक् पाथोनिधौ निहितः, पयोधिनापि पुत्रबहुमानादात्मनः क्रीडागिरित्वेनोपकल्पितः [ फ], तदत्र विपुलावकाशपरिसरे सुप्रापशीतलस्वादुनिर्झराम्भसि स्वच्छन्दलभ्यचन्दनादिपादपैसि निरन्तरफलितनालिकेलकदलीपनसपिण्डखर्जूरप्रायतरुपण्डे तरङ्गिणीतीरसुलभदेवतार्चनोचितविशालमणिशिले युक्तमावासयितुम् [ ब]; यतो दूरमायाता वरूथिनी, व्यथितो निशीथिनीजनितजाड्योद्रेकेण समुद्रमरुता सर्व एव सुखोचितो जनः, श्रम विकलबाह्वो न वाहयन्ति सत्वरमरित्राणि यानपात्रेषु पौतिकाः, न शक्नुवन्ति निद्रावशीकृताः कर्तुमवष्टम्भं कूपस्तम्भकेषु कर्णधाराः, समीरोऽपि संप्रति प्रतीपगतिः प्रवाति, नाभिधावन्ति शिबिरगामिनं मार्गमर्गलितानीव प्रेर्यमाणान्यपि पुरो निर्यामकैः प्रवहणानि, नास्ति कश्चिन्नेदीयानितश्चलितानामाश्रयो टिप्पनकम्-उपनीतश्च ढौकितश्च, वानरैरिति शेषः [फ]। एधः-काष्ठम् [ब] । भरित्र-यानपात्रवहित्रम् । नेदीयान् प्रत्यासनतरः [भ]| करतलं येन तादृशस्य, सेनापतेः, नलस्य तत्संज्ञकमर्कटस्य, उपनीतः उप-समीपं, नीतः-उपस्थापितः । रमणीयतातिशयदर्शनप्रीतमनसा रमणीयतातिशयस्य-तदीयसौन्दर्योत्कर्षस्य, दर्शनेन प्रीत-प्रसन्नं मनो यस्य तादृशेन, तेनापि नलेनापि, सुचिरम् अतिदीर्धकालम् , अवलोक्य दृष्ट्वा, नायमुद्रागतुङ्गद्युतिपिशङ्गिताशामुखः उद्रागाभिःउत्कटवर्णाभिः, तुङ्गद्युतिभिः-उच्चैःप्रसृतकान्तिभिः, पिशङ्गितानि-पीतिमानमापादितानि, आशामुखानि-दिङ्मुखानि येन तादृशः, अयं सुमेरुसानुः, वज्रमणिः हीरकमणिः, कृत्रिमैः कल्पितैः, मणिभिः, पाषाणमृन्मयैः प्रस्तरमृत्तिकामयैः, अमीभिः एभिः, अचलैः पर्वतैः सह, एकत्र एकस्मिन् स्थाने, समवायं सम्मेलनं, न, अर्हति तद्योग्यो भवति, इति इत्थं, विमृश्य विचार्य, सेतोः, पृथक् बहिः, पाथोनिधौ समुद्रे, निहितः स्थापितः। पयोधिनापि समुद्रेणापि, पुत्रबहुमानात् पुत्रसहशस्नेहातिशयात् , आत्मनः स्वस्य, क्रीडागिरित्वेन क्रीडोपयोगिपर्वतत्वेन, उपकल्पितः खीकृतः [क]। तत् तस्माद्धेतोः, अत्र अस्मिन् , विपुलावकाशपरिसरे विपुलः-विस्तृतः, अवकाशः-स्थितियोग्यतासम्पादकप्रदेशो यत्र तादृशे, परिसरे-पर्वतसमीपप्रदेशे, आवासयितुं सैन्यं निवासयितुं, युक्तम् उचितम्, कीदृशे ? सुप्रापशीतलस्वादुनिझराम्भसि सुप्रापम्-अनायासलभ्यं, शीतलं स्वादु-मधुरं च, निर्झरस्य-वतानिःसृत जलप्रवाहस्य, अम्भः-जलं यस्मितादृशे, पुनः स्वच्छन्दलभ्यचन्दनादिपादपैधसि स्वच्छन्द-खाधीनं यथा स्यात् तथा, लभ्यानिप्राप्याणि, चन्दनादिपादपानां-चन्दनादिवृक्षसम्बन्धीनि, एधांसि-काष्ठानि यस्मिंस्तादृशे, पुनः निरन्तरफलितनालिकेलकदली पनस-पिण्ड खजूरप्रायतरुषण्डे निरन्तर फलितैः-अनवरतफलितैः, नालिकेलादिभिः, प्रायाः-प्रचुराः, तरुषण्डाः-तरुवनानि यस्मिन् तादृशे, पुनः तरङ्गिणीतीरसुलभदेवतार्चनोचितविशालमणिशिले तरङ्गिण्या:-नद्याः, तीरे सुलभा-सुकरा, देवतार्चनोचिता-देवपूजनयोग्या, विशाला, मणिशिला-मणिमयफलकं यस्मिंस्तादृशे [ब यतः यस्माद्धेतोः, दूरम् , आयाता आगता, वरूथिनी सेना, सर्व एव सकलोऽपि, सुखोचितः सुखकराहारविहाराभ्यस्तः, जनः लोकः, निशीथिनीजनितजाड्योद्रेकेण निशीथिन्या-रात्र्या, जनितः-उ:पादितः, जाडयोदेकः-शेत्यातिशयो यस्मिस्तादृशेन, समुद्रमारुता समुद्रवायुना, व्यथितः पीडितः, अस्तीति शेषः । श्रमविकलबाहवः श्रमेश विकला:विह्वलाः, बाहवो-भुजा येषां तादृशाः, पौतिकाः पोतवाहकाः, यानपात्रेषु पोतेषु, अरित्राणि जलविक्षेपककाष्ठानि, सत्वरं शीघ्रं, न वायन्ति सञ्चारयन्ति । निद्रावशीकृताः निद्रया अधीनीकृताः, कर्णधाराः नाविकाः, कूपस्तम्भकेषु गुणवृक्षदण्डेषु, अवष्टम्भम् अवरोधं, कर्तुं न, शक्नुवन्ति पारयन्ति । सम्प्रति इदानीं, समीरोऽपि वायुरपि, प्रतीपगतिः प्रतिकूलगतिः, प्रवाति वहति । निर्यामकैः वाहकैः, पुरः अग्रे, प्रेर्यमाणान्यपि प्रचार्यमाणान्यपि, प्रवहणानि
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy