SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । २५७ कुलशकुलकुलाभिर्दूरनिर्गतजलार्द्रमार्गपिशुनित पशु परम्परोत्ताराभिरनवरत लोकविश्रामक्षामितोपान्तवेत सवनाभिनस्रोतोवहाभिः सीमन्तिताम् [म], ईषदुपजातशोषकरीषसुखसंचारविशिखैः सपर्णतरुलता निवेशजटालवेश्मपटलैरजिर मण्डपच्छायानिविष्ट गोरसपरिपुष्टमहाकाय पुष्टकौलेयकैः सकलकलोच्छलत्प्राज्य परिमलव्यञ्जिततप्ताज्यतऋविन्दुक्षेपैरुत्कर्णतर्णकाकर्णितमध्यमानमथितमन्थन मन्थरनिर्घोषैः सतोष घोषाधिपसमाहूयमानपर्यटत्पायसार्थिपथिकपेटकैः क्रमागतैकैकवठ र द्विजातिवचननिर्विचारप्रवर्तितशयनासन स्नानदानादिसर्वक्रियैः प्रातरेव प्रचार निर्गताभिस्तत्कालमधिगताधिकबलोपचयबृंहितेन स्वाभाविकभव्यतागुणेन द्विगुणाकृष्टलोकदृष्टिभिः पीनपरिमण्डलापीनभार विकटमन्थरगमनाभिरनणुमणिघण्टिका घोषरमणीयमितस्ततो विचरन्तीभिः सततानु भक्षणे, आकुलं-व्यप्रम्, शकुलकुलं - मत्स्य विशेषगणो यासां तादृशीभिः पुनः दूर निर्गतजलाई मार्गपि शुनित पशुपरम्परोत्ताराभिः दूरनिर्गतेन दूरनिष्कान्तेन, जलाईमार्गेण - जलालुतवरमैना, पिशुनितः - सूचितः, पशुपरम्पराणां - पशुसमूहानाम्, उत्तरः- उपरिनिर्गमनं याभ्यस्तादृशीभिः, पुनः अनवरत लोकविश्रामश्चमितोपान्तवेतसचनाभिः अनवरत - निरन्तरम्, लोकानां जनानाम्, विश्रामे - खेदापनयने, क्षमितानि - क्षमतामापादितानि, क्षामितेति पाठे तेषां विश्रामेण क्षामितानि - क्षीणतां गमितानीत्यर्थः, उपान्तानि - निकटानि, वेतसवनानि - वञ्जुलवनानि याभिस्तादृशीभिः [म]; पुनः गोकुलैः गोठैः, rat स्थानैरित्यर्थः, अधिष्ठितकक्षोपकण्ठाम् अधिष्ठितः - व्याप्तः, कक्षस्य - वनस्य, उपकण्ठः- समीपप्रदेशो यस्यां तादृशीम्, यद्वा अधिष्ठितस्य कक्षस्य- वनस्य, उपकण्ठाम् - समीपाम् कीदृशैः ? ईषदुपजातशोषकरीष सुख सञ्चारविशिखैः ईषत् - किञ्चित्, उपजातः- उत्पन्नः, शोषः- शुष्कता येषां तादृशैः, करीषैः- गोमयैः, सुखसञ्चारा - सुकरगमना, विशिखा - रथ्या, येषां तादृशैः, पुनः सपर्णतरुलता निवेश जटा लवेश्मपटलैः सपर्णानां पत्रपूर्णानाम्, तरुलतानां तरूणां-वृक्षाणाम्, तदाश्रितलतानां च निवेशेन- समावशेन, जटालं- समृद्धम्, वेश्मपटलं गृहसमूहो येषां तादृशैः पुनः अजिरमण्डपच्छायानिविष्टगोरस परिपुष्ट महाकाय पुष्टकौलेयकैः अजिरमण्डपस्य- प्राङ्गण वर्तिगृहविशेषस्य, छायायां निविष्टः - अवस्थितः, तथा गोरसेन पयोदधिघृतादिना, परिपुष्टः - अतिपुष्ठः, महाकाय :- विशालशरीरं यस्य तादृशः, तथा पुष्टः- प्रबलः, एवंविधः कौलेयकः - कुलागतः कुकुरो येषां तादृशैः पुनः सकलकलोच्छ लत्प्राज्यपरिमलव्यञ्जिततप्ताज्य तत्रबिन्दुक्षेपैः सकलकलम् - कलकलेन- शब्दविशेषेण सहितं यथा स्यात् तथा उच्छलन्तः- उद्गच्छन्तः, प्राज्यपरिमलेन - प्रचुर सौरभेग, व्यञ्जिताःसूचिताः, तप्तघृत सुगन्धज्ञापिता इत्यर्थः एवंविधाच ये, तप्तस्य, आज्यस्य - घृतस्य, तऋबिन्दवः, तप्यमाननवनीतावस्थागतघृतस्थतकस्य बिन्दर इत्यर्थः तेषां क्षेपाः - विक्षेपः- दूरीभवनं येषु तादृशैः पुनः उत्कर्णतर्णका कार्णितमध्यमानमथितमन्थनी मन्थरनिर्घोषैः उत्-ऊर्ध्वो, कर्णौ येषां तादृशैस्तर्णकैः वत्सैः, आकर्णितः - श्रुतः, मध्यमानस्य - आलोक्यमानस्य, मथितस्य-तक्रस्य, या मन्थनी - मथनदण्डः, तस्या मन्थरः - मन्दः, निर्घोषो येषां तदृशैः पुनः सतोष घोषाधिपसमाहूयमान पर्यटत्पायसार्थिपथिकपेटकैः सतोषं परितोषेण सहितं यथा स्यात् तथा, घोषाधिपेन आभीरयामाधिपेन, समाहूयमानं - सम्यगाद्धूयमानम्, पर्यटतां - परिभ्रमताम्, पायसार्थिनां क्षीरान्नाभिलाषिणाम् पथिकानां मार्गगामिनाम्, पेटकं समूहो येषु तादृशैः, पुनः क्रमागतैकै कठरद्विजातिवचन निर्विचारप्रवर्तितशयनासनस्नानदानादिसर्वक्रियैः क्रमेण आगतस्य एकैकस्य बठरस्य मूर्खस्य, द्विजातेः - द्विजस्य, वचनेन - वाक्येन, निर्विचार - स्वविचारं विनैत्र, प्रवर्तिता-गोपैः प्रारब्धा, शयनम्, आसनम्, स्नानम्, दानम्, तदादिः - तत्प्रभृतिः, सर्वा-सकला, क्रिया येषु तादृशैः, पुनः गोभिः धेनुभिः, अशून्यपर्यन्तैः व्याप्तनिकटैः कीदृशीभिः ! प्रातरेव प्रातःकाल एव, प्रचारनिर्गताभिः प्रचाराय विचरणाय, यद्वा तृणभक्षणाय, गृहान्निष्क्रान्ताभिः पुनः तत्कालं प्रचारकालमेव, अधिगताधिकबलोपचयबृंहितेन अधिगतः - प्राप्तः, योऽधिकवलोपचयः - अधिक बलवृद्धिः, तेन बृंहितेन वर्धितेन स्वाभाविक भव्यतागुणेन स्वाभाविक सौन्दर्यगुणेन, द्विगुणाकृष्ट लोकष्टिभिः द्विगुणं यथा स्यात् तथा आकृष्टाः कृताकर्षणाः, लोकानां जनानाम् दृष्ट्यो याभिस्तादृशीभिः पुनः पीनपरिमण्डलापीनभार विकटमन्थरगमनाभिः पीनानि - स्थूलानि, परिमण्डलानि - वर्तुलाकाराणि च यानि आपीनानिऊषांसि, स्तना इत्यर्थः, तेषां भारेण-गुरुतया, विकटं प्रकटम्, मन्थरं मन्दम्, गमनं यासां तादृशीभिः पुनः अनणुमणिघण्टाघोषरमणीयम् अनणुमणिघण्टिकानाम् स्थूलमणिमयग्रीवास्थ किङ्किणीनाम्, घोषेण ध्वनिना, रमणीयं- मनोहरं यथा स्यात् तथा, इतस्ततः अत्र तत्र विचरन्तीभिः विहरन्तीभिः पुनः सततानुचरचाटुकार खैरसौरभेयाभिः ३३ तिलक •
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy