________________
तिलकमञ्जरी।
२६५ वय॑मानैरपि मुखे पयोभिरनुपजाततृप्तेरौदहनस्य दर्शनाझटिति निःसृतैरट्टहासच्छेदैरिव कैलासविशदैः फेनरा शिभिराशामुखानि धवलयन्तम् [ल], अमृतपकैकशरणजीर्णजलकरिकुलातिवाह्यमाननिरवसानकालकूटविषदाहवेदनमामोदावकृष्टपन्नगदृढाश्लिष्टसुरतरुजटाच्छेदप्ररूढविटपमासन्ननगरायातदैत्यदारिकाविष्यमाणकौस्तुभसजातीयरनोपलशकलमुदश्रुजलदेवतादृश्यमानलक्ष्मीचिरोपभुक्तप्रदेशं त्रिदशनीतशेषकतिपयाप्सर:संचारसूचितं मथनस्थानमुद्वहन्तम् [ 0], गृहीतवेलैः सद्भूत्यैरिव वनैः परिवृतममृतस्यन्दिभिर्गुरूपदेशैरिव शशाङ्कपादैराहितोदयं विस्तारितरङ्गैः कुशीलवैरिव नदीपूरैनय॑मानमुल्लासितवेत्रयष्टिभिः प्रतीहौररिव मरुद्भिर्दिक्षु संचार्यमाणं [ए] स्वदेहोद्भवेन दुष्पुत्रेणेव वाडवाग्निना शोष्यमाणमूर्मिमालाभिरप्यनासादितपरपारमाशागजैरप्यसोढगोंगारं खेचरैरप्यवीक्षितशिखाविश्रामं सर्वज्ञेनाप्यविज्ञातसर्वजलचरनामग्रामं तिमिङ्गिल
टिप्पनकम् -गृहीतवेलैः सद्भुत्यैरिव वनैः एकत्र वेला-अडलाछेदनम् (?) अन्यत्र पर्यन्तभूमिः। विस्तारितरङ्गः कुशीलवैरिव नदीपूरैः एकत्र विस्तृतकल्लोलैः, अन्यत्र विस्तारितनर्तनस्थानः, कुशीलवाः-नटाः । उल्लासितवेत्रयष्टिभिः एकत्र वेग्रयष्टिः-दण्डः, अन्यत्र जलवंशः [ए] । शुभ्रयन्तम् , कीदृशैः ? और्वदहनस्य वाडवानलस्य, दर्शनात् , झटिति शीघ्रम् , निःसृतैः निर्गतः, अट्टहासच्छेदैरिव महाहासखण्डैरिवेत्युत्प्रेक्षा, कीदृशस्य तस्य ? सर्वतः सर्वदिक्षु, प्रसारितायतज्वालाजिह्वस्य प्रसारिता-विस्तारिता, आयता-दीर्घा, ज्वालारूपा जिह्वा येन तादृशस्य; पुनः मुखे सततम् अनवरतम् , आवय॑मानैरपि आहियमाणैरपि, पयोभिः जलैः, अनुपजाततृप्तः अनुत्पन्नपिपासानिवृत्तेः[ल11 पुनः त्रिदशनीतशेषकतिपयाप्सरःसञ्चारसूचितमथनस्थानं-त्रिदशैः-देवैः, आनीताभ्यः-गृहीताभ्यः, शेषाः-अवशिष्टा याः कतिपयाः-परिमिताः, अप्सरसःखर्वेश्याः, तासां सञ्चारेण-विहारेण, सूचितं मथनस्थान-मन्थनस्थलम् , उद्वहन्तं धारयन्तम् , कीदृशं तत् ? अमृतपकैकशरणजीर्णजलकरिकुलातिवाद्यमाननिरवसानकालकूटविषदाहवेदनम् अमृतपङ्कः-सुधाकर्दम एव, शरणंस्थानं यस्य तादृशेन, जीर्णेन-जरावस्थेन, जलकरिकुलेन-जलहस्तियूथेन, अतिवाह्यमाना-व्यतीयमाना, सह्यमानेत्यर्थः, कालक्टेन-तद्रूपेण, विषण-विषविशेषेण, यो