________________
तिलकमलरी।
२३५ मैनाकनामा निर्झरौघैरंसशिखरावलम्बिभि लीकदम्बप्रालम्बैरभिनवैरुद्भासमानः, शिरीपतरुकुसुमकल्पितकर्णपूरः, कर्पूरपरिमलमुचा चन्दनद्रवेण विहितसर्वाङ्गीणाङ्गरागः, तत्कालोपनीतरत्नोपलशकलशीतलममलमुक्ताफलप्रायमल्पमुद्वन् भूषणकलापम् , अच्छकान्तिरत्नदर्पणप्रतिबिम्बितैः प्रीतिनिश्चलचक्षुषो जनस्य सर्वतः सहस्रसंख्यैर्विलोचनैः शवलितगात्रयष्टिः, ऐरावताधिरूढः सहस्राक्ष इव साक्षादुपलक्ष्यमाणः, निक्षिप्तनिजवेषानुरूप. निःशेषनेपथ्यस्य तत्क्षणगृहीतनिशितसृणेनिषादितां प्रतिपद्य सिन्धुरस्कन्धमध्यासितस्य समरकेतोरधिस्कन्धमर्पितोभयबाहुपाशः, पश्चिमासनाध्यासिना ताम्बूलदायकेन प्रतिवेलमुद्भूयमानकनकदण्डडामरैकचामरः, तुलितगत्वरतमालतरुखण्डेन मायूरातपत्रमण्डलेन जयन्त इव संक्रन्दनानुचरीकृतेन बालजलधरव्यूहेनान्धकारिताप्रिमभूमिरप्रेसरेण सरयूतटासङ्गि मत्तकोकिलं नाम बाह्योद्यानमगच्छत् [ऐ]।
मल्लिकामुकुलैः-मल्लिकाख्यकुसुमकलिकाभिः, रचितः-निर्मितः, शेखरः-शिरोमाल्यं येन तादृशः; पुनः मदान्धमधुकरध्वानवाचालै मदान्धाना-मदाकुलानाम् , मधुकराणां-भ्रमराणाम् , ध्यानः-गुजनैः, वाचालैः-मुखरैः, अंसशिखरावलम्बिभिः स्कन्धोपरिभागावलम्बिभिः, अभिनवैः नवीनैः, धूलीकदम्बमालम्वैः धूलीकदम्बानां-परागप्रचुरकदम्बाभिधवृक्षाणाम् , प्रालम्बैः-कण्ठाद् ऋजुतया लम्बमानमाल्यैः, उद्भासमानः उद्दीप्यमानः, कैः क इव ? अंसशिखरावलम्बिभिः स्कन्धशृङ्गावलम्बिभिः, निर्झरौथैः वारिप्रवाहसमूहैः, मैनाकनामा मैनाकसंज्ञकः, अचलः पर्वत इव; पुनः शिरीषतरु. कुसुमकल्पितकर्णपूरः शिरीषतरोः-शिरीषाख्यवृक्षविशेषस्य, यत् कुसुम-पुष्पम् , तेन कल्पितः-रचितः, कर्णपूरःकर्णाभरणं येन तादृशः पुनः कर्पूरपरिमलमुचा कर्पूरसौरभाविष्का, चन्दनद्रवेण चन्दनकर्दमेन, विहितसर्वाङ्गीणाङ्गरागः विहितः-कल्पितः, सर्वाङ्गीणः-सशिव्यापकः, अकरागः-अङ्गविलेपनं येन तादृशः; पुनः तत्कालोपनीतरत्नो. पलशकलशीतलं तत्काल-तत्क्षणम्, उपनीततानि-प्रापितानि, योजितानीति यावत् , यानि, रत्नोपलशकलानि-रत्नरूपपाषाणभागाः, तैः शीतलम् , अमलमुक्काफलप्रायं खच्छमुक्कामणिप्रचुरम् , अल्पं परिमितम्, भूषणकलापम् आभरणसमूहम् , उद्वहन् धारयन् ; अत एव