________________
२४८
टिप्पनक-परागविवृतिसंवलिता बन्धस्य स्वरसतः कृतानुग्रहेण भगवता मकरकेतनेन संयोज्यमानस्य मिथुनस्य प्रयोजनमन्तरेण विघटन कृतम् , घटितश्च जीवितावधिनिधुवनसुखानां सख्यस्य रूपसौभाग्यादिगुणकलापस्य विषयोपभोगानां च सर्वकषो विनाशः [अ] | को वास्य मोहोपहतधिषणस्य दोषः । कुमारस्यैवायं प्रमादो यदीडशेऽप्यपराधे नैनमन्यायकारिणं करचरणकल्पनेन वा स्वदेशनिर्वासनेन वा रासभसमारोपणेन वान्येन वा धर्मशास्त्रप्रणीतनीतिना निग्रहणेन विनयं ग्राहयति, यदि वा किमनेन क्लिष्टफलयानया नरेन्द्रसेवयैव शासितेन भूयः कर्थितेन कृपणेनेति कृपामनुरुद्धयमानो न निष्टुरं व्यवहरति, ततोऽयमपि तिष्ठतु, जन्मान्तरे नरकातिथीभूतः खत एव जाल्मः कल्मषस्य सदृशं दशापाकमनुभविष्यति । तत्तावदन्वेष्य मिथुनं मिथः संयोजनीयं भवति । यद्विप्रयोगसंभावनया स्वशरीरभूतस्य सुहृदो हृदयदाह ईदृशो युवराजस्य' इत्युक्तवति तस्मिन् सकलोऽपि परिहासालापरञ्जितः कुमारवर्जमहसदुश्चैः प्रणयी राजलोकः [ट] । कुमारोऽपि मन्दस्पन्दिताधरपुटः स्फुरणलोले कपोलदर्पणोदरे दरलब्धावकाशमपसार्य सद्यःस्मितप्रकाशं साभ्यसूय इव 'कमलगुप्त ! किमयमस्थाने
अवरोधो यस्य तादृशस्य, पुनः स्वरसतः स्वेच्छया, कृतानुग्रहेण कृतः, अनुग्रहः-दया येन तादृशेन, भगवता ऐश्वर्यशालिना, मकरकेतनेन मकरध्वजेन, कामदेवेनेत्यर्थः, संयोज्यमानस्य संघट्यमानस्य । च पुनः, जीवितावधिनिधुवनसुखानां जीवनपर्यन्तरतिसुखानाम् , सख्यस्य परस्परसौहार्दस्य, रूपसौभाग्यादिगुणकलापस्य रूपलावण्यादि. गुणगणस्य, च पुनः, विषयोपभोगानां गन्धरसा दिविषयकप्रत्यक्षजन्यसुखानुभवानाम् , सर्वकषः समूलोच्छेदकरः, विनाशः, घटितः कृतः [अ] । वा अथवा, मोहोपहतधिषणस्य मोहेन-अविवेकेन, उपहता-दूषिता, धिषणा-बुद्धियस्य, तादृशस्य, अस्य मजीरस्य, को दोषः अपराधः, न कोऽपीत्यर्थः । किन्तु कुमारस्यैव हरिवाहनस्यैव, अयं प्रमादः अनवधानम् , यत् यस्मात् , ईदृशेऽपि एवंविधेऽपि, अपराधे दोषे, अन्यायकारिणं न्यायविरुद्धाचारिणम् , एनं मीरम् , निग्रहेण नियन्त्रणेन दण्डेनेत्यर्थः, विनयं नम्रताम् , न ग्राहयति प्रापयति, कीदृशेन निग्रहेण ? करचरणकल्पनेन हस्तपादविध्वंसनेन, वा अथवा, स्वदेश निर्वासनेन खदेशाद् बहिष्करगेन, वा अथवा, रासभसमारोपणेन गर्दभपृष्ठारोहणेन, वा अथवा, अन्येन तद्भिन्नेन, धर्मशास्त्रप्रणीतनीतिना धर्मशास्त्रेण प्रणीता-प्रकल्पिता, नीतिःन्याय्या पद्धतिर्यस्य तादृशेन । चा अथवा, क्लिष्टफलया क्लिष्टं--क्लेशसाध्यम् , फलं यस्यास्तादृश्या, अनया वर्तमानया, नरेन्द्रसेवयैव नृपसेवयैव, शासितेन विनयं ग्राहितेन, कृपणेन क्षुद्रेण, अनेन मजीरेण, भूयः पुनः, कर्थितेन भसिंतेन, किं न किमपि, फलमित्यर्थः, इति ईदृशीम् , कृपामतुरुध्यमानः तस्मिन् दयामिच्छन् , यदि निष्ठरं कठोर यथा स्यात् तथा, न व्यवहरति नाचरिष्यति, भवानिति शेषः, ततः तर्हि, अयमपि मजीरोऽपि, तिष्ठतु यथावदस्तु। किन्तु जन्मान्तरे अन्यजन्मान, जाल्मः अन्यायकारा मझौर इत्यर्थः, नरकातिथीभूतः नरकलोकातिथिः सम्पत्स्यमानः, खत एव कल्मषस्य खकृतपापस्य, सदृशम् अनुरूपम् , दशापाकं परिणामफलम् , दुःखमित्यर्थः, अनुभविष्यति उपभोक्ष्यते । तावत् प्रथमम् , तत् मिथुनं विघटितत्वेन शङ्कितं द्वन्द्वम् , अन्वेष्य अन्वेषणं कृत्वा, मिथः परस्परम् , संयोजनीयं सङ्घटनीयम् , भवति विद्यते, यद्विप्रयोगसम्भावनया यद्विघटनशङ्कया, युवराजस्य हरिवाहनस्य, खशरीरभूतस्य खशरीरवदाचरितस्य, अत्यन्तान्तरजस्येत्यर्थः, सुहृदः मित्रस्य समरकेतोः, ईदृशः एतादृशः, हृदयदाहः
ति इत्थम. उक्तवति कथितवति सति, परिहासालापरोञ्जतः परिहासालापेन-तत्कृतोपहासकथया, रञ्जितः-प्रमोदितः, सकलोऽपि सर्वोऽपि, प्रणयी स्नेही, राजलोकः नृपजनः, कुमारवर्ज हरिवाहनरहितं यथा स्यात् तथा, उच्चैः उच्चवरेण, अहसत् हसितवान् [2]। कुमारोऽपि हरिवाहनोऽपि, मन्दस्पन्दिताधरपुटः किञ्चिच्चलितोष्टपुटः सन् , स्फुरणलोले स्पन्दनतरले, कपोलदर्पणोदरे कपोलौ दर्पणाविव समुजबलत्वादिति कपोलदर्पणी तयोरुदरे-मध्ये, दरलब्धावकाशं किश्चिदवाप्तसमावेशम् , स्मितप्रकाशं मन्दहासालोकम् , सद्यः तरक्षणम् , अपसार्य निवार्य, साभ्यसूय इव अभ्यसूयया-दोषाविष्कारेण सहित इच, कमलगुप्त ! भोः