________________
टिप्पनक - परागविवृतिसंवलिता
प्रार्थ्यमानयशसि पर्यायेण जयपराजयावासादयति सैन्यद्वये सहसैव शत्रुसैन्यादसारभसो मृगयुमार्गणप्रहारताडित इव मृगारातिराकर्णित दुनैरेन्द्रमन्त्रपद इव महाहिराघ्रातविपक्षवारणमदगन्ध व वनकरेणुर निलोल - पताकापटसहस्रमरिकुलप्रलयाय मुक्तशिखमिवोत्खातशस्त्र पुरुषकृत परिक्षेपं रथमारूढः प्रौढकालायस कवचगूढ़कायैः पुनरुक्ततर्जितसारथिभिरभङ्गुरभुजबलाभिमानैरनति भूरिभिरव निपतिपुत्रैरनुगम्यमान एको नृपकुमारः कुमारसदृशाकृतिरतिरंहसा निरगमत् [ अ ] | निर्दयास्फालितधनुश्चातिदूरोल्लसितेन श्यामलितदशदिशा कुटिलविषमेण भ्रुकुटि लिलेखात्रयेण धूमोद्गमेनेवानुमीयमानहृदय प्रदीप्तमन्युरभिमन्युरिव चक्रव्यूहस्य सेनापतिपुरोभागपुञ्जितस्य राजसमूहस्य संचरदनेकरथसहस्रदुष्प्रवेशमविशन्मध्यम्, अनुवर्तितक्षत्रधर्मैश्च महाबलैर्नरपतिभिरेकैकशोऽभिमुखीभवद्भिः क्षणमात्रमन्थरितरथगतिः 'वज्रायुध ! वज्रायुध !' इति सगर्वं व्याहरन् वाहिनीभर्तुरन्तिकमधिगच्छत् [ट] ॥
२०६
तृतीयभागरूपा, शेषस्थितिः - शेषावस्थानं यस्यास्तादृश्यां सत्याम् पुनः सैन्यद्वये खसैन्य- शत्रुसैन्ययोः, अमर्षगतमरणशङ्कानिरङ्कुशप्रवृत्तिभिः अमर्षेण - ईर्ष्यावशेन, गता निवृत्ता, या मरणशङ्का-मृत्युभयम् तेन निरङ्कुशप्रवृत्तिभिः - निर्वाध प्रवृत्तिकैः, वीरलोकैः वीरपुरुषैः, अहंप्रथमिकया 'अहं प्रथमः, अहं प्रथमो योधानाम्' इति पारस्परिक स्पर्धाविशेन, प्रार्थ्यमानयशसि प्रार्थ्यमानम्--अभिलष्यमाणं यशो येन तादृशे, अत एव पर्यायेण क्रमेण, जय-पराजयौ, आसादयति प्राप्नुवति सति, सहसैव अकस्मादेव, शत्रुसैन्यात् शत्रुसैन्यसकाशात्, कुमारसद्दशाकृतिः कार्तिकेयतुल्याकारः, एकः, नृपतिकुमारः राजकुमारः, अतिरंहसा अतिवेगेन, निरगमत् निर्गतः । कीदृशः ? असारभसः असह्यः - सोढुमशक्यः, रभसः-वेगो यस्य तादृशः क इव ? मृगयुमार्गण प्रहार ताडितः मृगयोः - व्याधस्य, मार्गण प्रहारेण-बाणप्रक्षेपेण, ताडितः, मृगारातिः सिंह इवः पुनः आकर्णित दुर्नरेन्द्र मन्त्रपदः आकर्णितानि श्रुतानि दुर्नरेन्द्राणां - दुष्टमन्त्रपाठकानाम्, मन्त्रपदानि - मन्त्राक्षराणि येन तादृशः, महाहि; महासर्प इवः पुनः आघातविपक्षवारणमदगन्धः आप्रातः- आघ्राणकर्मतामापादितः, विपक्षवारणानां शत्रुगजानाम्, मदगन्धः - दानवारिगन्धो येन तादृशः, वनकरेणुः