अच्छकान्तिरत्नदर्पणप्रतिविम्बितैः अच्छकान्तिरत्नदर्पणेषु-निर्मलकान्तिकलितरत्नशकलरूपदर्पणेषु, प्रतिबिम्बितैः - प्रतिविम्बरूपेण दृश्यमानैः, सहनसंख्यैः दशशतसंख्याकैः, प्रीति निश्चलचक्षुषः प्रीत्या-स्नेहेन, निश्चलं-निस्पन्दम् , चक्षुर्यस्य तादृशस्य, जनस्य मार्गवर्तिदर्शकलोकस्य, लोचनैः नेत्रैः, सर्वतः समन्तात् , शबलितगात्रयष्टिः शबलिता-चित्रिता, व्याप्त्यर्थः, गात्रयष्टि:-शरीररूपा यष्टिर्यस्य तादृशः; अत एव ऐरावताधिरूढः ऐरावताख्यमहागजारूढः, साक्षात् सहस्राक्ष इव साक्षादिन्द्र इव, उपलक्ष्यमाणः प्रतीयमानः; पुनः समरकेतोः तदाख्यप्रकृतकुमारस्य, अधिस्कन्धं स्कन्धोपरि, अर्पितोभयबाहुपाशः अर्पितः-स्थापितः, उभयबाहुपाशः-उभयबाहुरूपः,, पाश:-बन्धनविशेषो येन तादृशः, कीदृशस्य समरकेतोः? निक्षिप्तनिजवेषानुरूपनिःशेषप्रथ्यस्य निक्षिप्तं-त्यक्तम् , निजवेषानुरूपं-नृपकुमारवेषोचितम् , निःशेष-समस्तम् , नेपथ्य-कृत्रिमशरीरशोभा येन तादृशस्य, पुनः तत्क्षणगृहीतनिशित. सुणेः तत्क्षणं-तत्कालम्, गृहीता-धृता, निशिता तीक्ष्णा, सृणि:-अडशो येन ताशस्य, पुनः निषादितां हस्तिपकताम. प्रतिपद्य प्राप्य, सिन्धुरस्कन्धं हस्तिस्कन्धम्, अध्यासितस्य आरूढस्य; पुनः पश्चिमासनाध्यासिना पश्चिमपश्चाद्भागावस्थितम् , यद् आसनम्-उपवेशनाधारः, तदध्यासिना-तदुपवेशिना, ताम्बूलदायकेन ताम्बूलदानाधिकृतपुरुषेण, प्रतिवेल सततम्, उद्धयमानकनकदण्डडामरैकचामरः उद्भूयमानः-उरिक्षप्यमाणः, कनकदण्डेन-सुवर्णमयदण्डेन, डामरः-सुदृढः, एकचामरः-प्रधानन्यजनविशेषो यस्य तादृशः; पुनः तुलितगत्वरतमालतरुखण्डेन तुलितःउपमितः, गत्वराणां-जङ्गमभूतानाम् , तमालतरूणां-तमालाख्यश्यामलवृक्षविशेषामाम् , खण्डः-विशेषः, वनमिति यावत् , येन तादृशेन, अग्रेसरेण अग्रगामिना, मायरातपत्रमण्डलेन मयूरस्य-विकारो मायूरम्, मयूरपक्षनिर्मितमित्यर्थः, यद्वा मयूराणां समूहो मायूरम् , तद्रूपं यद् आतपत्रं-छत्रम् , तन्मण्डलेन-तत्समूहेन, अन्धकारिताग्रिमभूमिः अन्धकारिताअन्धकारावृता, अग्रिमा-अग्रवर्तिनी, भूमिर्थस्य तादृशः, केन क इव ? संक्रन्दनानुचरीकृतेन संक्रन्दनेन-इन्द्रेण, अनुचरीकृतेन-अनुचरतामापादितेन, जलधरव्यूहेन मेघमण्डलेन, जयन्त इव तत्संज्ञक इन्द्रपुत्र इव [ऐ]।