________________
२३४
टिप्पनक-परागविवृतिसंवलिता केलिकलहेन कदाचिद्रसाभिनयभावप्रपञ्चोपवर्णनेन कदाचिद् वेणुवीणामृदङ्गादिवाद्यविनोदेन कदाचिच्चिरन्तनकवीन्द्रकाव्यमुद्राभ्यसनेन भावुकैः सुहृद्भिविद्वद्भिश्च सह रममाणयोः, एकत्र कल्पिताशनस्नानासनशयनयोः, सदृशवेषालङ्कारधारिणोः, शाक्यशिष्ययोरिवानुपजातविप्रयोगदुःखयोः, सुखमया इव धृतिमया इव अमृतमया इव प्रीतिमया इवातिचक्रमुः कतिपये दिवसाः [C] । यथोत्तरं प्रकटितप्रसादेन नृपतिना दृश्यमानोऽपि सुतनिर्विशेषमीपदपि समरकेतुर्नोत्सेकमगमत् । अपहाय भुजवीर्यमन्वकृत हरिवाहनस्य सर्वानपि गुणान् , आत्मगुणगणेन प्रगुणितश्च परमया भक्त्या प्रीत्या च निःसामान्यया राजानमिव तमहर्निशमसेवत । हरिवाहनोऽपि तद्गुणानुरञ्जितमनाः स्वप्नदृष्टेऽपि समरकेतौ विपक्षजनपद इव जिगीषुः परां मुदमवापत् [ए]।
एकदा च स ग्रीष्मसमये प्रातरेवोत्थाय निर्वर्तितस्नानभोजनादिविधिरुदधिजलविलुलितवासुकिमुक्तनिर्मोकनिर्मलं परिधाय धासोयुगलमुन्निद्रमल्लिकामुकुलरचितशेखरो मदान्धमधुकरध्वानवाचालरचल इव
टिप्पनकम्-अनुपजातविप्रयोगदुःखयोः एकत्र अनुत्पन्न ब्राह्मणसम्बन्धकष्टयोः, अन्यत्र भजातविरहदुःखयोः ल.] ।
विवेचनम् , तस्य केलिकलहेन-विनोदार्थ कृतेन वाकलहेन, कदाचित् कस्मिंश्चित् समये, रसाभिनयभावप्रपञ्चोपवर्णनेन रसाना-वीरादिरसानाम् , अभिनयस्य- चेष्टाविशेषस्य, तद्द्वारा तदभिव्यक्तिप्रयोजका इत्यर्थः, ये भावाः-आलम्बनोद्दीपनसञ्चारिभावाः, तेषां प्रपञ्चस्य-विस्तरस्य, उपवर्णनेन-उत्कीर्तनेन, पुनः कदाचित् कस्मिंश्चित् काले, वेणुवीणामृदङ्गादिवाद्यविनोदेन वेणुः-वंशीवाद्यम् , वीणा-खनामख्यातवाद्यविशेषः, मृदङ्गः-मुरजनामा वाद्यविशेषः, तदादिवाथैः-वेण्वादिवाद्यवादनेन, यो विनोदः-आनन्दस्तेन पुनः कदाचित् कस्मिंश्चिदवसरे, चिरन्तनकवीन्द्रकाव्यमुद्राभ्यसनेन चिरन्तनाना-प्राचीनानाम्, कवीन्द्राणी-महाकवीनाम्, या काव्यमुद्रा-काव्यरचना, काव्यच्छटेत्यर्थः, तथा अभ्यसनेन-परिशीलनेन । एकत्र एकस्थाने, कल्पिताशननानासनशयनयोः कल्पित-रचितम् , अशनं-भोजनम् , मान-जलेन शोधनम् , आसनम्-उपवेशनम्, शयनं-शय्या च, ययोस्तादृशयोः; पुनः सदृशवेषालङ्कारधारिणोः तुल्यवेषभूषण. वतोः; पुनः