वनगज इव; पुनः कीदृशः ? रथमारूढः कृतरथारोहणः कीदृशं रथम् ? अनिललोलपताकापटसहस्रम् अनिलेनवायुना, लोलम् - उद्भूयमानम्, पताकापटानां ध्वजवस्त्राणाम्, सहस्रं यस्मिंस्तादृशम्, पुनः अरिकुलप्रलयाय शत्रुकुलसमूलोच्छेदाय, मुक्तशिखमिव मुक्ता-निर्गमिता, शिखा - ज्वाला येन तादृशम्, अभिमिवेत्युत्प्रेक्षा, पुनः उत्खातशस्त्र पुरुषकृतपरिक्षेपम् उत्खातशस्त्रैः- उद्घाटितशस्त्रैः पुरुषैः कृतः परिक्षेपः- परिवेष्टनं यस्य तादृशम्, पुनः प्रौढ कालायस. haa गूढ कायैः प्रौढेन - सुदृढेन, कालायसकवचेन - लौह विशेषनिर्मितवर्मणा, गूढः रक्षितः, कायः शरीरं येषां तादृशः, पुनरुक्ततर्जितसारथिभिः पुनरुक्तेन - पुनः पुनर्वचनेन, तर्जिताः -- भत्सिताः सारथयो यैस्तादृशः, पुनः अभङ्गुरभुजबलाभिमानैः अभङ्गुरः-- अविनश्वरः, प्रबल इत्यर्थः, भुजबलाभिमानः- भुजबलगव येषां तादृशः, अनतिभूरिभिः अनत्यधिकैः, परिमितैरिति यावत्, अवनिपतिपुत्रैः राजकुमारैः, अनुगम्यमानः अनुत्रियमाणः [ अ ] । च पुनः, निर्दयास्फालितधनुः निर्दयम् - अत्यन्तं यथा स्यात् तथा, आस्फालितम् - आकृष्टं धनुर्येन तादृशः, राजकुमार इति शेषः, सेनापतिपुरोभागपुञ्जितस्य सेनापतेः -सेनानायकस्य, पुरोभागे - अग्रभागे, पुजितस्य- संहृतस्य, राजसमूहस्य - नृपगणस्य, सञ्चर दनेकमहारथसहस्रदुष्प्रवेशं सचरतां प्रचरताम्, अनेकेषां महारथानां सहस्रेण, दुष्प्रवेशं - दुःखेन प्रवेष्टुं योग्यम्, चक्रव्यूहस्य सैन्यसन्निवेशविशेषस्य, मध्यं मध्यभागम्, अभिमन्युः तदाख्योऽर्जुनसूनुरिव, अविशत् प्रविष्टवान् ; कीदृश: ? धूमो मेनेव धूमोत्थानेनेव अतिदूरोल्लसितेन सुदूरादेवाविर्भूतेन, श्यामलितदशदिशा श्यामलिताःमलिनिताः, दश दिशो येन तादृशेन, कुटिलविषमेण कुटिलेन-वक्रेण विषमेण उन्नतानतेन, भ्रुकुटिव लिलेखात्रयेण भ्रुकुटि :- नेत्रोपरितन कुटिल रोमावलिः, तदुपरिस्थिता या वलिलेखाः- वलिरूपा रेखाः, तासां त्रयेण, अनुमीयमानहृदयप्रदीप्तमन्युः अनुमीयमानः- अनुमित्यात्मकानुभवगोचरतामापाद्यमानः, हृदये, प्रदीप्तः - प्रज्वलितः, मन्युः - क्रोधो यस्य तादृशः अनुवर्तित क्षत्रधर्मैः अनुवर्तिताः- अनुसृताः, संग्रामशौर्यादिरूपाः क्षत्रधर्माः क्षत्रियधर्मा यैस्तादृशः, महाबलैः प्रबलैः, एकैकशः प्रत्येकम्, अभिमुखीभवद्भिः सम्मुखमागच्छद्भिः, नरपतिभिः नृपतिभिः क्षणमात्रमन्थरितरथगतिः