________________
२५८
टिप्पनक-परागविवृतिसंवलिता चरचाटुकारस्वैरसौरभेयाभिरचिरजातप्रसवाभिरद्यश्वीनाभिश्च गोभिरशून्यपर्यन्तैस्तुहिनपातशीनहैयंगवीनवर्णतनुलतालावण्याभिः क्षीरधवलचलत्कटाक्षच्छटाप्रतिक्षणक्षालितदिङ्मुखाभिर्नवनीतपिण्डपाण्डवलात्कठिनपरिमण्डलस्तनकलशयुगलाभिर्गोरसश्रीभिरिव शरीरिणीभिः सविभ्रमरगवलनैः स्नेहनिर्भराणि दधीनि बल्लवह्रदयानीव निर्दयमामभतीभिर्गोपललनाभिः सर्वतः समाकुलैगोकुलैरधिष्ठितकझोपकण्ठां नगरसीमामलङ्घयम् [य] । ___ अथाप्रेसराश्ववारदर्शनक्षुभितैः 'कटकमागच्छति' इति जनरवादुपलभ्योपलभ्य सर्वतः प्रधावितैः परित्यक्तनिजनिजव्यापारैरवकरकूटकेष्वधिरूढेस्तडागपालीषु पुञ्जितैर्देवकुलवरण्डकेषु कृतावस्थानैः पादपस्कन्धेषु बद्धासनैरूश्वोपविष्टैश्च लम्बितोभयभुजैश्च जघनपार्श्वविन्यस्तहस्तयुगलैश्च शीर्णपट्टिकागाढप्रथितासिधेनुकैश्च धौतशाटककृतशिरोवेष्टनैश्च वेणुयष्टिषु कृतावष्टम्भैश्च स्कन्धाधिरोपितदयितडिम्भैश्च सर्वत्र सकुतूहलैरपि सविशेष
टिप्पनकम्-विशिखा-रथ्या । आपीनम्-ऊधः । अद्यश्वीनाः -अद्य श्वरे वा प्रसूताः । स्नेहनिर्भराणि घृतभरिवानि प्रेमपूरितानि च दधीनि वल्लभहृदयानि च । निर्दयमामतीभिः निष्करुणम्, मातीभिः-मदयन्तीभिः पीडयन्तीभिश्च [य]।
सततम्-अनवरतम् , अनुचरस्य-भृत्यस्य, यः, चाटुकारः-प्रियवाक्यप्रयोगः, तत्र खरा:-स्वतन्त्राः, सौरभेया: वृषभा यासां तादृशीभिः, पुनः अचिरजातप्रसवाभिः अभिनव प्रसूताभिः, च पुनः, अद्यश्वीनाभिः अद्य श्वो वा प्रसविष्यमाणाभिः, अत्यासन्नप्रसवाभिरित्यर्थः । पुनः कीदृशैः ? गोपालललनाभिः गोपवधूमिः, सर्वतः सर्वभागेषु, समाकुलैः व्याप्तैः; कीदृशीभिः ? तुहिनपातशीनहैयङ्गवीनवर्णतनुलतालावण्याभिः तुहिनपातेन-हिमपातेन, शीनं-घनीभूतम् , यद् हैयङ्गवीन-नवनीतम् , तस्येव वर्ण:-रूपं यस्य तादृशम्, तनुलतायाः-शरीरलतायाः, लावण्य-कान्तिर्यासां तादृशीभिः, पुनः क्षीरधवलचलत्कटाक्षच्छटाप्रतिक्षणक्षालितदिङ्मुखाभिः क्षीरवत्-दुग्धवत् , धवलाना- शुभ्राणाम् , चलतां च, कटाक्षाणाम्-अपाङ्गानाम्, छटाभिः-धाराभिः, प्रतिक्षणं-प्रतिपलम् , क्षालितानि-धौतानि, दिङ्मुखानि-दिगग्रभागा याभि. स्तादृशीभिः, पुनः