दाहः-तापः, तद्वेदना-तद्दुःखं यस्मिंस्तादृशम् । पुनः आमोदावकृष्टपन्नगदृढाश्लिष्टसुरतरुजटाच्छेदप्ररूढविटपम् आमोदैः-अतिसौरभैः, अवकृष्टाः-आकृष्टा ये पन्नगाः-सर्पाः, तैः दृढम्-अत्यन्तम् , आश्लिष्टानाम्-आलिजितानाम् , सुरतरुजदाना-समुदस्थकल्पवृक्षशिफानां, छेदैः-खण्डैः, प्ररूढः-उद्भिन्नः, विटपः-वृक्षो यस्मिंस्तादृशम् , पुनः आसन्ननगरायातदैत्यदारिकान्विष्यमाणकौस्तुभसजातीयरत्नोपलशकलम् नगरेभ्यः-निकटनगरेभ्यः, आयाताभिः-आगताभिः, दैत्यदारिकाभिः-दैत्यकन्यकाभिः, अन्विष्यमाणानि-गवेष्यमाणानि, कौस्तुभसजातीयानां--कौस्तुभसमानजातीयानां, रन्नोपलानां-रत्नपाषाणानाम् , शकलानि-खुण्डानि यस्मिंस्तादृशम् । पुनः उदश्रुजलदेवतादृश्यमानलक्ष्मीचिरोपभुक्तप्रदेशम् , उदश्रुभिः-उद्गतं अश्रु-नेत्रजलं यासा तादशीभिः, जलदेवताभिःजलाधिष्ठातृदेवताभिः, दृश्यमानः-दृष्टिगोचरीक्रियमाणः, लक्ष्म्या-लक्ष्मीदेव्या, चिरोपभुक्तः-दीर्घकालोपभुक्तः, प्रदेशो यस्मिस्तादृशम् [ल.] । पुनः वारि जलम् , उद्वहन्तं धारयन्तम् , कीदृशम् ? सद्भुत्यैरिव सत्कर्मकरैरिव, गृहीतवेलैः गृहीता वेला-तटम् , पक्षे कर्मकरणावसरो यस्तादृशैः, वनैः परिवृतं परिवेष्टितं व्याप्तमित्यर्थः; पुनःगुरूपदेशैरिव गुरूपांधर्माचार्याणाम् , अनुशासनैरिव, अमृतस्यन्दिभिः सुधास्राविभिः, पक्षे मोक्षविधायिभिः, शशाङ्कपादैः चन्द्रमरीचिभिः, आहितोदयं जनितविकाशम् ; पुनः कुशीलवैरिव नाटकीयनायकबन्दिभिरिव, विस्तारितरङ्गैः विस्तारिणः-विस्तारवन्तः, तरङ्गा येषां तादृशैः, पक्षे विस्तारितः-स्वकृतकीर्तिगानशब्दैव्याप्तः, रङ्गः-नाट्यशाला यैस्तादृशैः, नदीपूरैः नदीप्रवाहैः, नर्त्यमानं कार्यमाणनर्तनम् ; पुनः प्रतीहारैरिव द्वारपालैरिव, उल्लासितवेत्रयष्टिभिः उल्लासिता-उद्यता, पक्षे उद्वेलिता, वेत्रयष्टिः-वेत्रदण्डो जलवंशो वा यैस्तादृशः, मरुद्भिः पवनैः, दिक्षु दिशासु, सञ्चार्यमाण कार्यमाणसञ्चारम् [ए] पुनः दुष्पुत्रेणेव दुष्टसुतेनेव, स्वदेहोद्भवेन खशरीरजातेन, वाडवाग्निना वाडवाख्यसमुद्रस्थाग्निविशेषेण, शोष्यमाणं क्रियमाणशोषणम् ; पुनः ऊर्मिमालाभिरपि तरङ्गपतिभिरपि, किमुतान्यैः अनासादितपरपारम् अनासादितः परःउत्तरः, पारो यस्य तादृशम् ; पुनः आशागजैरपि दिग्गजैरपि, किमुतान्यैः, असोढगोंद्रारम् असोढः-सहनकर्मता
३४ तिलक.