________________
२३६
टिप्पनक-परागविवृतिसवलिता प्रविश्य च तत्र परिमिताप्तराजपुत्रपरिवृत इतस्ततस्तत्कालबद्धमुग्धकुमलानि नवपरिमलाकृष्टवाचालषट्पदकुलानि धूलीकदम्बगहनानि, कादम्बकुलनिषेवितोद्दण्डकमलिनीपत्रखण्डाश्च तटपाटलाकुसुमवासिताम्भसः क्रीडादीर्घिकाः, निदाघतप्ताध्वगरचितपल्लवतल्पांश्च सलिलपरिपूरितालवालवलयितमध्यान् माधवीमण्डपान्, वातायनासीनवनिताकरप्रचेयतरुफलांश्च सुधापङ्कधवलान् प्रासादकानवलोकयन्नविरलफलितजलजम्बूनिकुरुम्बमुद्गतस्तोककुसुमस्तबककेतकीस्तम्बमुच्चोचरच्चीत्कारमुखराणां प्रेक्षतामनवरतमुद्घाटकानां घूर्णमानैर्नभसि नभस्खदाघट्टनजर्जरैर्जलतुषारजालकैर्जडीकृतनिदाघकर्कशार्ककरवितानमापानकमृदङ्गरवजनितशृङ्गारैर्नगरीजनैनशिखण्डिभिश्व युगपदारब्धताण्डवैर्मण्डितलतामण्डपमदूरवहदगाधनीरं सरय्वास्तीरपरिसरमुपासरत् [ओ]।
टिप्पनकम्-उद्घाटकानां जलयात्राणाम् [ओ] ।
च पुनः, प्रविश्य तदन्तःप्रवेशं कृत्वा, तत्र तस्मिन्नुद्याने, परिमिताप्तराजपुत्रपरिवृतः परिमितैः परिगणितैः, कतिपयरित्यर्थः, आप्तेः- विश्वस्तैः, राजपुत्रैः-नृपकुमारैः, परिवृतः-परिवेष्टितः, इतस्ततः अत्र तत्र, तत्कालबद्धमुग्ध कुङमलानि तत्काल-सद्यः, बद्धाः-गृहीताः, मुरधाः-मनोहराः, कुडाला:-कलिका यस्तादृशानि, पुनः नवपरिमलाकृष्ट. वाचालषट्पदकुलानि नवपरिमलैः-अभिनवसौरभैः, आकृष्ट-कृताकर्षणम् , वाचालं-मुखरम् , षट्पदफुलं-भ्रमणनिकरो यस्तादृशानि, धूलीकदम्बगहनानि धूलीकदम्बाना-वसन्तविकासिकदम्बतरुविशेषाणाम् ,गहनानि-वनानि च पुनः, कादम्बकुलनिषेवितोद्दण्डकमलिनीपत्रखण्डाः कादम्बकुलेन-हंससमूहेन, निषेविता:-कृतसेवाः, उद्दण्डानाम्-उन्नतकाण्डा. नाम् , कमलिनीनां-कमलसमूहानाम् , पत्रखण्डा:-दलदेशा यासु तादृशीः, पुनः तटपाटलाकुसुमवासिताम्भसः तटेतीरे, यापाटला-कृष्णवृन्ताख्यलताविशेषः, तस्याः कुसुमैः-पुष्पैः, वासितानि-सुगन्धकलितानि, अम्भांसि-जलानि यासांताचीः; क्रीडादीर्घिकाः क्रीडावापिकाः; च पुनः, निदाघतताध्वगरचितपल्लवतल्पान् निदाघतप्तैः-प्रीमतप्तैः, अध्वगैःथिकैः, रचिताः-निर्मिताः, पल्लवतल्पा:-पलपशव्या येषु तादृशान् , सलिलपरिपूरितालवालवलयितमध्यान् सलिलपरिपूरितैः-जलपरिपूरितैः, आलवाले:-क्षमूले सेकार्थ मृदादिरचितर्जलाधारैः, वलयित-वेष्टितम् , मध्यं येषां तादृशान् , माधवीमण्डपान् माधवीनामकलतागृहान् ; च पुनः, वातायनासीनवनिताकरप्रचेयतरुफलान् वातायनेषुगवाक्षेषु, आसीनाभिः-उपविशन्तीभिः, वनिताभिः-वधूभिः, कराभ्यां-हस्ताभ्याम्, प्रचेयानि-प्रचेतु-त्रोटयितुमित्यर्थः, शक्यानि, तरुफलानि-वृक्षफलानि येषु तादृशान् , अत्युचतानित्यर्थः, पुनः सुधापाधवलान् सुधाप?:-चूर्णद्रवैः, धवलान्शुभ्रान्, प्रासादकान् राजगृहान् ; अवलोकयन् पश्यन् , सरय्वाः सरयूनद्याः, तीरपरिसरं तीरप्रान्तम् , उपासरत् उपजगाम, कीदृशम् ? अविरलफलितजलजम्बूनिकुरम्बम अविरलं-निरन्तरम्, सान्द्रमित्यर्थः, फलिताना-संजातफलानाम् , जलजम्बूना-जलसम्पर्केण फलनशीलानां जम्बूवृक्षाणाम् , निकुरम्ब-वृन्दं यस्मिंस्तादृशम् । पुनः उद्गतस्तोक कुसुमस्तषककेतकीस्तम्बम् उद्गत:-उन्मीलितः, स्तोक:-अल्पः, कुसुमस्तबकः-पुष्पगुच्छो येषां तादृशाः, केतकीस्तम्बा:केतकीसंज्ञकलताकाण्डा यस्मिंस्तादृशम् ; पुनः उचोचरञ्चीत्कारमुखराणाम् उच्च-तारं यथा स्यात् तथा, उच्चरनिः-- उद्गच्छद्भिः, चीत्कारैः-घ्यनिविशेषैः, मुखराणां-शब्दायमानानाम्, पुनः अनवरतं निरन्तरम् , प्रेसतां चलताम् , व्याप्रिय मागानामिति यावत् , उद्घाटकानां कूपाजलोद्धरणयन्त्राणाम् ,नभसि गगने, धूर्णमानैः भ्राम्यद्भिः,नमस्खदाघट्टनजर्जरैः नभखतः- पवनस्य, आघट्टनेनआधातनेन, जर्जरैः-खण्डीभूतैः, जलतुषारजालकैः उक्तयन्त्रोद्भूतजलविकारात्मकहिमसंघातैः, जडीकृतनिदाघकर्कशार्ककरवितानं जडीकृतः-शिशिरीकृतः, शैत्यमापादित इति यावत् , निदाधे-ग्रीष्मकाले कर्कशःकठोरः, अर्कस्य-सूर्यस्य, करवितानः-किरणविस्तारः, किरणरूपो गगनमण्डपोल्लोचो वा यस्मिस्तादृशम्, पुन: आपानक मृदङ्गरवजनितशृङ्गारैः आपानके-सुरापानगोष्ट्याम् , यो मृदङ्गरवः-मृदङ्गाख्यवाद्यविशेषध्वनिः, तेन जनितः-आविर्भावितः,
भारः-तदाख्यरसविशेषो येषु तादृशैः, युगपत् एककाले, आरब्धताण्डवैः आरब्धनृत्यैः, नगरीजनैः प्रकृतनगरीवास्तव्यलोकैः, वनशिखण्डिभिः धनमयूरेश्व, मण्डितलतामण्डपम् अलङ्कतलतागृहम् ; पुनः अदूरवहदगाधनीरं