________________
तिलकमञ्जरी।
२८३ समाहृतसमस्तनिजोपकरणेन सत्यपि स्वकर्मसावधाने संनिधानवर्तिनि नाविकनाते विनीतताप्रतिपादनाय कर्णधारतां प्रतिपद्य सद्यो धृतारित्रेण तारकेणाधिष्ठितया पृष्ठतोऽनुकूलपवनास्फालनतरङ्गितेन फेनपाण्डुना सलिलसंघातेन पुरस्ताच्च सितपटेन प्रवर्यमानया व्रजन्याप्यतिजवेन दुर्विभावत्वाद् गतेरनुज्झितस्थानयेवोह्यमानया नावोह्यमानः [इ], प्रतिवेलमपसरत्सातुविस्तारान् निरन्तरोपलक्ष्यमाणसान्तरालतरुगणान् सुवेलगिरिदर्शनाय सेनया सह प्रचलितानिवावलोकयन् वेलावनाचलान् [ई], अलघुविस्तारपिहितदिक्चक्रेण चकितनक्रचक्रोन्मुच्यमानपुरोवर्मना पवनासूत्रितविचित्रभङ्गाभिर्गाढसंमर्दभयादूर्मिमालाभिरिव वारिधेरन्तरिक्षमुत्पतिताभिः फेनमुक्ताफलशङ्खधवलाभिर्ध्वजपताकाभिरुपपादितवनावनीविलासेन संसर्पता विविधकवचशस्त्रशिरपूरितेन पोतसंतानेन पर्वतसेतुनेवापरेण सीमन्तयन् दक्षिणां दिशं क्षणेनैवादृश्यतीरभागमविभाव्यमान
टिप्पनकम् ऊह्यमानया वितर्यमाणया [ ] ।
पिष्टपञ्चाङ्गुलं-पिष्टातकाभिधवर्णचूर्णद्रवातिं, पञ्चाङ्गुलं-पञ्चाङ्गुलि समाहारो यस्यां तादृश्या, पुनः ध्वजानबद्धाभिनववर्णाशुकपताकया ध्वजा-पताकास्तम्भाग्रे, बद्धा-लम्बिता, अभिनववर्णांशुकपताका-नवीनवर्णविशिष्टश्लक्ष्णवस्त्ररूपपताका यस्या तादृश्या, पुनः समाहृतसमस्तनिजोपकरणेन समाहृतानि-संग्रहीतानि, समस्तानि-अशेषाणि, निजोपकरणानिनिजानि नौवहनोपकरणवस्तूनि येन तादृशेन, तथा स्वकर्मसावधाने खकार्यावहितहृदये, नाविकगणे कर्णधारगणे, सन्निधानवर्तिनि निकटवर्तिनि, सत्यपि, विनीतताप्रतिपादनाय विनीतताप्रकटनाय, कर्णधारता नाविकता, प्राप्य, सद्यः तत्क्षणम् , धृतारित्रेण धृतं-गृहीतम् , अरित्रं-जलोरक्षेपकं येन तादृशेन, तारकेण, अधिष्ठितया अध्यासितया, पुनः पृष्ठतः पश्चात् , अनुकूलपवनास्फालनतरङ्गितेन अनुकूलवाय्वाघाततरङ्गितेन, फेनपाण्डुना फेनप्रयुक्तपाण्डुवर्णेन, सलिलसंघातेन जलसमूहेन, पुरस्ताच्च अग्रतश्च, सितपटेन श्वेतवस्त्रेण, तदात्मकपताकयेत्यर्थः, प्रवर्त्यमानया प्रेर्यमाणया, पुनः अतिजवेन अतिवेगेन, वजन्त्यापि गच्छन्त्यापि, गतेःगमनस्य, दुर्विभावत्वात् दुर्लक्षत्वात् , अनुज्झितस्थानयेव अत्यक्तस्थानयेव, ऊह्यमानया तळमाणया [इ ]। पुनः कीदृशोऽहम् ? प्रतिवेलं प्रतितटम् , अपसरत्सानुविस्तारान अपसरन्तः-अपगच्छन्तः, सानु विस्तारा:-पर्वतसम्बन्धिसमप्रदेशविस्तारा येषु तादृशान् , निरन्तरोपलक्ष्य माणसान्तरालतरुगणान् निरन्तरम्-अव्यवहितं यथा स्यात् तथा, उपलक्ष्यमाणः-दृश्यमानः, सान्तरालानां-व्यवहितानां, तरूणां गमः-समूहो येषु तादृशान् , वेलावनाचलान तटस्थितवनव्याप्तपर्वतान् , अवलोकयन् निरीक्षमाणः, कीदृशानिव ? सुवेलगिरिदर्शनाय सुवेलाख्यपर्वतदर्शनाय, सेनया सह प्रचलितानिव प्रस्थितानिव, मत्र तरुगणस्य सेनास्थानीयस्वं पर्वतस्य च नृपस्थानीयत्वं बोध्यम् [ई ] । पुनः कीदृशोऽहम् ? पोतसंतानेन जलयानगणेन, दक्षिणा दिशं सीमन्तयन् केशवेशयुततामिवापादयन् , व्यामुवन्नित्यर्थः । कीदृशेन पोतसन्तानेन ? अलघुविस्तारपिहितदिक्चक्रेण अलघुविस्तारणअतिविस्तारेण, पिहितम्-आवृतम् , दिक्चक्र-दिमण्डलं येन तादृशेन, पुनः चकितनचक्रोन्मुच्यमानपुरोवर्मना चकितेन-सम्भ्रान्तेन, नकचक्रेण-जलजन्तुगणेन, उन्मुच्यमानं-परित्यज्यमानं, पुरोवर्म-अप्रभागो यस्य तादृशेन, पुनः ध्वजपताकाभिः ध्वजदण्डलम्बितपताकाभिः, उपपादितवनावनीविलासेन उपपादितः-निष्पादितः, वनावन्याः-लिखासाम्यात् वनभूमिरूपवनितायाः, विलासः-शनारचेष्टा येन तादृशेन, कीदृशीभिः? पवनासूत्रितविचित्रभङ्गाभिः पवनेनखोद्गमितवायुना, आ-समन्तात् , सूत्रिता:-रचिताः, विचित्रा:-विलक्षणाः, भताः-वक्रभावा विच्छित्तयो वा यास ताहशीभिः. पुनः गाढसंमर्दभयात् अत्यन्तपोतसंघर्षभयात् , अन्तरिक्षं गमनम् , उत्पतिताभिः उच्छलिताभिः, वारिधेः समुद्रस्य, ऊर्मिमालाभिरिव तरजमालाभिरिवेत्युत्प्रेक्षा, पुनः फेन मुक्ताफल-शङ्खधवलाभिः फेन-मुक्ताफल-शवसदृशश्वेताभिः, यद्वा फेन-मुक्ताफल-शङ्खर्धवलाभिरिति ऊर्मिमालाभिरित्यस्यापि विशेषणम् , पुनः संसर्पता सञ्चरता, पुनः विविधकवचशस्त्रशिरस्त्रपूरितेन विविधैः, कवचैः-वर्मभिः, शस्त्रैः-खहादिभिः, शिरः-शिरस्त्राणकरणविशेषैः, पूरितेन-पूर्णन, केनेव ! अपरेण अन्येन पूर्व रामसेनासंतरणसमयाद भिनेनेवेति भावः, पर्वतसेतुनेव पर्वतरूपसेतुनेव, क्षणेनैव निमेषमात्रेणेव,