________________
तिलकमञ्जरी।
३२१ नेतुमुत्थितेन चुम्बिताम्बरशिखमतिप्रांशुना शिखरेण, विततशिखरश्रेणिना सागरवीचिमालास्फालवाचालतलशिलासोपानमालेन मूलदेशासीननानारूपजलचरजातिना स्वच्छतातिरेकादात्मकरतलस्थितवदवलोक्यमानापरभागावस्थितपदार्थजातेन शुद्धजातिस्फाटिकनिर्मितेन स्फुटस्फातिना प्राकारमण्डलेन कुण्डलितम् , अमलप्राकारभित्तिलग्नैः प्रतिबिम्बकैरिव निजैरनिलवेल्लितपताकापल्लवतया प्राप्तुमुन्नतिप्रकर्षमारब्धसेवासमुचितोत्तरीयाञ्चलवीजनैरमरगिरिशृङ्गैरिव सर्वतः परिवृतं हिरण्मयैः सुरप्रासादैः [द], छन्दोविचितिशास्त्रमिव बृहत्या जगत्या भ्राजितं, युगान्तदिवसमिव विलसदनेकरूपकालिकान्तं, हेमन्तमिव समासन्नशिशिरवातायनालंकृतं,
टिप्पनकम् छन्दोविचितिशास्त्रमिव बृहत्या जगत्या छन्दोजात्या, अन्यत्र महत्या देवकुलिकाधरया । युगान्तदिवसमिव विलसदनेकरूपकालिकान्तम् एकत्र विलासवज्ञानारूपशङ्करम् , अन्यत्र देदीप्यमाननानारूपैकपतिकमनीयम् । हेमन्तमिव समासन्नशिशिरवातायनालङ्कतम् एकत्र निकटशीतलगवाक्षभूषितम् ,......। प्रौढवादिनमिवातिविषमपत्रमाविस्मायितप्रेक्षकजनम् एकत्र दुर्विजेयपत्रकभञ्जनाश्चर्यितावलोककलोकम् , भन्यन दुर्लेखनीयपत्रवल्लीरचनाभेदाश्चर्यितप्रेक्षकजनम् []
सारितदिशा आभोगेन- विस्तारेण, दूरम् , उत्सारिता-उत्क्षिप्ता, दिक् येन तादृशेन, अतः तपनमण्डलं सूर्यबिम्बम् , आत्मनः खस्य, कलशतां कुम्भतां, नेतुं प्रापयितुम् , उत्थितेनेव उद्गतेनेव, अतिप्रांशुना अत्युनतेन, शिखरेण शृङ्गेण, चुम्बिताम्बरशिखं चुम्बित्ता-स्पृष्टा, अम्बरशिखा-आकाशोपरिभागो येन तादृशम् । पुनः प्राकारमण्डलेन प्राकारसमूहेन मण्डलाकारप्राकारेण वा, कुण्डलितं परिवेष्टितमू, कीदृशेन ? विततशिखरश्रेणिना विस्तृतशिखर. समूहकेन, पुनः सागरवीचिमालास्फालवाचालतलशिलासोपानमालेन सागरवीचिमालाया:-समुद्रतरङ्गश्रेण्याः, य आस्फाल:-आस्फालनं, तेन वाचालतला-शब्दायमानाधःस्थला, शिलासोपानमाला-प्रस्तरमयी रोहिणीश्रेणी यस्य तादृशेन, पुनः मूलदेशासीननानारूपजलचरजातिना मूलदेशे-अधोदेशे, आसीनाः-उपविशन्त्यः, नानारूपाः-अनेकरूपाः, जलचरजातयः-जलजन्तुजातीया जीवा यस्मिंस्तादृशेन, पुनः स्वच्छतातिरेकात् उज्वलतोत्कर्षात् , आत्मकरतलस्थितवत् खकरतलवर्तिवस्तुवत् , अवलोक्यमानापरभागावस्थितपदार्थजातेन अवलोक्यमानं-दृश्यमानम् , अपरभागावस्थितम्-उत्तरभागावस्थित, पदार्थजातं-वस्तुसमूहो यस्मिंस्तादृशेन, पुनः शुद्धजातिस्फाटिकनिर्मितेन शुद्धजाति-स्वच्छजातीय, यत् स्फाटिकं-स्फटिकमणिगणः, तद्रचितेन, पुनः स्फुटस्फातिना स्फुटा स्फातिः-विस्तारो यस्य तादृशेन । पुनः हिरण्मयैः सुवर्णमयैः, सुरप्रासादैः देवमन्दिरैः, सर्वतः सर्वभागेषु, परिवृतं परिवेष्टितम् , कैरिव ? अमलप्राकारभित्तिलग्नैः उजवलप्राकारकुख्यसंक्रान्तैः, निजैः स्वकीयः, प्रतिबिम्बकैरिव प्रतिच्छायाभिरिव, पुनः अनिलवेल्लितपताकापल्लवतया पक्नोद्भूतपताकारूपपल्लवतया हेतुना, उन्नतिप्रकर्षम् उच्छ्रायोत्कर्ष, प्राप्तमिव लब्धुमिव, आरब्धसेवासमुचितोत्तरीयाञ्चलवीजनैः आरब्धं-प्रवर्तित, सेवासमुचितं-सेवायोग्यम् , उत्तरीयांश्चल. वीजनम्-उत्तरीयवस्त्राग्रभागेन वीजन-पवनान्दोलनं यैस्तादृशैः, अमरगिरिशृङ्गैरिव सुमेरुशिखरैरिव [द ] । पुनः कीदृशम् ? छन्दोविचितिशास्त्रमिव छन्दोविचितिः-छन्दःसन्दोहः, तत्सम्बन्धिशास्त्रमिव, यद्वा छन्दसा या विचितिः-अन्वेषणं तत्सम्बन्धिशास्त्रमिव, वृहत्या विस्तृतया, जगत्या आयतनाधारभूम्या, पक्षे बृहती-जगतीसंज्ञकछन्दोभ्यां, भ्राजितं शोभितम्, पुनः युगान्तदिवस मिव प्रलयदिनमिव, विलसदनेकरूपकालिकान्तं विलसन्तीभिः-विराजमानाभिः, अनेकरूपाभिः-नानाकाराभिः, आलिभिः-पतिभिः, कान्तं-सुन्दरम् , पक्षे विलसन्-विराजन् , नानारूपाभिः-नानाकाराभिः, कालिकाभिः-चण्डिकाभिः, अन्तः-क्षयो बत्र, यद्वा विलसद्भिः, नानारूपकैः, अलिभिः-भ्रमरैः, [मार्कण्डेयपुराणान्तर्गतदुर्गासप्तशतीस्तुत्यन्तः एकादशाध्याये] “तदाऽहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्पदम्" इत्यन्यत्रोक्कदिशा भ्रमराकारधारणीभिश्चण्डीभिरिति यावत् , कान्त-मनोहरम् , यद्वा विलसन् क्रीडन् नानारूपः काल्याः कान्तः-शिवो यत्र तादृशम् । पुनः हेमन्तमिव हेमन्तऋतुमिव, समासन्नशिशिरवातायनालङ्कतं समासन्नैः-अतिसमीपवर्तिभिः, शिशिरैः-शीतलैः, वातायनैः-गवाक्षः, पक्षे
४१ तिलक.