नवनीतपिण्डपाण्डुवलगत्कठिनपरिमण्डलस्तनकलशयुगलाभिः नवनीतपिण्डवत् , पाण्डुकिञ्चित्पीतश्वेतवर्णम् , बल्गत्-चलत् , कठिनं कठोरम्, परिमण्डलं-वर्तुलं च, स्तनकलशयुगलं-कलशाकारस्तनद्वयं यासा तादृशीभिः, पुनः शरीरिणीभिः शरीरवतीभिः, गोरसश्रीभिरिव गवाम् , रसः-पयोदध्यादि, तदीयशोभाभिरिवेत्युत्प्रेक्षा, पुनः सविभ्रमैः विलाससहितैः, अङ्गवलनः अङ्गसञ्चलनैः, स्नेह निर्भराणि स्नेहेन-दध्यादिगुणविशेषेण, पक्षे प्रीत्या, निर्भराणि-पूर्णानि, दधीनि, च पुनः, कहाभहृदयानि पतिहृदयानि, बल्लवहृदयानि इति पाठे तु गोपहृदयानीत्यर्थः, निर्दयम् अत्यन्तम् , आमथ्नतीभिः आलोडयन्तीभिः [य]। ___ अथ अनन्तरम् , भगवन्तम् ऐश्वर्यशालिनम् , अम्भोनिधि समुद्रम् , अपश्यम् दृष्टवानहम् , इत्यप्रेणान्वेति । कीदृशः ? ग्रामेयकैः ग्रामवासिभिः, अवलोक्यमानबलसन्ततिः दृश्यमानसैनिकसङ्घः, कीदृशैः ? अग्रेसराश्ववार दर्शनाभितः अप्रेसराणाम्-अग्रगामिनाम् , अश्ववाराणाम्-अश्ववाहकानाम् , दर्शनेन, क्षुभितैः-सञ्चलितः, कटकं सैन्यम् , आगच्छतीति, जनरवात् लोकोक्तशब्दात् , उपलभ्योपलभ्य ज्ञात्वा ज्ञात्वा, सर्वतः सर्वदिग्भ्यः, प्रधावितैः कृतसत्वरगमनैः, पुनः परित्यक्तनिजनिजव्यापारैः संत्यक्तस्वस्वकार्यः, पुनः अवकरकूटेषु अवकीर्यते-मार्जन्या विक्षिप्यते इत्यवकरः, धूल्यादिराशिः, तत्कूटेषु-तदुपरिभागेषु, अधिरूढैः आरूढः, पुनः तडागपालिषु तडागकोणेषु, तडागसेतुषु वा, पुञ्जितैः सङ्घीभूतैः, पुनः देवकुलवरण्डकेषु देवकुलस्य देवमन्दिरस्य, वरण्डकेषु-प्राकारस्थानीयभित्तिषु, कृतावस्थानः अवस्थितैः, पुनः पादपस्कन्धेषु वृक्षस्कन्धेषु, बद्धासनैः कल्पितासनैः, च पुनः, ऊर्वैः उत्थितैः, च पुनः, उपविष्टैः कृतोपवेशनैः, च पुनः, लस्वितोभयभुजैः नमितोभयबाहुभिः, च पुनः, जघनपार्श्वविन्यस्तहस्तयुगलैः कटिपुरोभागनिवेशितहस्तद्वयैः, च पुनः, शीर्णपट्टिकागाढग्रथितासिधेनुकैः शीर्णपट्टिकायां-शीर्णावस्थपटखण्डे, गाढंदर्द यथा स्यात् तथा, प्रथिता-बद्धा, असिधेनुः-छुरिका यस्तादृशैः, च पुनः, धौतशाटककृतशिरोवेष्टनः धौतेनक्षालितेन, शाटकेन-वस्त्रेण, कृतं शिरोवेष्टन-मस्तकावरणं यैस्तादृशैः, च पुनः, वेणुयष्टिषु वंशदण्डेषु, कृतावष्टम्भैः कृता