________________
तिलकमञ्जरी।
२०३ प्रचलितरसाकुलभूभृच्चक्रवालकृततुमुलः प्रसृतरभसोत्तालगजदानवारिरातत्रिदशदारिकान्विष्यमागरमणसार्थों निपीतनरवशाविस्वरबिसारिशिवाफेत्कारडामरः [च] । सतारकावर्ष इव वेतालदृष्टिभिः, सोल्कापात इव निशितप्रासवृष्टिभिः, सनिर्घातपात इव गदाप्रहारैः, ससंवर्तकाम्बुदुर्दिन इव करिशीकरासारैः, सोत्पातरविमण्डल इव कीलालितकरालचक्रमुक्तिभिः, सवैद्युतस्फूर्ज इव जवापतज्ज्वलितशक्तिभिः, सखण्डपरशुताण्डव इब प्रचण्डानिलधूतध्वजसहौः, सकालाग्निधूम इव प्रकुपितसुभटभ्रकुटीतमिस्रैरजायत महाप्रलयसंनिभः
टिप्पनकम्-प्रचलितरसाकुलभूभृञ्चक्रवालकृततुमुलः एकत्र प्रचलितवसुन्धराकुलगिरिचक्रविहिताकुल शब्दः, अन्यत्र प्रचलितवीररसाकुलनृपचकृताकुलारवः । प्रसृतरभसोत्तालगजदानवारिः एकत्र प्रसृतं-प्रवृत्तम् , स्भलोत्तालगजानाम्-उत्सुकोनटकरिणाम, दानवारि-मदजलं यत्र स तथोक्तः, अन्यत्र प्रसृत उत्तालगजवद् दानवारिःशङ्करो यत्र स तथोक्तः । आतंत्रिदशदारिकाविष्यमाणरमणसार्थः एकत्र भार्ताभिस्तिसृभिर्दशभिश्च, दारिकाभिः-अङ्गनाभिः, भविष्यमाणो भर्तृसंघातो यत्र स तथा, अन्यत्र आर्तदेवपुत्रिकागवेष्यमाणभर्तृसंघातः । निपीते त्यादि-शिवाफेरकारडामरः-एकत्र चामुण्डाफेत्कारेण डामरः-रौद्रः, अन्यत्र कोष्ट्री० [च]। कीलालितः-सरुधिरः । . स्फुजः-स्फुरणम् । खण्डपरशु:-शङ्करः।कालाग्निः-पातालरुद्रः[छ।
पक्षे तद्रूपमद्यपानपात्र विशेषा यस्मिंस्तादृशः; पुनः प्रचलितरसाकुलभूभृश्चक्रवालकृततुमुल: प्रचलितेन-उच्छलितेन, रसेन-वीररसेन, आकुलानाम्-आप्लुतानाम्, भूभृतां-राज्ञाम्, चकवालेन-मण्डलेन, कृतं तुमुलं-सान्द्रयुद्धं यस्मिन् , पक्षे प्रचलितायाः-प्रकम्पितायाः, रसायाः पृथिव्याः, कुलभूभृता-महेन्द्रादिकुलपर्वतानाम् , चऋवालेन-समूहेन, कृतम् , परस्परोपरि पतनरूपं सान्द्र युद्ध यस्मितादृशः; पुनः प्रसृतरभसोत्तालगजदानवारिः प्रसृत-विस्तृतम् , रभसोत्तालानां-वेगोद्धतानाम्, गजानां, दानवारि-मदजलं यस्मिंस्तादृशः, पक्षे प्रसृतः-संहत्तुं व्यावृतः, रभसोसालःऔत्सुक्योन्तो हर्षमेदुरो वा, गजदानवस्य-गजासुरस्य, अरिः-शत्रुः शिवः संहारभैरव इति यावत्, यस्मिंस्तादृशः; पुनः आतंत्रिदशदारिकान्विष्यमाणरमणसार्थः आर्ताभिः-विरहव्यग्राभिः, त्रिदशदारिकाभिः-देवाशनाभिः, अन्विष्यमाणः, रमणसार्थ:-प्रियसमूहो