________________
२४६
टिप्पनक- परागविवृतिसंवलिता
'युवराज' ! किमर्थमनवगतार्थ इव अप्रगल्भ इव मत्सरीवाऽरसिक इव मूकतामवलम्ब्य स्थितः, किं न वर्णयसि शतमुखो भूत्वा सर्वतोमुखीम खिलबुधजनाश्चर्यकारिणीं कुमारस्य काव्यतत्त्वावबोधशक्तिम्, अस्मद्विधानां हि स्वभावकश्मलस्थूलबुद्धीनां सर्वांत्मनापि प्रयुक्ता बाह्येव वर्णना न प्रविश्य सम्यग्वस्तुतत्त्वमुल्लिखति, अतोऽद्यापि त्वयि प्रजल्पति परितोषः प्रत्ययश्चात्मविषयः कुमारस्य भविष्यति [ज]। किं चाश्रुसलिलक्किन्ननिश्चलचक्षुTatar बारबद्ध व वनकरी लब्धमिध्याभिशाप इव साधुरकस्मात् प्रनष्टसकलगृहस्वापतेय इव गृहपतिरायतोष्णान् मुहुर्मुहुः सृजसि निःश्वासान्, अजातप्रेयसीपाणिग्रहो महद्दुःखमनुभविष्यति महात्मेति कचिन्न तं कुमारोपवर्णितवृत्तान्तयुवानमनुशोचसि : किमेकमिह शोच्यते, सर्व एवायमेवंप्रकारः संसारः न जानासि, यदुत दुःखहेतुरनुरागः, विषोपमा विषयोपभोगवाञ्छा, वाञ्छितार्थप्रतिपन्थीन्यधर्मविलसितानि, सर्वतः
देशाधीशसूनुः कलिङ्गदेशाधिपतिपुत्रः शनैः मन्दम्, विहस्य, किमपि किश्चित् अवोचत् उक्तवान् । कीदृशः ? तेषां सभासदाम्, पुरोवर्ती अप्रवर्ती, पुनः समरकेतुना तत्संज्ञककुमारेण, समानप्रतिपत्तिः तुल्यगौरवः पुनः राजपुत्रस्य हरिवाहनस्य, अत्यन्तम् समधिकम्, अभिमतः इष्टजनः पुनः सकलशास्त्र भाषाविचक्षणः अखिलशास्त्रभाषाभिज्ञः; पुनः क्षीणभूयिष्ठशैशवे क्षीणं-व्यतीतम् भूयिष्ठं- बहुतरम्, यत् शैशवं बाल्यम्, तद्रूपे, वयसि अवस्थायाम्, शैशवशेषावस्थायामित्यर्थः, वर्तमानः पुनः कुमारपरिग्रहस्य हरिवाहनपरिजनस्य, माननीयः आदरणीयः; पुनः प्रकृतिप्रगल्भवाक् प्रकृत्या स्वभावेन, प्रगल्भा - प्रौढिपूर्णा, वाक्-वाणी यस्य तादृशः पुनः परिहासकेलिषु परिहासक्रीडासु, कोविदः निपुणः । किमवोचदित्याह युवराज ! भोः समरकेतो!, किमर्थ केन हेतुना, मूकतां मौनम् . अवलम्ब्य गृहीत्वा स्थितः असीति शेषः । क इव ? अनवगतार्थ इव अविज्ञाततदभिप्राय इवः पुनः अप्रगल्भ इव कातर इवः पुनः मत्सरी इव अन्यशुभद्वेषी इव; अरसिक इव नीरस इव । शतमुखः शतं मुखानि यस्य तादृशः, भूत्वा, सर्वतोमुख चतुरस्राम्, अखिल बुधजनाश्चर्यकारिणीम् अशेषकविजनविस्मापिनीम्, कुमारस्य हरिवाहनस्य, काव्य तत्त्वावबोधशक्तिं काव्य