शाक्यशिष्ययोरिव शाक्यमुनिशिष्ययोरिव, अनुपजातविप्रयोगदुःखयोः शाश्वतिकसाहचर्यवशादनुत्पन्नविश्लेषवेदनयोः, पक्षे अनुत्पन्नब्राह्मणसम्बन्धकष्टयोः, तयोरिति शेषः, सुखमया इव आनन्दमया इव, धृतिमया इव सन्तोषमया इव, अमृतमया इव अमृतपूर्णा इव, प्रीतिमया इव प्रीतिप्रचुरा इव, कतिपयेऽपि बहवोऽपि, दिवसा: दिनानि, अतिचक्रमुः अतिकान्ताः, व्यतीता इत्यर्थः [ल] __यथोत्तरम् उत्तरोत्तरक्रमेण, प्रकटितप्रसादेन प्रकाशितप्रसन्नताकेन, नृपतिना मेघवाहनेन, सुतनिर्विशेष ख. कुमारतुल्य यथा स्यात् तथा, दृश्यमानोऽपि उपलाल्यमानोऽपि, समरकेतुः तन्नामा राजकुमारः, ईषदपि किञ्चिदपि, उत्सेकं तत्प्रयुक्ताभिमानम् , औद्धत्यमित्यर्थः, न अगमत् प्राप्तवान् । भुजवीर्य बाहुविक्रमाभिमानम् , अपहाय त्यक्त्वा, हरिवाहनस्य तत्संज्ञकस्य कुमारस्य, सर्वानपि समस्तानपि, गुयान , अन्वकृत अनुहृतवान् । च पुनः, आत्मगुणगणेन खगुणसमूहेन, प्रगुणितः परिपूर्णः सन् , परमया, अत्यन्तया, भक्त्या श्रद्धया, निःसामान्यया असाधारणया, प्रीत्या स्नेहेन, राजानमिव मेघवाहनमिव, तं हरिवाहनम् , अहर्निशम् रात्रिंदिवम् , असेवत सेवते स्म । हरिवाहनोऽपि तदाख्यकुमारोऽपि, तहणानुरञ्जितमनाः तद्गुणप्रीणितहृदयः सन् , जिगीषुः वैरिविजयेच्छुः, विपक्षजनपद इव रिपु. राज्य इव, समरकेतो, स्वप्नदृष्टेऽपि स्वप्नावस्थायामवलोकितेऽपि, पराम् उत्कृष्टाम् , मुदं हर्षम् , अवापत् प्राप्तवान् [ए]। एकदा च एकस्मिन् दिने च, स हरिवाहनः, ग्रीष्मसमये ग्रीष्मकाले, प्रातरेव प्रातःकाल एव, उत्थाय जागरित्वा, निर्वर्तितस्त्रानभोजनादिविधिः सम्पादितस्त्रानभोजनादिकार्यः, उदधिजलविलुलितवासुकिमुकनिर्मोकनिर्मलम् उदधिजले-समुद्रजले, विललितः-सञ्चलितो यो, वासुकिः-सर्पराजः, तेन मुक्तः-त्यक्तो यो, निर्मोकः-जीर्णत्वक् , तद्वद् निर्मलंशुभ्रम् , वासोयुगलम्-उत्तरीयाधरी यवत्रद्वयम् , परिधाय धारयित्वा, सरयूतटासङ्गि सरयूतटवर्ति, मत्तकोकिलं मत्ताः-रसालरसास्वादोन्मत्ताः, कोकिला यस्मिन्नित्यन्वर्धसंज्ञकम् , बाह्योद्यानम् अयोध्यातो बहिर्ति उद्यान-क्रीडाकाननम् , अगच्छत् गतवान् , नामेति वाक्यालङ्कारे। कीदृशः ? उन्निद्रमलिकामुकुलरचितशेखरः उनिः-विकसितैः,