________________
टिप्पनक-परागविवृतिसंवलिता इत्यादि साध्वसकरं च कर्तव्योपदेशपरं प्रार्थनं च सपरिहासं च जल्पताऽवसरेषु, नीयमाना, क्वचिञ्चिरकालसंगलनसान्द्राणि कदाचिदप्यदलितानि यानपात्रैः पाटयन्ती शुकहरितशैवलपटलानि, कचित सांयात्रिकप्रचारविरहादतिस्फीततां गतैरहरहः स्फुटतां शुक्तिसंपुटानां मुक्ताफलैर्निरन्तरनिचितेषु सैकतेषु सुखप्रसुप्तानि प्रबोधयन्ती जलमानुषमिथुनानि, क्वचिद् दूरत एव श्रूयमाणमुखरपक्षिरवाणि संभ्रमोत्पतनसविशेषविततदेहायामानि जलनिधिमध्यशायीनि शैलतरुखण्डेषु पिण्डयन्ती भारुण्डाण्डजकुलानि, स्वल्पेनैव समयेन दूरं जगाम । प्रगुणवातप्रेरिता च व्रजन्ती तत्रातिदीर्धेऽपि वारिधेरध्वनि गगन इव मेघलेखा प्रायशो न कविश्वरखाल, प्रदक्षिणीकृत्य च क्रमेण तं क्षितिध्रमभिमुखीबभूव तस्य तूर्यशब्दप्रभवस्य पर्वतोद्देशस्थ [क]।
सोऽपि प्रदेशस्तां दूरादेव दर्शितोर्ध्वध्वजभुजामात्मानमिव संज्ञया दर्शयन्तीमन्तिकागतां विज्ञाय सद्य एव तं वाद्यशब्दं कदाचित् तारं कदाचिन्मन्दमुञ्चरन्तमच्छिन्नसंतानमाह्वानशब्दमिव संजहार । विरते च वादित्रनिःस्वने सततगमनोद्यमोऽपि पुनराकर्णनाशया तथैव तारकः स्तोकं गत्या सत्वरमाचकर्ष नावम् [ख]।
--
---
दिङ्मोह एवेति तात्पर्यम् , अहृदय ! हे हृदयशून्य !, उदाहृतामपि उक्तामपि, उत्तराशावर्तनीम् उत्तरदिङ्मार्गम् , न जानासि न परिचिनोषि, सप्तर्षिमण्डलं मरीच्यादिसप्तर्षितारागणं, दृष्ट्वा दृष्ट्वा असकृदवलोक्य, प्रवर्तख प्रवृत्तिं कुरु [अ]।
पुनः कीदृशी सा नौः ? शुकहरितशैवलपटलानि शुकसदृशहरितवर्ण जलतृणपुञ्जान्, पाटयन्ती उन्मूलयन्ती, कीदृशानि? क्वचित् कुत्रचित् , चिरकालसंगलनसान्द्राणि दीर्घकालजलसम्पातनिबिडानि, पुनः यानपात्रैः पोतैः, कदाचिदपि, अदलितानि अखण्डितानि । पुनः कचित् कुत्रचित् प्रदेशे, जलमानुष मिथुनानि जलीयमनुष्यदम्पतीन्, प्रबोधयन्ती जागरयन्ती, कीदृशानि सैकतेषु सिकतामयस्थलेषु, सुखप्रसुप्तानि सुखेन शयितानि, कीदृशेषु ? अहरहः प्रत्यहं, स्फुटतां दलतां, शुक्तिसम्पुटानां सम्पुटानां सम्पुटितशुक्तीनां, मुक्ताफलैः मुक्तामणिभिः, निरन्तरनिचितेषु निरवकाशव्याप्तेषु, कीदृशैः? सांयात्रिकप्रचारविरहात् पोतवणिकप्रचाराभावात् , अतिस्फीतताम् अत्युजवलता, गतैः प्राप्तैः । पुनः क्वचित् कुत्रचित् स्थाने, भारुण्डाण्डजकुलानि भारुण्डाख्यपक्षिविशेषगणान् , शैलतरुखण्डेषु पार्वतीयवृक्षपतिषु, पिण्डयन्ती समूहयन्ती, कीदृशानि? दूरत एव दूरादेव, श्रूयमाणमुखरपक्षिरवाणि श्रूयमाणः
यमानाः, मुखरपक्षिणां-वाचालपक्षिणा, रवाः-शब्दा यैस्तादशानि, पक्षिस्थाने 'पक्ष' इति पाठे श्रयमाणा मुखराः पक्षा येषामित्यर्थः, पुनः संभ्रमोत्पतनसविशेषविततदेहायामानि सम्भ्रमेण-अन्तःक्षोमेण, यत् उत्पतनम्उड्यनं, तेन सविशेषम् -अत्यन्तं, विततः-विस्तृतः, देहायामः-शरीरदैय येषां तादृशानि, पुनः जलनिधिमध्यशायीनि समुद्रमध्यशयनशीलानि । च पुनः, प्रगुणवासप्रेरिता अनुकूलपवनप्रेरिता, वजन्ती गच्छन्ती, सा नौरिति शेषः, तत्र तस्मिन् , वारिधेः समुद्रस्य, अध्वनि मार्गे, गगने आकाशमार्ग, मेघलेखा इव मेघपङ्गिरिव, प्रायशः प्रायेण, क्वचित कुत्रापि स्थाने, न चस्खाल स्खलितवती, क्रमेण दक्षिणादिमार्गक्रमेण, तं क्षितिभ्रं सुवेलपर्वत, प्रदक्षिणीकृत्य परिभ्रम्य, तूर्यशब्दप्रभवस्य तूर्याख्यवाद्यविशेषध्वनिप्रादुर्भावास्पदस्य, तस्य प्रकृतस्य, पर्वतोदेशस्य पर्वतरूपोर्ध्वदेशस्य, अभिमुखीबभूव सम्मुखीबभूव, नौरिति शेषः [क]।
सोऽपि प्रकृतवायशब्दोद्गमस्थानभूतोऽपि, प्रदेशः एकदेशः, दूरादेव, दर्शितोवंध्वजभुजां दर्शितः- स्वागमनसंकेतनाय दृष्टिगोचरतां गमितः, ऊर्ध्वध्वजरूयः-नौकोपरितनपताकात्मकः, भुजः-बाहुर्थया तादृशीम् , अतः संशया तादृशसङ्के. तेन, आत्मानमिव खमिव, दर्शयन्तीं साक्षात्कारयन्ती, तां नावम् , अन्तिकागतां समीपमागतां, विज्ञाय निश्चिल, सद्य एव तत्क्षणमेव, तं वाद्यशब्दं तूर्याख्यवाद्यध्वनिम् , आह्वानशब्दमिव आह्वानात्मकधनिमिव, संजहार उपसंहृतवान्, निवारितवानिति यावत् , कीदृशम् ? कदाचित् कस्मिंश्चित् क्षणे, तारं तीवं, कदाचित् मन्दं यथा स्यात् तथा, उच्चरन्तम् उद्गच्छन्तम् , पुनः अच्छिन्नसन्तानम् अविरतधारम् । वादित्रनिःस्व ने वायध्वनौ, विरते निवृत्ते सति, पुनराकर्णनाशया पुनः श्रवणाशया, सततगमनोधमोऽपि अविरतगमनप्रयत्नोऽपि, तारकः तदाख्यकर्णधारः,