रहस्यार्थोत्प्रेक्षण सामर्थ्यम्, किं कस्माद्धेतोः, न वर्णयसि कीर्तयति । हि यतः, सर्वात्मना सर्वांशेन, प्रयुक्तापि कृतापि, वर्णना कविता, बाह्येव बहिरेवावस्थितेव, स्वभावकश्मलस्थूलबुद्धीनां खभावेन, कश्मला–मलिना, स्थूला-सूक्ष्मविषयानवगाहिनी, बुद्धिर्येषां तादृशानाम्, अस्मद्विधानाम् अस्मत्सदृशानाम्, प्रविश्य अन्तःप्रवेशं कृत्वा, सम्यक् समीचीनं यथा स्यात् तथा वस्तुतत्त्वं वस्तुनः- काव्यार्थस्य, तत्त्वं - सारांशम्, न उल्लिखति प्रकटयति । अतः अस्माद्धेतोः, अद्यापि अधुनापि, त्वयि समरकेतौ प्रजल्पति प्रकथयति सति, अनुमोदयति सतीत्यर्थः, कुमारस्य हरिवाहनस्य, परितोषः सन्तोषः, आत्मविषयः खोत्प्रेक्षितकाव्यार्थविषयः, प्रत्ययः विश्वासश्व, भविष्यति उत्पत्स्यते [ ज ] । च पुनः, अश्रुसलिल क्लिन्ननिश्चलचक्षुः अश्रुसलिलेन - नयननिःसृतजलेन, क्लिन्नम् - आलुतम् निश्चलं-निःस्पन्दम्, चक्षुर्यस्य तादृशः; पुनः अधोमुखः अवनतमुखः, त्वमिति शेषः, वारिबद्धः जल निगृहीतः, वनकरीव वनगज इव, पुनः लब्धमिथ्याभिशापः प्राप्तमिथ्यापवादः, साधुः सच्चरित्रपुरुष इत्र, अकस्मात् अतर्कितम्, प्रनष्टसकलगृहस्वापतेयः प्रनष्टं - प्रध्वस्तम्, अपहृतमित्यर्थः, सकलं समस्तम्, गृहखापतेयं - गृहस्थितं धनं यस्य तादृशः, गृहपतिरिव गृहस्वामीव, आयतोष्णान् आयतान् दीर्घान्, उष्णान् - उष्णस्पर्शाच, निःश्वासान् नासावायून्, मुहुर्मुहुः बारं वारम्, किं किमर्थम्, सृजसि मुश्चसि । अजातप्रेयसीप्राणिग्रहः अजातः - असम्पन्नः, प्रेयस्याः प्रकृतप्रियतमायाः, पाणिग्रहः-परिणयो यस्य तादृशः माहात्मा महनीयात्मा, महद्दुःखम् अत्यन्तदुःखम्, अनुभविष्यति अनुभवविषयीकरिष्यति, इति अस्माद्धेतोः तं प्रकृतम्, कुमारोपवर्णितवृत्तान्तयुवानं कुमारेण - हरिवाहनेन, उपवर्णितः--प्रतिपादितः, वृत्तान्तः--समाचारो यस्य तादृशं युवानं तरुणपुरुषम्, न अनुशोचसि अनु-पश्चात्, शोचसि कश्चित् किम् ? इह लोके, एकम् एकमात्रम्, किं कुतः, शोच्यते, अपि तु सर्व एव समस्त एव, एवंप्रकारः एतादृशः, संसारः, शोचनीय इति शेषः । यदुत यस्माद्धेतोः, अनुरागः प्रीतिः, दुःखहेतुः दुःखजनकः, पुनः विषयोपभोगवाञ्छा विषयोपभोगेच्छा, विषोपमा विषसदृशी, पुनः अधर्मविलसितानि पापविलासाः, वाञ्छितार्थप्रतिपन्थीनि अभि
1