SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २०२ टिप्पनक-परागविकृतिसंवलिता काहलमाकर्ण्यमानतारपरुषहयषारवमितस्ततः श्रूयमाणगम्भीरगजगर्जितमावेगतर्जिताश्चैवारंवारमश्ववारैरावेद्यमानागमनमग्रस्कन्धताडितो रसमरढकमढौकत चक्षुषः पथि प्रतिपन्थिबलम्, अविरलनिरस्तशरनिकरशीकरासारडामरं च तदुरिरभसमुद्दामकलकलव्याप्तसकलदिङ्मुखमभिमुखप्रधावितेन जलदागमनुभितममरापगापूरजलमिव लवणजलधिना प्रत्यगृह्यतास्मलेन [3]परस्परवधनिबद्धकक्षयोश्च तयोस्तरक्षणमाकुलितसकलजीवलोको युगपदेकीभूतोदारयारिराशिरसजलविसरवर्षिधनपदातिघोरो मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः टिप्पनकम्-अग्रस्कन्धः-अग्रसेना [ 0] । कक्षा-निश्चयः । आकुलितसकलजीवलोकः एकत्र ससम्भ्रमसर्वजीवा जना यत्र स सथोक्तः, अन्यत्र ससम्भ्रमसर्वभुवनः । युगपदेकीभूतोदारवारिराशिः एकत्र एकहेलया मिलित उद्तशब्दः शत्रुसंघातो यन्त्र स तथोक्तः, अन्यत्र युगपन्मिलितोनटसमुद्रः । अस्रजलविसरवर्षिघनपदातिघोरः एकत्र रुधिरोदकवर्षकनिबिडपत्तिभैरवः, अन्यत्र रक्तवजलवर्षकमेघावस्थानातिरौद्रः । मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः एकत्र हृष्टशाकिनीगवेध्यमाणनृपतिशिरोऽस्थिमद्यपानः, अन्यत्र हृष्टचामुण्डान्वेष्यमाण. दिक्पालकालचषकः । अमजु-कठोरं यथा स्यात् तथा, गुञ्जन्तः-ध्वनन्तः, काहलाः-महाढक्का यस्मिंस्तादृशम् ; पुनः आकर्ण्यमानतारपरुषहयढेषारवम् आकर्ण्यमानाः-श्रूयमाणाः, तारा:-तीवाः, परुषा:-कर्णकठोराः, हयानाम्-अश्वानाम् , हेषारवाः-हेषाख्यशब्दा यस्मिंस्तादृशम् ; पुनः इतस्ततः अत्र तत्र, श्रूयमाणगम्भीरगजगर्जितं श्रूयमाणम् , गम्भीरं-तुमुलम्, गजगर्जितं-हस्तिगर्जनं यस्मिंस्तादृशम् । पुनः आवेगतर्जिताश्वैः आवेगः-अतिवेगैः, तर्जिताः-ताडिताः, अश्वा यस्तादृशैः, अश्ववारैः अश्वारोहिसैनिकः, वारं वारम् अनेकधा, आवेद्यमानागमनम् आवेद्यमानं-ज्ञाप्यमानम् , आगमनं यस्य लादृशम् । पुनः अग्रस्कन्धताडितोद्धरसमरढक्कम अग्रस्कन्धे सेनासनिवेशाप्रभागे, ताडिताः-नादिताः. उद्धराः-दृढाः, समरढक्काः-संग्रामवायविशेषा यस्मिंस्तादृशम् । च पुनः, अविरलनिरस्तशरनिकरशीकरासारडामरम् अविरल-निरन्तरम् ,निरस्त:-विकीर्णो यः, शरनिकर:-बाणसमूहः, तद्रूपजलकणधारापातेन, डामरं-व्याप्तम् । पुनः दुर्वाररभसं दुर्निवारबेगम् ; पुनः उद्दामकलकलव्याप्तदिनुखम् उद्दान्ना-उत्कटेन, कलऋलेन-कोलाहलेन, व्याप्तानि-पूरितानि, सकलानिसर्वाणि, दिङ्मुखानि, सकलानां दिशा वा मुखानि-अग्रभागा येन तादृशम् , तत शत्रुसैन्यम् , अभिमुखप्रधावितेन शीघ्रमभिमुखमागतेन, अस्मदलेन अस्मत्सैन्येन, प्रत्यगृहात आकान्तम् ; केन कीदृशं किमिव ? लवणजलधिना लक्षणसमुद्रेण, जलदागमक्षुभितं जलदागमेन-वर्ष ना, क्षुभितं सञ्चालितम्, अमरापगापूरजलमिव अमरापगायाः-देवनद्याः, गङ्गाया इति यावत् , पूरजलमिव-प्रवाहजलमिव [ङ]च पुनः, परस्परवधनिबद्धकक्षयोः परस्परस्य, वधायघाताय, निबद्धा-नितरां बद्धा, कक्षा-कटिघटितपटार्धभागो निश्चयो वा याभ्यां तादृशयोः, तयोः स्वसैन्य-शत्रुसैन्ययोः, महाप्रलयसन्निभः महाप्रलयतुल्यः, समरसंघट्टः संग्रामसंघर्षः, अजायत जातः। कीदृशः? तत्क्षणं तत्कालम् , आकुलितसकलजीवलोकः आकुलिता:-क्षोभिताः, सकला:-समस्ताः, जीवाः-प्राणिनो यैस्तादृशा लोका:-जना यत्र तादृशः, पक्षे आकुलिता:-क्षोभिताः, सकलाः-समस्ताः, जीवलोकाः-भवनानि येन तादृशः; पुनः युगपत्रे वारिराशिः युगपद्-एककालावच्छेदेन, एकीभूतः-संमिलितः, उदारवः-उद्गतशब्दः, अरिराशि:-शत्रुसमुदायो यत्र तादृशः, पक्षे युगपद्-एककालावच्छेदेन, एकीभूताः-संमिलिताः, उदाराः-महान्तः, वारिराशयः-समुद्रा यत्र तादृशः; पुनः अस्त्रजलविसरवर्षिघनपदातिघोरः अस्त्रजलविसरवर्षिणः-रुधिररूपजलौघवर्षिणो ये, घना:-निबिडाः; पदातयः-पत्तयः, तैः अतिधोर:-अतिभयङ्करः, पक्षे अस्रजलविसरवर्षिणः-रुधिरमयजलौघषिणो ये, चना:-मेघाः, तेषां यानि पदानि-अवस्थानानि, तैः, अतिघोर:-अतिभयङ्करः; पुनः मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः मुदितया-रुधिरपानहृष्टया, योगिन्या-शाकिन्या, पक्षे मुदितया लोकसंहारहृष्टया, योगिन्या-चामुण्डया, मृग्यमाणा:-अन्विष्यमाणाः, लोकपालाना-नृपाणाम्, पक्षे इन्द्रादिदिक्पालानाम्, कपालचषका:-मस्तकोपरितनार्धघटा कारास्थिरूपरुधिरपानपात्रचिशेषाः,
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy