________________
तिलकमञ्जरी।
२५९ करिषु कपिषु क्रमेलकेषु च प्रहितदृष्टिभिः प्रमाणरूपवलोपचयशालिनां प्रत्येकमनडुहां मूल्यमानमुट्टयद्भिः [२] 'कथय, क एष राजपुत्रः, केयं राज्ञी, किमभिधानोऽयं द्विरदः' इत्यनवरतप्रयुक्तया प्रश्नपरम्परया कथितसकृदृष्टकटकग्रामलाकुटिकैः करेणुकाधिरूढं क्षुद्रगणिकागणमप्यन्तःपुरमिति घृतोष्णवारणं चारणमपि महाराजपुत्र इति कनकनिष्कावृतकन्धरं वणिजमपि राजप्रसादचिन्तक इति चिन्तयद्भिः पृष्टैरपि प्रतिवचनमप्रयच्छद्भिराहूतैरप्यन्यतो गच्छद्भिः पश्यतोऽप्यभिमुखमङ्गुलीभिर्दर्शयद्भिः शृण्वतामपि चेष्टितमशङ्कितैरुश्चस्वनेन सूचयद्भिर्विषमावतारसंमर्देषु दुर्दान्तकरभवाजिवृषभोत्प्लवनेषु व्यालदन्तिवेगोपसर्पणेषु च स्खलत: पततः पलायमानानवलोक्यावलोक्य समकालकृतकलकलैः सतालशब्दमुच्चस्तरां हसद्भिः [ल], कैश्चिन्मार्गनिहितनिश्चल. दृष्टिभिः पश्चादेष्यतां दिगन्तविख्यातयशसामुभृितां कुमाराणां राजपत्नीनां प्रधानगणिकानां पट्टहस्तिनां च दर्शनाशया क्षुत्पिपासापरिगतैरूवंशोषं शुष्यद्भिः, कैश्चित् पृष्ठसङ्गिस्वैरिपामरीपीवरस्तनस्पर्शलुब्धैः पीडितैरपि
वलम्बनैः, च पुनः, स्कन्धाधिरोपितदयितडिम्भैः स्कन्धे, आरोपितः-धृतः, दयितः-प्रियः, डिम्भः-शिशुयैस्तादृशैः, पुनः सर्वत्र सर्वविषयेषु, सकुतूहलैरपि कौतुकान्वितैरपि, करिषु हस्तिषु, कपिषु मर्कटेधु, च पुनः, क्रमेलकेषु उष्ट्रेषु, सविशेष विशेषेण, प्रहितदृष्टिभिः प्रेरितलोचनैः, पुनः प्रमाणरूपबलोपचयशालिनाम् प्रमाणं-देयम् , रूपं-सुन्दराकृतिः, बलोपचयः-बलवृद्धिः, तैः, शोभावताम्, अनडुहां वृषभाणाम् , प्रत्येकम् एकैकस्य, मूल्यमानम् मूल्यप्रमाणम् , उद्धट्टयद्भिः कथयद्भिः [र] कथय ब्रूहि, एषः अयम् , राजपुत्रः नृपकुमारः, कः किनामा ?, इयं पुरोवर्तिनी, राज्ञी राजपत्नी, का किन्नानी ?, अयं पुरोवर्ती, द्विरदः हस्ती, किमभिधानः किनामा ?, इति इस्थम् , अनवरतप्रयुक्तया निरन्तरकृतया, प्रश्नपरम्परया प्रश्नसमूहेन, कदार्थतसकृष्टकटकनामलाकुटिकैः कदर्थिता:-क्लेशिताः, सकृत-एकवारम् , दृष्ट-दृष्टिगोचरीकृतम् , कटक-सेना यैस्तादृशाः, ग्रामलाकुटिका:-प्रामवासिदण्डिजना यैस्तादृशैः, करेणुकाधिरूढं हस्तिनीमारूढम् , क्षुद्रगणिकागणमपि साधारणवेश्यावृन्दमपि, अन्तःपुरम् अन्तःपुराङ्गनागणम्, इति चिन्तयद्भिः मन्यमानैः, पुनः धृतोष्णवारणं गृहीतच्छत्रम् , चारणमपि भृत्यमपि, महाराजपुत्र इति महाराजकुमार इति, चिन्तयद्भिः, पुनः कनकनिष्कावृतकन्धरं कनकस्य-सुवर्णस्य, निष्केण-अष्टोत्तरशतेन, आवृता-व्याप्ता, कन्धरा-प्रीवा यस्य तादृशम् , वणिजमपि आपणिकमपि, राजप्रसादचिन्तकः राजप्रीतिप्रार्थी, इति चिन्तयद्भिः, पुनः पृष्टैरपि कृतप्रश्नैरपि, प्रतिवचनम् उत्तरम् , अप्रयच्छद्धिः अप्रददद्भिः, पुनः आहूतैरपि कृताह्वानरपि, अन्यतः अन्यत्र, गच्छद्भिः, पुनः अभिमुखं सम्मुखम् , पश्यतोऽपि अवलोकमानानपि, लोकान् , अङ्गुलीभिः, दर्शयद्भिः संकेतयद्भिः, पुनः चेष्टितं शरीरचेष्टाविशेष शृण्वतामपि श्रुतिगोचरीभूतध्वनिना जानतामपि, अशङ्कितैः तच्छ्वणशङ्कयापि रहितैः, उच्चखनेन उच्चशब्देन, सूचयद्भिः बोधयद्भिः; पुनः विषमावतारसंमर्देषु निनोन्नतस्थला वतरणार्थजनसम्मेलनेषु, स्खलतः विचलतः, पुनः दुदान्तकरभ-वाजि-वृषभोप्नुवनेषु दुदोन्तः-उद्धतो यः करभःहस्तिशिशुः, वाजी-अश्वः, वृषभः-वृषः, तेषाम् , उत्प्लवनेषु-उत्कूदनेषु, पततः, च पुनः, व्यालदन्तिवेगोपसर्पणेषु व्यालदन्तिना-दुष्टहस्तिनाम् , “ज्यालो दुष्टगजे सर्प शठे श्वापद-सिंहयोः" इति हैमः, वेगेन-स्वरया, यद् उपसर्पण-समीपागमनं तेषु, पलायमानान् भयादिना स्थानत्यागेनान्यस्थानं गच्छतो जनान् , अवलोक्य अवलोक्य दृष्ट्वा दृष्ट्वा, समकालकृतकलकलैः समकालं-एककालम् , कृतः कलकल:-कोलाहलो यैस्तादृशैः; पुनः सतालशब्दं प्रसृतहस्तध्वनिपूर्वकम् , उच्चैस्तराम् अत्युच्चैः, हसद्भिः हासं कुर्वद्भिः [ल]; कैश्चित् कैरपि जनैः, मार्गनिश्चल निहितदृष्टिभिः भार्गे-पथि, निश्चलं-निःस्पन्दं यथा स्यात् तथा, निहिते-निवेशिते, दृष्टी लोचने यैस्तादृशैः, पुनः पश्चात् पृष्ठदेशतः, एष्यताम् आगमिष्यताम् , दिगन्तविख्यातयशसाम् आदिगन्तप्रसिद्धयशस्कानाम् , उर्वीभृतां नृपाणाम् , कुमाराणां राजपुत्राणाम् , राजपत्नीनां राजीनाम् , प्रधानगणिकानां मुख्यवेश्यानाम् , च पुनः, पट्टहस्तिनां प्रधानगजानाम् ; दर्शनाशया दर्शनाभिलाषेण, क्षुत्-पिपासापरिगतैः बुभुक्षा-पिपासाव्याप्तैः, अत एव ऊर्वशोषं शुष्यद्भिः ऊर्ध्व कण्ठताल्वादिप्रदेशावच्छेदेन शोषणमनुभवद्भिः; पुनः कैश्चित् कैरपि, पृष्ठसङ्गिस्वैरिफामरीपीवरस्तनस्पर्शलुब्धैः