यस्मिंस्तादृशः, युद्धे मृताना देवत्व प्राप्तः प्रसिद्ध्या वैधव्यविधरितानां तद्वनिताना वरान्वेषणोपपत्तेः, पक्षे त्रिदशाभिः-त्रिवृत्तदशसंख्यकाभिः, त्रिंशत्संख्यकाभिरिति यावत्, उपलक्षणत्वाद् बहुसंख्यकाभिरित्यर्थः, दारिकाभिः-अङ्गनाभिः, अन्विष्यमाणः, रमणसार्थ:-भर्तृगणो यस्मिस्तादृशः; पुनः निपीतनरवशा- . विस्वरविसारिशिवाफेत्कारडामरः निपीता-नितरां पानकर्मतामापादिता या, नराणां-मनुष्याणाम् , वशा-धातुविशेषः, तया विखरेण-विकृतस्वरेण, विसारिणीनां-प्रसारिणीनाम् , शिवानां-शुगालीनाम्, पक्षे विसारिण्याः शिवायाः-चण्डिकायाः. फेत्कारेण-ध्वनिविशेषेण, डामरः-व्याप्तः, रौद्र इति यावत् [च]; पुनः वेतालदृष्टिभिः वेतालानां-मल्लविशेषाणाम् , पक्षे शिवानुचरविशेषाणाम् , दृष्टिभिः-दृष्टिपातः, सतारकावर्षे इव तारकाणां ताराणाम्, यद् वर्ष-वृष्टिः, तत्सहित इवेत्युत्प्रेक्षा; पुनः निशितप्रासवृष्टिभिः निशितानां-तीक्ष्णानाम् , प्रासाना-कुन्ताख्यास्त्राणाम् , या पृष्टयस्ताभिः, सोल्कापात इव उल्कापातसहित इवेति चोत्प्रेक्षा; पुनः गदामहारैः गदाप्रक्षेपैः, सनिर्घातपात इच वज्रपातसहित इव; पुनः . करिशीकरासारैः गजमदजलकणधारासम्पातैः, ससंवर्तकाम्बुदुर्दिन इव संवर्तकस्यतदाख्यमेघविशेषस्य, अम्बुभिः-जलैः, यद् दुर्दिन-मेघाच्छन्नदिनम् , तत्सहित इव; युनः कीलालितकरालचक्रमुक्तिभिः कीलालितं-रुधिराद्रीभूतम् , करालं-भयानकं च, यचक्र-तदाख्यमस्त्रम् , तन्मुक्तिभिः-तद्विमोचनैः, सोत्पादरविमण्डल इव उत्पातरविमण्डलेन-जगत्संहारसूचकसूर्यमण्डलेन, सहित इव; पुनः जवापतज्वलितशक्तिभिः जवेन-वेगेन, आपतन्तीभिः-निपतन्तीभिः, ज्वलिताभिः-दीप्ताभिः, शक्तिभिः-तदाख्यास्त्रविशेषैः, सवैद्युतस्फूर्ज इव वैद्युतेन-विद्युसम्बन्धिना, स्फूर्जेन-स्फुरणेन, सहित इव; पुनः प्रचण्डानिलधूतध्वजसहनैः प्रचण्डेन-उद्दण्डेन, अनिलेन-वायुना, धूताः-कम्पिताः, ये ध्वजास्तेषां सहस्रः, सखण्डपरशुताण्डव इव खण्डपरशो:-शिवस्य, ताण्डवेन-नृत्येन, सहित इव; पुनः प्रकुपितसुभटभृकुटीतमिस्त्रैः प्रकुपितानाम्-अतिकुद्धानाम् , सुभटाना-सुयोधानाम्, भृकुटीभिः-नेत्रीपरितनरोमराजिकौटिल्यैः, यानि तमिस्त्राणि-अन्धकारास्तैः, सकालाग्निधूम इव कालाने:-प्रलयकालिकाग्नेः, धूमेन सहित इवेति