________________
तिलकमञ्जरी ।
२४९ विप्लवप्रपश्चः' इत्युदीर्य तिर्यग्वलितवदनः सिंहलेन्द्रसुतमवादीत्-'सखे! किंनिमित्तं प्रहर्षस्थानेऽप्येवमस्वस्थेन भवता स्थीयते, किमर्थमिदमतर्कितागतेन तमसा समास्कन्दितं वदनमिन्दुमिव चन्द्रिका नायति नालीपेष्वपि कुन्दनिर्मला ते स्मितद्युतिः, किमित्यधिकमधुरा अपि परपुरन्ध्रिदूतीगिर इव श्रवसि न विशन्ति शृङ्गारप्रधानाश्चिरन्तनकवीनामुक्तयः, केन हेतुना नूतनैरपि सुहृजनसूक्तैरजातपुलकोद्गतिरुभयपाणिपर्यङ्कशरणा धार्यते कपोलद्वयी । कञ्चिन्न मयि जल्पति जातमुपतापदायिनः स्ववृत्तान्तस्य कस्यचिदाकस्मिकं स्मरणम् , यथाऽयमार्यार्थसूचितो युवा तथा न त्वमपि कुसुमायुधजयपताकया, कयाप्यवनिपालकन्यया कापि नयन. मार्गणैर्विद्धः। प्रयुक्तप्रार्थनश्च निपुणमनयेव चतुरया वचनभझ्या न कचित् सङ्केतस्थानकथनेन कृतार्थीकृतोऽसि, कृतप्रयत्नश्च तदवाप्तये विधिवशादतर्कितोपनतेन केनचिद् गरीयसा कार्येण तत्समागमसुखानां न दूरीकृतोऽसि [3]|' इत्याहतेन नृपतिसूनुना प्रयुक्तहृदयंगमप्रश्नः शनैरुन्नम्य सत्वरगृहीतोत्तरीयपल्लवप्रमृष्टदृष्टिवदनमनादरविलोकितपार्श्ववर्तिराजलोकः सशोक इव समरकेतुर्विरतवाक्प्रवृत्तिः स्थित्वा मुहूर्तमुपचक्रमे वक्तुम्
कमलगुप्त !, अस्थाने अनवसरे, अयं विप्लवप्रपञ्चः क्षोभविस्तारः, किं किमर्थः, इत्युदीर्य इत्युक्त्वा, तिर्यग्वलितवदनः तिर्यक्-कुटिलं यथा स्यात् तथा, वलितं-सन्दितं मुखं यस्य तादृशः सन् , सिंहलेन्द्रसुतं सिंहलद्वीपनृपकुमारम् , समरफेतुमित्यर्थः, अवादीत् उक्तवान् किमित्याह-सखे ! भो मित्र ! प्रहर्षस्थानेऽपि प्रमोदावसरेऽपि, किंनिमित्तं किमर्थम् , भवता त्वया, एवम् अनेन प्रकारेण, अवस्थेन शोकाकुलेन, स्थीयते, किमर्थ कस्य हेतोः, कुन्द निर्मला कुन्दपुष्पवद्धवला, ते तव, स्मितद्युतिः मन्दहासच्छविः, नर्मालापेऽपि परिहासालापेऽपि, अतर्कितागतेन अकस्मादुपस्थितेन, तमसा शोकेन, पक्षे राहुणा, समास्कन्दितं समाकान्तम्, वदनं मुखम् , इन्दु चन्द्रम् , चन्द्रिका इव ज्योत्स्ना इव, न आर्द्रयति आद्रीकरोति, रूक्षतामपनयतीति यावत् , उद्भासयतीत्यर्थः। अधिकमधुरा अपि अत्यन्तश्रोत्रपेया अपि, शृङ्गारप्रधानाः प्राधान्येन शृङ्गाररसाभिव्यक्षिकाः, चिरन्तनकवीनां प्राचीनकविसम्बन्धिन्यः, उक्तयः वाचः, परपुरन्धिदूतीगिर इव पराङ्गनादूतीवचनानीव, श्रवसि कर्णे, किमिति किमर्थम् , न विशन्ति प्रविशन्ति, केन हेतुना कारणेन, नूतनैरपि नवीनैरपि, सुहृजनसूक्तैः मित्रजनसुभाषितैः, अजातपुलकोदतिः अजातरोमाञ्चोदया, पुनः उभयपाणिपर्यशरणा उभयपाणी-उभयकरावेव, पर्यको-तदाख्यशयनाधारविशेषौ, शरणे-आधारो यस्यास्तादृशी, कपोलद्वयी गण्डयुगलम् , धार्यते धारणकर्मतां प्राप्यते। मयि जल्पति भाषमाणे सति, उपतापदायिनः सन्तापकारिणः, कस्यचित् कस्यापि, स्ववृत्तान्तस्य, आकस्मिकम् अतर्कितोपनतकम् , स्मरणं न जातम् उत्पन्नम् , कच्चित् किम् ? यथा येन प्रकारेण, आर्यार्थसूचितः प्रकृतार्याशयेन कृतसूचनः, अयं बुद्धिसन्निकृष्टः, युवा तरुणः पुमान् , कयापि कन्यया नेत्रवाणविद्धो वर्तते, तथा तेन प्रकारेण, त्वमपि कुसुमायुधजयपताकया कामदेवजयपताकारूपया, कयापि कयाचित् , अवनिपालकन्यया नृपकन्यया, क्वापि कुत्रापि स्थाने, नयनमार्गणैः नेत्रबाणैः, विद्धः ब्रणितः, आहत इत्यर्थः, न वर्तसे इति शेषः; च पुनः, अनयेव प्रकृतकन्ययेव, चतुरया चातुरीपूर्णया, वचनभङ्गया वचनकौटिल्येन, वचनविच्छित्त्या वा, निपुणं स्फुटं यथा स्यात् तथा, प्रयुक्तप्रार्थनः प्रयुक्ता-कृता, प्रार्थना यस्य तादृशः सन् , क्वचित् कुत्रापि, संकेतस्थानकथनेन संकेतस्य-प्रतिज्ञातोभयसम्मेलनसमय प्रतीक्षाया यत् स्थानं तस्य, सूचनेन न कृतार्थीकृतोऽसि सफलीकृतोऽसि । च पुनः, तदद्वाप्तये तत्प्राप्तये, कृतप्रयत्नः विहितप्रयासः सन् , विधिवशात् दुर्दैवयोगात् , अतार्कतोपनतेन अकस्मादुपस्थितेन, गरीयसा गुरुत्तरेण, केनचित केनापि, कार्येण, न तत्समागमखानां तत्सम्मेलनानन्दानाम. दूरीकृतोऽसि दूरमवस्थापितोऽसि, ततो वञ्चितोऽसीत्यर्थः [2]। इति इत्थम् , आदृतेन सादरेण, नृपतिसूनुना नृपात्मजेन हरिवाहनेन, प्रयुक्तहृदयङ्गमप्रश्नः प्रयुक्तः-कृतः, हृदयङ्गमः-हार्दिकार्थविषयकः, प्रश्नो यस्य तादृशः, पुनः शनैः मन्दम् , उन्नम्य ऊर्ध्वमूखीभूय, सत्वरगृहीतोत्तरीयपल्लवप्रसृष्टदृष्टिवदनं सत्वरं-शीघ्रम् , गृहीतेन, उत्तरीय
३२ तिलकर