________________
तिलकमञ्जरी ।
२४७
सुलभविनोद्गमाः काम्यक्रियारम्भाः । सोऽपि किं करोतु वराको यस्य दुष्करे तादृशि संबन्धघटने झटिति दर्शितफला विफलतां नीता देवेन नीतिः । किं क्रियते, निसर्गत एव निरङ्कुशः पापकारीव व्यालो बलीयान् विधिर्बद्धोऽपि बुद्धिमद्भिरतिनिबिडेन प्रज्ञालोहनिगडेन निरवग्रहो विचरति, वामचारिण्यत्र मार्गमृग इवाsant नाधिगच्छन्ति वाञ्छितानि व्यापारितसकलसामर्थ्या अपि फलार्थिनः [झ ] । तदलमनया स्वचित्तसंतापैकफलया फल्गुचिन्तया, मनागपि महात्मना न शोचनीयोऽसौ शोच्यः पुनरसौ पापकर्मा कर्मचण्डालः प्रकृतिदुष्टात्मा विशिष्टाभासः सकलचौरप्रामणीरप्राथनामा मञ्जीरो, येन मार्जारेणेव मूषिका मिथुनमुपसृत्य निभृतमत्र विनिहितमनुपलक्षिता प्रेक्षकजनेन दर्शयिष्यामि दूरस्थैव यात्रां द्रष्टुमायातस्य यूनस्तस्येत्यभिप्रायेण लेखहारिण्या सहकारमूले स्थापितमपहृत्य लेखपत्रकं तादृशस्य दूरारूढसदृशप्रेम्णः प्रतिकूलगुरुजनकृतप्रति
टिप्पनकम् - निरङ्कुशः शृणिरहितः, अन्यत्र उच्छृङ्खलः । वामचारिणि मार्गमृग इव एकत्र वामचारिणिसव्यचारिणि, अन्यत्र विपरीतकारिणि [झ ] |
लषितार्थप्रतिबन्धकानि, पुनः काम्यक्रियारम्भाः काम्यकर्मारम्भाः सर्वतः सर्वथा, सुलभविघ्नोद्गमाः सुलभ :सुगमः, विघ्नोद्गमः– कर्मफलसिद्धिव्या घातकदुरदृष्टोदयो येषु तादृशाः । सोऽपि वराकः शोच्यजनः, किं करोतु प्रतिकरोतु, यस्य वराकस्य, दुष्करे प्रयाससाध्ये, तादृशि उक्तप्रकारे, संबन्धघटने सम्बन्धप्रबन्धे, झटिति शीघ्रम्, दर्शितफला प्रकटितफला, नीतिः उपायानुष्ठानम्, दैवेन विधिना, विफलतां निष्फलताम्, नीता प्रापिता । किं क्रियते प्रतिक्रियते, किमपि नेत्यर्थः । निसर्गत एव स्वभावादेव, निरङ्कुशः निगृहीतुमशक्यः, पक्षे अङ्कुशरहितः पापकारी पापाचारी, अनिष्टकारीत्यर्थः, व्याल इच दुष्टगज इव, बलीयान् बलवत्तरः, विधिः दैवम्, प्रशालोहनिगडेन प्रशारूपो यः लोहनिर्मितः, निगड : - शृङ्खलः, पक्षे पादबन्धनम् तेन बुद्धिमद्भिः विवेकिभिः बद्धोऽपि नियन्त्रितोऽपि, निरवग्रहः निष्प्रतिबन्धः, विचरति भ्रमति, अत्र अस्मिन् विधावित्यर्थः, मार्गमृग इव मार्गस्थहरिण इव, वामचारिणि प्रतिकूलवर्तिनि पक्षे वामभागगामिनि सति, फलार्थिनः क्रियाफलाभिलाषिणः, पक्षे प्रयाणफलाभिलाषिणः, व्यापारितसकलसामर्थ्या अपि प्रयुक्ताशेषशक्तिका अपि, वाञ्छितानि अभिलषितवस्तूनि, न अधिगच्छन्ति प्रामु
[झ ] | तत् तस्मात् अनया वर्तमानया, स्वचित्तसन्तापैकफलया खचित्तस्य-निजान्तःकरणस्य, सन्तापःपरिताप एव फलं यस्यास्तादृश्या, फल्गुचिन्तया तुच्छचिन्तया, अलं न किमपि साध्यम् । महात्मना महनीयात्मना, विवेकिनेत्यर्थः, असौ तत्पाणिग्रहणप्रवणः पुमान्, न शोचनीयः शोचितुमनर्हः । पुनः किन्तु, असौ स मञ्जीरः, शोचनीयः शोचितुमुचितः कीदृशः ? पापकर्मा पापं पापप्रयोजकम् कर्म कार्यं यस्य तादृशः; अत एव कर्मचण्डालः कर्मणा - खदुष्कर्मणा, चण्डालः क्रूरः पुनः प्रकृतिदुष्टात्मा प्रकृत्या स्वभावेन, दुष्टः-दोषान्वितः, परकीय शुभद्वेषीत्यर्थः, आत्मा यस्य तादृशः; अत एव विशिष्टाभासः विशिष्टवदाभासमानः, न तु विशिष्ट इत्यर्थः सकलचौरग्रामणीः समस्ततस्कराधिपतिः, तस्करश्रेष्ठ इत्यर्थः पुनः अग्राह्यनामा अनुच्चारणीयसंज्ञकः । येन मञ्जीरेण निभृतम् एकान्तम्, प्रच्छनमित्यर्थः, यथा स्यात् तथा, उपसृत्य उपगत्य, मार्जारेण बिलाडेन, मूषिकामिथुनमिव मूषिकाद्वन्द्वमिव लेखपत्रकं लेखपत्रम्, अपहृत्य अपहरणकर्मीकृत्य, प्रयोजनमन्तरेण स्वार्थं विनैव, मिथुनस्य निश्चितदम्पतिद्वन्द्वस्य विघटनं विश्लेषणम्, कृतं विहितम् कीदृशं तत् पत्रकम् ? अत्र अस्मिन् स्थाने, विनिहितं स्थापितम्, तत्पत्रमिति शेषः, दूरस्यैव दूरमवस्थितैव, प्रेक्षकजनेन दर्शकजनेन, अनुपलक्षिता अनवलोकिता सती, यात्रा कामदेवमन्दिरयात्रोत्सवम्, द्रष्टुम् अवलोकितुम्, आयातस्य आगतस्य, तस्य प्रकृतस्य, यूनः तरुणपुरुषस्य, दर्शयिष्यामि दृष्टिपथमुपस्थापयिष्यामि, इस्यभिप्रायेण इत्याशयेन, लेखहारिण्या पत्रवाहिकया, सहकारमूले आम्रवृक्षाधस्तात्, स्थापितं धृतम् । कीदृशस्य मिथुनस्य ? तादृशस्य निरुक्तप्रकारस्य पुनः दूरारूढसदृशप्रेम्णः दूरम् - अत्यन्तम्, आरूढः - वृद्धिं गतः, सदृशः- तुल्यः, प्रीतिर्यस्य तादृशस्य; पुनः प्रतिकूल गुरुजनकृत प्रतिबन्धस्य प्रतिकूलैः, गुरुभिः - कुमारिकापित्रादिभिः कृतः प्रतिबन्धः -
प्रेमा