SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ टिप्पनक-परागविवृतिसंवलिता अमानुषी कुमार! तव प्रज्ञा प्रजापतेरिव तनुस्तनोति सर्वतोमुखतया परं मे मनसि विस्मयम् , अखिलजनमानसनिवासादिव त्वया समासादितमिदं पराशयज्ञानकौशलम् , किमहमत्रापरं कथयामि, निजयैव प्रशया निवेदितस्ते सकलोऽपि सामान्येन मदुःखवृत्तान्ता, यदि परं परिकर एव मयास्य कथनीयः, तमपि वज्रसारकठोरहृदयस्त्वया समाज्ञापित इति विज्ञापयामि, किन्तु महती कथैषा न शक्यते संक्षिप्य कथयितुम् , विस्तरतस्तु कथ्यमाना पराणि कार्यान्तराण्यन्तरयिष्यति तथापि यदि कौतुकमावेदयामि, श्रूयतामेतत् प्रायेण श्रुतिविषयमायातमेव श्रुतिमतां वरस्य [ड]___ यथा-सिंहलेष्वस्ति समस्तवसुमतीभूषणमभ्रषप्राकारवलया विमानाकारपौरालयसहस्रशालिनी रङ्गशाला नाम नगरी । तत्रस्थः पिता मे चन्द्रकेतुः कदाचिद् देशकालाधवष्टम्भसंभृतावलेपानां प्रपन्नमपि पूर्व टिप्पनकम्-विक्षेपः-दण्डो घाटको [ ढ]। पल्लवेन-पल्लवमृदुलोत्तरीयवस्त्रेण, प्रमृष्ट-प्रोच्छितम् , दृष्टिवदन-मुखनयनं यस्मिंस्तादृशं यथा स्यात् तथा, अनादरविलोकितपार्श्ववर्तिराजलोकः अनादरेण-दुःखवशादादरराहित्येन, विलोकितः, पार्श्ववर्ती-सविधवर्ती, राजलोकः-नृपजनो येन तादृशः, समरकेतुः, सशोक इव शोकान्वित इव, विरतवाक्प्रवृत्तिः निवृत्तवचनप्रयोगः सन् , सूकः समित्यर्थः, मुहूर्त क्षणम् , स्थित्वा, वक्तुं कथयितुम् , उपचक्रमे प्रारेमे, किमित्याह-कुमार! भो हरिवाहन ! प्रजापतेः ब्रह्मणः, तनुरिव शरीरमिव, सर्वतोमुखतया सर्वतः-सर्वत्र, अतीताऽनागतवर्तमानसन्निकृष्ट-विप्रकृष्ट-स्थूल-सूक्ष्म-सर्वविषयेषु, मुख-प्रवृत्तिर्यस्यास्तादृशतया, पक्षे सर्वतः-सर्वभागेषु, मुखं यस्यास्ताहशतया चतुर्मुखतयेत्यर्थः, अमानुषी-मानवगणेऽदृश्यमामा, दिव्येत्यर्थः, तब, प्रज्ञा प्रतिभा, मे मम, मनसि चेतसि, परम् अत्यन्तम् , विस्मयम् , आश्चर्यम् , तनोति विस्तारयति । अखिलजनमानसनिवासादिव सर्वजनहृदयागारनिवासादिवेति हेतूत्प्रेक्षा, इदं प्रत्यक्षवदनुभूयमानम् , पराशयज्ञानकौशलं पराभिप्रायनिर्णयनैपुण्यम् , त्वया, समासादितं प्राप्तम् । अत्र अस्मिन् विषये, अपरम् अन्यत् , किं कथयामि ब्रवीमि, सकलोऽपि सर्वोऽपि, महुःखवृत्तान्तः मदीयदुःखवार्ता, निजया स्वकीयया, प्रायैव प्रतिभमैच, ते तव, सामान्येन अविशेषेण, निवेदितः विज्ञापितः, परं केवलम् , मया, अस्य दुःखवृत्तान्तस्य, परिकर एव विस्तार एव, विशेषांश एवेत्यर्थः, यदि कथनीयः कथनाहः, अवशिष्यत इति भावः, तदा वज्रसारकठोरहदयः वजस्य यः सार:-दृढांशः, तद्वत् कठोरं-निछुरं हृदयं यस्य तादृशः, अहमिति शेषः, त्वया हरिवाहनेन, समाशापितः कथयितुमा- . दिष्टः, इति हेतोः, तमपि तद्विस्तारमपि, विज्ञापयामि निवेदयामि, कथयामीत्यर्थः, किन्तु परन्तु, महती विपुला, एषा इयम् , कथा वार्ता, संक्षेपेण समासेन, कथयितुं निवेदयितुम् , न शक्यते, विस्तरतस्तु व्यासेन तु, कथ्यमाना निवे. धमामा, पराणि अग्रिमाणि, अनन्तराणीत्यर्थः, कार्यान्तराणि अन्यान्यकार्याणि, अन्तरयिष्यति व्यवधास्यति, तथापि एवं सत्यपि, यदि कौतुकं श्रवणकुतुहलम् , तदा आबेदयामि प्रतिपादयामि, एतद् इदं वृत्तान्तम् , श्रूयतां निशम्यताम् , झीहरु प्रायेण बाहुल्येन, संक्षेपेण इत्यर्थः । श्रुतिमतां शास्त्रज्ञानवताम् , वरस्य श्रेष्ठस्य, भक्त इति शेषः, श्रुतिविषयं श्रवपागोचरताम्, आयसमेव प्राप्तमेव । यथा विवक्षिसन्तान्तस्वरूपोपदर्शनार्थोऽयंशब्दः, सिंहलेष तदाख्यद्वीपमध्ये, रङ्गशालानगरी तदाख्यपुरी, नामेति वाक्यालङ्कारे, अस्ति विद्यते, कीदृशी? समस्तवसुमतीभूषणम् अखिलपृथ्वीभूषणभूता, पुनः अभ्रऋषप्राकार. बलया अभ्रषं गगनचुम्बि, अत्युनतमित्यर्थः, प्राकारवलयं-प्राकारमण्डलं यस्यास्तादशी, पुनः विमानाकारपोरालय सहस्रशालिनी विमानाकार-व्योमयानतुल्याकारं यत् , पौरालयानां-पुरमध्यवर्तिगृहाणाम् , सहस्रं तेम शालते-शोभते, या तादृशी, तत्रस्थः तत्र वास्तव्यः, मे मम, पिता, चन्द्रकेतुः तदाख्यनृपतिः, कदाचित् कस्मिंश्चित् काले, दुष्टसामन्तानां दुष्टानां-दोषान्वितामाम् , सामन्तानां-खाधिकारवर्तिनृपाणाम्, प्रतिक्षेपाय अपनयनाय, दण्डनाय आक्रमणाय वा, दक्षिणापथयायि दक्षिणदेशगामि, नौसैन्यं नौद्वारा गमनकर्तृसैन्यम् , आदिक्षत आज्ञापिसवान् । कीदृशानाम् ? देशकालाधवष्टम्भसम्भृतावलेपानां सिद्धेर्दण्डस्य चाङ्गविधया यो देशकालादिविवेक उक्तः, तदवष्टम्मेन तदाश्रयणेन,
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy