SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । २३३ माणयो:, उपचीयमानया तारुण्यलक्ष्म्या प्रतिक्षणमुल्लासितै रूपबललावण्यादिभिः शारीरैरन्तः करणजैश्व सत्यशौर्यावबोधवैदग्ध्यपुरस्सरैर्गुणगणैरगणितक्रममाक्रम्यमाणयो रतिसुखपराङ्मुखेन धूर्जटिललाटलोचनानिनेव हृदयेनानङ्गीकृतकन्दर्पयोः, दुष्टजनपददृष्टिदोषसंरक्षार्थमित्र पौरलोकेन स्वान्तेषु सततधार्यमाणयो:, शरदिन्दुaerobesगुणित गुणेन सुरभिसमयेऽप्यघटिताभिनवमागणेन जलदागमेऽप्यनाकृष्ट चापयष्टिना दृष्टदुर्वारभुजपराक्रमेणोत्पन्न संत्रासेनेव दूरस्थेन मकरलक्ष्मणाऽलक्ष्यीकृतदेहयोः [ ऌ ] । कदाचिन्निजनिजात्रकौशलदर्शनेन कदाचित् पदवाक्यविचारेण कदाचित् प्रमाणप्रमेयस्वरूपनिरूपणेन कदाचिदभिमतागमप्रन्थार्थसमर्थनेन कदाचिदसद्दर्शनोक्तयुक्तिनिराकरणेन कदाचिन्नीतिशास्त्रनिबन्धपाठेन कदाचित् कला विषयविचार टिप्परकम् — भाक्रम्यमाणयोरति सुख पराङ्मुखेन धूर्जटिलला टलोचनानिनेव हृदयेनानङ्गीकृतकन्दर्पयोः एकत्र कामभार्यासौख्य बाधकेन, अन्यत्र अतिसौख्यपराङ्मुखैन, एकत्र अनङ्गीकृतकन्दर्पता - विनाशितकामता, अन्यत्र अस्वीकृतकामयोः । गुणः- ज्या । सुरभिः- चैत्रः [ल] । गुणसमूहैः, अगणितक्रमम् अनपेक्षितक्रमं यथा स्यात् तथा, युगपदेवेत्यर्थः, आक्रम्यमाणयोः आश्रीयमाणयोः, कैः ? उपचीयमानया वर्धमानया, तारुण्यलक्ष्म्या यौवनश्रिया, प्रतिक्षणं प्रतिपलम्, उल्लसितैः उद्भासितैः, रूपवललावण्यादिभिः स्वरूप-शक्ति-सौन्दर्यादिभिः, शारीरैः शरीराश्रितैः पुनः सत्य-शौर्याऽवबोधवैदग्ध्यपुरस्सरैः सत्यं - निष्कपटता, शौर्य - शूरत्वम्, अवबोधः- विवेकः, वैदग्ध्यं नैपुण्यम्, तत्प्रमुखैः, सत्वशौर्येत्यादिपाठे सत्त्वं धर्मज्ञानश्वर्यादिहेतुर्गुणविशेषः, अन्तःकरणजैः अन्तःकरणाश्रितैः; पुनः धूर्जटिललाटलोचनाग्निनेव धूर्जटेः- शिवस्य, ललाटलोचनेन -भालस्थनेत्रभूतेन, अग्निना इव, रतिसुखपराङ्मुखेन कामिनीसम्भोगविरकेन, अतिसुखपरासुखेन वा, पक्षे रतिः - कामदेव भार्या, तत्सुखपराङ्मुखेन तत्सुखबाधकेन, हृदयेन चेतसा, अनङ्गीकृतकन्दर्पयोः अनङ्गीकृतः - अस्वीकृतः, तिरस्कृत इति यावत्, पक्षे अनङ्गीकृतः - अङ्गरहितीकृतः, भस्मीकृत इति यावत्, कन्दर्पः- कामदेवो याभ्यां तादृशयोः पुनः दुष्टजनपद दृष्टिदोषसंरक्षार्थमिव दुष्टानां जनपदानां - जनपदवासिनां यो दृष्टिदोषस्ततः संरक्षार्थ -सम्यग्रक्षणार्थमिव, पौरलोकेन पुरवासिजनेन, स्वान्तेषु स्वस्वहृदयेषु, सततधार्यमाणयोः प्रच्छन्नतया निरन्तरनिवास्यमानयोः; पुनः शरदिन्दुमण्डला लोकेऽपि शरदृतु चन्द्रमण्डलप्रकाशेऽपि, अप्रगुणितगुणेन अप्रगुणितः - अनुन्नमितः, गुणः - मौर्वी येन तादृशेन, पुनः सुरभिसमयेऽपि वसन्तकालेऽपि अघटिताभिनवमार्गणेन अघटिता-धनुष्यनारोपिता, अभिनवाःअभिनवोत्फुल्लकुसुमरूपाः, मार्गणाः-वाणा येन तादृशेन, पुनः जलदागमेऽपि वर्षाकालेऽपि अनाकृष्टचापयष्टिना अनाकृष्टा-अनानता, चापयष्टिः- धनुर्दण्डो येन तादृशेन, अत एव दृष्टदुर्वारभुजपराक्रमेण दृष्टः-अनुभूतः, दुर्वारःदुर्धर्षः, भुजपराक्रमः - तयोर्बाहुबलं येन तादृशेन, अत एव उत्पन्नसंत्रासेनेव उत्पन्न :- संजातः, संत्रासः - सम्यक् नासः - भयं यस्य तादृशेनेव, दूरस्थेन दूरवर्तिना, मकरलक्ष्मणा कामदेवेन, अलक्ष्यीकृतदेहयोः अलक्ष्यीकृतः - स्खलक्ष्यतामनापादितः, देहः- शरीरं ययोस्तादृशयोः [ ऌ ] 1 पुनः भावुकैः भव्यैः, मनोहरैरिति यावत्, सुहृद्भिः स्वमित्रैः, च पुनः, विद्वद्भिः विद्वज्जनैः, रममाणयोः क्रीडतोः, केन केन कर्मणा ? कदाचित् कस्मिंश्चित् काळे, निज निजास्त्र कौशलदर्शनेन स्वस्वास्त्रविद्यानैपुण्यप्रदर्शनेन पुनः कदाचित् कस्मिंश्चिच समये, पदवाक्यविचारेण पद-वाक्यविवेच नेन, पुनः कदाचित् कस्मिंश्चित् समये, प्रमाणप्रमेयस्वरूपनिरूपणेन प्रत्यक्षादिप्रमाणानां तत्प्रमेयाणां च खरूपनिर्व चनेन, पुनः कदाचित् कुत्रचित् काले, अभिमतागमग्रन्थार्थ समर्थनेन अभिमताः - स्वाभिप्रेताः ये, आगमग्रन्थाःधर्मशास्त्राणि तेषां येऽर्थास्तेषां समर्थनेन सङ्गमनेन, पुनः कदाचित् कस्मिंश्चित् काले तृ, असद्दर्शनोक्तयुक्तिनिराकरणेन असद्दर्शनोक्तानाम्-असमीचीनदर्शनप्रतिपादितानाम्, युक्तीनाम् - उपपत्तीनाम्, निराकरणेन - खण्डनेन, पुनः कदाचित् कस्याचिद् वेलायाम्, नीतिशास्त्रनिबन्धपाठेन नीतिशास्त्रसम्बन्धिनां निबन्धानां किञ्चिद्विषयोपपादकवाक्यप्रबन्धानां पाठेन, पुनः कदाचित् कचिदवसरे, कला विषयविचार के लिकलहेन कलाविषयः -शिल्पविषयको यो विचारः - युक्तिप्रतियुक्ति ३० विलक
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy